वास्तुविद्या
[[लेखकः :|]]
१९१३

TRIVANDRUM SANSKRIT SERIES:

NO. XXX

THE

VÂSTUVIDYÂ,

EDITED

BY

T. GANAPATI SASTRI

Curator of the Department for the publication of Sanskrit Manuscripts

TRIVANDRUM


PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.


TRIVANDRUM:

PRINTED AT THE TRAVANCORE GOVERNMENT PRESS

1913

(All Rights Reserved.)

अनन्तशयनसंस्कृतग्रन्थावलिः |
ग्रन्थाङ्कः ३०.
वास्तुविद्या
संस्कृत ग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधिता ।
सा च
अनन्तशयने
महामहिमश्रीमूलकराम वर्मकुलशेखर
महाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशिता ।
कोळम्बाब्दाः १०८८,
क्रेस्ताइदाः १९१३

PREFACE,

Vâstuvidya treats of the materials, the ground and other things necessary for house-building, in sixteen chapters. At the end of the 15th chapter which describes the occupation of a newly built house, the manuscript marked contains the colo- phon, ar ; but it then goes on to the end of the 16th chapter which deals with earth and tile-making, as also the other manuscripts used for this edition. It is therefore proper that the 16th chapter should also be a part of the work. many archaic usages (ar) are found in this work as in the Saiva- gama (शवागम) and Vaikhanasagama (वैखानसागम). The edition of the work is based on the following seven palm leaf manuscripts written in Malayalam characters and about two centuries old. 1. 2. 3. 4. 5. 6.

7. . Belonging to the Palace Library, Trivandrum, and running up to a portion of the eleventh chapter. . Belonging to the Palace Library, Trivandrum, and running to the end of the twelveth chapter. up 7. Belonging to the Palace Library. a. Lent by Mr. Sankara Varyar, Mannar. . Lent by Mr. Sankaranaryana Pillai, Nalekattil, Mannar . Belonging to Mr. Rajaraja Varina Raja of Ennakad, running up to the beginning of the eighth chapter. 3. Lent by Mr. Ramasari, Parur. Trivandrum. T. GANAPATI SASTRI. निवेदना | अस्यां वास्तुविद्यायां गृहनिर्माणं प्रति साधनं, भूमिः, वास्तुस्वरूपम् इत्यादिकं षोडशभिरध्यायैः प्रतिपादितम् । भवनपरिग्रहाध्यायस्य पञ्चदश- स्यान्ते प्राक् षोडशाध्यायारम्भाद् 'वास्तुविद्या समाप्ता' इति लिखितं छसंज्ञ आदर्शे । तथापि मृल्लोष्टलक्षणपरस्य षोडशाध्यायस्य तत्रापरित्यागाद् आद... र्शान्तरेपूपलम्भाच ग्रन्थाङ्गत्वमेव युक्तम् । अस्यां शैवागमवद् वैखानसागम.. वच्चार्षाः प्रयोगा विद्यन्ते । अस्याः संशोधनाधारभूता ग्रन्था एते- १. राजकयिग्रन्थशालीयः ११ अध्यायैकदेशान्तः क. संज्ञः, २. राजकीय ग्रन्थशालीय: १२ अध्यायान्तः ख. संज्ञः. ३. राजकीयग्रन्थशालीयः ग. संज्ञः. ४. (मान्नार) शङ्करवार्यसम्बन्धी घ. संज्ञः. ५. (नालेकाहु) शङ्करनारायणपिळसम्बन्धी ङ. संज्ञः. ६. (एण्णक्काट्टु) राजसम्बन्धी ८ अध्यायारम्भान्तः च. संज्ञः, ७. (परवूर ) रामाशारिसकाशालन्धः छ. संज्ञः. सर्व इमे केरलीयलिपय उपद्विशतवर्षवृद्धास्तालपत्रात्मकाः । अनन्त शयनम् . त. गणपतिशास्त्री.

॥ श्रीः॥

वास्तुविद्या।

गजास्यमगजापुत्रं विघ्नाद्रिभिदुरं शिवम् ।
नमामि वचसां देवीं मन्दारकुसुमप्रभाम् ॥ १ ॥
प्रणम्य विश्वकर्माणं शिल्पिनां परमेश्वरम् ।
वास्तुविद्यां प्रवक्ष्यामि यथाशक्ति समासतः ॥ २ ॥
तत्रादौ सम्प्रवक्ष्यामि सर्वेषां मानसाधनम् ।
मानेनैवाखिलं लोके व[]स्तु संसाध्य[]ते यतः ॥ ३ ॥
परमाणुः क्रमाद् वृद्धो[] मानाङ्गुल इ[]ति स्मृतः[]
परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः॥ ४ ॥
परमाणुभिरष्टाभि[]स्त्रसरेणुरिति स्मृतः ।
त्र[]सरेणुश्च रोमागं लिक्षायूकायवास्तथा ॥ ५ ॥
क्रमशोऽष्टगुणाः प्रोक्ता य[]वोऽष्टगुणितोऽङ्गुलिः।
अङ्गु[]लं तु भवेन्मानं वितस्तिदशाङ्गुलः ॥ ६ ॥


वास्तुविद्यायां

तवयं हस्त उद्दिष्टः स च किष्कुरिति स्मृतः । पञ्चविंशतिमात्रैस्तु प्राजापत्य इति स्मृतः ॥ ७ ॥ पड्डूिंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ब्रहः । अष्टविंशाङ्गुलः प्राच्यो वैदेहो नवविंशतिः ॥ ८ ॥ वैपुल्यस्त्रिंशदङ्गुल्यस्त्वेकत्रिंशत् प्रकीर्णकः । याने च शयने किप्कुः प्राजापत्यो विमानके ॥ ९ ॥ वास्तूनां च धनुर्मुष्टिग्रीमादीनां धनुर्ग्रहः । सर्वेषामपि वास्तूनां किष्कुरेवाथवा मतः ॥ १० ॥ उत्तरेण जगत्या वा जन्मना वा प्रकीर्तितः । दण्डस्तु सुरधिष्ण्येषु मानुष्येषु चतुष्करः ॥ ११ ॥ अथ वक्ष्यामि संक्षेपाच्छिल्पिनां लक्षणं पृथक् । स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ॥ १२ ॥ नहीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः । अमात्सर्योऽनसूयश्च तान्त्रिकस्त्वभिजातवान् ॥ १३ ॥ गणितज्ञः पुराणज्ञ आनन्दात्माप्यलुब्धकः । चित्रज्ञः सर्वदेशज्ञः सत्यवादी जितेन्द्रियः ॥ १४ ॥ अरोगी चाप्रमादी च सप्तव्यसनवर्जितः । सुनामा दृढबन्धुश्च वास्तुविद्याब्धिपारगः ॥ १५ ॥ १. 'मुद्दिष्टं तच्च कि' क. ख. ग. छ. पाठ:. २. 'तु' क. ख. ग. छ. पाठ:. ३. 'मि' क. ख. ग. छ. पाठः ४. 'तम् ।' क. ख. ग. पाठः ५. 'व' ग. ङ. च. पाठः ६. 'तु' ख. घ. पाठः ७. 'रम् ।' ख. घ. पाठः ८. 'ग' ग. घ. ङ. प.ठः. ९. 'व' घ. पाठ.. प्रथमोऽध्यायः । स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा । स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ॥ १६ ॥ सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् । तक्षितानां तक्षकेणाप्युपर्युपरि युक्तितः ॥ १७ ॥ वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा । तक्षणात् स्थूलसूक्ष्माणां तक्षकः से तु कीर्तितः ॥ १८ ॥ मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः । गुरुभक्तः सदा हृष्टः स्थपत्याद्यनुगः सदा ॥ १९ ॥ एभिर्विनापि सर्वेषां कर्म कर्तुं न शक्यते । तस्मादेषों सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥ २० ॥ एभिः स्थपत्यादिभिरत्र लोके विना ग्रहीतुं सुकृतं न शक्यम् | तैरेव साथै गुरुणाथ तस्माद् भजन्ति मोदं भजमानमर्त्याः ॥ २१ ॥ इति वास्तुविद्यायां साधनकवनं नाम प्रथमोऽध्यायः । ३ १. 'परिकी' क. पाठः, २. 'घ' क. ख. घ. ङ. पाठः. ३. 'ज्य:' क. ख. घ. ङ. च. पाठः ४. 'य:' ख. ग. ङ. च. पाठ: ५. 'व' क. ख. घ. पाठ:. ६. 'क्ष' ख. ग. घ. ङ. पाठः. ७. 'वतस्तु म' ख. घ. ङ., 'वतांस्तु म' ग. पाठ:. अथ द्वितीयोऽध्यायः । अथातो वास्तुविद्यां वै प्रवक्ष्यामि यथापुरम् । पूर्व भूमिं परीक्षेत पश्चाद् वास्तु "समारभेत् ॥ १ ॥ भुवः प्लवं प्रवक्ष्यामि नराणां च शुभाशुभम् । पूर्वप्लवा वृद्धिकरी उत्तरा धनदा स्मृता ॥ २ ॥ अर्थक्षयक विद्यात् पश्चिमप्लवनां ततः । दक्षिणप्लवना पृथ्वी नराणां मृतिदा भवेत् ॥ ३ ॥ वारुणोच्चसमायुक्ता नीचमाहेन्द्रसंयुता । गोत्रीथिरिति सा ज्ञेया ऐन्द्रोच्चा नीचवारुणा ॥ ४ ॥ जलवीथिरिति प्रोक्ता वास्तुज्ञानविशारदैः । सोमोच्चा यमनीचा च यमवीथीति कथ्यते ॥ ५ ॥ यमोच्चसोमनीचा च गजवीथीति कथ्यते । ईशोच्चं निऋतिनीचं भूतलं भूतवीथिकम् ॥ ६ ॥ आग्नेयोचें वायुनीचें नागवीथी प्रशस्यते । वायूँच्चमग्निनीचं यद् वीथीं वैश्वानरीं विदुः ॥ ७ ॥ १. 'रा' क. ग. घ. छ. पाठ:. २. 'प्लवाप्ल' छ. पाठः ३. 'च मृतिर्भवे' क. ग. घ. ङ. छ. पाठः ४. 'च्चा' घ. ङ. पाठ: ५ 'चा' घ. ङ. पाठ:. ६. 'यव्येच मझिनीचां वी' घ. ड. पाठ:

  • 'एवञ्जातीयकाः प्रयोगा अत्र बहुलाः सन्ति । + इदमर्धं घ. ड.

पुस्तकयोर्न दृश्यते । द्वितीयाsध्यायः । निरृत्युच्चेमीशनीचं धनवीथीत्युदाहृतम् । इन्द्राग्न्यन्तरमुच्चं स्यानीचं वरुणवौतयोः ॥ ८ ॥ वास्तु पैतामहं विद्यान्नराणां कुरुते शुभम् । योम्याग्न्यन्तरमुच्चं स्यानीचं मारुतसोमयोः ॥ ९ ॥ सुपथं नाम तडास्तु प्रशस्तं सर्वकर्मणाम् । सोमेशानान्तरं नीचमुच्चं निरृतिकालयोः ॥ १० ॥ दीर्घायुर्नाम तडास्तु प्रशस्तं कुलवर्धनम् । ईशानेन्द्रान्तरं नीचमुचं वरुणरक्षसोः ॥ ११ ॥ पुण्यकं नाम तडास्तु द्विजानां च शुभावहम् । इन्द्राग्न्योरन्तरं नीचमुच्चं वायुजलेशयोः ॥ १२ ॥ अपथं नाम तद्वास्तु वैराय कलहाय च । कालाग्न्योरन्तरं नीचमुच्चं स्याद् वायुसोमयोः ॥ १३ ॥ रोगकृन्नाम तहास्तु नराणां रोगवृद्धिकृत् । निर्ऋत्यन्तकयोनींचमुच्चं सोमशिवान्तरम् ॥ १४ ॥ अर्गलं नाम तहास्तु ब्रह्महत्यादिनाशकृत् । रुद्रेन्द्रान्तरमुच्चं स्यान्नीचं वरुणरक्षसोः ॥ १५ ॥ १. 'च्चेशनीचा च ध' घ. ङ. पाठः. २. 'ता।' घ. ड. पाठः ३. 'सोमयोः' घ. ङ. पाठः ४. 'ब्रुवते' क. ख. ग., 'च सुखावहम् ।' च. पाठः, ५. 'अग्नियाम्यान्तरं नीचमुचं स्याद् वायुसोमयोः । अपथं नाम तद्वास्तु सर्वेषा- मशुभावहम् । नैर्ऋ' च. पाठ: ६. 'चं स्याद् वायुसोमयोः' ख. पाठः. ७. 'श्मशानं ना' च. पाठः, ६ वास्तुविद्यायां रेमशानं नाम तवास्तु केवलं कुलनाशनम् । नीचमग्नौ भवेदुचं निरृतीशानवायुषु ॥ १६ ॥ श्येनकं नाम तडास्तु नाशाय मरणाय च । रुद्राभिवरुणेषूच्चं नीचं स्यान्निरृतौ तथा ॥ १७ ॥ श्वमुखं नाम तद्वारतु दारिद्र्यं कारयेत् फलम् । निर्ऋत्यग्निशिवेषूचं नीचं वैह्रीन्द्रयोस्तथा ॥ १८ ॥ ब्रह्मनं नाम तहास्तु नेष्टं प्राणभृतां सदा । अग्नौ यदि भवेदुच्चं नीचं निर्ऋतिरुद्रयोः ॥ १९ ॥ वातनिम्नं च तद्वास्तु स्थावरं नाम शोभनम् । उच्च निरृतिभागे स्यान्नीचं ज्वलनवातयोः ॥ २० ॥ रुद्रनिम्नं च तडास्तु स्थण्डिलं नाम शोभनम् । रुद्रोच्चं यदि निम्नं स्याद् वहौ निऋतिवातयोः ॥ २१ ॥ शाण्डुलं नाम तडास्तु प्रापयत्यँशुभं सर्दा । निर्ऋत्यग्निशिवेषूच्चं नीचं चन्द्रमैसं प्रति ॥ २२ ॥ १. 'रोगकृन्नाम तद् वास्तु नाशाय मरणाय च । रुद्रा' च. पाठः. २. 'स्यादिन्द्रमारुते ॥' ख. च. पाठ:. ३. 'हितं प्रा' ख. ग. च. पाठ:. ४. नं नाम त' ख. पाठ: ५. 'राणाम' कृ. ग. घ. ङ. पाठः ६. 'मनि' घ. व., 'दि निम्नाग्निनीचं नि' ख. च. पाठ:. ७. 'त्येव तच्छुभम् ।' क. ख. ग. पाठ:. ८. 'दा। रुद्रे यदि भवेदुच्चं नीचं वातहुताशयोः । नीरसं नाम तगास्तु, रौद्रं नाम विभद्रकम् । नि' ख. च. पाठः ९. 'यमेषू' क. ख. च. पाठः १०. 'समं प्र' ग. घ. ङ. पाठः, द्वितीयोऽध्यायः । द्विजेन्द्राणां तु सुस्थानमवनी समुदाहृता । नीचमिन्द्रे भवेदुच्चं निर्ऋत्यां पश्चिमोनिले ॥ २३ ॥ सुलभं नाम तडास्तु राजराष्ट्रविवर्धनम् । सौम्येशपवनेषूच्चं नीचं भवति चेद् यमे ॥ २४ ॥ नाम्ना वास्तुचरं नाम वैश्यानां तदभीष्टदम् । नीचं वारुणमुच्चं चेदीशानेन्द्राग्निषु क्रमात् ॥ २५ ॥ वैमुखं नाम तडास्तु शूद्राणां तदभीष्टदम् । या तु सोमप्लवा चैत्र कुशदर्भैरलङ्कृता ॥ २६ ॥ आज्यगन्धा च सा भूमिब्रह्मणानां प्रशस्यते । पूर्वप्लवा च रक्ता च कुशदभैरलङ्कृता ॥ २७ ॥ रक्तगन्धा च या भूमिः क्षत्रियाणां प्रशस्यते । दक्षिणप्लवनोपेता कुशदभैरलङ्कृता ॥ २८ ॥ अन्नगन्धा च या भूमिः सा वैश्यानां प्रशस्यते । पश्चिमप्लवनोपेता दूर्वाभिश्च समन्विता ॥ २९ ॥ सुरागन्धा च या भूमिः शूद्राणां समुदाहृता ।

  • इन्द्रोन्नतं पुत्रनाशं वह्नयुन्नतमथार्थदम् ॥ ३० ॥

१. 'मेडनले' क. ख. ग. घ. ङ. पाठः, २. 'नि' घ. ङ. पाठ.. ३. 'व' च. पाठः ४. 'सत्पथं ना' क. ख. च. पाठ: ५ 'दम् । इन्द्रो' च. पाठः ६. 'ना पीतकु' क. पाठः,

