प्रमुखा विकल्पसूचिः उद्घाट्यताम्

वास्तुसूत्रोपनिषदः टीकासहितम्

प्रथमः प्रपाठकः षट्शिल्पविचारः

द्वितीयः प्रपाठकः खिलपञ्जरज्ञानम्

तृतीयः प्रपाठकः शैलभेदनम्

चतुर्थः प्रपाठकः अङ्गप्रयोगः

पञ्चमः प्रपाठकः रूपभावनाबोधः

षष्ठः प्रपाठकः सम्बन्धप्रयोजनम्



सूत्रपाठः
प्रथमप्रपाठकस्य सूत्राणि
वास्तोष्पतिर्ज्ञेय इति ।
षट्शिल्पाङ्गप्रयोगेण प्रजनयन्ति रूपाणि ।
यूप इदं ज्योतिः ।
वृत्तज्ञानं रेखाज्ञानं च यो जानाति स स्थापकः ।
शिल्पात् प्रतिमा जायन्ते ।
स प्रवहणः शिल्पसूत्राध्यायं स्थापकविद्यां चावदत् ।
शरीरमूर्तिरहिते मन आवेश्य विशेषेण विकल्पिदोषयुक्तं भवति ।
वास्तु षडङ्गमिति श्रेष्ठम् ।
षड्धा शैलं ज्ञेयम ।
शैलादङ्गरागज्ञानं प्रसरति ।

द्वितीयप्रपाठकस्य सूत्राणि
निर्दिष्टार्थकप्रतिमा ग्राह्या ।
पातन प्रथमा क्रिया ।
मर्दनं द्वितीया क्रिया ।
विलमिति मर्म ज्ञेयम् ।
न रेखाकरणं कर्त्तव्यम् ।
वृत्तम् वृत्त मिति विश्वम् ।
एकैकस्य संयोगे एकीभवति इति तस्य भावः ।
वृत्त हि पूर्णम् ।
रेखान्वये सर्वाङ्गानि न्यासय ।
तेजांसि सरलरेखाः ।
नाभौ रूपकर्म प्रारभ्यते ।
प्राजापत्यरीत्या वृत्तं हि तेजस्तदाऽपांभासे चतुरस्रम् ।
कर्णद्वयं मरुद्भावेन आचरन्ति ।
धरेव कर्णिकक्षेत्रमाकर्षयन्ति स्थापकाः ।
लब्धबिन्दुः रसायाः प्राणः ।
त्रिहुताग्निः स्मर्यतेऽ पि च लोके ।
आप इति ।
षटकोणको आकर्षणीविद्याविशेषः ।
यथा रूपे तथा यूपेऽनुच्छेदान्ता ग्राह्याः ।
खनित्रप्रकारो ध्येयः ।
सूत्रायने रेखाः सुभगा भवन्ति ।
खिलपञ्जरज्ञानं श्रेष्ठम् ।
उत्थितरेखा अग्निरूपाः पार्श्वगा अब्रूपाः तिर्यगरेखा मरुद्रूपा इति ।
रूपसौभगाद् ध्यानभावो जायते ।
अग्निरेखायामुत्तुङ्गरूपाणि जायन्ते ।
अव्रेखायामुत्सुकरूपाणि जायन्ते ।
मारुतरेखायां तैजसरूपाणि ।
रेखाज्ञानं सर्वमिति ज्ञेयम् ।

तृतीयप्रपाठकस्य सूत्राणि
रूपस्य भावो मुख्यः ।
भावानुसारतो रेखाविधानमिति ज्ञेयम ।
तेषां बहुधा कृत्यं श्रेयः।
न्यासार्थं कालबोधो ध्येय इति ।
तद्भेदनेऽभिमन्त्रेयन्ति खनित्राणि ।
खनित्रपञ्चकं श्रेष्ठम् ।
रूपप्रकर्षार्थं रूपाङ्ग स्निग्धमिति ।
शिल्पकाराः प्रलेपयन्ति द्रावकरसम् ।
एषा हेतिविद्या श्रेष्ठा ।
रक्षार्थं पर्णमणिः परिधेयः ।
भेदनादङ्गसौभगं प्रभवति ।
रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् ।
गाथानुप्रासे लक्षणं व्यक्तं भवति ।
ध्यानप्रयोगे रूपसौष्ठव स्पष्ट भवति ।
यथा प्रकृतिस्तथा रूपलक्षणम ।
अङ्गानि अर्धाकले सुषमं ध्येयोनि ।
हर्सावधि उभयदिशि चोर्ध्वे न वर्धयेत् ।
रक्षाविधानेन विघ्नघातयः ।
रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम ।
नेम्योत्तरे रूपाङ्गं न वर्धयेत ।
खनित्रचालनविधिर्ध्येयविशेषः ।

