विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/द्वितीयोऽङ्कः

← प्रथमोऽङ्कः विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
द्वितीयोऽङ्कः
कालिदासः
तृतीयोऽङ्कः  →

द्वितीयोऽङ्कः।

(ततः प्रविशति विदूषकः)

 विदूषकः-अविद अविद भोः, णिमन्तणिओ परमण्णेण विअ राअरहस्सेण फुट्टमाणो ण सक्कणोमि जनाइण्णे अइण्णणेण अत्तणो जीहं धारिदुम् । ता जाव सो राआ धम्मासणगदो इदो आअच्छइ दाव इमस्सिं विरलजणसंपादे देवच्छन्दअप्पासादे आरुहिअ चिट्टिस्सम् । (परिक्रम्योपविश्य पाणिभ्यां मुखं पिधाय स्थितः।) [अविद अविद भोः । निमन्त्रणिकः परमान्नेनेव राजरहस्येन स्फुटन्न शक्नोमि जनाकीर्णेsकीर्तनेन आत्मनो जिह्वां धारयितुम् । तद्यावत्स राजा धर्मासनगतः इत आयाति तावदेतस्मिन् विरलजनसम्पाते देवच्छन्दकप्रासादे आरुह्य स्थास्ये ।]


 ततः इति-इदानीं विदूषकद्वाराग्रिमकथासूचनार्थं विदूषकप्रवेशं तावदाह । ततः पूर्वाङ्के ससूतस्य राज्ञः निष्क्रमानन्तरं विदूषको रङ्गभुवम् प्रविशति । विदूषकलक्षणं तु-"वयस्यकश्चाटुपटुः स एव च विदूषकः । अन्तःपुरचरो राज्ञां नर्मामात्यः प्रकीर्तितः" इति सागरः। दर्पणे च-“कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ॥ स्वकर्म मधुरभोजनम् ।" इयं पताका, प्रासङ्गिकवृत्तस्याख्यासमाप्तिव्याप्तत्वात् ॥

 विदूषकः-अविदेति-अविद अविद भोः ज्ञायतां ज्ञायतामिति । यथा निमन्त्रणिकः भोजनार्थं निमन्त्रणदाता यजमानः परमान्नेन क्षीरेण स्फुटन् द्रवीभूतचेतो भवन् तद्भक्षणाय आत्मनः स्वीयां जिह्वां रसनां धारयतुं निरोद्धुं न शक्नोति तथैवाहमपि राजरहस्येन राज्ञः विक्रमस्योर्वशीविषयकरतिरूपरहस्येन स्फुटन् विघटितात्मा भवन् जनाकीर्णे जनसमूहे अकीर्तनेन तदप्रकाशयितुं जिह्वां धारयितुं निग्रहीतुं न शक्नोमि न पारयामि । अर्थात् राजरहस्यम् मम जिह्वातः स्वयमेव स्फुटदिव बहिर्निष्कान्तुमिच्छति । अत्रोपमालङ्कारः । जिह्वां धारयितुमित्यत्र श्लेषश्च । एकत्र भोक्तुमन्यत्र प्रकाशयितुमित्यर्थद्वयशालित्वात् । अनयोपमया विदूषकस्यात्यन्तभोजनप्रियत्वं रसनालोलुपत्वं च सूच्यते, हृदयगाम्भीर्याभाववत्त्वं च व्यज्यते । तद्यावत् अतएव यावता समयेन स राजा विक्रमः धर्मासनगतः न्यायासनतः राजकर्म समाप्य इत अस्मिन्नेवोद्देशे समायाति तावता समयेन विरलजनसम्पाते कतिपयैः पुरुषैर्व्याप्ते देवच्छन्दकप्रासादे तदाख्यराजप्रासादम् आरुह्य तत्र स्थास्ये राजागमनप्रतीक्षां करोमीत्यर्थः । [परिक्रम्य किञ्चिदितस्ततः

परिभ्रम्य पाणिभ्यां हस्ताभ्याम् मुखं पिधायाच्छाद्य स्थितः उपविष्टः ।]

( ततः प्रविशति चेटी। )

 चेटी-आणत्तम्हि देवीए कासिराअदुहिदाए जधा-हञ्जे णिउणिए ! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अजमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हवंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च ) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज ! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा-यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं


(ततः तत्पश्चात् चेटी काचन दासी प्रविशति ।)

 चेटी-आशप्तेति-देव्या राज्ञ्या काशिराजदुहित्रा काशिराजस्य कन्या पुरूरवसो महिषी तया आज्ञप्ताऽस्मि । यथा वक्ष्यमाणेन विधिना । "हञ्जे निपुणिके । निपुणिकेति चेट्यभिधानम् । यतःप्रभृति यस्मात् समयात् भगवतः सूर्यस्य उपस्थानं कृत्वा सेवां भक्तिंं पूजां वा विधाय प्रतिनिवृत्तः प्रत्यागतो महाराजः ततःप्रभृति तस्मादेव समयात् शून्यहृदयः अव्यवस्थितचित्तः अनवहितमनोवृत्तिरेव लक्ष्यते दृश्यते । यतः भगवतः सूर्यस्य सेवां विधाय प्रत्यावृत्तो राजा तत एव अस्थिरहृदयः स अभूत् । अतएव त्वमपि आर्यमाणवकाद् विदूषकाद् जानीहि उत्कण्ठायाः चिन्तायाः कारणम् । अस्यानवस्थितचित्तवृत्तित्वस्य चिन्तायाश्च किं कारणमिति विदूषकं त्वं पृच्छ ।" माणवकेति विदूषकनाम । उत्कण्ठास्वरूपम् यथा--"सर्वेन्द्रियसुखास्वादः यत्रास्ते हि मनः स्त्रियाम् । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥" एतावती महिष्या आज्ञा । तत् अत एव स ब्रह्मबन्धुः दुष्टविप्रः कथमतिसन्धातव्यः वञ्चनीयः । कथं अहं मधुरालापैः विश्वासं समुत्पाद्य सरलीभूय तस्मान्माणवकादिमां वार्तामवैमीत्यर्थः । इति चेटी मनसि विचारयति । 'ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम्" इति ब्राह्मणापसदरूपेऽर्थे ब्रह्मबन्धुपदस्य वाच्यत्वम् । अथवा अलं विचारेणेति मतिविपर्यये । कुतः तस्मिन् विदूषके राजरहस्यं राज्ञः गोपनीयं . तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो ! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य ! वन्दे ।

 विदूषकः--सत्थि भोदीए । ( आत्मगतम् ) एदं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् । ) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि ? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके ! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि ? ]

 चेटी--देवीए वअणेण अजं एव्व पेक्खिदुम् । [ देव्या वचनेनार्यमेव प्रेक्षितुम् ।]

 विदूषकः--किं तत्तभोदी आणवेदी ? [किं तत्रभवती आज्ञापयति ?]