  • इत आरभ्य च. पुस्तके सर्वोsपि पाठो विभिन्नो वर्तते । वास्तुविद्यायां

अग्निनीचोऽर्थनाशः स्याद् याम्योन्नतमरोगकृत् । निर्ऋत्युच्चं श्रियो लाभं पुत्रदं वरुणोन्नतम् ॥ ३१ ॥ वायून्नतं द्रव्यनाशं सौम्योन्नतमथो गदः । ईशानो महाशं वास्तु विद्यादिति क्रमात् ॥ ३२ ॥ वर्णक्रमेणाथ विद्याद् वृक्षान् शास्त्रविशारदः । अश्वत्थः पूर्वतो धन्यो दक्षिणे च उदुम्बरः ॥ ३३ ॥ न्यग्रोधः पश्चिमे श्रेष्ठः प्लक्षोऽप्युत्तरतः शुभः । न्यग्रोधः पूर्वतो वर्थ्यो दक्षिणे प्लक्ष एव च ॥ ३४ ॥ अश्वत्थः पश्चिमे भागे उत्तरे चाप्युदुम्बरः । अश्वत्थोऽग्निभयं कुर्यात् प्लक्षः कुर्यात् प्रमादकम् ॥ ३५ ॥ न्यग्रोधः शस्त्रसम्पातं कुक्षिरोगमुदुम्बरः । काष्ठेष्टकातुपाङ्गारपाषाणास्थिसरीसृपान् ॥ ३६॥ हलायेणोद्धृतान् दृष्ट्वा तत्र विद्यादिदं फलम् । काष्ठेष्वग्निभयं विद्यादिष्टकासु धनागमम् ॥ ३७ ॥ अङ्गारेषु तथा रोगं तुषेष्वेव धनक्षयम् । पाषाणेष्वपि कल्याणं कुलनाशं तथास्थिषु ॥ ३८ ॥ १. 'स्त्रि' क. ख. ग. पाठ: २. 'तू | उत्तरप्लवनं वास्तु सुखं वसति तत्कुलम् । यावत्प्राचीनतो निम्नं धनधान्येन वर्धते । यस्य दक्षिणतो निम्नं क्षयं गच्छति तत्कुलम् । पूर्वप्लवं तु तद् वास्तु वर्धते क्षिप्रमेव च । नराणां सुखदं क्षिप्रं वर्धते शुक्लचन्द्रवत् । दक्षिणप्लवनं वास्तु शरीरपतनं ध्रुवम् । नराणां क्षीयते क्षिप्रं कृष्णपक्षे यथा शशी । धनहानिमवाप्नोति पश्चिमे वर्षयेद् यदि । उत्तरप्लवनं वास्तु वर्धते शुक्लचन्द्रवत् | अश्व' क, ख, छ. पाठः.. तृतीयोऽध्यायः । सरीसृपेषु सर्वेषु तादृग्भ्यो भयमादिशेत् । अनूषरा स्निग्धवती प्रशस्ता च बहूद्का ॥ ३९ ॥ तृणोपलान्विता या सा मान्या वास्तुविधौ धरा ॥ ३९३ ॥ इति वास्तुविद्यायां वसुधालक्षणं नाम द्वितीयोऽध्यायः । अथ तृतीयोऽध्यायः । अथ वक्ष्यामि संक्षेपात् सर्वेषां वेदिविस्तरम् । वास्तोः स्थितिं च नामानि देवतानां स्थितिं तथा ॥ १ ॥ पञ्चाशद् दण्डमानं वा त्रिंशद् वा कथितं बुधैः । चत्वारिंशच वा कुर्यान्नृपाणां वेदिविस्तरम् ॥ २ ॥ द्वात्रिंशद् दण्डमानं वा त्रिंशद् वा तत् प्रकीर्तितम् । त्रयस्त्रिंशदथ प्रोक्तो द्विजानां वेदिविस्तरः ॥ ३ ॥ एकोनविंशविंशच द्वाविंशद् दण्डमानकम् । वैश्यानां वेदिविस्तारः कथितः शिल्पकोविदैः ॥ ४ ॥ पञ्चविंशच विंशद्वा दण्डमानमुदाहृतम् । २ त्रिघ्नपञ्चकदण्डे वा शूद्राणां वेदिविस्तरः ॥ ५ ॥ उत्तमश्चाधमश्चापि मध्यमश्च यथाक्रमम् | कथितो वेदिविस्तारो नृपादीनां पृथक् पृथक ॥ ६ ॥ १. 'स्तेनेभ्यो भ' क. ख. ग. छ. पाठः. २. 'पञ्चाशदथवा कुर्या- च्छूद्रा' ख. पाठः. ३. 'रम् ॥' ख. पाठः. १० वास्तुविद्यायां वक्ष्येऽहं दिक्परिच्छेदं शकुनादये सति । उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ ७ ॥ + इत उपरि च. पुस्तकेऽधिकः पाठः— “सर्वतः सुसमं कृत्वा स्थलं दर्पणसन्निभम् । तन्मध्ये दण्डमात्रं वा जलावस्थानतः समम् ॥ सच्छिद्रमध्यं तु घटं भाराम्बुपरिपूरितम् । यन्त्रिकाधारकं कृत्वा स्थलमध्ये समं न्यसेत् || ततः परिस्रुताम्भोभिः समसिक्ते तु भूतले । अन्यूनाधिकसंस्थाना यथा ज्ञेयं तदम्भसा || बिन्दुं कृत्वा स्थलं मध्ये तस्मिन् शङ्कु समं न्यसेत् । तद्यथा - भ्रमविरचितवृत्तेस्तुल्यमूलाग्रभागो द्विरददशनजन्मा सारदारूद्भवो वा । सममृजुरवलम्बादत्रणः षट्कवृत्तः समतल इह शस्तः शङ्कुरर्काङ्गुलोचः ॥ शङ्कोः पुच्छाप्रयोर्मध्ये यवस्थूलायते समे । लोहजे घटयेत् सूच्यौ तच्छाया मध्य (?) ॥ शङ्कुमानायतं सूत्रं बिन्दौ तस्मिन् निधाय तु । भ्रामयेत् परितस्तेन बिन्दौ स्थित्वा तु वर्तुलम् || तन्मध्यबिन्दौ तं शकुं स्थापयेदुभये रवेः । तद्विम्बवृत्तरेखायां शङ्कुच्छाया शिरो यथा ॥ ह्रासद्विशतिपूर्वाह्ने तत्रच्छायाग्रमकयेत् । तथापराह्ने छाया (ग्रं? यां) निर्गच्छन्त्यां तु मण्डलात् ॥ संस्पृशन्त्यां तु तद्रेखां प्राग्वत् तत्रापि लान्छयेत् । तयोरा(स्था? स्फा)लयेत् सूत्रमर्षरक्षोन्नमानतः || तृतीयोऽध्यायः । तोयसिद्धवसुधावलयान्त- र्न्यस्तलम्बककृतार्जवशङ्कोः । यत्र भा विशति मुञ्चति वृत्तं ते दिशौ वरुणवासवयोः स्तः ॥ ८ ॥ याति भानुरपमण्डलवृत्ते- दक्षिणोत्तरदिशोरनुवेलम् । तेन सा दिगनृजुः प्रतिभाति स्यादृजुः पुनरपक्रमंमौर्व्याम् ॥ ९ ॥ छायानिर्गमनप्रवेशसमयार्काक्रान्तिजीवान्तरं क्षुण्णं स्वश्रवणेन लम्बकहतं स्यादङ्गुलाद्यं फलम् । पश्चाद् बिन्दुमनेन रव्ययनतः सञ्चालयेद्व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राबिन्दुमुत्सारयेत् ॥१०॥ प्रागाका दक्षिणे न्यस्य सा दिगेन्द्रीति कथ्यते । प्रागाङ्कादुत्तरे तद्वदैशी काष्ठा तु सा भवेत् ।। शिवालयादिकरणेष्वगी प्राचीति केचन । विप्राद्यावासकरणे स्यादैन्द्रीत्यपरे जगुः ॥ ब्राह्मी दिगेव सर्वेषां नैकतन्त्रनिदर्शनात् । निरक्षदेशे लङ्कादौ स्यादयं दिवि निर्णयः || इत्याहुः केचिदित्यस्मात् साक्षदेशस्य कथ्यते । विशेष: साक्षदेशानामस्त्येवार्कवसर्पणात् (?) ॥ उक्तं चान्यैः ।” १. 'त्ते द’ ख. ग. ङ. पाठः वास्तुविद्यायां ["प्रागमं सूत्रमुर्व्यामृजुतरमभिकल्प्यास्य मूलाग्रगाभ्यां सूत्राभ्यां मत्स्ययुग्मं यमदिशि हरितः कल्पयित्वा तु सूत्रम् । कृत्वा दिक् पङ्कयित्वा यममिह निहितैः सूत्रकैः कोणमत्स्यात् कृत्वारफाल्येषु सूत्रं रचयतु चतुरश्रं पुरा क्षेत्रक्लृप्तौ ॥] यदुक्तं वेदिविस्तार आयामश्चापि तत्समः । एवं कृत्वा चतुरंश्रं तत्र सूत्राणि पातयेत् ॥ ११ ॥ एकाशीतिपदं कृत्वा वास्तुतत्वविभागवित् । देवतानां यथास्थानं स्थापयेत्र भागशः ॥ १२ ॥ मध्ये नवपदस्थं च ब्रह्माणं देवतां वदेत् । ततो दिक्षु च चत्वारि षट्पदानि प्रकल्पयेत् ॥ १३ ॥ तत्राष्टौ द्विपदान्याहुः वास्तुविद्याविशारदाः । एतान्यभ्यन्तरस्थानि दैवतानि त्रयोदश ॥ १४ ॥ प्रोक्तानि च बहिष्ठानि द्वात्रिंशद् वास्तुचिन्तकैः । एतेषामपि नामानि दैवतानां वदामि च ॥ १५ ॥ पर्जन्योऽथ जयन्तश्च महेन्द्रादित्यनामकौ । सत्यो भृशोऽन्तरिक्षश्च तत्राग्निश्व तथाष्टमः ॥ १६ ॥ १. 'ये' ख. ध. ङ. पाठ:. २. 'तत्र देशिकः ॥' क. ग. घ. पाठ:. ३. 'दैवतं व' क. पाठः ४. 'इन्द्रश्चादि' घ, ङ, पाठः ५. 'एव च' क. ग. घ. ड. पाठः. + पद्यमिदं च पुस्तकें परं दृश्यते । तृतीयोऽध्यायः । पूषा च वितयश्चैव गृहक्षतयमौ तथा । गन्धर्वो भृङ्गराजश्व मृगो निरृतिरष्टमः ॥ १७ ॥ दौवारिकश्च सुग्रीवः पुष्पदन्तश्च वारुणः । असुरः शोषणो रोगो वायुश्चैव तथाष्टमः ॥ १८ ॥ १३ २ नागो मुख्यश्च भल्लाटः सोमश्चैवार्गलस्तथा । अदितिश्चोदितीशानावुत्तरस्यां दिशि स्थिताः ॥ १९ ॥ एतान्येकपदस्थानि पर्जन्याद्याः प्रदक्षिणात् । द्वात्रिंशद् देवता ज्ञेय एताः प्राकारदेवताः ॥ २० ॥ ब्रह्मभास्करमध्यस्थ अर्यमा नाम देवता । कृतान्तब्रह्मणोर्मध्ये विवखानिति च स्मृतः ॥ २१ ॥ वरुणब्रह्मणोर्मध्ये मित्रकं नाम दैवतम् । ब्रह्मसोमान्तरस्थाने महीधर इति स्मृतः ॥ २२ ॥ आपश्चैवापवत्सश्च द्विपदस्थौ यथाक्रमम् । ब्रह्मशानान्तरे कुर्याद् दैवतं वास्तुकर्मकृत् ॥ २३ ॥ हुताशब्रह्मणोर्मध्ये स्थाप्यं नामाधिदैवतम् । सविता चैव सावित्रः द्विपदद्वयसंस्थितौ ॥ २४ ॥ १. 'रादिशि देवताः' क. ख. ग. पाठः २. 'शीरिताः' ख. ङ. पाठः, ३. 'या: प्राकारे देवताः स्थिताः ॥' ख. घ. ङ. पाठः. ४. 'स्थमार्यक नाम दैवतम् ।' क. ग. घ. ङ. पाठ: ५. 'ब्रह्मदक्षिणयोर्म' ख. छ. पाठ:. ६. 'स्व- न्त इति ' ग., 'स्वन्तमिति स्मृतम् ।' क. घ. ङ. पाठः, ७. 'त्रो नामेति दे' ख. ग., 'त्रनामकदै' घ. ङ. पाठः. → वास्तुविधायां निरृतिब्रह्मणोर्मध्ये त्विन्द्रश्चेन्द्रजयस्तथा । द्विपदद्वयसंस्थानौ ब्रुवते वास्तुवेदिनः ॥ २५ ॥ ब्रह्मवाय्वोश्च मध्यस्थे देवते कीर्तिते इति । रुद्रो रुद्रजयश्चैव बहिष्कोणेषु कीर्तितौ ॥ २६ ॥ पाठ.. ड. पाठ.. इति वास्तुविद्यायां वास्तुदेवताकथनं नाम तृतीयोऽध्यायः । अथ चतुर्थोऽध्यायः । अथ द्वे प्राङ्मुखे द्वारे कुर्याद् द्वे दक्षिणामुखे । द्वारे प्रत्यङ्मुखे द्वे च द्वे च कुर्यादुदङ्मुखे ॥ १ ॥ माहेन्द्रे प्राङ्मुखं द्वारं प्रशस्तं शिष्टजातिषु । अपरं तु तथा द्वारं जयन्ते प्राह निश्चयात् ॥ २ ॥ गृहक्षते तथा द्वारं क्षत्रियाणामभीष्टम् । गन्धर्वे नियतं द्वारं वैश्यानां तदभीष्टदम् ॥ ३ ॥ पुष्पदन्ते तु यद् द्वारं शूद्राणां तदभीष्टदम् । सुग्रीवे चापरं द्वारं भल्लाटे सांर्ववर्णिकम् ॥ ४ ॥ १. 'ष्ठे' ग. पाठः- २. 'स्तुनामक' छ. पाठ: ३. 'हि' च. ४. 'कृतं द्वा’ ख. च. पाठः, ५. 'सर्ववर्णकम्' क. ग. घ. चतुर्थोऽध्यायः । मुख्ये च नियतं द्वारं भल्लाटादपरं स्मृतम् । अथ द्वारफलं वक्ष्ये प्रोक्तं वास्तुविदां वरैः ॥ ५ ॥ आदित्ये स्थापिते द्वारे पुत्रनाशोऽथ जायते । मित्रभङ्गस्तु सत्ये स्याद् भृशे पत्या वियुज्यते ॥ ६॥ अन्तरिक्षे कृते द्वारे विनाशमपि गच्छति । पावके स्थापिते द्वारे म्रियते वेश्मनः पतिः ॥ ७ ॥ तत्र पूष्णि कृते द्वारे नश्येद दारुणशोषणैः । वितथे स्थापिते द्वारे पत्युर्मरणमादिशेत् ॥ ८ ॥ गृहक्षतपदे द्वारे कृते सम्पद्विवर्धनम् । यमे द्वारे कृते सर्वनाशं च मरणं वदेत् ॥ ९ ॥ गन्धर्वे निर्मिते द्वारे सर्वकर्मविवर्धनम् । भृङ्गराजे विपद् द्वारे मृगे सस्यविनाशनम् ॥ १० ॥ निर्ऋतौ मरणं विद्याद् दौवारिकपदे रयम् । सुग्रीवे सर्वलाभः स्यात् पुष्पदन्ते भवेद् गुणः ॥ ११ ॥ वारुणे स्थापिते द्वारेऽमित्राद्वा चोरतो भयम् । असुरे स्थापिते द्वारे नित्यमायांसकारणम् ॥ १२ ॥ पाठ:. २. १. 'तम् । नवमं तु ततो द्वारं वास्तुशास्त्रार्थवेदिभिः । आ' घ. ङ. 'सुपत्रो नाम जा' क. पाठः, 'सत्ये च स्थापिते द्वारे स्वामी शस्त्रेण पीड्यते । भृशे यदि कृते द्वारे मित्रैरपि विरुध्यते ॥ अ' च. पाठः. ४. 'नाशमिच्छन्ति चापरे । च. पाठः ५. 'धारणपोषणे ।' ६. 'ते कृते द्वारे प्राप्नुयात् कर्मणः फलम् ।' च. पाठः ७. 'यदि कृते द्वारे मृत्युमेति न संशयः ।" च. पाठ: ८. 'नगरस्य हि क. ख. पाठः. नाशनम् । च. पाठः, वास्तुविद्यायां शोषणे स्थापिते द्वारे शुष्यते ने विनश्यति । रोगे यदि कृते द्वारे पाण्डुरोगी भवेन्नरः ॥ १३ ॥ वातस्थाने कृते द्वारे नरो वातेन पीड्यते । नागे च निर्मिते द्वारे शीघ्रं नागभयं भवेत् ॥ १४ ॥ मुख्ये यदि कृतं द्वारं सद्यो ब्राह्मण्यमाप्नुयात् । भल्लाटे च कृते द्वारे वैशिष्टयं लभते नरः ॥ १५ ॥ सोमे चैव कृते द्वारे यज्ञशीलो भविष्यति । अर्गले च कृते द्वारे जलेन म्रियते नरः ॥ १६ ॥ अदितौ च कृते द्वारे कुक्षिरोगं विनिर्दिशेत् । उदितौ च कृते द्वारे वनिताकुलनाशनम् ॥ १७ ॥ रुद्रे यदि कृतं द्वारं वह्निना दह्यते गृहम् । पर्जन्ये च धनं नश्येत् जयन्ते जयमाप्नुयात् ॥ १८ ॥ माहात्म्यं चैव माहेन्द्रे यदि द्वारं कृतं भवेत् । अन्तराणि चोक्तानि बहिर्द्वारमथोच्यते ॥ १९ ॥ यत्रोन्नतं ततो द्वारं यत्र निम्नं ततो गृहम् । गृहे चाप्यष्टमे राशौ तत्र द्वारं न कारयेत् ॥ २० ॥ १. 'च' ख. घ. पाठः. २. 'गो भविष्यति' छ. पाठः, त' ग. घ. पाठः ४. 'स्थले वाप्य' ख. छ. पाठः • इत उपरि च. पुस्तकेsधिकः पाठः “यदि स्थलोन्नते द्वारं यतो निम्नं ततो गृहम् । स्थले चाप्यष्टमे राशौ द्वारमात्रं न कारयेत् ॥ ३. 'नीचं चतुर्थोऽध्यायः । माहेन्द्रे गृह (रक्षेक्षते) च फल्लाटे पुष्पदन्तके | महाद्वाराणि चैव स्युरुपद्वाराणि सन्ति चेत् || भृशे पूषणि भृङ्गाख्ये दौवारे शोषनागयोः । दितावपि च पर्जन्ये जलमार्गस्त्वथेन्द्रतः ॥ इशार्गलान्तं शस्ताः स्युः प्रागुदीचीप्लवो यथा । सूर्ये सूर्यो भृशे विष्णुरमौ काली यमे गुहः ॥ विष्णोर्मध्ये च वरुणे सुग्रीवसुगतालयम् । मृङ्गे जिनस्य ज्येष्ठाया वायौ चण्ड्यास्तु मुख्य ॥ कुबेरस्य महाकाल्या मातॄणां च निशाकरे | अदितौ वास्तु चामुण्ड्याः शस्त ऐशे शिवालयः || निर्ऋतौ वा जयन्ते वा विघ्नेशन्य गृहं भवेत् । अथवा देवतानां तु विन्यासमपरे जगुः ॥ तद्ग्रामपुरराष्ट्राणां स्यान्मध्ये ब्रह्मणो गृहम् । प्राच्यां वा पश्चिमे विष्णोग्रमादीनां च सम्मुखम् ॥ पराङ्मुखं स्यादेशान्यं मानुषं शिवमन्दिरम् । स्वयम्भूदैविकं चार्षं यत्र तत्र स्थितं तु वा ।। न दोषाय भवेत् तस्याप्यत्र्यं वर्ज्य शुभार्थिभिः । प्राच्या मैशेऽथवा मध्ये गौर्याः सूर्योऽपि च श्रियः ॥ मातॄणां दक्षिणे धाम शास्तु: काल्याश्च नैर्ऋते । षण्मुखस्य तु वारुण्यं ज्येष्ठाय तदनन्तरम् || वायौ सौम्ये च दुर्गाया लोकेशानां स्वगोचरे । इन्द्रेशसोममध्ये वा क्षेत्रपाल निकेतनम् || देशग्रामपुरादीनामेवमृद्धिकरं भवेत् । गोशालदक्षिणे प्राच्यां वापी वैशे तथोत्तरे ॥ सर्वत्र वा जलं शस्तमुत्तरे पुष्पवाटिकाम् । दक्षिणे गणिकावाट: परितः शूद्रजन्मनाम् || वैश्यानां वणिजां प्राच्यां मध्ये राजपणो भवेत् । प्रागुदीच्योः कुलालानां नाविकानां च तत्र हि ॥ 2 V वास्तुविद्यायां जालिकानां च चायव्ये सूनानां पश्चिमे गृहम् । तैलविक्रयिणां सौम्ये तक्ष्णां वाप्यनिलेडनले || वायव्ये कारुकादीनां कुविन्दानां तु पश्चिमे । क्रोशद्वये वा क्रोशे वा बहिश्चण्डालपक्कणम् ॥ प्रागुत्तरेण तु क्रोशाद् बहिः पितृवनं भवेत् । अनुक्ताना (ञ्च/म) थान्येषां युक्त्या वासं प्रकल्पयेत् || राजधान्यां नृपावासो ब्रह्मांशादपरांशके | तस्य प्राच्यां तु बाह्यालिरिन्द्रकोशसभान्वितः ॥ पाकशालान्तरिक्षेऽमौ शयनं गृहरक्षके । अस्त्रशाला च निर्ऋतौ वरुणे भोजनालयः || विहारशाला वायौ स्यात् फल्लाटे कोशसञ्चयः । गोष्ठागारं तथा सौम्ये वा याम्येऽप्यर्गले स्मृतम् ॥ पर्जन्ये स्नानभवनमैशे होमार्चना गृहे । नृत्तशाला (सु? तु) गन्धर्वे गजशाला तु पूषणि || दित्यदित्योस्तुराणां स्त्रीणां सौम्ये च पश्चिने । मध्ये प्रपामण्डपं वा युक्त्यान्यच्चापि कारयेत् || ब्राह्मणक्षत्रियविशां शूद्राणां धनिनामपि । वक्ष्यमाणास्तु ये जातिप्रासादाः संपदां पदम् ।। अशक्तानां तु शस्ताः स्युस्तत्तयुक्ता विनिर्मिताः । इतीशानगुरुदेवपद्धतौ । माहेन्द्रे सलिलाधिराजि च तटाकं कूपमैशानके पर्जन्ये पचनालयं शिखिनि वा भुक्यालयं तत्पुरः । कर्तव्यं कलसद्म नैर्ऋतपदे कुत धान्यालयं गोशालाम्चुपती हरावपि समीरे धाम चोलखलम् || अथ राजगृहे तेषां विशेषमाह--- मध्ये ब्रह्मगृहं नृपास्थितिगृहं मित्रे विहारोऽनिले व्यायामोलके धनं धनपतौ स्नानादि पर्जन्यके । चतुर्थोऽध्यायः । ईशे (य) द्यथ भुक्तिसद्म वरुणे नृत्तादि गान्धर्वक शास्त्राद्यं निर्ऋतौ गृहक्षतपदे शय्यागृहं भूभुजाम् ॥ दण्डात् प्राङ्कणमध्य तोऽब्धिशरषट्सप्तादिसङ्ख्यानती- त्यादध्यादथ पौप्पदन्तिकपदे द्वारं प्रचारोचितम् । फल्लाटे च गृहक्षतेष्वपि महाद्वाराण्युपद्वारका- ण्यष्ट(शान्तभृशादिकेषु परितः पर्जन्यनिष्ठेष्वपि ॥ इति पञ्चाशिकायाम् । दक्षिणोत्तरगात् सूत्रात् तेन पश्चिमतो भवेत् । अत्यष्टयङ्गुलमानान्ते ब्रह्मवाय्वन्तरालगे || खलरीगृहचापस्थस्तम्भस्थानं विनिश्चितम् । ईशाखण्डं चतुर्धापि संविभज्य ततोऽपि च ॥ 'ऐशखण्डं प्रकुर्वीत राशिचक्रं विचक्षणः । तत्र कौर्पो कुलीरे च कूपनिर्माणमुत्तमम् ॥ नकराशौ वृषे चैव केचित् कुर्वन्ति पण्डिताः । 'वास्तौ वृषभकर्त्योस्तु कुर्वीत पशुमन्दिरम् || यमसूत्राद् दण्डमात्राद् दूरे पश्चिमतो भुवि । यमवाय्वन्तराले च कुर्वीतोलूखलालयम् || पश्चिमायतचापस्थस्तम्भात् पूर्वापरायतम् । वर्जयेत् सूत्रमनु तत् कुर्वीतोभयभागतः ॥ वर्जयेत् कूपवादं च पुनरन्यां च तादृशात् । अजकर्कितुलानक्रराशिषु द्वारमिष्यते ॥ पूर्वापरायते सूत्रे दक्षिणोत्तरगेऽपि वा । विभज्य नवधा वास्तु पञ्च भागास्तु दक्षिणे || त्रिभागान् वामके मुक्त्वा शेषे द्वारं विधीयते । इति ग्रन्थान्तरे । कर्किकन्या तुलाचापवृश्चिका नक्रमीनकौ । यदि स्थानं भवेदन शोभनं जलमुच्यते ॥ इति कूपप्रश्ने । वास्तुविद्यायां कूपं कुम्भगतं श्रेष्ठं मध्यमं मीनमेषयोः । अधनं मकरस्थं हि कूपान्येवं विदुर्बुधाः ॥ बहिः सञ्चारमाश्रित्य कूपद्वयमथाधमम् । ++++++++ तत् कूपद्वयमुच्यते ॥ कूपद्वयमथान्यच्च प्राकाराद् बहिरुच्यते । मेषस्थमिति यं प्राहुर्माने वारि गुरु स्मितम् || कुम्भे मीनगते कूपे लघु वारि च शोभने । मनो दुःखहरे चैव पुत्रपौत्रविवर्धने । बाह्यस्थे च तथा कूपे गुणदोषविवर्जिते । विषमागे विषं त्रिद्यादमृतेऽमृतमुच्यते ॥ वंशे वंशक्षयं विद्यात् स्तम्भस्थे वर्णसङ्करम् । क(र्मर्ण)सूत्रे मृतिं क(र्म?र्ण) बहिःसूत्रेषु विस्मृतिः ।। चोरशत्रुगृहोत्पाता गृहसूत्रे विदुर्बुधाः । प्राकारस्य बहिःसूत्रे ताह्ये शूद्रगोचरे || पुनः कोणचतुष्केषु चत्वार्यथ गृहाण्यपि । चतुरश्राणि तान्याहुर्विनियोगं ब्रवीमि ते ॥ भक्ष्यभोजनपानानि कारयेन्मीनगोचरे । गवां स्थितिस्तथा युग्मे महिषाणां तु दानवे || धान्यानि तत्र नीयन्ते प्रसादं वापि कारयेत् । वायव्ये तण्डुलस्यापि मुसलोलखलस्थितिः ॥ यदि सङ्कोचयेत् कर्ता प्रयोजनगतेच्छया । एकैकगृहसंस्थानं चतुरश्रद्वयं विदुः ॥ चतुरश्नच नुकस्य मध्ये मण्डपमुच्यते । यदि सङ्कोचयेद् भर्ता प्रयोजनगतेच्छया ॥ भयभोजनपानानि गृहे पूर्वे तदा भवेत् । दक्षिणे धनधान्यादि शयनं च विधीयते ॥ अथव्य तत्र कर्तव्या ग(वा? वां) स्थितिरिति स्मृता । चतुर्थोऽध्यायः । गृहक्षते च माहेन्द्रे ब्राह्मणानां प्रकीर्तितम् । महीधरे च सोमे च फल्लाटार्गलयोस्तथा ॥ २१ ॥ शयनीयं तु कर्तव्यं प्रशस्तं पूर्वतः शिखा । नवद्वाराकृतं कुर्यादन्तरिक्षे महानमम् ॥ २२ ॥ वितथे चारभूमिं च गोष्ठागारं तथासुरे । लोनभूमिं च गान्धवें सदा कुर्याद् विशेषतः ॥ २३ ॥ फल्टाटे पुष्पदन्ते च द्वारे वैश्यस्य पूजिते । यमे विवस्त्रति प्रोक्तं गन्धर्वे च गृहक्षते ॥ २४ ॥ शयनीयं प्रकर्तव्यं विद्वद्भिः प्राक् शिरो भवेत् । पूर्वे च वारुणे पन्थाः पूर्वोक्तं वा महानसम् ॥ २५ ॥ गन्धर्वे स्थानभूमिः स्याद् गोष्ठागारं तथासुरे । पैतृके गर्भभूमिः स्याद् वास्तुविद्भिरितीरितम् ॥ २६ ॥ पश्चिमे धनधान्यादि शयनं च विनोदकम् || अथवा तत्र धान्यानि नीयन्ते प्राह शङ्करः । उत्तरे गृहसंस्थाने विनोदनमुदाहृतम् ॥ मुसलोलखलौ तत्र प्राह वाचस्पतिस्तथा । अथवा प्राङ्कणं मध्ये ब्रह्मणा समुदीरितम् ॥ इति सर्वदेवानां मते । अम्भः कुम्भगतं श्रेष्ठं मध्यमं मीनमषयोः । मकरे च वृषे नीचं ग्रामादेरालयस्य वा ॥ इतीशानगुरुपद्धतौ ।" ov १. 'न्न' ग. पाठः. २ 'स्था' क. घ. ङ. पाठः, ३ 'तिष्ठाप्यं वि' ख. छ. पाठः, २२ वास्तुविद्यायां फल्लाटे च महेन्द्रे च द्वारे शूद्रस्य पूजिते । सुग्रीवः पुष्पदन्तश्च मित्रोऽथ वरुणस्तथा ॥ २७ ॥ यस्तत्र शयनीयं स्यात् सर्वेषामिति च स्थितिः । दौवारिकत्रमाणं स्याद् भूमिवें पैतृकी स्मृता ॥ २८ ॥ महानसं च पूष्णि स्याद् गोष्ठागारं तथासुरे । स्थानभूनिं तु गन्धर्वे सदा कुर्याद् विशेषतः ॥ २९ ॥ यदुक्तं वेदिविस्तारमायामं चापि तत्समम् । एवं कृत्वा चतुरश्रं तन्मध्ये सूत्रमालिखेत् ॥ ३० ॥ प्रागग्रं चाप्युदग्वक्रं ब्राह्मं याम्यं च नामतः । सूत्रइयेन सा वेदिश्चतुःखण्डी च संभवेत् ॥ ३१ ॥ मानुष्यमथ याम्यं च दैवमासुरमेव च । ऐशान्याद्रपदानां च नामान्येवं विदुर्बुधाः ॥ ३२ ॥ स्थानं नृणां तु मानुष्ये दैवे चापति केचन । निन्द्यावा सुरयाम्यौ तु पदे गृहविधौ नृणाम् ॥ ३३ ॥ सङ्कल्प्य तस्यां भुवि वेदिकायां स्फीतां विध्यादथ वास्तुपूंजाम् । कृत्वा चतुःषष्टिपदानि भूयः कोणेषु सूत्रे विनिवेशये (द्) द्वे ॥ ३४ ॥ १. 'ते । माहेन्द्रमथवा द्वारं ब्राह्मणस्य विशेषतः । सु' ख. पाठ: 'सुग्रीवे पुष्पदन्ते च मित्रे च वरुणे तथा । एकत्र' घ. छ. पाठः ३. 'केन्द्रमानं' छ, पाठः.. ४. 'र्य' ख. घ. ङ. पाठ: ५. 'यागम्' ख. ङ. छ. पाठ:. चतुर्थोऽध्यायः । वास्तुदेहस्थितास्तत्र त्रिपञ्चाशत्तु देवताः । पूजयेत् क्रमशस्तासां विभागः प्रोच्यतेऽधुना ॥ ३१ ॥ ब्रह्मा मध्यचतुष्पदप्रणिहितो दिक्षु द्विपाद्या स्थिता- स्तद्वाह्येऽथ चतस्र एकपदके द्वे द्वे स्थिते पार्श्वयोः । कोणस्याप्यथ षोडशार्धपदगाः कोणेषु बाह्ये तथा दिक्स्थाः षोडश देवता द्विपद्गाश्राष्टौ बहिर्दिग्गताः ॥ ३६ ॥ ईशानपर्जन्यजयन्तशऋध्वान्ता पनुत्सत्यभृशान्तरिक्षाः । अग्निश्च पूषा वितयांभिधानो गृहक्षतः प्रेतनिवासभर्ता ॥ ३७॥ गन्धर्व संज्ञस्त्वथ भृङ्गराजो मृगाभिधानः पितरः प्रशस्ताः । दौवारिकः पश्चिमपूर्वसंस्थः सुग्रीवसंज्ञस्त्वथ पुष्पदन्तः ॥ ३८ ॥ भूयः प्रशस्तो वरुणोऽसुरैश्च शोषश्च रोगः पवनो भुजङ्गः । मुख्योऽथ भल्लाटनिशाकरौ च भूयोऽर्गलादित्युदितिक्रमेण ॥ ३९ ॥ विष्कम्भबाह्यस्थपदप्रविष्टा द्वात्रिंशदेताः परितः प्रदिष्टाः । अन्तःस्थकोणार्धपदेषु चाष्टौ वक्ष्ये चतस्रश्च दिशासु योज्याः ॥ ४० ॥ २३ १. 'धिराजः पि' क. ख. ग. पाठ:. २. 'स्तौ ' क. घ. ङ, पाठ:. ३. 'रौ च' क. घ. ङ. पाठ: ४. 'णस्थप' ङ. पाठः, वास्तुविद्यायां सावित्रः सविता हुताशनदिशि ब्रह्माग्निमध्येऽर्धगा- विन्द्रश्चेन्द्रजयश्च राक्षसदिशि ख्यातौ पदार्धस्थितौ । रुद्रो रुद्रजयश्च वायुदिशि च व्याप्तौ तथेशार्धगा- वापश्चापि तथापवत्स इति च द्वन्द्वस्थिता देवताः ॥४१॥ पूर्वादिदिक्षु क्रमशो द्विपाद्या स्यादार्यकश्चापि तथा विवस्वान् । मित्रश्च पश्चात् तु महीधरश्च ब्रह्मा च मध्यस्थचतुष्पदस्थः ॥ ४२ ॥ दिक्षु कोणेषु बाह्यस्थाः प्रवदामि पुनः कमात् । शर्वः स्कन्दोऽर्यमाहेश्च जम्भकः पिलिपिञ्छकः ॥ ४३ ॥ २ चरकी च विदारी च पूतना पापराक्षसी । संस्थाप्यैवं चतुःषष्टिपदेष्वेताः प्रपूजयेत् ॥ ४४ ॥ एवं चाष्टकृतिप्रभिन्नपदगा ब्रह्मा चतुष्कोष्ठैगो मध्ये तस्य चतुष्पदप्रणिहिता दिक्स्थाश्चतस्रो बहिः । द्वे द्वे कोणगते तथैकपदगे द्वे द्वे पदार्धस्थिते द्वे द्वे दिक्षु बहिः पदद्वयगते शिष्टाः पदैकस्थिताः * ॥४५॥ १. 'चैव ज’ क. पाठ:. २. 'सी । आसीत्' क. ग. पाठः. ३. 'तः' घ. पाठः. ४ 'ण' घ. ङ. पाठ:. इत उपरि च. पुस्तकेsधिकः पाठः- “एकाशीतिपदेऽथवा विनिहिताः संपूजयेद् देवता मध्ये तत्र पितामहो नवपदान्याश्रित्य संतिष्ठते । चतुर्थोऽध्यायः । आश्रिय मार्ग मतिमानथैषाम् एकं च वास्तुं परिकल्प्य तत्र । अङ्गेषु तस्याप्यथ देवतास्ताः सङ्कल्प्य सम्यक् परिपूजयेच ॥ १६ ॥ आसीत् पुरा सकललोकभयङ्करच क्रूरोऽसुरो भुजबलादतिगर्वितश्च । क्षोणीतले विनिहितो विजितः प्रशान्तो देवैः स वास्तुपुरुषश्चतुरश्रसंस्थः ॥ ४७ ॥ ईशे तस्य शिरस्तदा विनिहितं पादौ निऋत्यां स्थितौ वायव्ये च हुताशने च भुजयोः संस्थापितौ कूपेरौ । क्षिप्तं वक्षसि हस्तयोस्तलमतः प्रोत्तानतां प्रापित- स्तस्याङ्गेषु च देवता विनिहिता यहत् प्रवक्ष्ये तथा ॥ ४८ ॥ तायावरणद्वये द्विपदगे द्वे द्वे स्थिते कोणत- स्तन्मध्ये परितश्च षट्पदगता दिक्स्थाश्चतस्रः क्रमात् ॥ द्वात्रिंशत् परिवस्तथैकपदगा बाह्यावृतौ कल्पये- दीशाद्याः पुनरार्यकप्रभृतयः पूर्वादिदिक्संस्थिताः । ईशान्तश्च हुताशनादिषु ततः कोणेषु चाष्टौ कमात् सावित्रप्रमुखास्तथैव परितः शिष्टा बहिर्दिग्गताः ॥ " १. 'तप्र' ख. पाठः

