विकिस्रोतः:ग्रन्थार्पणम् २०२०


नाम ग्रन्थार्पणम्
आरम्भदिनाङ्कः श्रावणशुक्लपूर्णिमा
०३-०८-२०२०
स्थितिः प्रचलति
अन्यप्रकल्पाः ग्रन्थाञ्जलिः ग्रन्थदीपः
संयोजकः संस्कृतविकिविभागः, बेङ्गलूरु

ग्रन्थार्पणम् इत्येषः नूतनः उपक्रमः संस्कृतविकिस्रोतःपक्षतः आयोजितः । संस्कृतोत्सवे कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । अस्मिन् विकिकार्ये समानमनस्काः इतरे (त्रयः वा) योजनीयाः । समूहरूपेण ग्रन्थस्य परिशीलनकार्यं समाप्य विकिस्रोतःद्वारा संस्कृतमातुः पदतले तस्य समर्पणम् । नूतनानां योजनेन विकिकार्यस्य वेगवर्धने अपि योगदानं निश्चयेन भविष्यति ।

उद्देश्यम् सम्पाद्यताम्

  • विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
  • विकिकार्ये नूतनानां समर्थानां योजनम् ।
  • विद्यमानानां विकिसदस्यानां विकिसङ्घटनसामर्थ्यवर्धनम् ।
  • विकिकार्यस्य स्वयंपठने, पाठने च विकिसदस्यानां दक्षतासम्पादनम् ।
  • विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः
  • विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।
  • विकिसदस्य संस्कृतोत्सवे एकं पुस्तकं चिनुयुः ।
  • आत्मना सह नूतनाः योजनीयाः ।
  • विकिमध्ये कृतकार्यः सदस्यः नूतनान् पाठशुद्धिक्रमं पाठयेत् । कार्यविभाजनं च सूचयेत् ।
  • सर्वे मिलित्वा पुस्तकस्य परिष्कारं समापयेयुः ।
  • यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।

साहाय्यम् सम्पाद्यताम्

विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।

सामान्यप्रश्नाः सम्पाद्यताम्

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पुस्तकचयनानन्तरं समानपुस्तकम् अन्यः अपि न चिनुयात् वा ?
पुस्तकचयनानन्तरं प्रबन्धकाः सूचनीयाः । यथा अन्यः समानं पुस्तकं न चिनुयात् तथा प्रबन्धकाः पश्यन्ति।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
अवश्यं भागं गृह्णीयुः । पूर्वं यः विकिमध्ये कृतकार्यः सः अन्यान् समर्थान् प्रेरयेत् ।