वृत्तान्तं चिराय बहुकालपर्यन्तं न तिष्ठति अनुद्घाटितं न स्थास्यतीति तर्कयामि विचारये । यथा तृणस्याग्रभागे लग्नमवश्यायसलिलम् हिमकणः चिरं स्थातुं न शक्नोति तथैव । यथा तृणाग्रे लग्नो हिमकणस्तस्मिन् स्थातुं न प्रभवति तथैव अस्मिन् राजरहस्यं चिरकालपर्यन्तं गुप्तं स्थातुमशक्यम् । अस्य विदूषकस्य हृदयगाम्भीर्याभावात् । "अवश्यायो नीहारः" । तद्यावदनेन हेतुना एनं विदूषकमन्वेषयामि क्वास्तीति । अहो इति विस्मये, आलेख्यवानर इव चित्रस्थमर्कट इव किमप्यज्ञातं मन्त्रयन् स्थिरं विचारयन् निभृतो निश्चलः आर्यमाणवकस्तिष्ठति । तद्यावदेनमुपसर्पामि । इयमहमस्योपान्तिकं गच्छामीति भावः । (उपसृत्य-समीपं गत्वा) आर्य ! वन्दे अभिवादये इत्यर्थः । अत्रोपमाद्वयम् ।

 विदूषकः--स्वस्ति भवत्यै-तव कुशलं भूयादिति । अत्र स्वस्तियोगे चतुर्थी । (आत्मगतम्-मनस्येव ) एतां इमां दुष्टचेटिकां प्रेक्ष्य दृष्ट्वा तत् उर्वशीविषयकं राजरहस्यं हृदयं भित्वा निष्क्रामतीव बहिरागच्छतीव । तत्कथयितुमुत्कण्ठते मे चेतः इत्यर्थः । [किञ्चिन्मुखं संवृत्य पिधाय] भवति निपुणिके ! कालोऽयं ते संगीतस्य । अतः संगीतव्यापारं गायनकार्यं उज्झित्वा परित्यज्य विहाय वा कुत्र कस्मिन्नुद्देशे प्रस्थिताऽसि गच्छसीत्यर्थः ।

 चेटी--देव्याः काशिराजदुहित्र्याः वचनेनाज्ञया आर्यमेव भवन्तमेव प्रेक्षितुं द्रष्टुं प्रस्थितास्मीति शेषः ।

 विदूषकः--तत्रभवती माननीया देवी किमाज्ञापयति ?  चेटी-देवी भणादि जधा -अज्जस्स मम उअरि अदक्खिण्णम् । ण मं अणुइदवेअणं दुःक्खिदं अवलोअदि त्ति । [ देवी भणति यथा-आर्यस्य ममोपरि अदाक्षिण्यम् । न मामनुचितवेदनां दुःखितामवलोकयतीति ।]

 विदूषकः-णिउणिए ! किं वा पिअवअस्सेण तत्तभोदीए पडिऊलं किं वि समाचरिदम् ? [ निपुणिके ! किं वा प्रियवयस्येन तत्रभवत्याः प्रतिकूलं किमपि समाचरितम् ? ]

 चेटी-जं णिमित्तं भट्टा उक्कण्ठिदो, ताए इत्थिआए णामेण भट्टिणा देवी आलविदा । [यन्निमित्तं भर्ता उत्कण्ठितः; तस्याः स्त्रियो नाम्ना भर्त्रा देवी आलपिता।]

 विदूषकः-(स्वगतम्) कहं सअं एव्व तत्तभोदा वअस्सेण रहस्सभेदो किदो । किं दाणीं अहं बम्हणो जीहं रक्खिदुं समत्थोम्हि । (प्रकाशम् ) किं तत्तभोदा उव्वसीणामधेएण आमन्तिदा ? [कथं स्वयमेव तत्रभवता वयस्येन रहस्यभेदः कृतः । किमिदानीमहं ब्राह्मणः जिह्वां धारयितुं समर्थोऽस्मि । किं तत्रभवता उर्वशीनामधेयेन आमन्त्रिता ?]


 चेटी-देवी यथा इत्थं भणति आज्ञापयति-आर्यस्य भवतः मम उपरि अदाक्षिण्यम् अननुकूलता प्रातिकूल्यं वा । किं तददाक्षिण्यमित्याह-अनुचितवेदनां निरर्थकमेव पीडितां माम् दुःखितां नावलोकयति आर्यः इति । पीडिताया अपि मम चिन्तां न कुर्वन्ति भवन्तः इत्यर्थः । इत्येव प्रातिकूल्यम् ।

 विदूषकः-निपुणिके ! तत्रभवत्याः देव्याः किमपि प्रतिकूलमनभिलषितं प्रियवयस्येन राज्ञा कृतम् किम् ? । येन राज्ञी दुःखिता भवेत् तादृशं कृतम् किम् राज्ञा इति भावः।

 चेटी-यन्निमित्तं यस्याः कृते भर्ता राजा उत्कण्ठितः तस्याः स्त्रियो नाना भर्त्रा नृपेण देवी आलपिता समाहूता। राजा यामभिलषति, तस्या नाम्ना तेन देवी आकारिता, संबुद्धा वा । अयं तावद्राज्ञः गोत्रस्खलितं नामापराधः ।

 विदूषकः-[स्वगतमात्मन्येव ] तत्रभवता मान्येन प्रियवयस्येन राज्ञा स्वयमेव रहस्यभेदः कृतः गोपनीयं वृत्तान्तमुद्घाटितम् , प्रकाशितम् वा । यदा तेनैवेत्थं समाचरितम् तदा कथमहं ब्राह्मणः सन् जिह्वां धारयितुं वशीकर्तुं समर्थोऽस्मि प्रभवामि । इहापि 'जिह्वां धारयितु' मित्यत्र श्लेषः। विदूषकस्य विप्रत्वात् भोजनप्रियत्वात् च जिह्वानिग्रहः दुर्धर एव । यथा रसवतीमवलोक्य विदूषकस्य  चेटी -अज्ज ! का सा उव्वसी ? [आर्य! का सा उर्वशी ?]