  • वास्तुपुरुषमित्यर्थः ।

२५ २. 'शस्तो दे' ङ. पाठः. २६ वास्तुविद्यायां तस्येशः शिरसि स्थितच नयने सव्ये तथा दक्षिणे पर्जन्यश्च तथोदितिश्च बढ़ने चापः पुनः संस्थितः । भूयस्तस्य च कन्धरे विनिहितः स्यादापवत्सस्तथा पश्चात् तस्य तथांसयोर्विनिहिते स्यातां जयन्तादिती ॥ ४९ ॥ भूयो महेन्द्रप्रमुखार्गलाद्याः संस्थापिताः स्युर्भुजयोः क्रमेण । सावित्ररुद्रौ सवितो जयश्च भूयः प्रकोष्ठद्वयसंस्थिताः स्युः ॥ ५० ॥ ब्रह्मा च नाभौ स्तनयोईये च संस्थापितावार्यमहीधरौ च । कुक्षौ विवस्वांश्च तथैव मित्रः पादइये पितरो निविष्टाः ॥ ५१ ॥ इन्द्रश्च मेढे वृषणहये च पश्चात् तथैवेन्द्रजयो निविष्टः । नाम्ना स्वकेन प्रणवादिनैतान् मन्त्रेण सम्यक् परिपूजयेच्च ॥ ५२ ॥ इति वास्तुविद्यायां वास्तुपुरुषसंस्थानं नाम चतुर्थोऽध्यायः । १. 'तापरश्च' क. ग. घ. ङ. पाठ.. अथ पञ्चमोऽध्यायः । चतुःषष्टिपदं कुर्यान्मानुष्येण पदेन वा । मध्ये चतुष्पदं तत्र ब्रह्ममङ्गल्यमण्डपम् ॥ १ ॥ दैविक्यावृतिरेका च पदैर्द्वादशभिः स्मृता । आवृतिः पुनरन्या तु पतिनिपान्विता ॥ २ ॥ तत्र वेश्म प्रकुर्वीत पदसम्मितविस्तरम् । आयामं छिपदं कुर्यात् सो वृतिर्मानुषी स्मृता ॥ ३ ॥ पैशाची सा विनिन्द्या स्यादष्टाविंशत्पदान्विता । आवृतिय तृतीया स्याद् गृहं तत्र न विन्यसेत् ॥ ४ ॥ अथावृतौ तु दैविक्यां मन्दिरं कारयेन्नृणाम् । पदमानसमः स्तारो द्विपदो दर्धि उच्यते ॥ ५ ॥ यावान् गृहस्य विस्तारस्तावान् पादसमुच्छ्रयः । पादोन (सा? चा ) र्धमेवं स्यादुत्तमाधममध्यमम् ॥ ६ ॥ अथवा समचतुरश्रं षोडशपदमेव कल्पयेत् क्षेत्रम् | तत्र च नैऋतनिऋतौ मन्दिरमुदितं च दैविके खण्डे ||७|| निऋतावैशे कुर्यादीशेशानान्तमुत्तमं स्थानम् । मानुष्येऽपि च खण्डे निऋतिपदं वेश्मयोग्यमेव भवेत् ॥ २. 'ति: पैतृकी या' घ. ङ. ४ 'नं तदुत्त' १. 'वास्तुशास्त्रानुसारतः ॥' क. ख. पाठः, पाठ:. ३. 'तत्समं पादमुच्छ्रयम् ।' क्र. ख. ग. पाठ:. ख. ग. पाठः. ८ वास्तुविद्यायां | मानुष्यं तत् प्रोक्तं यत्र चतुष्कं पदं भवेदीशे। नैतिकोणचतुष्कं दैविकमुदितं चतुष्पदं खण्डम् ॥ ९ ॥ वायौ कीर्तितमासुरभिति (तद्यथेय)मखण्डं वह्निकोणवेश्म?) पदम्। निन्द्यत्रासुरयास्यौ सङ्गाद्यौ दैवमानुषौ खण्डौ ॥ १०॥ । तत्र चतुष्षष्टिर्वाप्येकाशीतिस्तु वाथ पदशतकम् । तेषु च यत्र रुचिः स्यात् तेन च कुर्याथालयं प्राज्ञः ॥ ११ ॥ वृतिपादस्य तु बहलं कुर्याद् विस्तारबाह्यतः पश्चात् । सौत्रं बहलार्ध यत् तावद् बहलं च कारयेतें तलिमम् ॥ १२ ॥ तत्र च वनं कुयोत् तुर्यथै द्वारगेहसदृशमपि । यहा पलिधं कुर्यात् पाषाणैर्घडभिक्तिसमचतुरम् ॥ १३ ॥ कण्टकशाखाभिर्वा वृतिमथ करभेक्षणाक्षमं कुर्यात् । उत्तममत्र च वनं मध्यममुदितं तथैव पलिघमपि ॥ १४ ॥ । अधमं शाखाघरणं कुयोधेष्वेकमथेसुलभवशात् । आवृत्यन्तर्भागे दिक्षु च वृक्षान् ‘समाधेत् प्राज्ञः ॥ १५ ॥ । पनसः प्राच्यां श्रेष्ठः क्रमुको याम्येऽथ पश्चिमे केरः।

  • सोमें चूतो धन्यो नागस्तत्रैव केसरः प्राच्याम् ॥ १६ ॥

तिन्त्रिण्युदिता यास्ये छत्री श्रेष्ठोऽथ पश्चिमे कथितः । अन्तःसारा वृक्षा यदि सन्ति ह्यन्तरेवं सन्तुं च ते ॥ १७ ॥ १. ‘ीवम्’ ख. पाठः. २. ‘त् । एवं त्रिविधं प्रोक्तं पुरातनैवीम्तुशास्त्रजैः। आ' घ. पाठः२३. ‘च' क. पाठः४. ‘न्त्वपि ते’ क. पाठः

