स्पर्धायाः नियमाः एवं विद्यन्ते ।
- स्पर्धा १५-०८-२०२१ दिनाङ्के ०० वादनतः तः ३१-०८-२०२१ दिनाङ्के २३.५९ पर्यन्तं चलिष्यति।
- भारतीयसमयः (UTC+05:30) परिगण्यते ।
- स्पर्धायाः कालावधौ कृतं कार्यमेव स्पर्धायां परिगण्यते ।
- भारतीयविकिस्रोतःस्पर्धायाः ग्रन्थावल्यां निर्दिष्टेषु ग्रन्थेषु कृतं कार्यम् एव परिगण्यते ।
- कश्चन सदस्यः यदि एकस्य पुटस्य प्रथमवारं पाठशुद्धिं करोति तर्हि ३ अङ्कान् प्राप्नोति. द्वितीयवारं कृतस्य पाठशुद्धेः १ अङ्कं प्राप्नोति.
- कार्यविवरणम् इत्यत्र कार्यं सूच्यते सूचितमेव कार्यं करणीयम् । अन्यथा समानं कार्यं बहुभिः कृतं स्यात् ।
- ocr कृत्वा अपठित्वा रक्ष्यते चेत् तस्य गणना न भवति ।
- रिक्तपुटस्य अङ्कः न भवति ।
तन्त्रांशद्वारा अङ्कगणना स्वयं भवति । तत्र त्रयः अंशाः विद्यन्ते ।
अङ्कगणना
वर्णः
|
कृतं कार्यम्
|
अङ्काः
|
प्रथमपाठशुद्धिः
|
योगदानानि
|
|
प्रथमपाठशुद्धिः:
|
3 अङ्काः
|
0
|
1
|
|
द्वितीयपाठशुद्धिः
|
1 अङ्कः
|
1
|
1
|
|
शुद्धस्य पुटस्य अशुद्धीकरणम्
|
-1 अङ्कः
|
-1
|
-1
|
|
द्वितीयवारमपि शुद्धीकृतस्य अशुद्धीकरणम्
|
-3 अङ्काः
|
0
|
-1
|
|
समस्यात्मकपृष्ठम्
|
0 अङ्कः
|
—
|
—
|
|
रिक्तं पृष्ठम्
|
0 अङ्कः
|
—
|
—
|
|
अपठितं पृष्ठम्
|
—
|
—
|
—
|
- स्वसदस्यनाम्ना प्रविश्य (log in कृत्वा) पाठशुद्धिः करणीया ।
- निर्दिष्टानाम् एव ग्रन्थानां पाठशुद्धिः ।
- आयोजनगणेन सूचितानाम् एव पुटानां पाठशुद्धिः ।
- निर्दिष्टेषु दिनाङ्केषु यदा कदापि पाठशुद्धिः ।
- सम्यक् पठित्वा पाठशुद्धिः ।
- पुटस्य संरक्षणात् पूर्वं पुटस्थितिसूचकस्य पिञ्जस्य (पीतवर्णस्य/हरितवर्णस्य) नोदनम् ।
- प्रवेशं विना पाठशुद्धिः न करणीया।
- निर्दिष्टात् भिन्नस्य ग्रन्थस्य पाठशुद्धिः न करणीया। तेन स्पर्धायां परिगणनं न भवति।
- आयोजकगणेन असूचितस्य पुटस्य पाठशुद्धिः न करणीया। तेन समानं पुटं बहुभिः स्पर्धिभिः शुद्धीकरणीयम् आपतति।
- पाठशुद्धिं विना पृष्ठस्य रक्षणं न करणीयम्।
- पाठशुद्ध्यनन्तरं वर्णपरिवर्तनेन (पीतपिञ्जनोदनेन/हरितपिञ्जनोदनेन) विना रक्षणं न करणीयम्।
|