 विदूषकः-अत्ति उव्वसि त्ति अच्छरा । ताए दंसणेण उम्मादिदो ण केवलं तं आआसेदि, मं वि वम्हणं असिदव्वविमुहं दिढं पीडेदि । [अस्ति उर्वशीत्यप्सराः । तस्या दर्शनेनोन्मादितो न केवलं तामायासयति, मामपि ब्राह्मणं अशितव्यविमुखं दृढं पीडयति ।]

 चेटी-(स्वगतम्) उव्वादिदो मए भेओ भट्टिणो रहस्सदुग्गस्स । ता गदुअ देवीए एदं णिवेदेमि । [ उत्पादितो मया भेदो भर्तू रहस्यदुर्गस्य । तद्गत्वा देव्यै एतन्निवेदयामि । ] ( इति प्रस्थिता)

 विदूषकः-णिउणिए ! विण्णावेहि मम वअणेण कासिराअदुहिदरम्-परिसन्तम्हि इमाए मिअतिण्हिआए वअस्सं णिअत्तावेदुम् । जई भोदीए मुहकमलं पेक्खिस्सदि तदो णिअत्तिस्सदि त्ति [ निपुणिके ! विज्ञापय मम वचनेन काशिराजदुहितरम्- परिश्रान्तोऽस्मि एतस्या मृगतृष्णिकाया वयस्यं निवर्तयितुम् । यदि भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते इति ।]


रसनाया नियमनं कठिनमेवमेव राजरहस्यगोपनार्थमपि तस्य जिह्वायाः नियन्त्रणमसम्भवप्रायमेवेत्यर्थः ॥ [प्रकाशम्-चेटीं प्रति ] किं तत्रभवता राज्ञा देवी उर्वशीनामधेयेन आमन्त्रिता आहूता । किमयं 'अयि उर्वशि'-इति देवीम् आकारितवान् ? इति पृच्छति ।

 चेटी-आर्य्य ! का सा उर्वशी ? उर्वशीविषयकं सर्वं विचारयति ।

 विदूषकः-उर्वशीति तन्नामधेया काचन अप्सरा देवाङ्गना अस्ति । तस्या अप्सरसः दर्शनेनोन्मादितः व्याकुलः अनवस्थितः न केवलं तां देवीमेवायासयति पीडयति किन्तु मामपि ब्राह्मणमशितव्यविमुखं भोजनपराङ्मुखं कुर्वन् दृढं परं पीडयति सन्त्रासयति ।

 चेटी-(स्वगतम् ) मया भर्तुः राज्ञः रहस्यदुर्गस्य रहस्यमेव दुर्गम् तस्य भेदः उत्पादितः कृतः । ज्ञातं मया राजरहस्यम् तद्वा एतत्सर्वम् देव्यै निवेदयामि विज्ञापयामि । रहस्यदुर्गमिति-रूपकालङ्कृतिः । अनेन रहस्यस्य दुर्बोध्यत्वम् व्यज्यते । दुर्गस्य दुःखेन गन्तुं योग्यमिति व्युत्पत्तेः । इति विचार्य प्रस्थिता।

 विदूषकः-निपुणिके ! मम वचनेन काशिराजदुहितरम् देवीं विज्ञापय सादरं निवेदय, एतस्या मृगतृष्णिकायाः असन्तोष्यतृष्णायाः राजानं निवर्तयितुम् परिश्रान्तोऽस्मि । एतस्मात् विचारात् तं प्रत्यावर्तयितुं यतमानोऽहम् श्रान्तोऽस्मि । नाऽयं विचारं परिवर्तयतीति भावः। किन्तु यदि भवत्याः मुखकमलं प्रेक्षिष्यते ततः  चेटी-जं अजो आणवेदि । ( इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।

(नेपथ्ये वैतालिकः)

 जयतु जयतु देवः-

  आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां
   तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः ।


अस्मात् विचारात् स्वयमेव निवर्तिष्यते। भवत्याः विलक्षणसौन्दर्यशालिनं मुखं दृष्ट्वा परित्यक्ष्यत्येनं विचारम् । उर्वश्याः वदनारविन्दम् त्वदास्यदास्येऽप्यधिकारितां न गमिष्यतीति भावः । इयं विदूषकस्य चाटुपटुता ।

 चेटी-यदार्य आज्ञापयति । निवेदयिष्यामि यदार्येण वाचिकं दत्तम् । (इति निष्क्रान्ता स्वकार्यं संसाध्य महिषीं प्रतिनिवृत्ता।)

 एतावत्पर्यन्तं चेटीविदूषकयोरन्योन्यवचनं प्रपश्चाख्यम् वीथ्यङ्गम् उत्थापयति । यदुक्तं साहित्यदर्पणकृता, “मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः” असद्भूतमसत्यम् । अत्र उर्वशीनाम्ना देवी आलपितेति सर्वमसत्यमेव भाषितम् तया चेट्या ब्रह्मबन्धुं तं वञ्चयितुम् । अत एव अत्र प्रपञ्चाख्यम् वीथ्यङ्गम् पुष्णाति प्रबन्धस्यास्य रसात्मानम् ।

 (नेपथ्ये वैतालिकः-अन्तर्वेशरचनागृहात् वैतालिकः समयसूचकः पठति ।) "वैतालिकाः बोधकराः" इत्यमरः । विविधेन तालेन शब्देन चरन्तीति व्युत्पत्तः । 'चरतेष्ठक्' इति सूत्रेणात्र ठक्प्रत्ययः ।

 'आलोकान्तात्' इत्यारभ्य “पासपडिवत्ति होमि" इतिपर्यन्तम् चूलिकाख्यमर्थोपक्षेपकम् । चूलिका हि नाम "अन्तर्जवनिकासंस्थैः सूचनाऽर्थस्य चूलिका" । अत्र चूलिकया अर्थोपक्षेपणं कृतम् । राजागमनरूपार्थसूचनमिति । अङ्कच्छेदार्थं अर्थोपक्षेपकाणि दातव्यानि कविवरैः । यदुक्तं हि "दिनावसाने कार्यं यद्दिने नैवोपपद्यते । अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत्" ॥ इति वचनात् । पञ्चसु अर्थोपक्षेपकेषु अन्यतमेयं चूलिका । इह राजप्रवेशसूचनार्थम् स वैतालिकः पठति----