  • अनुदात्तेत्त्वलक्षणस्तछु अनिरयः । पञ्चमोऽध्यायः ।

ये सन्ति त्वचिसारास्तेऽपि च सन्त्वेव सर्वतो बाह्ये । सकलः सारो येषां ते वृक्षाः सर्वदिक्षु युज्यन्ताम् ॥ १८ ॥ वृक्षा निस्सारो ये तेषां क्षेत्रेषु वर्तनं नेष्टम् । जातीनागलताद्या लतिका रम्भाश्च सर्वतः शस्ताः ॥ १९ ॥ हाटकतरुरपि नेष्टो मन्दिरसविधेष्वितीरितं यस्मात् । तस्मात् सर्वे वृक्षाः सर्वदिगन्तेऽविनिन्दितास्ते स्युः ॥ २० ॥ द्वारं यत्र च विहितं तद्दिगधीशाधिपं भवेद् धाम । एकतलं वा द्वितलं द्वितले द्विमुखं च निर्मुखं वा स्यात् ॥ २१ ॥ द्वारस्तम्भन्यासो जन्मनि तस्योदितं च शिल्पिवरैः । आजन्मान्तं निम्नं मार्ग तद्वारतारसदृशमपि ॥ २२ ॥ अब्धिगुणीकृततारे योनिः स्वीया भवेद्यथा तस्य । एतन्मण्डपचतुरं किष्कुमितं वा भवेच्च मात्रमितम् ॥ २३ ॥ स्वदिगधिनाथे द्वारे मार्गेऽपि तथैव वा ततिं कुर्यात् । अजिरद्वारेऽप्येवं मार्ग कर्तव्यमाहुराचार्याः ॥ २४ ॥ इति वास्तुविद्यायां वेदिसंस्थान नाम पञ्चमोऽध्यायः । २९ १. 'राश्चेत् ते' ख. ग. घ. ङ. पाठः. २. 'ष्टम् । हा' क. ख. ग. ङ. ३. 'पि॥ अजिरद्वारेऽप्येवं मार्ग कर्तव्यमाहुराचार्याः । अब्वि' ग. घ., पाठः, ‘पि । अपर अब्धि' क. पाठः ४. ‘तम् । इति' क. ख. ग. पाठः. अथ षष्ठोऽध्यायः । 9 अथातः संप्रवक्ष्ये ऽहमङ्गणस्य तु लक्षणम् । अङ्गणं ध्वजयोनिः स्यान्मुखायामाभिसंयुतम् ॥ १ ॥ पादुकानां बहिर्भागमङ्गनं तद् विदुर्बुधाः । ध्वजः सर्वत्र संपेन्न इति शास्त्रनिदर्शनम् ॥ २ ॥ तत्त्वार्केन्दुवसुद्वारवेश्मकृत्यश्विसागराः । यथायोग्यं च कर्तव्यमजिरस्यायतं तथा ॥ ३ ॥ वेधं तु गृहमध्यानां गोत्रनाशकरं त्यजेत् । प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु ॥ ४ ॥ परिहर्तव्य एवायं बुद्धिकौशलशालिभिः । कर्णसूत्रयुतिर्मध्ये न भवेत् कर्णवेश्मनाम् ॥ ५ ॥ अशुभाय भवत्येषा परिहार्या स्वदीर्घतः । रुद्ररन्ध्राद्रिबाणाश्च गत्यगुल्यः क्रमात् स्मृताः ॥ ६ ॥ पदस्य गृहकृत्यंशः सूत्रं स्याद् वेषष्टिके । एकाशीतिपदेऽकशो वस्वंशः शतके पदे ॥ ७ ॥ सूत्रवेधं तु सर्वेषां स्तम्भमध्यादिषु त्यजेत् । मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा || ८ || १. 'दि' क. ख. ग. पाठः. २. 'पूज्य इ' क. ख. ग. पाठः, 'पूर्वादितः' इति शेषः ।

  • षष्ठोऽध्यायः ।

सन्ति संक्षेपतस्तानि द्विधा वक्ष्यामि सांप्रतम् । तान्यपि स्तम्भकुड्यादौ वर्जनीयानि यत्नतः ॥ ९ ॥ नाड्यः स्युर्दशपूर्वसौम्यगमिता वास्तुस्थिताः कल्पिते- ब्वेकाशीति पदेषु कर्णनिहिते ताभिश्च सूत्रे लिखेत् । अत्राङ्गाग्निपदस्थिताश्च परितस्तत्पार्श्वतो' रज्जवो मर्मादीनि विभज्य वच्मि बहुधा तन्नाडिकारज्जुभिः ॥ १० ॥ धर्मा यशोवती भद्रा शुभदा कामदा शुभा । चित्रा सौम्या सुधा गौरी नाड्यः प्रागानना दश ॥११॥ अमृता वारुणी शान्ता ह्लादिनी ब्रह्मवादिनी । मनोरमा रतिः कान्ता ज्वालिनी चोत्तराननाः ॥ १२ ॥ अष्टाभिः सङ्गतिर्यत्र नाडीरज्जुविमिश्रितैः । सूत्रैस्तत्र महामर्म ब्रह्मस्थानस्य कोणतः ॥ १३ ॥ प्रत्येक दिक्षु षट्कानि त्रिकोणं सन्ति पार्श्वतः । नाडीद्वयसमायोगादुपमर्माणि तानि तु ॥ १४ ॥ चतुर्विंशञ्चतुष्काणि नाडीमर्माणि सन्ति च । रज्जुमर्माणि रज्जुभ्यां चतुष्कं नवकं भवेत् ॥ १५ ॥ कोणस्थमुपमर्मान्तं त्रिकं बाह्ये विनिर्दिशेत् । षटुं च मर्मसम्भेदं कृतिः षण्णां भवन्ति च ॥ १६ ॥ १. 'यो' क. गं. पाठः. २. 'रुणा वा' क. ङ, पाठ:. 2 वास्तुविद्यायां पञ्चकं मर्मसन्धिश्च द्वे द्वे दिक्षु चतुर्ष्वपि । पदमध्यस्थितं मर्म रज्जुभ्यां दोषवर्जितम् ॥ १७ ॥ स्थानान्येतानि वास्तोगृहकरणविधौ पीडयेन्नैव विद्वान् पीडा स्यात् पीडितेषु क्षितिपतिविषय- ब्राह्मणानां पशूनाम् । तत्कर्तुः शिल्पिनां च स्वतनयवनिता- भ्रातृसम्बन्धिनां च यत् तस्मात् स्थानवेधे पृथगपि निहितान् वच्मि दोषान् विभज्य ॥ १८ ॥ मूर्ध्नि वक्रे च कण्ठे च हृदये मरणं भवेत् । विद्धे चोरसि हृद्रोगः पादयोः कलहो भवेत् ॥ १९ ॥ ललाटे भ्रातृहानिः स्याद् वित्तघ्नोऽङ्गुलिपृष्ठयोः । ऊर्वोमृत्युव बन्धूनां पत्नीनाशस्तु वा भवेत् ॥ २० ॥ गुह्यस्थे सुतनाशः स्यादष्टके गर्भविच्युतिः । षट्के च वृद्धिः शत्रूणां चतुष्के वजनक्षयः ॥ २१ ॥ पञ्चके व्याधिरुद्दिष्टस्तस्करेभ्यस्त्रिके भयम् । वर्जयेत् कुड्यमध्ये च नाडीरज्ज्वादिसंगमम् ॥ २२ ॥ उक्तानुक्तं च यत्किञ्चित् प्रमादाद यदि सम्भवेत् । एतानि दोषशान्त्यर्थं निखनेद् वास्तुकर्मणि ॥ २३ ॥ + 'चतसृषु' इति स्यात् । षष्ठोऽध्यायः । । सिंहमातङ्गमहिषकूर्मसूकरमस्तकम् शुद्धहाटकक्लृप्तं स्यात् कर्तुर्गेहस्य वृद्धिदम् ॥ २४ ॥ वक्ष्ये चतुष्षष्टपदेन वास्तु कोणेषु सूत्रे विलिखेत् सिराख्थे । पूर्वाग्रसौम्याग्रगताच वंशा मध्ये त्रयः कोणगता लिखेच ॥ २५ ॥ महेन्द्रधर्मेशपदप्रविष्टं गृहक्षताप्याख्यपदप्रविष्टम् । पुष्पादिदन्तेन्दुपदस्थितं च फल्लाटमित्रस्थमिमेऽनुवंशाः ॥ २६ ॥ तिस्रो रेखाश्चतुर्दिक्षु बाह्यस्थाः सन्धयः स्मृताः । मर्माणि सूत्रसन्धीनि चोपमर्म पदस्थितम् ॥ २७ ॥ मूर्ध्नि वक्रे च नाभौ च महामर्म स्तने हंदि । अनुवंशद्वयस्यापि सन्धिर्लाङ्गलमुच्यते ॥ २८ ॥ गवां नाशः शिरोवेधे वंशवेधे मृतिर्भवेत् । प्रवासः सन्धिवेधे स्यादनुवंशे भयं भवेत् ॥ २९ ॥ त्रिशूले गर्भनाशः स्याहाङ्गले च शिरोरुजा । चतुष्के वाहनोच्छित्तिः षट्के तु बहुवैरिता ॥ ३० ॥ स्वामिनो मरणं विद्धे महामर्मणि जायते । उपमर्मणि विद्धे तु भ्रातृपुत्रक्षयो भवेत् ॥ ३१ ॥ घ. ङ. पाठ, ३३ १. 'कृत्वा च' क. ग. पाठः २. 'मृतिः ।' क. ग. पाठ:. ३. 'मा' वास्तुविद्यायां कर्तुर्वेशस्य नाशश्च मर्गवेधे ध्रुवं भवेत् । शास्त्रान्तरनिषिद्धांश्च दोषान् सर्वान् विवर्जयेत् ॥ ३२ ॥ इति वास्तुविद्यायां वास्तुमर्मसंस्थानं नाम षष्ठोऽध्यायः । अथ सप्तमोsध्याय: । तुलावृश्चिकयोः सिंहं पश्चिमं मृगकुम्भयोः । गजं तु मेषवृषयोः कुर्यात् सिंहे ध्वजालयम् ॥ १ ॥ कन्यायां पन्नगः शेते प्राकूछिरा याम्यपुच्छकः । चापे याम्यशिराः प्रत्यक्पुच्छो मीने पराक्छिराः ॥ २ ॥ उदक्पुच्छोऽथ मिथुने सौम्यकेशस्तथैव च । प्राचीपुच्छो लुठत्येवं मासैदशभिः क्रमात् ॥ ३ ॥ स्तम्भा न हि विधातव्यास्तदङ्गेषु नृमन्दिरे । यदि कुर्वन्ति तत्रस्था निरयं यान्ति ते ध्रुवम् ॥ ४ ॥ दिग्गृहा नैव कर्तव्याः सूर्ये चोभयराशिगे । कृते तु निरयं याति सभृत्यः ससुतोऽधनी ॥ ५ ॥ २. 'कर्मकथनं' ख. घ. ङ. पाठः, ४. 'सौम्यकेशो लु' क. ग. पाठः १. 'नन्यांश्च व' क. ग. पाठ:. ३, ‘प्राक्पुच्छश्च तथै’ क. ग. पाठः, ५. 'नृगृहा' ख. पाठः ६. 'लयी ॥' ख. ग. घ. ङ. पाठ.. सप्तमोsध्यायः । ३ मार्तण्डारूढराशौ विनिहितचरणस्तै पदे न्यस्तमूर्धा वामे पार्श्वे शयानो भ्रमति स परितः पूरुषो वास्तुरूपः । पादे यद्यर्थनाशः शिरसि च मरणं तस्य पृष्ठे विपत्ति- र्वक्षस्यूरौ च नाशेः शुभफलमुदरे स्तम्भमाद्यं निदध्यात् ॥ ६॥ उत्तरशालारहितं हिरण्यनाभं त्रिशालकं वसुदम् । प्राकूछालारहितं स्यात् सुक्षेत्राख्यं समृद्धिदं वेश्म ॥ ७ ॥ याम्यविहीनं शूलं त्रिशालकं वित्तनाशनं कुरुते । पक्षनमपरवर्जितमेतत् पुत्रघ्नं वैरिदं भवति ॥ ८ ॥ पूर्वापरयोहींना शाला या तां वदन्ति गृहचुल्लीम् । दक्षिणसौम्यविहीनं गृहं सिद्धार्थकमाह वागधिपः ॥ ९ ॥ पश्चिमयम्या शाला यमपे पश्चिमोत्तरा शाला । दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रज्ञैः ॥ १० ॥ F उत्तरपूर्वा शाला वाताख्या पूर्वदक्षिणा शाला । यमदैवतमिति कथितं प्राचीनैः शिल्पशास्त्रनिष्णातैः ॥ ११ ॥ सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः । दण्डाख्ये दण्डवधं गृहचुँह्रयां कलहमुद्वेगम् ॥ १२ ॥ १. 'न्म' क. ग. घ. ङ. पाठ: २. 'भौ शु' क. ग. पाठः ३. 'वास्तु ॥' क. ख. ग. पाठ:. ४. 'ना या सा शाला व' क. ग. व. पाठः ५. 'पुष्टिम् ।' ख., 'पु' क. पाठः ६. 'यमगा शा' क. ग. पाठ:. ७. 'पु' क. पाठ:.