चतुर्थप्रपाठकस्य सूत्राणि
प्रतीतात् प्रतीकः ।
रूपादङ्गानि सञ्जायन्ते ।
अतो द्विधा ब्रह्म रूपवद् भवति ।
रूपार्थं कोष्ठका मुख्याः ।
वर्गीकरणं मुख्यकृत्यम् ।
कोष्ठकान्तराले रूपस्यावयवो ध्येयः ।
परिमिताङ्गहाराद् भावलक्षणानि जायन्ते ।
कोष्ठके व्यतिक्रान्ते रूपमवद्यं भवति ।
शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ।
शिल्पकाराणां रूपशैले रूपशालादि ध्येयम् ।
यूपाद्रूपं रूपाद् यूप इति स्वभावः ।
यूपस्य मानं ध्येयम् ।
षड्भागस्य प्रयोगो ध्येयः ।
पुरुषस्य रूपेऽङ्गचत्वारोऽष्टाङ्गक्रमेणोपजायन्ते ।
पालाशदण्डरज्जुसंयोगे रेखामानय ।
निम्नादूर्ध्वावधि सदा रेखादीनाचर ।
पुरुषस्तम्भ इव स्तम्भो वै यज्ञस्य रूपम् ।
यथा स्तम्भस्य दशाङ्गं तथा पुरुषस्य दशयज्ञप्रज्ञाश्च ।
स्थापकाचार्या स्तम्भाद्रूपं बोधयन्ति ।
स्तम्भः कामचारिणस्त्रिधामानयन्ति ।
देवयज्ञार्थं यूपः ।
तदा पितृमेधार्थं वृषस्तम्भं मिथुनस्तम्भं कामचारा होमे रोपयन्ति।
तद्बोधे मानुषा रूपज्ञा भवन्ति ।
पुरुषस्य रूपाकले कोष्ठकस्याधो भावरूपं प्रसरति ।
दशाङ्गयूपे रूपे इति तस्य भावः समानः ।
ब्रह्मकीलाधारः ब्रह्मकीलेन सह क्षेत्रं विभाजय ।
अङ्गादङ्गं सञ्जायते ।
रेखासंयोगे तत्क्षेत्रेऽङागानि सौभगानि भवन्ति ।
क्षेत्रनेमिं रोधयेदिति ।



पञ्चमप्रपाठकस्य सूत्राणि
भावस्यारोपणं रूपकर्मणि विधेयम् ।
कर्म भावस्य प्रदायकम् ।
भावस्याऽऽधारो रसः ।
मनसि वृत्तिर्बहुधा प्रजायते ।
तदा भिन्नभिन्नरसाद्रूप नैकं भवति ।
नवधा रसः ।
प्रथमरसः शृङ्गारः ।
शूङ्गाररूपार्थमब् रेखा ग्राह्याः ।
स हासो द्वितीयरसः ।
मुखलक्षणाद् रसं जानन्ति सर्वे ईक्षणेन ।
स तृतीयः करुणरस भाव इति ।
रौद्रः चतुर्थो रसः ।
तिर्यगरेखायां रूपाङ्गभावः प्रकटो भवति ।
स वीरभावः पञ्चमः ।
वैरभावे उत्कटे भयङ्करो भवति ।
स वैलक्षणः षष्ठरसः ।
कुरूपाः क्षिप्ताङ्गाः मारुतरेखायामिति स सप्तमः ।
शान्तभावः, सोऽष्टमो रसः ।
भावानुगतरूपाणि चतुर्धा मुख्यानि ।
लोके भावबोधस्य हेतुर्मनः ।
मनुष्याणां वृत्तिर्मुख्येति ।
सङ्कल्पाद् विकल्पः ।
एष भुवनकोषो देहानुभूत्याः क्रमः ।
अरूपाद्रूपं तस्य फलम ।
दिशानुसृतेर्दिशापालानुपासन्ते ।
एवं दैवभेदान्मार्गभेदा जायन्ते ।




षष्ठः प्रपाठकस्य सूत्राणि
न्यासधारणा श्रेष्ठा ।
वृत्त्या दैवचिन्तने भेदः सञ्जायते ।
लक्षणप्रकाशार्थं शिल्पविद्या ।
न्यासोऽलङ्कारमुद्रायुधबाध्रकक्षवाहनोपदेवारिस्तुवकक्रमेण रूपनवाङ्गमिति ध्येयम् ।
तिस्रः रेखाः श्रेष्ठाः ।
रूपक्षेत्रे कोष्ठकालिर्मुख्या ।
षोडशकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रूपार्थं श्रेष्ठम् ।
विलमिति मर्म, ब्रह्मेव निधेयम ।
षोडशकोष्ठकप्रमाणविभागस्तु ब्रह्मेदैवजैवोपदैवयाजकक्रमेण पञ्चधा ध्येयः ।
रूपाङ्गं चतुर्धेति विशेषः ।
बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् ।
ब्रह्म सत्यादौ ।
ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गानि सौभगानि भवन्ति ।
अलङ्करणं देवभूषणमिति ।
प्रतिमुचः रतिः प्रसरति ।
करमुद्रा रूपस्य भावं ज्ञापयति ।
बाध्रं वलं ज्ञापयति रूपे ।
आसनषटकं मुख्यम् ।
गुणानुसृतं रूपत्रयम् ।
वाहनं रूपस्य प्रकृतिज्ञापकविशेषः
उपदैवतं प्रतिरूपमिति ।
उपदैवताद्रूपज्ञानं प्रसरति ।
अरिसन्धा ध्येया ।
रूपधाराया वृत्तिरिति श्रेष्ठा ।
स्तोतॄणां रूपे सुभगविशेषः ।
प्रज्ञार्थमेतद् वास्तूपाख्यानम् ।



"https://sa.wikisource.org/w/index.php?title=वास्तुसूत्रोपनिषत्&oldid=152530" इत्यस्माद् पुनः प्राप्तिः