 जयतु जयतु देवः । राज्ञः सर्वत्र विजयो भूयादिति मङ्गलशासनम् ।

 आ लोकान्तादिति ।

 आसां प्रजानां भूलोकस्थचराचराणां प्रजानां जीवानां आ लोकान्तात् लोकान्तं समस्तजगदभिव्याप्य प्रतिहततमोवृत्तिरपास्तपापाचरणः तव च सवितुः सूर्यस्य च अधिकारः कर्तव्यम् तुल्योद्योगः समानश्रमः नः मतः अस्माकं मते वर्तते । यथा सूर्यस्य प्रादुर्भावात् मध्यलोकस्थजनाः तमोरहिताः भवन्ति तथैव तव समागमात् तेषां तामसीवृत्तिर्नश्यति । इह तमःशब्दे अर्थद्वैविध्यम् । सवितुः पक्षे तमसः अन्धकारार्थकत्वम् । राजपक्षे तु तामसी पापाचरणात्मिका हीनवृत्तिः। यतस्तवापि

सूर्यसदृशं तमोघ्नम् कर्म अतः तव च भानोश्च तुल्योद्योगलम् सिद्धम् ।

  तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये
   षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः ॥ १॥


 एकः ज्योतिषां नक्षत्राणामधिपतिः सूर्यः व्योममध्ये आकाशमध्ये क्षणं क्षणपर्यन्तं तिष्ठति विरमति । मध्याह्ने सूर्यः गगनमध्ये क्षणं विरमति । तुल्योद्योगयोरुभयोर्युवयोर्मध्ये एकः सविता तु विरमति । एवमेव समायाते तु व्योममध्ये भगवति अंशुमालिनि त्वमपि अह्नः दिवसस्य षष्ठे काले मध्याहे विश्रान्तिं राजकीयकार्याद् विरामं लभसे प्राप्नोपीत्यर्थः । यथा सवितुस्तव च तमःप्रतीकारे तुल्योद्योगत्वम् तथैव मध्याह्ने विरामेऽपि साम्यम् भवितुमर्हतीति सारः। मध्याह्नसमयः समायातः; इदानीं सभाविसर्जनं विधाय विश्रान्तिः कार्या देवेनेति वैतालिकः समयसूचनपूर्वकं प्रार्थयति । यतः षष्टे काले दिनस्य, राज्ञा विरतिः कार्येति नीतिविद्वद्वरैश्चाणक्यप्रभृतिभिः समुपदिष्टम् “षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः" इति । व्यवहारदर्शनान्तरं स्नानभोजनादि कर्तव्यम् । यथाह भगवान् याज्ञवल्क्यः- “व्यवहारांन्ततो दृष्ट्वा स्नात्वा भुञ्जीतकामतः"। दिनञ्च द्वादशभागेषु विभक्तः।

 गगनमण्डलमतिक्रामति भगवति गभस्तिमालिनि, पूर्वदिक्तः प्रस्थानानन्तरमुदीचीं दिशं यावत्प्राप्नोति भगवानादित्यस्तावदधिरोहत्येव, अर्थात् प्राचीतः उदीचीपर्यन्तं उन्नतिं गच्छति, ततः उदीच्याः प्रस्थानादूर्ध्वं प्रतीचीपर्यन्तमवतरति । उदयाचलात् उन्नमन् सूर्यः उदीचीदिशं अवाप्य स्वस्वस्तिकं (उन्नततमं देशं-- Altitude) अधिगच्छति, पश्चाच्चावतीर्णो भवति । उन्नतांशं दिनपतिः मध्याह्ने एव प्राप्नोति । तत्र च उन्नतांशाः दिगंशाश्च ईषन्कालपर्यन्तं द्वित्रिमुहूर्तं समाना एव भवन्ति, अतस्तावत्कालपर्यन्तं भगवान् विभावसुः स्तब्धगतिर्भवतीति खगोलनये निर्णीतम्-यदुक्तं सूर्यसिद्धान्ते-“अक्षक्रान्तिभुजज्याघातोऽक्षक्रान्तिकालकोज्यानां। घातेन संयुतः स्यादुन्नतभागज्यकेष्टनतकाले ॥ (२-१९)।" इति पद्येनोन्नतांशाः विरता भवन्तीति गम्यते, तत्रैव च स्वस्वस्तिकं प्राप्य "क्रान्तिज्याऽक्षोर्नत्योर्भुजाशिञ्जिन्योर्वर्धेन किल रहिता । अक्षांशोन्नतिकोट्योर्ज्याभ्यां भक्ता भवेद्दिगंशज्या ॥” इति वचनात् दिगंशा अपि तावन्त एव भवन्तीति प्रमाणीक्रियते । अतः सविता क्षणं मध्याह्ने विरमतीति सिद्धम् । सिद्धान्तशिरोमणावप्ययमेव नयः । तदेव स्फुटम् यथा विदूषकः-(कर्णं दवा) एसो उण पिअवअस्सो धम्मासणसमुत्थिदो इदो एव आअच्छदि । ता जाव पासपडिवत्ती होमि ।


