विकिस्रोतः:विकिप्रकल्पः-शास्त्रमन्थनम्
शास्त्रमन्थनप्रकल्पे भवतां स्वागतम् । अस्मिन् प्रकल्पे विविधसंस्कृतविश्वविद्यालयैः शोधसंस्थाभिश्च प्रकाशितानि शास्त्रसम्बद्धानि शोधपत्राणि संस्कृतविकिस्रोतसि एकत्रीक्रियन्ते । शास्त्रीयाः विषयाः अन्तर्जालमाध्यमेन विरलतया एव प्राप्यन्ते । शास्त्रेषु निहिताः बहवः गम्भीरविषयाः संस्कृतशोधकर्तृभिः महता परिश्रमेण संशोध्य शोधपत्ररूपेण समर्पितानि सन्ति । तानि विविधैः विश्वविद्यालयैः प्रकाशितानि सन्ति । विश्वविद्यालयानां ग्रन्थालयेषु संरक्षितानि तानि शोधपत्राणि सर्वैः प्राप्तुम् अशक्यानि । अनेन प्रकल्पेन तानि संस्कृतविकिस्रोतसि आनीयन्ते येन शास्त्रविषयाः सकलजनलभ्याः भवन्ति । अस्य प्रकल्पस्य यशसः प्राप्त्यर्थम् अत्र सर्वे सविनयं निवेद्यन्ते यत् स्वीयम् अमूल्यं योगदानं कुर्वन्तु इति । भागग्रहणे इच्छुकाः सर्वे अत्र स्वनाम योजयन्तु । विषयेऽस्मिन् अधिकावगमनाय चर्चापृष्ठे लिखन्तु ।
कार्ययोजना
सम्पाद्यताम्प्रकल्पस्य प्रथमः घट्टः २०१५ तमस्य वर्षस्य जनवरीमासतः जुलैमासपर्यन्तं भविष्यति । अस्मिन् घट्टे दक्षिणभारते विद्यमानानाम् अधोलिखितानां ६ संस्कृतविश्वविद्यालयानां/पाठशालानाञ्च सम्पर्कः क्रियते ।
- राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, आन्ध्रप्रदेशः
- श्री शङ्कराचार्य संस्कृत सर्वकलाशाला, कालडि, केरलम्
- श्री चन्द्रशेखरेन्द्र सरस्वती विश्व महाविद्यालय, काञ्चीपुरम्, तमिळनाडु
- पूर्णप्रज्ञाविद्यापीठम्, बेङ्गलूरु, कर्णाटकम्
- श्रीमन् माध्वसिद्धान्त प्रबोधिनी पाठशाला, उडुपि, कर्णाटकम्
- राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धि परिसरः, शृङ्गेरी, कर्णाटकम्
- एतैः विश्वविद्यालयैः प्रकाशितानि शोधपत्राणि सङ्गृह्य, विषयशः वर्गीकृत्य, व्यवस्थितरूपेण संस्कृतविकिस्रोतसि प्रकाशनाय सज्जीक्रियन्ते ।
- चितानां शोधपत्राणां लेखकानां सम्पर्कं संसाध्य अनुमतिः प्रार्थ्यते ।
- सज्जीकृतानां शोधपत्राणाम् उट्टङ्कनं, परिशोधनञ्च कृत्वा विश्वविद्यालयस्य, लेखकस्य च नामोल्लेखपूर्वकं विकिस्रोतसि प्रकाशयिष्यन्ते ।
प्रकल्पपरिणामाः
सम्पाद्यताम्- षण्मासाभ्यन्तरे (जुलै २०१५) त्रिसहस्राधिकानि (३०००) शोधपत्राणि विकिस्रोतसि प्रकाशितानि स्युः । अनेन प्राथमिकलक्ष्यं साधितं स्यात् ।
- उपरि निर्दिष्टेषु विश्वविद्यालयेषु विकिपीडियाप्रशिक्षणवर्गाः सञ्चाल्यन्ते । अनेन अनेकेषां संस्कृतज्ञानां सक्रिययोगदानं संस्कृतविकिप्रकल्पेषु दरीदृश्येत ।