विकिस्रोतः:विकिस्रोतःप्रवेशिका २०२०

नाम Name विकिस्रोतःप्रवेशिका २०२०
दिनाङ्कः Date मे 20 तः जुन्-मासस्य 5 दिनाङ्कपर्यन्तम्
स्थितिः status सम्पन्ना
निरीक्षकः coordinator सायन्तः माहातो
विषयोपस्थापकः presentator सूर्यहेब्बारः


विकिस्रोतःप्रवेशिका इति कश्चन उपक्रमः संस्कृतविकिपक्षतः प्रचाल्यते । अयं कश्चन अन्तर्जालीयः प्रशिक्षणवर्गः । विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति । परन्तु कथं विकिस्रोतसि कार्यं करणीयम् इति ज्ञानं बहूनां न भवति। अतः विकिस्रोतसः प्रशिक्षणं किञ्चन आयोज्यते ।


Wikisource Praveshika is an initiative by Samskrit Wiki. This is an online training program. There are many participants who are interested to do the editing of the texts. But many do not have idea as how to take this forward. Therefore, an online training session has been arranged for Wikisource.

  • विषयाः
  • अत्र के भागं ग्रहीतुम् अर्हाः ?
  • प्रशिक्षणवर्गस्वरूपम्
  • पञ्जीकरणम्, सम्पर्कः
  • कार्याशालायाः समयसारिणी
  • भागग्रहणं कुरु

विषयाः Topics

अस्मिन् प्रशिक्षणे सम्पादनसम्बद्धाः सर्वे विषयाः पाठ्यन्ते ।
In this training we will try to cover all aspects of editing and proofreading.

  1. पाठशोधनक्रमः - विकिस्रोतसि चित्ररूपपाठ्यस्य (scanned texts) अन्वेषणयोग्यपाठ्यरूपेण परिवर्तनम् OCR द्वारा भवति। ततः तस्य पाठशुद्धिः करणीया । तत्र अवधातव्याः अंशाः विचार्यन्ते । Proofreading - Learning OCR techniques to extract text from the scanned copy. That OCRed text needs to be proofread.
  2. पुटविन्यास-शिक्षणम् - विकिस्रोतसि प्रतिपुटं विन्यासः आरचनीयः । तत्र अनुस्रीयमाणाः क्रमाः बोध्यन्ते । Page Layout.
  3. पुस्तकस्य विषयविभागज्ञानम् - विकिस्रोतसि पुस्तकप्रकाशनाय कथम् अध्यायादीनां विभागः करणीयः इति ज्ञाप्यते । Page Categorization.
  4. अवधातव्यानाम् अंशानां शिक्षणम् ।

अत्र के भागं ग्रहीतुम् अर्हाः ? Who can join this program -

  • विकिस्रोतसः सदस्याः । Users of Samskrit Wikisource.
  • विकिस्रोतसि पाठशुद्धिं ये कृतवन्तः ते । Who have done proofread work on wiki.
  • देवनागरीलिप्या उट्टङ्कने समर्थाः । One who knows Devanagari typing.
  • विकिप्रकल्पेषु सक्रियाः संस्कृतज्ञाः । Samskritist who are active on other sawiki projects.

प्रशिक्षणवर्गस्वरूपम् Training procedure

अयं वर्गः अन्तर्जालाधारितः भविष्यति । This training will be online.

  • आहत्य ६ कक्ष्याः भवन्ति । Total six sessions will be conducted.
  • बुधवासरे शुक्रवासरे च कक्ष्या भविष्यति । Sessions will be on Wednesday and Friday.
  • १९:०० (IST) वादनतः १ घण्टापर्यन्तं भविष्यति । Each session will start at 19:00 (IST) and will be about an hour.

पञ्जीकरणम्, सम्पर्कः Enroll, contact

यदि त्वंं भागं ग्रहीतुम् इच्छसि तर्हि If you want to enroll here - अत्र क्लिक् करोतु Click here

अथवा or

वर्गविषये प्रश्नाः सन्ति चेत् सन्देशं लिख If you have any question, leave a message at चर्चा


कार्याशालायाः समयसारिणी

कक्ष्या 1 - 20.05.2020
कक्ष्या 2 - 22.05.2020
कक्ष्या 3 - 27.05.2020
कक्ष्या 4 - 29.05.2020
कक्ष्या 5 - 03.06.2020
कक्ष्या 6 - 05.06.2020
समयः सायम् - 7-8 वादनम्

भागग्रहणं कुरु Join now सम्पाद्यताम्

All Samskrit Wikians are welcome to join this training. We strongly believe that this program will help you to become better and more skilled Wikians.


नामाङ्कनं करोतु /Join now