 प्रातः भगवान् भानुः पूर्वतः (क)स्थानात् उदेति क्रमेणोन्नमति च यावत् (ख)स्थाने खस्वस्तिकं (Zenith) प्राप्नोति । (क)स्थाने सूर्यः आरोहणस्य शून्यांशे भवति, (ख)स्थाने च नवत्यंशेषु भवति, (ख)स्थानञ्चारोहणस्य परमावधिः, ततो दिगंशक्रमेणावतरति प्रतीचीं; (ग)स्थानमवाप्यास्तमेति यत्राशीत्यधिकशतांशे भवति । सिद्धान्ते पूर्वोक्तपद्याभ्यां गणितशास्त्रमर्यादया सिद्धं यत् यदा भास्करः नवत्यंशे गच्छति, तत्र किञ्चित्कालं उन्नतांशाः दिगंशाश्च समाना एव भवन्ति, अतः स्तब्धगतिः सूर्यस्तत्र विरमतीति भावः । अयमेवार्थः वैज्ञानिकमतेनापि चलद्रव्यतन्त्रानुसारं (Per Dynamic Laws) सुसङ्गत एव-यथा किमपि चलद्रव्यं चलनक्रमे शक्त्या दिशमेकां अवाप्य यदा प्रतीपं निवर्तते तदावश्यमेव तस्य गतिरोधो भवत्येव-यथा घटीयन्त्रेऽपि लोलकः (Pendulum) शक्तिमनुरुध्य एकतो गत्वा यदा प्रतिनिवृत्तो भवति, तदा तस्य गतिः क्षणं रुद्धा भवत्येव, यद्यपि क्रमस्तु असंलक्ष्य एव । अपि च यदा कन्दुकः आकाशे क्षिप्तः सन् यावद्वेगानुसारमारोहति, ततश्च भुव आकर्षणशक्त्या यदाधः पतति, तदा प्रतीपगतिप्रारम्भपूर्वं क्षणं गतिरोधो नूनं भवति । एवमेव आरोहतो भगवतो दिनकृतोऽधः पतनात् पूर्वं गतिरोधो भवतीति निःसन्दिग्धम् । तत्त्वमिदमष्टादशस्वपि ज्योतिःसिद्धान्तग्रन्थेषु त्रिप्रश्नाधिकारे राद्धान्तितं यत् चलतो वस्तुनो गमनागमनयोर्मध्ये गतिस्तम्भो भवति । पुराणेष्वपि स्मर्यते यत्---

 "प्रविश्य भानुः स्वां छायां शङ्कुवद्यत्र तिष्ठति । स कालः कुतुपो नाम मन्दीभूतस्य संज्ञया।" इति भविष्यत्पुराणे-(स्वछायाप्रवेशस्तु नवत्यंश एव।)--

 इत्यनेन निर्विवाद एवायं यत् भगवान् सहस्रदीधितिः मध्याह्ने विरमति; अतो राज्ञापि सवित्रा तुल्योद्योगित्वात् विरामो मध्याहे विधेयः इति उभयोरौपम्यभावः सुसाम्प्रत एवेति प्राचां मते । नव्यनये तु इदानीन्तनानां विचारवीथीं नेदं तत्त्वमवतरेत्, तैस्तु इदमेव मन्येत यदिदं केवलं दृशोर्भ्रमविलसितमेव (Optical Delusion); तद्यथा सन्ततगतेः सप्तसप्तेः गतिपरिवर्तनवेलायां चलन्नपि सूर्यः मन्दत्वात् स्थित इव भायात् । परमानुभविना च कविना यथा लोकैः प्रतीयेत, तदेवानुसृत्य तिष्ठतेः प्रयोगो विहितः इत्याधुनिकानां प्रायोऽभिप्रायो भवेत् । तेन चास्मिन् मते यथा मध्याह्ने मन्दत्वात् तिष्ठन्निति प्रतीयमानः सविता वस्तुतश्चलन् भवति, एवमेव सततं कार्यव्यापृतेन राज्ञा विरतिसमयेऽपि निजव्यापारं विदधता प्रजानां हिताय जरीजाग्रतैवानिशं भवितव्यमिति ध्वनिरत्र चमत्करोतीति दिक् ॥

 अनेन भगवतः सूर्येण सदृशत्वं राज्ञो व्यज्यते । श्लेषालङ्कारश्च । मन्दाक्रान्तावृत्तम् । लक्षणं तु-"मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति वृत्तरत्नाकरे ॥१॥

 विदूषकः-(कर्णं दवा-श्रुला) एषः प्रियवयस्यो राजा धर्मासनात् समुत्थितः इत एव आगच्छति, तद्यावत् अतः तस्य पार्श्वपरिवर्ती निकटवर्ती भवामि । [एष पुनः प्रियवयस्यः धर्मासनसमुत्थितः इत एव आगच्छति । तद्यावत् पार्श्वपरिवर्ती भवामि ।]

(इति निष्क्रान्तः।)

प्रवेशकः।

(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।)

 राजा-

  आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
  बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥ २॥


तस्य समीपे गच्छामीति भावः। पुनरित्यत्र अवधारणे निश्चये वा । यतः “स्युरेवं पुनर्वैवेत्सवधारणवाचकाः" इत्यमरः।

(इति विचार्य निष्क्रान्तो विदूषकः।)

प्रवेशक:-

 आविदूषकप्रवेशोऽयं सन्दर्भः प्रवेशकः इत्याख्यायते । द्वितीयाङ्के प्रवेशयतीति प्रवेशकः । पञ्चसु अर्थोपक्षेपकेषु अन्यतमोऽयम् । यदुक्तं दर्पणे "प्रवेशकोऽनुदात्तोक्त्या नीचपात्रैः प्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥" अस्य प्रवेशकस्य प्रथमाङ्केऽन्त्ये च प्रतिषेधः । यथा दशरूपकटीकाकृतः "नासूचितस्य पात्रस्य प्रवेशः क्वचिदिष्यते। प्रवेशं सूचयेत्तस्मात् अमुख्याङ्के प्रवेशकात् ।" इति ।

(ततः प्रवेशकानन्तरं उर्वशीविषयमुत्कण्ठितो राजा विदूषकश्च प्रविशति ।)

 राजा-आ दर्शनादिति-आदर्शनात् उर्वशीदर्शनसमयादारभ्य सा उर्वशीनामधेया विलक्षणरूपशालिनी सुरलोकसुन्दरी देवाङ्गना मे हृदयम् प्रविष्टा । प्रवेशस्यावकाशापेक्षित्वात् हृदयस्य च निरवकाशत्वात् कथं तत्र प्रवेशः इतीवोत्प्रेक्ष्यते-मकरकेतोः मीनध्वजस्य कामस्य अवन्ध्येन अवन्ध्यः सफलः पातः यस्य सः तादृशा अमोघेन बाणेन कृतमार्गमिव हृदयं सा विवेश । तस्या प्रवेशार्थं कामेन मम हृदि द्वारमिव कृतम् । तस्याः दर्शनेन कामोद्दीपनमभूत् । तेन च कामदेवेन स्वीयः शरः प्रक्षिप्तः । तेन हृदये बिलं कृतम् । तस्मात् सा प्रविष्टा इत्यर्थः। यस्मात्समयात् सा अप्सरा दृष्टिगोचराऽभूत् ततः प्रभृत्येव कामदेवेन तस्या एव प्रवेशार्थं कृतबिले मम हृदये सा गाढं प्रविष्टा; सर्वत्र सैव दृश्यते इति भावः।