  • मार्तण्डारूढराशेः सप्तमे इत्यर्थः । वास्तुविद्यायां

वाताख्ये वातभयं यमदैवतसंज्ञके भवेन्मृत्युः । एतच्चान्यत् सकलं ज्ञात्वा स्थाप्यानि तानि सद्मानि ॥ १३ ॥ एका चेद् दक्षिणा शाला द्वे चेद् दक्षिणपश्चिमे । त्रिशाला चोत्तरैयुता चतुरशाला ध्वजान्विता ॥ १४ ॥ अष्टादशकरायामं नवाङ्गुलसमन्वितम् । त्र्यङ्गुलान्वितषड्ढस्ततारमुत्तममन्दिरम् ॥ १५ ॥ त्रयोदशकरं दीर्घे नवाङ्गुलियुतं भवेत् । रुद्राङ्गुलियुतं हस्तचतुष्कं तस्य विस्तृतम् ॥ १६ ॥ मन्दिरं सिंहयोनि स्यान्मध्यमं परिकीर्तितम् । कनिष्ठस्यायतं कुर्यान्नवहस्तं नवाङ्गुलम् ॥ १७ ॥ त्रिहस्तव्यङ्गुलं तारं दक्षिणाशागतं गृहम् । पुष्पदन्तपदद्वारं वैश्यानामृद्धिदं तथा ॥ १८ ॥ हरतानां पञ्चदशकं तावदङ्गुलमायतम् । पञ्चाङ्गुलं पञ्चकरं पश्चिमे श्रेष्ठमालयम् ॥ १९ ॥ तिथ्यङ्गुलं दशकरमायामं मध्यमस्य तु । विश्वाङ्गुलं त्रिहस्तं च विस्तारं वृषयोनिकम् ॥ २० ॥ तिथ्यङ्गुलं षट्करं च कनिष्ठायाममीरितम् । विश्वाङ्गुलं त्रिहस्तं च विस्तारं पञ्चयोनिकम् ॥ २१ ॥ फल्लाटपदगं द्वारं शूद्राणां संप्रकीर्तितम् । समिङ्गुलिसंयुक्तं तिथिहस्तायतं गृहम् ॥ २२ ॥ ३६ १. 'त्युः । एका' क. ख. ग. पाठः. २. 'रायुक्ता च' क. ग. पाठ:- २. ‘पञ्चागु’ ख. घ. ङ, पाठः. ४. 'वि' ख. घ. ङ. पाठः सप्तमोऽध्यायः । सेप्ताङ्गुलं पञ्चकरं तारं ज्येष्ठं गजालयम् । समिदङ्गुलिसंयुक्तं दशहस्तं तथायतम् ॥ २३ ॥ तिथ्यङ्गुलं त्रिहस्तं च तारं मध्यमुदाहृतम् । समिदङ्गुलिसंयुक्तं पञ्चहस्तायतं गृहम् ॥ २४ ॥ कनिष्ठमुत्तरं तारमङ्गुलोनधिहस्तकम् । माहेन्द्रपदगं द्वारं ब्राह्मणानां विधीयते ॥ २५ ॥ त्र्यङ्गुलं तिथिहस्तं तदायामं पूर्ववेश्मनः । ऐकाङ्गुलं पैञ्चकरं तारं श्रेष्ठस्य कीर्तितम् ॥ २६ ॥ त्र्यङ्गुलं नैवहस्तं स्यौदायामं मध्यमस्य तु । त्रिकरं चाङ्गुलं तारं कथितं ध्वजमँन्दिरम् ॥ २७ ॥ षड्डस्तं त्र्यङ्गुलायामं कनिष्ठं ध्वजमन्दिरम् । एकाङ्गुलं द्विहस्तं च तारं तस्य विदुर्बुधाः ॥ २८ ॥ प्राधान्येन कृते गेहे वलारातिदिशा भवेत् । द्वारं गृहक्षते चाथ विहितं क्षत्रियस्य तु ॥ २९ ॥ इति वास्तुविद्यायां कालनियमः सप्तमोऽध्यायः । 2 १. 'तिथ्यगु' घ. ङ. पाठः. २.. 'दग्गृहम् ।' ख. ङ. पाठः- ३. 'चन्द्रागु' घ. पाठ: ४. 'बाणक' घ. पाठ: ५. 'रत्नह' घ. पाठ:. ६. 'तदा' घ. पाठः. ७. 'वेश्मनः ॥' ङ. पाठः, ८. 'धाः । द्वा' क. ख. ग. ङ. पाठ.. वास्तुविद्यायाम् अथाष्टमोऽध्यायः । मानवानां गृहाः प्रोक्ता वसवस्ते ककुब्गताः । संस्थाभेदेन ते ज्ञेयाः पञ्चधा स्युः प्रमाणतः ॥ १ ॥ स्वयोनिव्यासगतयो दिग्विदिक्षु च संस्थिताः । भिन्नशाला च सा प्रोक्ता मनुजानां शुभप्रदा ॥ २ ॥ दिग्विदिक्ष्वेकयोनिस्था पर्यन्तेन तथैव च । ज्ञेया चतुरशालेति शिल्पशास्त्रनिदर्शिभिः ॥ ३ ॥ इष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा । समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ४ ॥ शूद्रादिसूतिकादीनां प्रवेशे स्पृष्टिसम्भवात् । एकच्छायेन ते द्वे च वर्जयेद् भूसुरालये ॥ ५ ॥ ध्वजः कोणेषु पर्यन्ते दिक्षु दिङ्मानंकादयः । नाम्ना तुर्यश्रभिन्ना या नेष्टा विप्रालये च सा ॥ ६ ॥ दिक्षु स्वयोनिसंयुक्ताः स्वव्यासंगतयस्तथा । कोणेषु तद्योनियुताः पर्यन्तं ध्वजयोनिकम् ॥ ७ ॥ भिन्नतुर्यश्रका नाम्ना सा विप्रस्यापि सम्मती । भिन्नशाला हि सर्वेषां वर्णिनां शुभदायिनी ॥ ८ ॥ मन्दभावहितायाल्पं वक्ष्ये तस्याश्च लक्षणम् । अन्तरालाश्च वसवो दिग्विदिग्भेदकारकाः ॥ ९ ॥ ३८ १. 'नभेदका: ।' ख. ग. घ. ङ. पाठः. २. 'ता । क्षत्रियादित्रिव- र्णानामेताः सर्वाश्च सम्मताः । भिन्न' घ. पाठःअष्टमोऽध्यायः । धननाशाय बाहल्यं विदुस्तेषां च तद्विदुः । तेषां संकुचिते व्याधिस्तस्मात् ते परिवर्जयेत् ॥ १० ॥ अन्तरालस्य बाहल्यं गृहविस्तारतो भवेत् । तथाधिक्येऽन्तरालस्य तदन्तर्बहलं विदुः ॥ ११ ॥ यत् स्वसूत्रस्य बाहल्याद्धीनं सङ्कोच उच्यते । स्वव्यासदीर्घमध्येषु न कार्याः स्तम्भसन्धयः ॥ १२ ॥ कर्णसूत्रगतः सन्धिर्मरणायोपकल्पते । २ अथ वक्ष्यामि सम्भेदात् स्तम्भानां पङ्किनिर्णयम् ॥ १३ ॥ अयुग्माः पयस्तत्र युग्माः स्तम्भादयः स्मृताः । निर्दिष्टकरतो हीनाः पयः परिकीर्तिताः ॥ १४ ॥ तदाधिक्यं विनाशाय पादपङ्केनुसद्मनि । अथ पादस्य दैर्घ्येण तद्विष्कम्भं च कारयेत् ॥ १५ ॥ दर्शनाद्रिवसुद्वारपङ्किरुद्रांशकैः कृतम् । तत्समां विस्तृतिं कुर्यादुत्तराणां तथैव च ॥ १६ ॥ तदर्धे तस्य बाहल्यं नाम्ना रूपोत्तरस्य तु । शरांशकृतबाहल्ये तवयं तस्य वाजनम् ॥ १७ ॥ अंशैस्त्रिभिर्घनं कुर्यात् पट्टनिष्कममेव च । समं वा पादहीनं वाप्यर्धे सर्वेषु वास्तुषु ॥ १८ ॥ स्तम्भाग्रस्य च हीनत्वमष्टमांशादिकं भवेत् । मूलदण्डेन मूलाचं त्रिगुणं वाथ सार्धकम् ॥ १९ ॥ १. 'क्या' क. पाठ: १. 'ते। अयु' क. ख. ग. ड. पाठ: ३९ वास्तुविद्यायाम् २ चतुर्गुणं च कुर्याद् वा मध्यमष्टाश्रमुच्यते । ऊर्ध्वाग्रं मूलदण्डैकं त्रिभागा हि शिखा स्मृता ॥ २० ॥ अथ वक्ष्यामि गेहादेर्नाहं तदीर्घविस्तरान् । ध्वजः सिंहो वृषो हस्ती महादिग्देवता ह्यमूः ॥ २१ ॥ विदिङ्नाथास्तु धूमः श्वा खरो ध्वाङ्क्ष इति स्मृताः । ध्वजादयस्तु शुभदा धूमाद्या अशुभाः स्मृताः ॥ २२ ॥ ध्वजः स्यादेकसंख्योक्ता तथा द्वे धूम उच्यते । तिस्रः सिंहश्वतस्रः श्वा पञ्चानड्डानुदाहृतः ॥ २३ ॥ षट् खरः सप्त मातङ्गोऽप्यष्टौ ध्वाङ्क्ष इतीरिताः । ता योनयो गृहादीनां पूर्वाशादिक्रमात स्मृताः ॥ २४ ॥ इष्टदीर्घे तु यद् द्विघ्नं तद् रामैकांशसंयुतम् । इष्टयोनेर्गुणैकांशयुतं पर्यन्तमुच्यते ॥ २५ ॥ तदष्टगुणितं कृत्वा रविभिस्तिथिभिस्तथा । त्रिघनैश्वाथ मुनिभिर्हते शेषाः क्रमात् स्मृताः ॥ २६ ॥ आयस्तु तिथयस्तारा वारास्तन्नाडिका अपि । तत्र ताराहृतफलं देशिकैः कथितं वयः ॥ २७ ॥ बाल्यादिमरणान्तं च फलेनैव विधीयते । ३. त्रिगुणीकृत्य पर्यन्तं शक्रैश्च वसुभिर्हते ॥ २८ ॥ १. 'श्र' ग., 'श्रमू' क. पाठः २. 'तत्रिभागा शि' क. ग. पाठः, २. 'ई' च. पाठः अष्टमोऽध्यायः । शेषस्तु व्यययोनी च भवतश्च यथाक्रमम् । विष्टिर्मरणयोगो वा मा भून्मनुजधामसु ॥ २९ ॥ मृतियोगगधामस्थो द्रुतं याति यमालयम् । विष्टिगः सर्वनाशाय तस्मात् तौ परिवर्जयेत् ॥ ३० ॥ बाल्यवार्धकयोगौ च रिक्ता चापि विनिन्दिताः । तथापि ते गृहीताः स्युर्योग्यायोग्यनिदर्शिभिः ॥ ३१ ॥ नाहार्धदीर्घशेषस्तु विस्तार इति कथ्यते । अथवा तु परिधेस्ताभिर्हत्वा तदंशकैः ॥ ३२ ॥ व्यासदीर्घौ च विहितौ गुणव्यास इति स्मृतः । वस्वादिदर्शनान्ता याः संख्याः स्युः परिकीर्तिताः ॥ ३३ ॥ तत्तच्चतुष्टयं व्यासः कर्तव्यो गृहकर्मणि । वस्वादितचतुर्थेषु षट्सु पादोन उच्यते ॥ ३४ ॥ ते वर्ज्या नरशालासु ये पादोनाः प्रकीर्तिताः । पादोनं तन्तुनाशाय मृतये हीनदीर्घता ॥ ३५ ॥ दीर्घाधिक्यं विनाशाय धनानामिष्टदीर्घता । तस्मान्निर्दिष्टहस्तेभ्यो हीनधिक्यं न कारयेत् ॥ ३६ ॥ अङ्गुलीभिर्न दोषः स्यादुभयत्र कराहते । ताभिः कल्प्यास्तु तारादौ योनिभेदा हि पूर्ववत् ॥ ३७॥ सन्धिकर्माभिधानानि संक्षिप्य प्रवदाम्यहम् । हूस्वद्रव्यं तथा वामे दीर्घद्रव्यं तु दक्षिणे ॥ ३८ ॥ १. 'नदीर्घ न' क. पाठः २. 'ते'। स' क. ख. ग. पाठः, ४१ वास्तुविद्यायाम् तु यथाक्रमं प्रयोक्तव्यं कीलपार्श्व व दक्षिणे । सन्धिखण्डस्य दैर्ध्य तु स्वव्याससममुच्यते ॥ ३९ ॥ अर्ध वा पादहीनं वा योग्यायोग्यं च कारयेत् । महीरुहाङ्‌ङ्घ्रिसन्धौ च खण्डं कार्य घनांशकैः ॥ ४० ॥ एकेनापि तथा द्वाभ्यां त्रितयेनापि दृश्यते । स्तम्भाग्रात् तद्गतिस्तस्मादाधारेऽधः शिखान्तरी ॥ ४१ ॥ स्तम्भविष्कम्भतो मध्ये न सन्धेयं कदाचन । दक्षिणेऽपि च वामे वा स्तम्भचूडान्त (कं? गं) तु यत् ॥ ४२ ॥ सन्धिमध्यं नियोज्यं स्यात् तदेवं संपदां पदम् । अथवा पादविष्कम्भदलेन चतुरंशिते ॥ ४३ ॥ एकांशमथवा ग्रंशं त्र्यंश वा गमयेत् तथा । सन्धावाधेयकस्याग्रं श्रुतिशास्त्रविदो विदुः ॥ ४४ ॥ 'अन्योन्य सन्धिवेधेऽपि कीलवेधं विशेषतः । मृत्युदं समसन्धि च वर्जयेन्नरसद्मनि ॥ ४५ ॥ कीलं च पादविष्कम्भवखेकांशं च योजयेत् । नन्दांशमथववशं बहलं तु तदर्धतः ॥ ४६ ॥ पोतिका तु त्रिधा ज्ञेया नामभेदेन दै(६? र्ध्य) तः | त्रिदण्डा च चतुर्दण्डा पञ्चदण्डा यथाक्रमम् ॥ ४७ ॥ महार्णवी च चित्री च पत्री च प्रतिलोमतः । ओमा विष्कम्भतः कार्या पादेनार्धेन वा युता ॥ ४८ ॥ ४२ १. 'णम् ।' घ. ङ. पाठः २. 'सप्तांश' घ. ङ. पाठः, ३. 'वा त्र्यंश' घ. ङ. पाठः. ४. 'बोधिका' ग. घ. ङ. पाठः. अष्टमोऽध्यायः । शयितानां तु सर्वेषां मूलमाधारमुच्यते । द्रव्याणामग्रमाधेयं सन्धौ च परिकल्पितम् ॥ ४९ ॥ बलाबलवशाद् भेदो दीर्घव्यासादिके भवेत् । यत्र यद्धस्तसंख्या स्याद् यत्र यद्योनिसम्भवः ॥ ५० ॥ तस्याङ्गित्वं बलिष्ठत्वमाधारत्वं तथैव च । तदङ्गानि तदन्यान्यप्याधेयानि यथाबलम् ॥ ५१ ॥ उत्तराग्रं च पूर्वाग्रं सर्वेषां परिकल्पितम् । मूलं मूलेन सन्दध्यान्नाग्रमग्रेण योजयेत् ॥ ५२ ॥ मूलयोरग्रयोः सन्धिः स्थाननाशाय कल्पते । व्यासदीर्घककोणेषु नैतद् दोषकरं भवेत् ॥ ५३ ॥ ईशाने चाग्रमग्रेण मूलेनाग्रं तु पावके । मूलं मूलेन निऋतौ मूलमत्रेण मारुते ॥ ५४ ॥ पृष्ठभागं ततः कुर्यात् तुर्यश्रं भिन्नसन्धिषु । पदोनं पादमर्धे च वदन्ति कतिचिद् बुधाः ॥ ५५ ॥ व्यासार्धबहलं कुर्यान्मानोन्मानप्रमाणवित् । प्रायशश्चूलिकादीनां व्यासेनैव विधीयते ॥ ५६ ॥ रूपोत्तरस्य तु क्वापि क्षुद्रवाजनमिष्यते । अङ्ग्रेस्तथा मध्यखण्डमारूढं भूषणाय्र च ॥ ५७ ॥ 300 १. 'तारेषु' घ. ङ., 'कर्णेषु' ख. पाठः.. २. 'षु । व्या' क.ग, ङ, पाठ, वास्तुविद्यायां शिलाबद्धमसूरं च सुधामिलितभित्तिकम् । पञ्चैतान्यपि निन्द्यानि दृश्यन्ते नरसद्मनि ॥ ५८ ॥ इति वास्तुविद्यायां शालाविधानं नाम अष्टमोऽध्यायः । अथ नवमोऽध्यायः । अथ वक्ष्यामि संक्षेपात् पादमानं यथाविधि | उत्तरोपानहोर्मध्यगतमेतत् प्रकीर्तितम् ॥ १ ॥ त्रिकराद्यङ्गुलीषवर्धमानं ततस्ततः । यथाशोभं यथायोग्यं कारयेन्मर्त्यसद्मनि ॥ २ ॥ तन्त्रिभागैकमाद्यंशमंशाभ्यां पादमिष्यते । चतुर्भागैकभागं वा बाणांशैरेकभागकम् ॥ ३ ॥ त्रयोविंशतिसप्तांशमष्टांशं वा मसूरकम् । चतुर्विंशतिसप्तांशैमे कोनविंशदाशुगम् ॥ ४ ॥ त्रयोदशचतुर्भागमष्टादशशरांशकम् । समिद्रसांशमाद्यङ्गं पादं पञ्चदशांशकम् ॥ ५ ॥ त्रयस्त्रिंशति पङ्कथंशस्त्रिंशदष्टांशकं भवेत् । एवमाद्यंशमानानि यथायोगं च कारयेत् ॥ ६ ॥ १. 'रश्च' क. पाठ:. २. 'कं प्र' क. पाठः, ३. 'शं शरांश दशकं भवेत् ॥' घ. ङ., 'शं नरांश त्रितयेऽपि च ॥' ख. पाठः ४. 'ग्यं' क. पाठः. नवमोऽध्यायः । एतेषां नामरूपाणि तत्तदंशवशाद् विदुः । मञ्चकस्योच्छ्रयं कुर्यान्नवभागं विचक्षणः ॥ ७ ॥ यंशं तु पादुकं विद्यात् सप्तांशं कुट्टिमं भवेत् । द्वादशांशकृतोत्सेधे द्विभागं पादुकं विदुः ॥ ८ ॥ सप्तांशं कुट्टिमोत्सेधं रामांशैः प्रतिरुच्यते । त्रिवर्गमिति संज्ञा स्यात् केचिदेवं विदुर्बुधाः ॥ ९ ॥ प्रतिमञ्चकनामैतन्नृणां साधारणं विदुः । पञ्चभागकृतोत्सेधेऽप्येकांशं पादुकं भवेत् ॥ १० ॥ द्विभागा जगतिस्तस्य कण्ठमंशेन कारयेत् । प्रतेरुच्छ्रयमेकेन नाम्ना तद्गलमञ्चकम् ॥ ११ ॥ सूर्याशं तु कृतोत्सेधं यंशं तत्पादुकं भवेत् । षडंशं कुट्टिमं विद्याद् गलं झंशं तु कारयेत् ॥ १२ ॥ यंशं तत्प्रस्तरं विद्याद् गलमञ्चं तदीरितम् । समिदंशकृतोत्सेधे त्रिभागं पादुकं भवेत् ॥ १३ षड्भागा जगतिस्तस्य कुमुदं दर्शनांशकम् । तत्पट्टिकैकभागेन भागाभ्यामन्तरी भवेत् ॥ १४ ॥ प्रतिपट्टं तदेकांशमंशाभ्यां प्रतिरुच्यते । पादबन्धमिति प्रोक्तं शुभदं सर्ववर्णिनाम् ॥ १५ ॥ कुमुदस्याप्यलङ्कारं वक्ष्ये तद्दर्शनांशकैः । अधःपट्टं तदेकांशं मध्यं तत् त्रिभिरंशकैः ॥ १६ ॥ १. 'पादुकमानं तु स' क. ग. पाठः, $ २ 'ते । प्र' क. ख. ग. ङ. पाठः. वास्तुविद्यायां ऊर्ध्वप तथा द्वाभ्यामष्टाश्रकरणं तु येत् । वेदिकोत्सेधमेवं स्यात् षडंशीकृत्य भागशः ॥ १७ ॥ एकांशं प्रतिपट्टं स्यादंशाभ्यामन्तरी भवेत् । ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ १८ ॥ वेदिकेयं तु सामान्या कुट्टिमानां प्रकीर्तिता । प्रतिक्रमस्य चोत्सेधे चतुर्विंशतिभाजिते ॥ १९ ॥ त्रिभागं पादुकं विद्यादष्टांशं जगतिर्भवेत् । कैरवं सप्तभागं स्यात् षडंशैः प्रतिरुच्यते ॥ २० ॥ प्रतेरुच्छ्रयमेवं तु दशभागकृते पुनः । त्रिभिः कैरव स्याद् द्वाभ्यां तत्कण्ठपट्टिका ॥ २१ ॥ अन्तरी त्रिभिरंशः स्याद् द्वाभ्यां वाजनमिष्यते । सिंहव्यालगजेन्द्रादिप्रतिलक्षणभूषितम् ॥ २२ ॥ वेदिकों प्रस्तरसमां षडंशीकृत्य भागशः । एकांशं प्रतिपट्टं स्यादंशाभ्यामन्तरी भवेत् ॥ २३ ॥ ऊर्ध्ववाजनमेकांशमंशं तत्पट्टिका भवेत् । ऊर्ध्वपट्टं तदेकांशमन्तरी कुसुमैर्युता ॥ २४ ॥ जन्म द्विभागं वसुतश्च जङ्घा तत्पट्टिकांशेन गलं द्विभागम् । १. 'त' ग, 'यत् । प्रतिक्र' क. ग. पाठ:. २. 'का' क. ख. घ. ३. 'मा' क. ख. घ. ङ. पाठः, ङ. पाठः, दशमोऽध्यायः । तदूर्ध्वप रजनीकरांश प्रतिर्गुणांशैर्गलमञ्चकं स्यात् ॥ २५ ॥ इति वास्तुविद्यायां पादमानकथनं नाम नवमोऽध्यायः । अथ दशमोऽध्यायः । अथ संक्षिप्य वक्ष्यामो लुपानां लक्षणं वयम् । उत्तरस्यानुरूपेण तासां तारमुदीरितम् ॥ १ ॥ तत्समं पादहीनं वा वस्त्रंशोनाधिकेन वा । पादाधिकं वा वस्त्रंशत्रितयाधिकमेव वा ॥ २ ॥ विस्तारार्धादिकं वा स्याद् व्यासमेवं प्रकीर्तितम् । सार्घाङ्गुलं समारभ्य यावदृत्वङ्गुलान्तकम् ॥ ३ ॥ लुपानामंशवृद्ध्या तु बाहल्यं यववृद्धितः । प्रकृतिव्याससदृशं तुर्यश्रं कल्पयेद् बुधः ॥ ४ ॥ तारार्धगतसूत्राणि लुपानामपि कल्पयेत् । तस्य कर्णादिना तारं कोट्यादीनां प्रकीर्तितम् ॥ ५ ॥ वंशोच्चमुत्तरान्तं यत् स्खेनैव गुणयेद् बुधः । यदायतानि स्थानानि लुपानां वंशलम्बतः ॥ ६॥ 3 १. 'लं तु बाहल्यं या घ. ङ. पाठः २. 'शिष्टाना' ङ. पाठ:. ३. 'राद्यत् तत् ' ग. घ. ङ. पाठः, ४८ वास्तुविद्यायां प्रत्येकं स्वगुणीकृत्य पृथग्वंशकृतौ युतम् । तन्मूलं तु लुपामानमेवं सर्वत्र कल्पयेत् ॥ ७ ॥ उत्तरान्नीवलम्बं यत् तेन तत्रापि कल्पयेत् । प्रमाणमेवं सर्वत्र लुपानां कीर्तितं बुधैः ॥ ८ ॥ तारार्धे खगुणीकृत्य वंशोच्चकृतिसंयुतम् । चूलिकामध्यमात् कीलाद् यद्यदिष्टलुपान्तरम् ॥ ९ ॥ तदपि खगुणीकृत्य तारार्धोच्चकृतं युतम् । तत्तदिष्टलुपायाममिष्टयोगात् प्रकल्पयेत् ॥ १० ॥ ध्वजसूत्रं तु कर्तव्यमामूलाग्रं तु पार्श्वयोः । सूत्रादभ्यन्तरं कार्य चूलिकाव्यासमानतः ॥ ११ ॥ उत्तरान्नीव्र पर्यन्तलुपायामं विचक्षणः । कुर्यान्नेत्रांशतो नीव्राद् वलयं बाणभागतः ॥ १२ ॥ त्रिधा विभक्ते कर्तव्ये विताने पर्वणोईयोः । उत्तराद् वंशमानं यत् पञ्चधा विभजेद् बुधः ॥ १३ ॥ वलयोत्तरयोर्मध्यं कर्तव्यं नेत्रभागतः । रामांशमूर्ध्वतः कार्यमथवा शैलभाजिते ॥ १४ ॥ वलयोत्तरयोर्मध्यं नेत्रं वलययोरपि । रामांशमूर्ध्वतः कार्य *स्थानानि वलयस्य तु ॥ १५ ॥ १. 'जेद् जगत् ।' घ. .* अवनीयानीति शेषः । पाठ.. दशमोऽध्यायः । लुपाव्यासेन तुर्यश्रं वलयस्थानमालिखेत् । प्रकृतिव्यासतो व्यासमायताश्रं ततो भवेत् ॥ १६ ॥ तस्य कर्णगतं सूत्रं वितानमिति कथ्यते । तस्य तिर्यग्गतं सूत्रं लम्बसूत्रं विदुर्बुधाः ॥ १७ ॥ लम्बसूत्राद् गतिस्तस्य वलयस्याथ कथ्यते । बहलार्धे तु गमनं कोटौ सर्वत्र कीर्तितम् ॥ १८ ॥ व्यासार्धे यत्र दृश्यन्ते लुपानां पतयः कति । लुपाबहलतोऽप्यर्षे तावत् पङ्किः प्रकल्प्यते ॥ १९ ॥ तस्य लम्बं समारभ्य उपकोट्यन्तरं तु यत् । तत् तस्य गमनं प्रोक्तमेवमन्यत्र कल्पयेत् ॥ २० ॥ लुपानां प्रकृतिंभागेऽप्यन्तर्गमनमीरितम् । कोटिभागे तु गमनं लम्बसूत्राद् बहिर्गतम् ॥ २१ ॥ तुर्यश्रं सुषिरं कुर्याद् वलयस्य प्रमाणतः । चतुर्दशयवं प्रोक्तं प्रायेण वलयं बुधैः ॥ २२ ॥ त्र्यङ्गुलं वात्र कर्तव्यं बाहल्यं द्व्यङ्गुलं तु वा । सार्धाङ्गुलं वा कर्तव्यं यथाशोभं यथोचितम् ॥ २३ ॥ वलयस्य तु मानेन तुर्यश्रं कल्पयेद् बुधः । अत्र तारार्धगानां तु लुपासूत्राणि पातयेत् ॥ २४ ॥ १. 'धे' क. ग. पाठः. २. 'थारुचि ॥' क. ग. पाठः, ४९ ५० वास्तुविद्यायाम् लुपासूत्रायतं यावत् तावत् स्यात् सुषिरायतम् । आयताश्रं तु सुषिरं विकृतीनां ततो भवेत् ॥ २५ ॥ आयतं सुषिरस्यास्य नोर्ध्वाधस्तिर्यगेव हि । उत्तरेण लुपानां तु संयोगो यत्र जायते ॥ २६ ॥ तत्राप्येवं विधातव्ये लम्बसूत्रवितानके । चूलिकानां लुपायोगे तिर्यक् सूत्राणि पातयेत् ॥ २७ लुपानां लम्बसूत्राच्च चूलितिर्यग्गतावपि । २ गमनं विहितं तद्वैद् वलयस्य यथा स्मृतम् ॥ २८ ॥ उत्तरेण लुपानां वै सन्धानं चार्धपाणिकम् । लुपाभिः कूटसन्धानं वेणुपर्वाभिधं भवेत् ॥ २९ ॥ इति वास्तुविद्यायां लुपालक्षणं नाम दशमोऽध्यायः । अथैकादशोऽध्यायः । अथवा मन्दबुद्धीनां क्रियालाघवसिद्धये । निम्नोन्नतविहीनायां फलकायामथालिखेत् ॥ १ ॥ इष्टमानेन तारार्ध वेश्मनः संलिखेद् बुधः । विस्तारार्ध तु वंशोचं शालार्योः प्रायशः स्मृतम् ॥ २ ॥ पाठः, १. ‘भवेत् ।’ घ. पाठः २. 'स्तृ' घ. पाठः. ३. 'च व' घ. 8. 'नां प्रा' क. ग. पाठ:. एकादशोऽध्यायः । पादार्धे नीवलम्बं च प्रायेण कथितं बुधैः । पादायामं विभज्याथ नन्दशैलशराश्विभिः ॥ ३ ॥ अब्धिरामाश्विसोमांशैः कमानीवस्य लम्बनम् | उत्तरस्य तु विष्कम्भं बुद्ध्या निश्चितैमालिखेत् ॥ ४ ॥ तारार्धेऽप्यूर्ध्वगां रेखां यावद् द्व्यंशायतां लिखेत् । तयोः कर्णगतं सूत्रं वंशान्नीव्रान्तमालिखेत् ॥ ५ ॥ भुजाकोट्यन्तरालेन पङ्किभेदान् प्रकल्पयेत् । वंशादारभ्य नीव्रान्तं प्रत्येकं पङ्किषु क्रमात् ॥ ६ ॥ पङ्किमध्येषु सूत्राणि सर्वेष्वपि समालिखेत् । कूटस्य लम्बसूत्रस्य समीपतरवर्ति यत् ॥ ७ ॥ गणयित्वा तदायामं यत् प्रमाणं तदुत्तरे । सन्निधाप्य तु तस्यान्ते कर्णसूत्रं समालिखेत् ॥ ८ ॥ लम्बसूत्रोपसूत्रस्य समीपतरपति यत् । ३ तन्मानं पूर्ववत् स्थाप्य लम्बसूत्रादिनोत्तरे ॥ ९ ॥ तदन्तेऽप्यालिखेत् कर्णे पुनरन्यत् ततोऽपरम् । कूटोत्तराग्रयोः कर्णगतां तां प्रकृतिं विदुः ॥ १० ॥ तन्मानभुजयोः कर्णरेखा या लिखिता पुरा । सा रेखा शिल्पशास्त्रज्ञैः कोटिरित्यभिधीयते ॥ ११ ॥ 5 १. 'त्य संलि' क. ग. पाठः. २. 'वर्ति य' क. ग. पाठः, ३. 'चो' घ. ङ. पाठ:. ४. 'र्ण गतानां म' क. पाठः, 2 वास्तुविद्यायाम् तदन्तरालगा याश्च उपकोट्यादयः स्मृताः । उत्तरस्य त्वधोदेशे सूत्रद्वितयमालिखेत् ॥ १२ ॥ प्रकृतिव्याससदृशं विकृतिव्याससिद्धये । लम्बसूत्रकमारभ्य कर्णसूत्रगतं तु तेत् ॥ १३ ॥ लम्बादिकर्णपर्यन्तसूत्राणां यद्यदायतम् । सूत्रयोरन्तरस्थानां तत्तड्यासा लुपाः स्मृताः ॥ १४ ॥ कर्णसूत्रादिकोट्यन्तं सूत्रद्वितयमालिखेत् । सूत्रयोरन्तरं तत्र चतुरङ्गुलमिष्यते ॥ १५ ॥ कर्णादिकोटिपर्यन्तसूत्राणां यद्यदायतम् । तयोरन्तरसंस्थानां तत्तदायामसाधनम् ॥ १६ ॥ तारार्ध हस्तमानं चेन्मानषटुमिता लुपा । त्रैराशिकेन विज्ञेया ह्यूने चाप्यधिके बुधैः ॥ १७ ॥ उत्तरस्योर्ध्वतः कापि रेखाद्वितयमालिखेत् । वलयस्य तु बाहल्यं समं स्यादन्तरं तयोः ॥ १८ ॥ लम्बादिकर्णपर्यन्तसूत्राणामभितः पृथक् । सूत्राणि बहलार्धेन लुपानां कीर्तितानि वै ॥ १९ ॥ वलयस्य तु सूत्रेण कर्णसूत्रयुतिर्यतः । तत आरभ्य पार्श्वस्थसूत्रान्तं तिर्यगालिखेत् ॥ २० ॥ तदन्तर्गतसूत्रेप्वप्येवमेव समालिखेत् । लम्बसूत्रविशेषो न तिर्यग्वलयसूत्रयोः ॥ २१ ॥ १. 'य' क. पाठ: २. 'रस्यात्र' क. पाठः. एकादशोऽध्यायः । गतिमानं तु सर्वत्र वलये तिर्यगन्तरम् । वलयार्धे तु कृतयोः सूत्रयोरन्तरं तु यत् ॥ २२ ॥ तदन्तरे स्थितानां तु लुपानां यद्यदायतम् । सुषिरायाममानानि कीर्तितानीह तानि वै ॥ २३ ॥ व्यासार्धसूत्रयोर्मध्ये सूत्रमेकं निधापयेत् । • अधःसूत्रान्मध्यसूत्रं चूलिकाव्यासमानतः ॥ २४ ॥ तत् सूत्रं शिल्पशास्त्रेषु ध्वजसूत्रं विदुर्बुधाः । ध्वजसूत्राद्धोभागं ध्वजाभ्यन्तरमिष्यते ॥ २५ ॥ कर्णादिकोटिसूत्रान्तं सूत्राणां पार्श्वयोः पृथक् । लुपानां व्याससदृशं प्रत्येकं त्वपरं स्मृतम् ॥ २६ ॥ पुरा लिखितसूत्राणि ध्वजसूत्राणि कल्पयेत् । ध्वजाभ्यन्तरयोर्मध्ये यद्यन्मानानि तान्यपि ॥ २७ ॥ वितानलम्बसूत्राणां मानानीति विदुर्बुधाः । मषीमिलितसूत्रेण लुपाफलकपार्श्वयोः ॥ २८ ॥ ध्वजसूत्रं प्रकर्तव्यं सर्वासां शिल्पकोविदैः । वितानलम्बयोर्मानं ध्वजसूत्रादि विन्यसेत् ॥ २९ ॥ मानाग्रोदरसंयोगौ जायेते दशयोर्ययोः । तत्र बिन्दू विधातव्यौ मूलयोगे च विन्यसेत् ॥ ३० ॥ 5. १. 'लुपाभ्य' ख. घ. ङ. पाठः, २. 'श्रो' क. ग. पाठः ३. 'देशे च' ङ. पाठः. 3 विद्या कुक्षिस्थध्वजयोगेन पृष्ठान्तं सूत्रमालिखेत् । तद्वैत तिर्यग्गतं चैकमेवं पार्श्वान्तरेऽपि च ॥ ३१ ॥ सर्वोसामपि पूर्वोक्तस्थानेष्वेवं समालिखेत् । गतिमानेन गमनं पूर्ववत् परिकीर्तितम् ॥ ३२ ॥ आयाममुक्तमानेन व्यासं वलयमानतः । सुषिरं वलयस्यैवं कुर्याच्छास्त्रविशारदः ॥ ३३ ॥ अधोमैलाश्चोर्ध्वकेशा लुपाः सर्वाः प्रकीर्तिताः । स्वस्वाब्ध्यंशैकसहितं पुच्छव्यासमुदाहृतम् ॥ ३४ ॥ ॥ लुपामूले च कर्तव्यं सूत्रमकं वितानकम् । छिन्द्यात् परशुना तत्र पश्चात् तक्षणमाचरेत् ॥ ३५ ॥ लुपामूलं विताना तिर्यक् कुक्षौ समालिखेत् । लुपाबहलतुल्यं तदायतं परिकीर्तितम् ॥ ३६ ॥ तस्य तिर्यग्गतं चापि वितानवदथालिखेत् । निम्नं तत् प्रतिकर्तव्यमेवं द्वितयमानतः ॥ ३७ ॥ तद्वच्छित्वा परित्याज्यं यावद् वलयलम्बतः । एवं वलययोर्मध्ये वलयोत्तरयोरपि ॥ ३८ ॥ वलयोपान्तखण्डी या तूत्तरे त्रिगुणा स्मृता । पूर्वबञ्चोर्ध्वतः कुर्यान्निम्नं चापि तथैव च ॥ ३९ ॥ १. 'त' घ. ङ. पाठः २. 'वैषाम' क. ग. पाठः, ३. 'मुखाश्चो' क. पाठ.. ४. 'ले' घ., 'ल' ख. पाठः एकादशोऽध्यायः । वंशोपान्तवितानान्तं वलयान्निम्नमिष्यते । वितानाभ्यन्तराग्रे तु सूत्रमूर्ध्वमुखं लिखेत् ॥ ४० ॥ सूत्रादूर्ध्वं परित्याज्यं व्याससंकोचमिष्यते । ध्वजाद् बहिर्गतं त्याज्यं सज्यचापाकृतिर्भवेत् ॥ ११ ॥ कुक्षिनिम्नं च सर्वासां तहदेव प्रकीर्तितम् । अर्धचन्द्राभमेवैतदित्याहुस्तदथापरे ॥ ४२ ॥ पुच्छाकारं तथैव स्यादुत्तानधनुषा समम् । नीव्रान्तकुक्षिनिम्नं तु जङ्घापृष्ठवदाचरेत् ॥ ४३ ॥ तदूर्ध्वमेव चापाभं नैतज्जातु समाचरेत् । लुपालुपान्तरं नीब्रस्थाने स्यात् करमानेतः ॥ १४ ॥ प्रायशः कथितं सद्भिः किञ्चिदूनाधिकेन वा । युग्माश्चैव लुपाः कार्या मध्येनायामतारयोः ॥ ४५ ॥ लुपानामपि सर्वासां खण्डीबाहल्यमुच्यते । सप्ताङ्गुलान्तं सर्वत्र स्वस्वव्यासार्धमानतः ॥ ४६ ॥ अष्टाङ्गुलं त्र्यङ्गुलं स्याद् यवपञ्चकसंयुतम् । एवमङ्गुलवृद्ध्या तु यववृद्ध्या तदूर्ध्वतः ॥ १७ ॥ अथवा मन्दबुद्धीनां क्रियासौकर्यसिद्धये । पक्षान्तरेण संक्षिप्य वक्ष्येऽहं लक्षणं पुनः ॥ ४८ ॥ ५५ १. 'मलं लि' घ. ङ. पाठः. २. 'त्र' ग. पाठ:. ९. 'व' घ ४. 'द्धि' घ. ङ., 'द्धि' ख. पाठः, ङ. पाठः. वास्तुविद्यायां यथा च फलकामध्ये तद्वद् भूमौ समालिखेत् । वेश्मप्रमाणसदृशं तन्महत्त्वेमुदीरितम् ॥ ४९ ॥ स्वस्वसूत्रे च फलकां सन्निधाप्य च पार्श्वतः । वलयाभिगतं सूत्रं वितानं तदालिखेत् ॥ ५० ॥ वितानतिर्यङ्मध्येन लम्बसूत्राणि पातयेत् । चतुर्विंशयवं किष्कुः पूर्व तत्र करः स्वयम् ॥ ५१ ॥ प्रमाणं साधनं यस्मात् तस्माद् भेदोऽत्र जायते । तच्छेषं पूर्ववत् सर्वे कर्तव्यं शिल्पकर्मणि ॥ ५२ ॥ इति वास्तुविद्यायां लुपाकरण नाम एकादशोऽध्यायः । अथ द्वादशोऽध्यायः । उत्तरस्य तु विष्कम्भे दशभागकृते पुनः । अष्टांशान्नीव्रपट्टिः : स्यात् सप्तार्धा वाथ सप्त वा ॥ १ ॥ बहलं तन्चिभागकं व्यासमष्टांशकं भवेत् । ऊर्ध्वपट्टे त्रिभागं वा मध्ये तच्चतुरंशकम् ॥ २ ॥ क्षुद्रवाजनमेकांशमथ पञ्चांशके कृते । व्यासे वाजनमश्व्यंशं त्रिभागं घनमुच्यते ॥ ३ ॥ १. 'त्वोदयादिकम् ॥' ग. पाठः, २. 'पार्श्वेऽथ फ' ग. घ. ङ. पाठः ३. 'दि' ग. घ. ङ. पाठः, द्वादशोऽध्यायः । विस्तारस्य त्रिभागकं कर्णनीववितानतः । पञ्चभागं द्विभागं वा सतभागं त्रिभागिकम् ॥ ४ ॥ नमस्तुभ्यं भगवते पवनायामितौजसे । चराचरा (त्मका) यैतत् सदनं रक्ष वार्मुचः ॥ ५ ॥ स्नातो नवाम्बरालेपः संप्रायैवं सदागतिम् । सन्दध्यादायसैः कीलैर्लुपां प्रति विशुद्धधीः ॥ ६ ॥ अथ वक्ष्यामि संक्षेपाद् धूलिकारोधमुत्तमम् । वायव्ये मण्डपं कुर्यात् प्रासादस्यानुरूपतेः ॥ ७ ॥ तत्र कुण्डं प्रमाणेन कृत्वा चामि प्रणीय च । संस्कृत्य च यथान्यायं पश्चाद्धोमं समाचरेत् ॥ ८ ॥ पर्वतास्त्रेण मनुना सर्पिषैव त्र्यहर्निशम् । पश्चाच्चतुर्थे दिवसे समिदाज्यादिकं क्रमात् ॥ ९ ॥ अष्टोत्तरसहस्रं च प्रत्येकं जुहुयात् ततः । पायसैर्भक्ष्यभोज्याद्यैर्भोजयित्वा द्विजोत्तमान् ॥ १० ॥ चतुर्विंशतिसंख्याकान् भूषणाद्यैश्च तोषयेत् । तेभ्योऽथ दक्षिणां कृत्वा तथा होमं समाप्य च ॥ ११ ॥ तैरेव विप्रमुख्यैश्च सह ता नीत्रपट्टिकाः । प्रक्षाल्य शुद्धतोयेन नालिकेरोदकेन च ॥ १२ ॥ क्षीरेण च तथा कृत्वा चतुर्दिक्षु सुसंस्थिताः । आसिच्य पञ्चगव्येन सम्पाताज्येन सेचयेत् ॥ १३ ॥ १. 'कम् ॥' घ. पाठः २. 'रभेत्' ख. पाठः. 3 ५८ वास्तुविद्यार्थी ततो पाकितं यत्र तत्र तत्राभिमन्त्रयेत् । एवं कृत्वा वान्ताप्लुपानां देशिकोत्तमः ॥ १४ ॥ प्रासादाभिमुख स्थित्वा विममुख्यैव तैः सह । नमस्तुभ्यं भगवते सर्वप्राणाय वायवे ॥ १५ ॥ धूलिकारोचमस्माभिः कृतं तदनुमोदताम् । सम्माध्यैवं चतुर्दिशु मदक्षिणवशात् ततः ॥ १६ ॥ देशिकेनाप्यनुज्ञातस्तैरपि द्विजसत्तमैः । स्थपतिः शिल्पिभिः साकं प्रणिपातपुरस्सरम् ॥ १७ ॥ कृताञ्जलिरिति प्रार्थ्य दिक्पालेशं तदाचरेत् ॥ १७३ ॥ नमोऽस्तु भूदेवपताम्बुजेभ्यो नमोऽस्तु देवाय चराचराय | एवं कृतयां खलु नीत्रपट्टयां धूलीनिरोधाय देयां ददातु ॥ १८३ ॥ स्थपतिस्तत् समुल शिल्पिभिश्च यथाक्रमम् | नीव्रान्तेषु समारोप्य वाद्यघोषेण भूयसा ॥ १९३ ॥ प्रणम्य पूर्व पवनं सदागति गुरुं गणेशं त्वथ देवता दिशाम् । विधाय पूजां विधिवत् समाप्य तं सम्प्रार्थ्य विद्धं तनुयात् सुकीलकैः ॥ २०३ ॥ १. 'तां तां ख' घ. ङ. पाठ.. २. 'ट्टिधू' घ. ङ. पाठः. ३. 'भवान् द' घ, ङ. पाठ:. ४. 'शुचिं गु' घ. ङ. पाठ: ५. 'चैवं मनुना विशु- द्धधीः ॥' घड. पाठः. द्वादशोऽध्यायः । नमस्तुभ्यं भगवते मारुताय महात्मने । धूलीनिरोधनं कर्तुं प्रसादं कुरु मे प्रभो ! ॥ २११ ॥ यवात्यष्टिमितव्यासा पट्टिका कथिता बुधैः 1 यवानां नवकं प्रोक्तं बहलं शिल्पकोविदैः || २२१ ॥ बहलात पादहीनं तु तासामन्तरमीरितम् । उत्तरेण प्रवक्ष्यामि वंशमानं यथाविधि ॥ २३३ ॥ अर्ध वा पादहीनं वा वंशस्योच्छ्रय मिष्यते । उच्छ्रयेण तथा तारमिति शास्त्रविदो विदुः ॥ २४ ॥ विकृतिलुपानां तासां सर्वासां सकलबहलसदृशतरा | परिधिः कूटस्येष्टा सा कथिता शिल्पशास्त्रज्ञैः ॥ २५१ ॥ यावत्यो विकृतिलपास्तावन्त्यश्राणि कूटस्य । वृत्तं वापि समस्तं तक्षणकुशलैस्तु कारयेन्मतिमान् ॥ २६३ ॥ व्यासार्धाधिकदीर्घे पादोनाक्षं तथैव नेत्रं वा । धुर्धूरप्रसवाभं कूदं कुर्यादघोर्मूलम् ।। २७१ ।। पट्टं किञ्चित् कुर्यात् कूटस्य लुपावितानतारसमम् । उत्तरवन्नैवोर्ध्वं पट्टमघश्चोर्ध्वतो हि घनम् ॥ २८३ ॥ तालोच्छ्योर्धमुदितमपिधानस्य विस्तृतम् । पादं वाप्यथ पादोनं कीर्तितं तदवाङ्मुखम् ॥ २९३ ॥ १. 'मुखम्' घ. ङ. पाउ पादं वाप्यर्ध पा' व. ङ. पाठः, २. 'यमपि ध्यानमुदितं तस्य विस्तरम् । वास्तुविद्यायां बहलं जन्मतुल्यं स्यात् पादोनं सार्धमेव वा । •वेश्मपुंसः शिरोदेशमपिधानमितीरितम् ॥ ३०३ ॥ इति वास्तुविद्यायां धूलिनिरोधनं नाम द्वादशोऽध्यायः । अथ त्रयोदशोऽध्यायः । अथ कुर्यादवनतं पट्टिकाभिस्त्रिभिः पुनः । साङ्गुलीकरमानाभिस्त्रिभिस्त्र्यश्रं दृढं तथा ॥ १ ॥ बापीं कृत्वा जलैः पूर्णो तस्यां शङ्कुइयं न्यसेत् । तोयोर्ध्वतुल्योन्नतयोस्तयोर्मूर्ध्नोः पद्वयम् ॥ २ ॥ निधाय त्र्यश्रकस्यैतदूर्ध्वाश्रं बद्धलम्बकम् । यंत्राधः पट्टिकायां तत् स्पृशत्यङ्कमथालिखेत् ॥ ३ ॥ तंत्र सूक्ष्मं भवेद् यन्त्रं तेन निम्नादि नीयताम् । सूत्रील्लम्बगतिर्यत्र तन्निम्नं चान्यदुन्नतम् ॥ ४ ॥ पट्टिकान्तेन लम्बस्य संयोगे समभूतलम् । अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ॥ ५ ॥ १. 'वा' ग. पाठः. २. 'स्वा' घ. ङ. पाठ:. ३. 'यार्धतु' घ. ङ. पाठ:. ४. 'देशोन्न' ग. पाठः. ५. 'श्राब' ग. रू. पाठः. ६. 'तिर्यक्- 'पट्टयंशलम्बेन संयोगे सूत्रमालि' ग. पाठः. ७. 'एवं कृत्वा ह्यवनतं ते' ग. पाठ.. ८. 'त्रल' ग. पाठः त्रयोदशोऽध्यायः । रक्षार्थमुन्नतार्थं च शोभार्थं च प्रचक्षते । समं त्रिपेदम वा पञ्चांशशमेव वा ॥ ६ ॥ पठः. सपादं वाथ सार्धं वा पादोनद्विगुणं तु वा । द्विगुणं वात्र कर्तव्यमधिष्ठानस्य तुङ्गतः ॥ ७ ॥ आद्यङ्गपादुकादस्य निष्क्रमं करमानतः । पादोनं वाथ हस्तं वा सपादं वा प्रकीर्तितम् ॥ ८ ॥ पादोनं द्वितयं वा स्यात् किष्कुद्वितयमेव वा । उपपीठं प्रकर्तव्यं मञ्चकाद्युक्तमार्गतः ॥ ९ ॥ उपपीठ बहिर्भागमपदाङ्गणमीरितम् । तदैशान्यां प्रकर्तव्यो वारिमार्ग उदङ्मुखः ॥ १० ॥ १. 'भागम'. ग. पाठः, अङ्गणेन मुखायामहीनेनाष्टकृतेः पदम् । कृत्वा पवयं त्यक्ता सौम्ये प्रोच्यां पदं त्यजेत् ॥ ११ ॥ पदेऽन्यस्मिन् प्रकर्तव्यं महिकाकुट्टिमं बुधैः । उपपीठादिसंयुक्तं तुर्यश्रं ध्वजयोनिकम् ॥ १२ ॥ विस्तारसम उत्सेधः पादोनं वा यथोचितम् । गृहाद्यङ्गानुरूपेण कर्तव्यं मञ्चकादिभिः ॥ १३ ॥ अथातः संप्रवक्ष्यामि रचनां सर्ववेश्मनाम् । गृहाणां करणे शस्ते मुहूर्ते स्थपतिः स्वयम् ॥ १४ ॥ no २. 'त्रि' घ. पाठः ३. 'पादतः' घ. ङ. ५. 'वाप्यां प' घ. ङ. पाठः, ४. 'भुजं वा' ग. पाठः वास्तुविधायां स्नातोऽथ वाससी लक्ष्णे नवीने परिधाय च । उत्तरीयादिभिः सर्वैरनुलेपैरलङ्कृतः ॥ १५ ॥ संपूज्याथ गणाधीशं विप्रेभ्यो दीयतां वसु । आद्यङ्गार्थं तु तद् द्रव्यमाशीर्वादैर्द्विजेरितैः ॥ १६ ॥ सहितः प्रामुखः स्थित्वा विन्यसेत् तत्र पादुकम् । जन्माद्यमपिधानान्तं बुद्ध्या निश्चित्य मन्दिरम् ॥ १७ ॥ पत्रमानमिति प्रोक्तमुत्तरं जन्मनिष्क्रमम् । समन्तात् परितः कुर्याद् दिग्वैिदिवङ्गुलाष्टकम् ॥ १८ ॥ प्रायेण नॄणां भवने पत्रमानमुदाहृतम् । अन्यत्र कृपादिभ्योऽथ बहियोनिः प्रकीर्तितः ॥ १९ ॥ उपानं परितः कृत्वा विन्यसेत् तत्र पादुकम् | द्वारस्य दक्षिणे स्तम्भे गर्भन्यासो विधीयते ॥ २० ॥ पादुकोपरि विप्रस्य नृपाणां तदधः स्मृतम् । विशां तु तद्वस्तात्र तदधः शूद्रजन्मनाम् ॥ २१ ॥ विन्यसेज्जन्मनो मूर्ध्नि जगत्याद्यौस्तु देशिकः । एवं कृत्वा तदाद्यङ्गं तलिपं तत्र विन्यसेत् ॥ २२ ॥ दारुस्वीकरणं पश्चान्निधिगेहस्य लक्षणे । वक्ष्ये नैवात्र वक्ष्यामि ग्रन्थबाहुल्यतो भयात् ॥ २३ ॥ १. 'णेशानं बि' ग. पाठ:. २. 'तं' घ. ङ. पाठ: ३. म् । सम्यगङ्गु- लिषोडशसहितं द्वितरं कुर्याच्च पत्रमानमपि । प' घ ङ. पाठः ५. 'रा ग. पाठ:- ५. 'क्षु' घ. ङ. पाठ:. ६. 'द्यपि विन्यसेत् ।' घ. ङ. पाठः ७. 'यात् । तां प्रा' घ. पाठ: E त्रयोदशोऽध्यायः । द्वारं च दिक्षु कर्तव्यं सर्वेषामपि वेश्मनाम् । मध्यस्थद्वारमध्यं स्याद् वास्तुमन्दिरसूत्रयोः ॥ २४ ॥ उपाराणि युज्यन्त प्रदक्षिण्यात् स्वयोनितः । द्वारपादस्य विस्तारं तुल्यमुत्तरतारतः ॥ २५ ॥ स्वस्वयोन्या गृहादीनां कर्तव्या द्वारयोनयः । प्रस्तरोत्तरयोर्मध्यं पञ्चधा विभजेद् बुधः ॥ २६ ॥ द्वारायामं चतुर्भागं शेषांशे सूर्यभाजिते । शिरोन्मानं तु सप्ताशं पञ्चांशं गुल्फमिष्यते ॥ २७ ॥ उत्सेधशेषं परिधेरतारमुदाहृतम् । प्रस्तरोत्तरयोर्मध्यमष्टभागैविभाजिते ॥ २८ ॥ सप्तांशमायतं कुर्यान्नवपश्चांशविस्तरम् । उत्सेधशेषं नवभिर्हत्वा पञ्चांशकं शिरः ॥ २९ ॥ गुल्फमानं चतुर्भागं कुर्याच्छास्त्रविशारदः । अथवा गुणतारं वा कुर्याद् द्वारं यथोचितम् ॥ ३० ॥ आग्नेय्यां मन्दिरं द्वारं दक्षिणाभिमुखं स्मृतम् । प्रत्यङ्मुखं तु नैर्ऋत्यां वायव्यां तदुदमुखम् ॥ ३१ ॥ ईशे तत् प्राङ्मुखं कुर्यात् तानि स्युः पादुकोपरि ॥ ३१३ ॥ इति वास्तुविद्यायां द्वारविन्यासो नाम त्रयोदशोऽध्यायः । १. 'क(ल्यतां ? लप्यन्तां) द्वा' घ. ङ. पाठ:. ३. 'तम् ॥' ङ. पाठः ४. 'फल्गुमा' ग. पाठ: २. 'गं' घ. ङ. पाठ.. अथ चतुर्दशोऽध्यायः । कवाटद्वितयं कुर्यान्मातृपुत्र्यभिधं बुधः । द्वारतारे चतुष्पञ्चषट्सप्ताष्टविभाजिते ॥ १ ॥ एकांशः सूत्रपट्टिः स्यात् समं वा बहलं भवेत् । अर्धे वा पादहीनं वा बहलं परिकीर्तितम् ॥ २॥ द्वारायामसमायामा कार्या युग्माश्च पङ्ख्यः । अश्व्यादिवेश्मपैर्यन्ताः पयः परिकीर्तिताः ॥ ३ ॥ अग्न्याद्यत्यष्टिसंख्यान्तान्यम्बुजान्यग्रसन्धिषु । तारार्धमुच्छ्रयं तेषां त्रिभागैकं तु वा भवेत् ॥ ४ ॥ बहलार्धं तु वा कुर्यादुच्छ्रये दर्शनांशिते । इथंशं तदूर्ध्वपट्टं स्यादन्तरि त्रिभिरंशकैः ॥ ५ ॥ दलाष्टकयुतं चापि वृत्तं केसरसंयुतम् । अधःपट्टं तदेकांशं तुर्यश्रं तत्समोच्छ्रयम् ॥ ६ ॥ मूलाग्रैपङ्कजे कार्ये ह्यर्धवृद्धविचित्रिते । पचयश्च निरश्राश्च मुक्तादामविचित्रिताः ॥ ७ ॥ पट्टिकाचतुरंशैकयुतद्वारार्धविस्तृतम् । स्वबाहल्येन सहितं कवाटस्य समीहते ॥ ८ ॥ १. 'त्या' घ. ङ. पाठः २. 'कृत्यन्ता' घ. ङ. पाठः. ३. 'ता' ग. पाठः, ४. 'त्ता' ग. पाठ: ६. 'ग्रं' घ. ङ. 13:. ७. 'डूं' घ. ङ, पाठः, ५. 'ता।' ग. पाठ.. ८. 'तौ ।' घ, ङ, पाठः चतुर्दशोऽध्यायः । पट्टिकार्धेन रहितैतावड्यासा च पुत्रिका | वस्वादिसंकृत्यन्तासु संख्यास्त्रेकैकमेव तत् ॥ ९ ॥ कवाटस्य तु बाहल्यं द्वारविस्तारमानतः । रङ्गपादौ च कर्तव्यौ सुवृत्तावग्रमूलयोः ॥ १० ॥ स्त्रबाहल्यसमायामं सार्धं वा मूलपादुकम् । भारबाहल्यसदृशमग्रपादायतं भवेत् ॥ ११ ॥ सार्धं वा द्विगुणं वा स्याद् यथाशोभं यथादृढम् । कवाटयोस्तारसमं भारायाममुदीरितम् ॥ १२ ॥ विस्तारसदृशायामौ पुच्छौ भारस्य कीर्तितौ । भारतारं प्रकर्तव्यं द्वारं प्रति समादिभिः ॥ १३ ॥ समं वा पादहीनं वाप्यर्धे वा बहलं भवेत् । भारतारेऽब्धिसंभक्ते त्रीणि सूत्राणि पातयेत् ॥ १४ ॥ तिर्यक् सूत्रत्रयं कार्य द्वारमध्याप्रयोरपि । आद्यसूत्रयुतिन्यस्तपादकर्किभ्रमेण तु ॥ १५ ॥ खण्डिवृत्तं प्रकर्तव्यं तृतीयात् सूत्रतो बहिः । एवं खण्डित्रयं कार्य निम्नमूलाग्रमध्यमे ॥ १६ ।। निम्नखण्डियुतिर्यत्र तत्र तत्र विचित्रितम् । पर्वमध्यगतं ह्यश्रं परित्याज्यं च शिल्पिभिः ॥ १७ ॥ कार्ये च सुषिरे वृत्ते बहिस्तिर्यक्स्थसूत्रयोः । आद्यसूत्रेबहिर्भागे त्वन्ते चाद्यं पदं भवेत् ॥ १८ ॥ १. 'कीर्तितं शिल्पकोविदैः ।' घ. ङ. पाठः- २. 'नं' ग. पाठः 'स्तराद्यं ' ग. पाठः- ६५ वास्तुविद्यायां युज्यतां द्वारपादाभ्यां प्रतेरुर्ध्वे ऽर्धपाणिना । शुलकीलादिवेधैश्चै करोतु दृढतां पुनः ॥ १९ ॥ एवं कुर्यादधोभारं मध्यखण्डिविवर्जितम् । पदमाद्यं परित्याज्यं द्वितीये चावटद्वयम् ॥ २० ॥ रङ्गपादप्रमाणेन वर्तुलं चार्धनिम्नकम् । पट्टिकाचतुरंशैकभागं नीत्वाथ पार्श्वतः ॥ २१ ॥ मातृसंज्ञकवाटस्य सूत्रमन्तर्निपातयेत् । प्रतिबाहल्यसदृशं नीत्वा मूलाग्रयोः पृथक् ॥ २२ ॥ अर्ध वा पादहीनं वा मूले तन्मध्यसूत्रके । ऊर्ध्वाग्रमेव तन्मध्ये विन्यसेत् सूत्रपट्टिकाम् ॥ २३ ॥ सरोजकोरकाकारैः कीलैर्वा पुष्पसन्निभैः । पट्टिकां पद्ममध्येषु विद्धैः कुर्याच्च निश्चलाम् ॥ २४ ॥ द्वारीयामशरांशैकमरमायाममीरितम् । युगवह्नयेकभागं वा षट्पञ्चैकांशविस्तरम् ॥ २५ ॥ व्यासपादोनम वा समं वा बहलं विदुः । अधोभारसमाकारा कीर्तिता शिल्पवित्तमैः ॥ २६ ॥ तदायामेऽब्धिसंभक्ते त्यजेदेकैकमग्रयोः । मध्ये निधाय द्वितयं तत्सन्धावर्गलस्य च ॥ २७ ॥ कुर्याच्च कबलीं तत्र ह्यर्गलस्य प्रमाणतः । कवाटव्याससदृशमर्गलस्यायतं विदुः ॥ २८ ॥ १. 'स्तु' घ. ङ. पाठः. २. 'घापयेत्' ग. पाठः. ३. 'रोत्सेधश' घ. ङ. पाठ.. चतुर्दशोऽध्यायः । पादोनं वा तदष्टांशादेकं तत्तारमेव च । तारा बहलं कुर्यात् खण्डौ बाहल्यतुल्यकौ ॥ २९ ॥ मूलखण्डः समाख्यातः स्वव्याससदृशायतः । अर्ध वा पादहीनं वाप्यग्रखण्ड्यायतं भवेत् ॥ ३० ॥ अरमाबहलायामं तत्पुच्छं कथितं बुधैः । एकं वा स्यादुपडारकवाटमिति केचन ॥ ३१ ॥ द्वारतारं कवाटस्य बहलद्वयसंयुतम् । मूलाग्रयोर्वामभागे रङ्गवादद्वयं भवेत् ॥ ३२ ॥ आयतं भारवह्नयेकम भारस्य कीर्तितम् । अस्य खण्डी भवेदेका मूलाग्रौ भारवत् स्मृतौ ॥ ३३ ॥ गर्तशङ्कुच कर्तव्यो वितस्त्यायत एव सः । कवाटबहलडिमबहलव्यास (मे?ए) व च ॥ ३४ ॥ विभजेदूर्ध्वदेशेन द्विधा चैकतरे पदे । पदायतव्यासमध्यन्यस्तकर्किभ्रमेण च ॥ ३५ ॥ गर्त वृत्तं पदे कुर्याद् रङ्गपादार्धनिम्नकम् । अष्टाश्रं च ततः कार्य हस्तिपृष्ठाभमेव वा ॥ ३६॥ अस्यारमार्धभाराभा कीर्तिता शिल्पकोविदः । व्यासं कवाटबहलत्रितयं वा प्रकीर्तितम् ॥ ३७ ॥ आयामं तवयं प्रोक्तं व्यासेन विभजेत् पुनः । त्रिधा तन्मध्यमे भागे कियेतार्गलरन्धकम् ॥ ३८ ॥ १. 'अर्ध वा पादहीनं वाप्यष्टांशादेकसतार' घ ङ. पाठ, २. 'च्छेषं क' घ. ङ. पाठ:. ६८ वास्तुविद्यायां समतुर्यश्रकं वा स्याद् वृत्तं वा तद् यथोचितम् । स्तम्भपार्श्वात् कवाटस्य पार्श्वान्तं बेहलं स्मृतम् ॥ ३९ ॥ तावदर्गलबाहल्यमायामं तत्रयं स्मृतम् । बहलेन समं पुच्छं पादोनं वा प्रकीर्तितम् ॥ ४० ॥ समतुर्यश्रकं वा स्याद् वृत्तं वा तत् प्रकीर्तितम् । बहलस्य त्रिभागैकं नीत्वा तस्याग्रमूलयोः ॥ ४१ ॥ तदन्तरायतं गर्त कुर्यात् तत्चारमुच्यते । स्वबाहल्यत्रिभागैकं व्यासनिम्नं तथैव च ॥ ४२ ॥ अरमाभ्यन्तरे भागे पृष्ठे वा सुषिरं भवेत् । सुषिरे कीलवेधः स्याद् विमर्गलगत ॥ ४३ ॥ विन्यस्य तदधो भारं शङ्कुद्धितयमेव वा । तद्गर्ते विन्यसेत् सम्यग् वामभागेऽथ मातरम् ॥ ४४ ॥ ऊर्ध्वाधोभारयोः पद्भ्यां यथायोगं तथा न्यसेत् । पुत्रिकां दक्षिणे भागे चैकं चेद् वामतः स्मृतम् ॥ ४५ ॥ अरमा दक्षिणस्तम्भे तत्र स्याच्छृङ्खलैव वा । आयसैः कीलकैः सम्यग् विद्धं भारादिकं न्यसेत् ॥ ४६ ॥ इति वास्तुविद्यायां कवाटारविन्यासो चतुर्दशोऽध्यायः । १. 'कवलं' घ. ङ. पाठः, २. 'तम् ॥ ब' 'वृत्तं कु' घ. ङ. पाठः- ४. 'तारनि' ग. पाठः. ग. घ. ङ. पाठः- ५. 'रन्ध्रके' ग. पाठः.. अथ पञ्चदशोऽध्यायः । शिलया च मृदाप्यथवा तरुणा रचयेथ कुड्यमतीव दृढम् । तदिहोत्तरविस्तरतः सदृशं बहलं कथितं तलिपादियुतम् ॥ १ ॥ स्वोत्सेघदर्शनांशैकहीनमस्तकमेव तत् । कुड्यं कुर्याद् बहिर्भागं स्वान्तर्भागं भवेत् समम् ॥ २ ॥ सुमुहूर्ते सुनक्षत्रे शुक्लपक्षे शुभोदये । स्नातोऽनुलिप्तः स्थपतिः कुर्यात् पञ्चाङ्गभूषणम् ॥ ३ ॥ विप्रेभ्यो दक्षिणां दत्त्वा द्रव्यैः सन्तोष्य तक्षकान् । गणेश्वरं च सम्पूज्य पुण्याहं कारयेत् ततः ॥ ४ ॥ मुहूर्तदक्षिणां दत्त्वा वासोभिश्छन्नमुत्तरम् । कुड्येषु स्थाप्यतां सम्यगथवामिषु विन्यसेत् ॥ ५ ॥ स्वस्तिसूक्तादिकौन् मन्त्रान् प्रजपेत् संस्पृशन् पुनः । संयुज्य चोत्तरैः पश्चात् परितचूलिकां न्यसेत् ॥ ६ ॥ कीलवैधैर्दृढीकृत्य तुलाभिर्योजयेद् बुधः । तुलानां विस्तरं कुर्यादुत्तरेण समादिकम् ॥ ७ ॥ तुलानां भूषणं कुर्यात् सूत्रपट्टिकया सदृक् । पङ्कजान्यत्र युग्मानि पङ्कयोऽयुग्मकाः स्मृताः ॥ ८ ॥ १. 'शतांशै' ग. पाठः. २. 'गं समं भवेत् ' ग. छ. पाठः रे.. ‘कृत्वा वा'ग. पाठः. ४. 'कं सर्व प्र' ग. छ, पाठ: वास्तुविद्यायां अलिन्दतारसदृशं तुलाङ्घ्रयुच्छ्रयमिप्यते । आरूढबाह्योत्तरयोरलिन्दं मध्यमुच्यते ॥ ९ ॥ आरूढोत्तरविस्तारमुत्तरेण समादिकम् । न्यूनं तस्य तु पर्यन्तं चतुष्षष्टयङ्गुलादिकम् ॥ १० ॥ युग्मा ह्येव तुला: कार्या अयुग्माः पयः स्मृताः । तुलोपर्युत्तरं कार्यमारूढं चूलिकान्वितम् ॥ ११ ॥ वंशपादाश्च कर्तव्यास्तेषु वंशं न्यसेत् पुनः । वंशेन कूटौ युज्येतां कीलवेधदृढीकृतौ ॥ १२ ॥ आरोप्यन्तां लुपाः सर्वाः सम्यक् कीलैश्च वेधयेत् । वेधं तु वलयानां च कृत्वा वलयबन्धनम् ॥ १३ ॥ वलयत्रिगुणव्यासं बहलं व्यासपादतः । भूषणादीनि सर्वाणि तुलाया इव कारयेत् ॥ १४ ॥ नीवपट्टि च विन्यस्य पट्टिकाश्चापि विन्यसेत् । प्रत्येकं नीवकोणेषु पारावतमथ न्यसेत् ॥ १५ ॥ नीवसन्ध्यपिधानार्थं लोष्टानां रक्षणाय च । नीत्रयोः कीलवेधैश्च दृढं तं विन्यसेत् पुनः ॥ १६ ॥ सुमुहूर्ते सुनक्षत्रे स्थपतिः पूर्ववत् सुधीः । पिधानं वाससा छन्नमूर्ध्वमारोप्य कीलकैः ॥ १७ ॥ निहत्य वास्या दृढतां कुर्यात् सर्वत्र पनिषु । कुर्यादर्गलविन्यासं सुमुहूर्ते शुभोदये ॥ १८ ॥ ७० १. 'ता' घ. पाठः, पञ्चदशोऽध्यायः । ऊर्ध्वार्गलं पुत्रिकायां वामाग्रं विन्यसेद् बुधः । ऊर्ध्वाग्रामरमां चापि विन्यसेत् तद्वहिः पुनः ॥ १९ ॥ द्वारसूत्रादर्गलार्धमानं नीत्वा च दक्षिणे । विन्यसेदरमां तत्र त्वन्यस्यान्यादशि स्मृतम् ॥ २० ॥ द्वारायामस्य मध्ये तत् कुर्याच्छास्त्रविशारदः । दक्षिणाग्रमधःस्थं तदर्गलं भ्रातरि स्मृतम् ॥ २१ ॥ अरमां चापि विन्यस्य पूर्ववत् कीलवेधतः । दृढीकृत्य यथान्यायं रात्रौ वास्तुबलिं हरेत ॥ २२ ॥ यथोक्तविधिना तत्र वास्तुकर्म समाप्य च । वासोभिर्बहुभिस्तत्र गेहमाच्छादयेत् पुनः ॥ २३ ॥ अथ कर्ता कर्मकारान् सम्यक् तान् पूजयेत् पुनः । अभ्यञ्जनादिकं दत्त्वा स्नातेभ्योऽथ यथोचितम् ॥ २४ ॥ वासांसि चानुलेपं च पुष्पाणि सुरभीणि च । कुण्डलादीनि सर्वाणि सर्वेभ्यश्च यथोचितम् ॥ २५ ॥ दत्त्वा चतुर्विधं चान्नं संयुक्तं षड्सैरपि । दीयतां च यथाशक्ति दीयतां दक्षिणा ततः ॥ २६ ॥ एवं सन्तर्प्य तान् सर्वान् तेभ्यो गेहं प्रगृह्यताम् । स्थपतिः परिगृह्याथ तत्सर्वं दक्षिणादिकम् ॥ २७ ॥ कर्मकारजनैः साकं मन्त्रानेतानुदीरयेत् ॥ २७ ॥ वर्षाम्बुपातादशनिप्रपाता- .. चण्डाच्च वायोरपि चाग्निदाहात् । १. 'श्रा' छ. पाठः. २. 'बुधः ॥' घ. ङ. पाठ:. ३. 'र्तु' ग. पाठः. ७१ ७२ वास्तुविद्यायां चोरादिकेभ्यः परचक्रघाताद् रक्षन्त्विदं सद्म सुरासुरेभ्यः ॥ २८३ ॥ अगदा मनुजाः सधनाः सुखिनः प्रथिता यशसा च भवन्तु चिरम् । विजयी निखिलां पशुसस्यवतीं सुकृती नृपतिः पृथिवीमवतात् ॥ २९३ ॥ ब्रह्मा विष्णुः शङ्करश्चन्द्रसूर्यो नन्दी लक्ष्मीर्वाग्वधूः स्कन्द इन्द्रः । भूमिर्देवाश्चर्षयश्च प्रजानां श्रीसौभाग्यारोग्यभोगान् कृषीरन् ॥ ३०३ ॥ भूयाद् ध्रुवा द्यौः पृथिवी च भूयाद् भवन्त्विमे भूमिधरा ध्रुवाश्च । ध्रुवं जगद् विश्वमिदं ध्रुवं स्याद् राजा तथा धाम च तद् ध्रुवं स्यात् || ३१३ || ब्रह्मैव स्थपतिः साक्षाद यजमानः स्वयं हरिः । आचार्यो भगवान् रुद्रः त्रिभिनिष्पादितं तु यत् ।। ३२३ ॥ तद् वास्तु स्थिरमेव स्याद् दृष्टादृष्टफलप्रदम् ॥ ३३ ॥ इति वास्तुविद्यायां भवनपरिग्रहो नाम पञ्चदशोऽध्यायः । १ 'विशां घा' छ. पाठः- वास्तुविद्या समाप्ता ॥' छ. पाठः, २. 'ति भवनपरिग्रहं पञ्चदशोऽध्यायः अथ षोडशोऽध्यायः । अथ वक्ष्यामि संक्षेपान्मुडोष्टानां च लक्षणम् । चिक्कणा पाण्डराख्या च सलोणा च विगर्हिता ॥ १ ॥ चतुर्थी ताम्रफुल्ला चे कर्मयोग्या मृदिष्यते । तुषाङ्गारास्थिपाषाणकाष्ठशर्करलोष्टकैः ॥ २ ॥ वर्जिताः सूक्ष्मसिकतास्ताम्रफुल्लाभिधाश्र याः । ताः प्रक्षिप्यावटे मृत्स्ना जानुमात्रं जलं क्षिपेत् ॥ ३ ॥ आलोड्य पद्भिः संक्षोभ्य मर्दयेत् ताः पुनः पुनः । ततः क्षीरागशैरीषत्वक्काथत्रिफलाम्बुभिः ॥ ४ ॥ मर्दयेन्मासमात्रं तु तत्कर्मकुशलैर्नरैः । लोष्टानि कल्पयेत् सम्यक् तेषां लक्षणमुच्यते ॥ ५ ॥ नीव्रलोष्टमूर्ध्वलोष्टं तुर्यश्रं क्रूरलोष्टकम् । ह्यश्रलोष्टं कीललोष्टं कृशस्थूलाग्रलोष्टके ॥ ६ ॥ गर्तकोणं कोणलोष्टं पुटलोष्टं तथैव च । लोष्टान्येकादशैतेषामायामादिकमुच्यते ॥ ७ ॥ नीत्रपट्यास्तु विस्तारं चतुरङ्गुलसंयुतम् । आयामं नीव्रलोष्टस्य कीर्तितं लोष्टवेदिभिः ॥ ८ ॥ विस्तारं यङ्गुलं कुर्याद् बहलं तारपादतैः । तदर्धमग्रबाहल्यं सर्वेषां पर्ववच्छिरः ॥ ९ ॥ १. 'ख्या' घ. पाठ:- २. 'प' ग. पाठः, ३. 'कूटलो' घ. ङ. पाठ: ४. 'कम् ।' ग. पाठ: वास्तुविद्यायां आयाममूर्ध्वलोष्टस्य द्वादशाङ्गुलमिष्यते । तन्त्रिभागैकविस्तारं षड्यवं बहलं विदुः ॥ १० ॥ पुटाख्यगर्तकोणानां बहलं नीत्रलोष्टवत् । आयामं वसुमात्रं स्याद् विस्तारमथ कथ्यते ॥ ११ ॥ युगाङ्गुलं पुटामूलं तदग्रं सार्धमात्रकम् । मूलं तु गर्तकोटीनां सार्धाङ्गुलमुदाहृतम् ॥ १२ ॥ चतुरङ्ङ्गुलमग्रं स्यादाकारं क्रूरलोष्टवत् । अष्टाङ्गुलं कोणमूलमग्रं सार्धाङ्गुलं विदुः ॥ १३ ॥ नीप्रादीनां च पञ्चानां भेदः कीलादिकं त्रयम् । स्वस्खतारार्धविस्तारं कीललोष्टमुदाहृतम् ॥ १४ ॥ क्रूरयश्रायताश्राणामायामं वसुमात्रकम् । विस्तारं द्व्यङ्गुलं प्रोक्तं बहलं त्रियवं मतम् ॥ १५ ॥ मूलतारार्धविस्तारं कृशाग्रमिति कीर्तितम् । अग्रतारार्धमूलं यत स्थूलाग्रं तदुदाहृतम् ॥ १६ ॥ मूलबाहल्यतोऽप्यर्थं सर्वेषामग्रमिष्यते । सर्वत्र तुल्यबहलमूर्ध्वलोष्टमुदाहृतम् ॥ १७ ॥ अथ दारुमयं लोष्टमुक्तलक्षणसंयुतम् । कृत्वा चाङ्गुलिवाहल्यं सर्वेषां साधनं तु तत् ॥ १८ ।। आमूलाग्रं विधातव्यं सूत्रं क्रूरस्य मध्यमे । मूलात् तारार्धकं नीला तिर्यक् सूत्रं समालिखेत् ॥ १९ ॥ १. 'स्या’ घ. ङ., ‘स्यार्धाय' छ. पाठः. ७४ षोडशोऽध्यायः । तिर्यङ्मूलाग्रयोगेन मध्याग्रेण युतं लिखेत् । परित्याज्यं बहिर्भागं तद् भवेत् क्रूरसाधनम् ॥ २० ॥ द्यश्रव्यासेsब्धिसंभक्त त्रीणि सूत्राणि पातयेत् । मुलात् ताराङ्घ्रिकं नीत्वा तिर्यक् सूत्रं निपातयेत् ॥ २१ ॥ तिर्यङ्र्मूलाग्रयोगेन पार्श्वस्थाम्रयुतं लिखेत् । पार्श्वस्थाग्रं समारभ्य तिर्यमध्य युतिर्युतम् ॥ २२ ॥ कर्णसूत्रबहिर्भागे त्यक्तं स्यौद् ह्यश्रसाधनम् । भसितोहूलितां कृत्वा फलकामपि साधनम् ॥ २३ ॥ मृत्स्नां प्रस्तारयेत् तस्यां यथोक्तबहलां पुनः । सन्ताड्य च समां कृत्वा तस्यां विन्यस्य साधनम् ॥ २४ ॥ पर्व कृत्वा तद्ग्रेऽथ कीलैर्वेण्वादिनिर्मितैः । छिन्यात् पार्श्वं च मूलं च सर्वत्रैवं विधिः स्मृतः ॥ २५ ।। ईषच्छुष्काणि चोद्धृत्य पश्चात् सन्ताडयेत् स्वयम् । ऊर्ध्वलोष्ट कोणलोष्टं वे सन्ताङ्य कारयेत् ॥ २६ ॥ कोणपारावतं कुर्यात् स्तूप्याच्छादनकानि च । अनातपेषु शुष्काणां दाहं कुर्याद् यथोचितम् ॥ २७ ॥ १. 'त्यज्य व’ छ. पाठः. २. 'येत् । तिर्यङ्मूला' घ, ङ. पाठ:. २. ‘गगुलयो' ग. पाठः, ४. 'त' ग. छ. पाठ ५. 'क्रं' ग. घ. ड. पाठ: १. 'कालपाकेन शु’ घ, ङ. छ. पाठः- ‘युतीयुतम्' इति स्यात् । वास्तुविद्यायां अनन्धर्क्षे सुलग्नादौ चुल्लीं कृत्वानुमारुतम् । तत्र लोष्टानि सन्दह्यात् सान्तरं क्रमशो न्यसेत् ॥ २८ ॥ काठैः पलालभाराद्यैराचिता स्यान्निरन्तरा । बहिराच्छादयेत् सम्यमत्सया च विलेपयेत् ॥ २९ ॥ तन्मुखेष्वग्निमाधाय दशाहं पक्षमेव वा । संस्कृत्य ज्वलने शान्ते लोष्टानि पुनरुद्धरेत् ॥ ३० ॥ अथवान्यप्रकारेण लोष्टदाहो विधीयते । शुष्कचिञ्चादिशाखाभिरास्तीर्य सुमुहूर्त ॥ ३१ ॥ इन्धनानि च विन्यस्य पलालानि च विन्यसेत् । तस्मिन् लोष्टानि विन्यस्य पलालैश्छादयेत् पुनः ॥ ३२ ॥ पलालाभासकैः पश्चाद् बीह्याभासैस्तुवैस्तथा । आच्छाद्याद्भिरथासिञ्चेच्छाखां प्रज्वालयेत् पुनः ॥ ३३ ॥ ७६ २ उद्धृत्य ज्वलने शान्ते गेहमाच्छादयेद् बुधः नीव्रलोष्टानि विन्यस्य तुर्यश्राण्यपि विन्यसेत् ॥ ३४ ॥ यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः । क्रूरलोष्टानि विन्यस्य यथाशोभं यथामति ॥ ३५ ॥ कोणपारावतं न्यस्य कोणलोष्टानि विन्यसेत् । पार्श्वयोः पुटलोष्टानि ऊर्ध्वलोष्टानि विन्यसेत् ॥ ३६ ॥ १. 'शल्भा' घ. ङ. पाठ: २. 'सेत् । कू' घ. ङ. छ. पाठ: ३. ‘स्य कोणलोष्टानि विन्यसेत् । पार्श्व' घ. ङ.; 'स्य तुर्यश्राण्यपि विन्यसेत् । यश्राणि विन्यसेत् पश्चादेवमेव पुनः पुनः । को' छ, पाठः षोडशोऽध्यायः । गर्तकोणानि विन्यस्य कलादीनि यथोचितम् । सुमुहूर्ते सुनक्षत्रे स्तूप्याच्छादनकं न्यसेत् ॥ ३७॥ तक्षकाणां यथोद्दिष्टा पूजा तेषां तथैव च । एवं देवालयादौ च हाटकादिभिरेव वा ॥ ३८ ॥ स्वर्णादिलोष्टमानं तु ज्ञेयं द्रव्यानुसारतः ॥ ३८३ ॥ इति वास्तुविद्यायां मृलोटलक्षणं नाम षोडशोऽध्यायः । वास्तुविद्या समाप्ता | शुभं भूयात् ॥ १. इदं वाक्यं ग. पुस्तके परं दृश्यते । ७७ Trivandrum Sanskrit Series. No. 1 (Vyâkarana) by Deva with Puru- shakâra of Krishualîlâsukamuni. No. 2 – अभिनवकौस्तुभमाला - दक्षिणामूर्तिस्तवौ by Krishna- lîlâsukamuni. 0 20 No. 3: (Kâvya) by Vámana Bhaṭṭa Bâna. 0 4 0 No. 4: (Kavya) by Nîlakantha Dîkshita. 2 00 No. 5. -ब्यक्तिविवेकः (Alankara) by Mahima Bhatta with commentary. No. 6-: (Vyâkaraṇa) by Saraṇadeva. No. 7 (Vedânta) by Sadâsivendra Sarasvati. No. 8 Necka No. 9. Ready for sale. (Stuti) by H. H. Svâti Srî Râma Varma Mahârâjah. with the No. 10 No. 11-a No. 12- 1 0 0 No. 13 1 0.0 2 12 0 200 2 40 (Nataka) by Ravi Varma Bhûpa. 1 0 0 (Vedânta) by Virâpâkshanâtha commentary of Vidyachakravartin. परमार्थसारम् (Vedanta ) by Bhagavad Adisesha with the commentary of Raghavânanda. 0 8.0 सुभद्राधनञ्जयम् (Nataka) by Kulasekhara Varma with the commentary of Sivarama. 2 0 0 No. 14-afare: (Niti) by Kamandaka, with the commentary of Sankarárya. 080 (Gajalakshana) by Nilakantha. 0 80 (Nâtaka) by Kulasekhara Varma with the commentary of Sivarama. 24 0 3 8 G 2 No.1 No. 10--प्रतिज्ञायौगन्धरायणम् (Do.) (Nâtaka) by Bhasa. Do. Do. No. 17 - पञ्चरात्रम् (Do.) No. 18-- नारायणीयम् (Stuti) by Náráyana Bhatta with the commentary of Desamangala Vârya. No. 19—मानमेवोदयः (Mimámsá) by Narayana Bhatta and Narayana Pandita. No. 23 – नानार्थार्णवसंक्षेप: (Kosa) by Kesavaswámin (1 & 2 Kândas) No. 20- (Nataka) by Bhasa. No. 21-बालचरितम् (Do.) Do. No. 22- मध्यमव्यायोग-दूतवाक्य दूतघटोत्कच-कर्णभारोरुभङ्गानि (Nataka) 2 8.0 1 80 1 0 0 The Agent for the sale of 4 00 No. 28 – वैखानसधर्मप्रश्न: (Dharmashtra) by Vikhanas No. 29- नानाथर्णवसंक्षेप: (Kosa) by Kesavaswamin (3rd Kanda) No. 30 - - वास्तुविद्या (Silpa) Apply to:- 1 40 180 0.0 3) ( by Bhâsa 1 80 1 No. 24-- जानकी परिणय: (Kavya) by Chakrakavi. No. 25 – काणादसिद्धान्तचन्द्रिका (Nyaya) by Gangadharasúri 0120 No. 20—– अभिषेकनाटकम् (Nataka) by Bhasa 0 12 0 No. 27 कुमारसम्भवः (Kavya) by Kalidasa with the two commentaries, Prakâsikâ of Arunagirinatha and Vivarana of Narayanâ Pandita (1 & 2 1 12 0 1 00 Sargas)1 12 0 0 80 2 40 0120 Government Sanskrit Publications, Trivandrum.

  1. १. 'वा' क. ख. छ. पाठः.
  2. २. 'ध' ग, घ, ङ, छ. पाठः.
  3. ३. 'च्या' क. पाठः.
  4. ४. 'मि' क. ख. ग. छ. पाठः,
  5. ५, 'तम् ।' क. ग. छ. पाठः.
  6. ६. 'भी रथरे' ख. ग. घ, ङ, च. छ. पाठः.
  7. ७. 'रथरे' ख, ग, घ, ङ. छ. पाठः,
  8. ८. 'वा' क, ख. ग. छ. पाठः,
  9. ९. 'लस्तु' घ, ङ, पाठः,
"https://sa.wikisource.org/w/index.php?title=वास्तुविद्या&oldid=161773" इत्यस्माद् प्रतिप्राप्तम्