 आदर्शनादित्यत्र-"आङ् मर्यादाभिविथ्योः" इति सूत्रेण अभिविध्यर्थे आङ्निर्देशः। मकरः केतौ यस्येति मकरकेतुर्मदनः। कृतमार्गं कृतः प्रवेशमार्गो यस्मिन् तदिति । अत्र बाणेन कृतमार्गं हृदयमिति सम्भावनात् उत्प्रेक्षालङ्कारः । अनेन राज्ञः अव्यवस्थितचित्तत्वं, तस्यां गाढं प्रेम च स्फुटीकृतम् । उर्वश्यालम्बनस्य राज्ञः स्मृत्यादिस्मरदशाः यथास्थानं विद्वद्भिरूह्याः । इत्यतः बिन्दुप्रयत्नयोः समवायात्मकः प्रतिमुखसन्धिः प्रारप्स्यते । अत्र प्रथमाङ्कोपदर्शितस्य नायकनायिकासमागमजन्यानुरागरूपवीजस्य चेटीविदूषकद्वारा ज्ञेयत्वात् तस्य च चेटीत  विदूषकः-सपीडा क्खु जादा तत्तभोदी कासिराअदुहिदा। [सपीडा खलु जाता तत्रभवती काशीराजदुहिता ।]

 राजा-(निरीक्ष्य ) रक्ष्यते भवता रहस्यनिक्षेपः ?

 विदूषकः-(आत्मगतम्) वञ्चिदोम्हि दासीए णिउणिआए, अण्णधा कधं एव्वं पुच्छदि वअस्सो। [ वञ्चितोऽस्मि दास्या निपुणिकया, अन्यथा कथमेवं पृच्छति वयस्यः।]

 राजा-किं भवांस्तूष्णीमास्ते ।

 विदूषकः-भो! एव्वं मए जीहा संजन्तिदा जेण भवदो विणत्थि पडिवअणम् । [भोः ! एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनम् ।]


देव्या स्वल्पमुन्नीयमानत्वादुद्भेदात्मकं प्रतिमुखम् । तल्लक्षणं वक्ष्यते । अत्र बिन्दुः- यल्लक्षणं यथाह मुनिः “प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिबन्धस्य स बिन्दुरिति संज्ञितः।" इति ॥ अप्रतिरूपरूपायाः उर्वश्याः कान्तिं वीक्ष्य विद्धचेतसो राज्ञः फलप्राप्तिं अपश्यतः तल्लाभाय प्रयत्नप्रक्रमो भावी । इयञ्चार्या जातिः॥२॥

 विदूषकः-तत्रभवती काशीराजदुहिता तव महिषी सपीडा खलु जाता सचिन्ता जाता।

 राजा-(निरीक्ष्य-विदूषकं प्रति सविस्मयं विलोक्य) भवता रहस्यमेव निक्षेपः रहस्यरूपन्यासस्तु रक्ष्यते । अपि नाम त्वया मया त्वयि न्यासीकृतं मम रहस्यं रक्ष्यते ? रहस्यं तु भवता गोप्यते इति विश्वसिमि-इति भावः ।

 विदूषकः-(आत्मगतम् मनसि ) दास्या निपुणिकया वञ्चितोऽस्मि यतः तया मत्तः रहस्यम् ज्ञातम् । राज्ञा महिषी उर्वशीनाम्ना संबुद्धा इति मिथ्यैव उक्त्वा विश्वासमुत्पाद्य रहस्यगोपने तयाहं वञ्चितः। अन्यथा यदि एवं न स्यात्तदा कथं वयस्यः एवं 'रक्ष्यते रहस्यनिक्षेपः' इति प्रष्टुमर्हति । यदि तेनैव समुद्घाटितञ्चेद्रहस्यं न पृष्टं भवेदीदृशम् । उत्तरवाक्यम् 'वञ्चितोऽस्मी'त्यनुमितौ हेतुः।

 राजा-किं भवान् तूष्णीं आस्ते । त्वं तु निर्वचनोऽसि न वदसीति भावः । मौनं धृतवानसि । “मौने तु तूष्णीं तूष्णीकाम्" इत्यमरः ।

 विदूषकः-भोः इति राज्ञः सम्बोधनम् । मया एवं जिह्वा संयन्त्रिता नियमिता येन भवतोऽपि प्रतिवचनमुत्तरं नास्ति न दीयते । अत्यन्तमेव रहस्योद्घाटने जिह्वा निरुद्धा इति सारः। उपहासोऽयम् निजापराधगोपनात्मकः ।  राजा-युक्तम् । अथ केनेदानीं आत्मानं विनोदयामि ?

 विदूषकः-भो! महाणसं गच्छम्ह । [भो ! महानसं गच्छावः।]

 राजा-किं तत्र ?

 विदूषकः-तहिं पंचविहस्स अब्भवहारस्स उवणदसंभारस्स जोअणां पेक्खमाणेहिं सक्कं उक्कंठां विणोदेदुम् । [तत्र पञ्चविधस्याभ्यवहारस्य उपनतसम्भारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठां विनोदयितुम् ।]

 राजा-तत्रेप्सितसन्निधानाद्भवान् रंस्यते । मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः ? |

 विदूषकः—णं भवं वि तत्तभोदीए उव्वसीए दंसणपहं गदो । [ननु भवानपि तत्रभवत्या उर्वश्याः दर्शनपथं गतः।]

 राजा -ततः किम् ।


 राजा-युक्तम् । साधु वदसि, यतः सन्तुष्टो राजा यदनेन सम्यक् रहस्यरक्षा विहितेति । अथेदानीं केन उपायेन कथं वा आत्मानं विनोदयामि । किमपि अनुकूलं न लगति तेन कथं मनोरञ्जनं कर्तव्यम् इति पृच्छति विदूषकम् निजं नर्मसचिवं राजा।

 विदूषकः-भोः! महानसं पाकशालां भोजनशालां रसवतीं वा प्रति गच्छावः क्षुधाशमनाय । अनेन विदूषकस्य भोजनमात्रे एव मनोविनोदः भवतीति सूचितम् ।

 राजा-पृच्छति नायकः तावत् तत्र महानसे किं मनोविनोदाय प्राप्स्यावः इति ।

 विदूषकः -तत्र पञ्चविधस्य लेह्यचोप्यपेयभक्ष्यभोज्यात्मकस्य नानारसमयस्य उपनतसंभारस्य पच्यमानस्य अभ्यवहारस्य अशनीयस्य योजनां विधिं प्रेक्षमाणाभ्याम् उत्कण्ठा विनोदयितुं शक्या । तत्र भोजनपाकस्य विधिं दृष्ट्वा मनोविनोदः स्यादिति संभवः ।

 राजा-भवान् तावत् भवतः ईप्सितस्याभिलषितस्य वस्तुनः तत्र सन्धानात् योगात् लाभाद्वा रंस्यते विनोदितो भविष्यति । किन्तु मम पुनः कथं मनोविनोदो भविष्यति यतः दुर्लभप्रार्थनः दुर्लभेष्टः अहमस्मि, यन्मया इष्यते तत्तु दुर्लभम् तेन कथं वा सम्भवो मदीयमनोरञ्जनस्य इति भावः ।

 विदूषकः :-ननु इति प्रश्ने । भवान् अपि तत्रभवत्याः उर्वश्या दर्शनपथं गतः । किं भवान् तया दृष्टो न वा ? विदूषकोऽयमिह तस्य दुर्लभप्रार्थनत्वं पराकर्तुमिदं पृच्छति ।

 राजा-ततः किम्-दृष्टोऽस्मि तया -किन्तु तेन किमभूत् ?

 ५ विक्र०  विदूषक: -ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि।

 राजा-पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।

 विदूषकः-एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अद्दुदीआ रूएण; अहं विअ विरुवदाए ? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया ?]

 राजा-माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि तेन हि समासतः श्रूयताम् ।

 विदूषकः-भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]

 राजा-

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।


 विदूषकः-तेन सा खलु दुर्लभा इति नाहं तर्कयामि । तव एतादृशस्य निर्जितमारस्य सुकुमारस्य रूपमवेक्ष्य सापि मुग्धा भविष्यति च त्वां विना उत्कण्ठिता सती त्वां कामयिष्यतीत्यनेन न सा तव दुर्लभा ।

 राजा-सद्रूपस्य सतः सुन्दरस्य समीचीनस्य वा रूपस्य तस्यामुर्वश्यां पक्षपातः अत्यन्ताग्रहपूर्वकं संस्थितिः अलौकिक एव विलक्षणः एव । रूपेण तस्याः पक्षः गृहीतः । सा तु मत्तः सौन्दर्ये परतरा इति भावः ।

 विदूषकः-एवं पूर्वोक्तप्रकारेण उर्वशीविषयं मन्त्रयता कथयता त्वया मम कौतूहलम् उत्साहो वर्धितः । किं तत्रभवती उर्वशी रूपेण अद्वितीया अनुपमा अस्ति यथाऽहं विरूपतायामद्वितीयोऽस्मि । यादृशोऽहं कुरूपतायामनुपमोऽस्मि तादृशी एव सा किं सौन्दर्येणाद्वितीयास्ति ? अनया भङ्ग्या नायकमुखेन वर्णयितुमिच्छति कवीन्दुः कालिदासः । अत्र एकत्र सुरूपतायामद्वितीयत्वेन परत्र विरूपतायामद्वितीयत्वेन अद्वितीयत्वसाधर्म्यप्रदानेनोपमालङ्कृतिः । इयं विरुद्धधर्मावच्छिन्नसाम्योपमा ।

 राजा-माणवक! अवयवे अवयवे इति प्रत्यवयवम् । प्रत्यवयवं अशक्यं वर्णनं यस्याः सा इति तादृशीं तां अवेहि जानीहि । तस्याः प्रत्येकस्यावयवस्य वर्णनं न शक्यमस्तीति जानीहि । तेन हि अस्मात् कारणात् समासतः संक्षेपेण श्रूयताम् ।

 विदूषकः-श्रोतुं अवहितोऽस्मि, सावधानोऽस्मि, स्थिरचित्तोऽस्मीत्यर्थः ।

 राजा-हे सखे माणवक ! तस्या उर्वश्याः वपुः शरीरम् आभरणस्य

कटककुण्डलादीनामलङ्काराणामपि आभरणम् भूषणमस्ति । अलङ्कारैः ईदृशमलकार्यं प्राप्तमिति तेषामेव शोभा, तस्या विलक्षणरूपशालित्वात् । तथा च प्रसाधन विधेः

उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥

 विदषकः-अदो दाव तुए दिव्वरसाहिलासिणा जादअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो ? । [ अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः ?]


 राजा-विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।


 विदूषकः-(आत्मगतम्) का गई ! [का गतिः !] (प्रकाशम् )


चन्दनलेपाञ्जनाभ्यङ्गनेपथ्यप्रभृतेः प्रतिकर्मणः प्रसाधनविशेषः शोभाप्रदः । तस्या वपुः प्रसाधनस्याप्यनुपमशोभाजनकमित्यर्थः । उपमानस्य उपमानकोटिस्थितानां चन्द्रादीनामपि तस्याः शरीरं प्रत्युपमानम् । प्रायशः उपमानं हि समधिकगुणं भवतीति कविभिराहतम् । तस्याः शरीरं च उपमानस्याप्युपमानमासीदनेन चन्द्रादीनां उपमानानामपि उपमेयत्वम् । चन्द्रादीनि उपमेयानि उपमानं चास्याः वपुरिति तदीयाङ्गस्यालौकिककमनीयताऽस्तीति व्यक्तम् । अपूर्वसौन्दर्येयमिति भावः । अत्रानौपम्यख्यापनात् नायिकायाः दीप्तिर्नामायत्नजो भावः - यदुक्तं दशरूपके- "दीप्तिः कान्तेस्तु विस्तरः।"

 प्रसाध्यते अगमनेनेति प्रसाधनम् , “प्रतिकर्म प्रसाधनम्" इत्यमरः । उपमीयतेऽनेनेति उपमानम् ।

 साधारणतयोपमानकोटिस्थितानामाभरणचन्द्रादीनामपि उपमेयत्वोपादानेन तद्वपुषः आधिक्यवर्णनाद् व्यतिरेकालङ्कारः । “उपमानाद्यदन्यस्य व्यतिरेकः स एव सः" इति । आर्याजातिः ॥३॥


 विदूषकः-अतः तदीयाङ्गापूर्वसौष्ठवरूपहेतोः दिव्यरसाभिलाषिणा अपूर्वरसास्वादनं कामयता त्वया चातकव्रतं गृहीतम्-चातकस्य व्रतमिव व्रतं प्रतिज्ञा गृहीतम् । चातकस्तु स्वातिनक्षत्रे एव मेधैः वर्षितं प्रथमजलं पिबति; अन्यथा तृषार्त एवात्मानं धारयति । तथैव चातकसदृशस्त्वमपि तामेव लिप्सुः किमपि नान्यन्मार्गयन्नुत्सुक एवात्मानं धारयति । तदिदानीं त्वं कुत्र प्रस्थितोऽसि, क्व गच्छसीति भावः।


 राजा-विविक्तादृते निर्जनस्थानं विहाय उत्सुकस्य स्वाभिलषितं प्रति उत्कण्ठितस्य जनस्य कृते नान्यत् शरणं भवति । विरहितानां कृते निर्जनसेवनमेव वरं शान्तिप्रदं च भवतीति भावः । तत् अस्माद्धेतोः भवान् प्रमदवनमार्गमादेशयतु दर्शयतु ।

 विविक्तादित्यत्र “अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" इति सूत्रेण ऋतेपदप्रयोगे पञ्चमी । अत्र नायिकया समागमस्याशया प्रमदवनगमनस्य निश्चयाद्युक्तिर्नाम मुखसन्ध्यङ्गम् । यदुक्तं-“सम्प्रधारणमर्थानां युक्तिः।"


 विदूषकः-(आत्मगतम् ) का गतिः-अद्य तावत् जठरानलेन सन्त्रास्यमानस्य मे विपणिकन्दुरिव दन्दह्यते हृदयम् । किन्तु अहं किं कर्तुं शक्नोमि, भवतु इदो इदो भवम् । [इत इतो भवान् ।]

(इति परिक्रामतः।)

 विदूषकः-एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्षिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]

 राजा-(विलोक्य ) उपपन्नं विशेषणमस्य वायोः । अयं हि-----

  निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् ।
  स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥


राज्ञा सह क्षुधापीडितोऽपि गच्छामि । (प्रकाशम् ) इतः इतः भवान् अनेन पथा आगच्छतु इति प्रमदवनमार्गं प्रदर्शयति ।

 इति उक्त्वा विदूषकराजानौ प्रमदवनं जिगमिषन्तौ रङ्गभूम्यां इतस्ततः परिक्रामतः।

 विदूषकः-एषः प्रमदवनपरिसरः प्रमदवनसमीपस्था भूमिः । “पर्यन्तभूः परिसरः” इत्यमरः । आगन्तुकः अतिथिर्भवान् दक्षिणमारुतेन दक्षिणदिक्तः वहता वायुना आनम्य प्रणम्य प्रत्युपगतः स्वागतीकृतः । दक्षिणवायुरतिथिं त्वां स्वागतं करोतीति भावः । 'आगन्तुरतिथिर्ना गृहागत' इत्यमरः ।

 राजा-(विलोक्य-वायुगतिं निरूप्येति भावः) अस्य दक्षिणदिशा आगतस्य वायोः दक्षिणेतिविशेषणमुपपन्नं युक्तम् । अत्र विदूषकप्रयुक्तस्य दिग्वाचकस्य दक्षिणपदस्य राज्ञा श्लेषमर्यादया अनुकूलरूपार्थे पर्यवसानम् । अयं हि-कीदृशोऽयं वायुरिति निरूपयति----

 निषिञ्चन्निति-मधोः वसन्तस्य इयं माधवी तां वसन्तसम्बन्धिनीं लक्ष्मीं शोभां निषिञ्चन् नितरां सिञ्चन् पुष्णन् अतिशयां कुर्वन् तथा च कौन्दीं लतां लासयन् नर्तयन् अयं वायुः स्नेहदाक्षिण्ययोः प्रेमानुकूलत्वयोर्योगात् सद्भावात् कामीव प्रतिभाति दृश्यते।

 यदा वायुर्वहति तदा लता तु कम्पते तत्रोत्प्रेक्षते कविर्यत् लतां नर्तयति वायुः किलेति । स्वभावोऽयं कामुकस्य यत् या नायिका नववयोविशेषशालिनी भवति तस्यां नितरां प्रीतिं निषिञ्चति तथा च प्रगल्भां तावत् पुनः केवलं नर्तयन्नेव तस्यां प्रीतिं प्रकाशते । तथैव वायुः नववयस्कां वासन्तीं लतां स्नेहेन निषिञ्चति, प्रगल्भां तां भ्रमरादिभिर्भुक्तशेषां कौन्दीं केवलं नर्तयति, तेन तस्य कामुकत्वं स्पष्टमेव ।

 सरलार्थस्तु-वासन्तीं शोभां स्नेहेन विवर्धयन् नर्तयंश्च कौन्दीं लतां दाक्षिण्येनायं वायुः कामीव सम्यग् लक्ष्यते ।

 “वासन्ती माधवी लता" इत्यमरः । दाक्षिण्यं हि परच्छन्दानुवर्तित्वं आनुकूल्यं वा।  विदूषकः-सरिसो एव्व से अहिणिवेसो [ सदृश एवास्याभिनिवेशः] (इति परिक्रामन् ) एदं पमवणम् [इदं प्रमदवनम् ] पविसदु भवम् । [प्रविशतु भवान् । ]

 राजा -वयस्य ! प्रविशाग्रतः।

(उभौ प्रवेशं नाटयतः।)

 राजा-(त्रासं रूपयित्वा) वयस्य ! साधु मनसा समर्थितः आपत्प्रतीकारः किल ममोद्यानप्रवेशः । तच्चान्यथैवोपपन्नम् ।

  विविक्षोर्यदिदं नूनमुद्यानं नाघशान्तये ।
  स्रोतसेवोह्यमानस्य प्रतापतरणं महत् ॥ ५ ॥


 “कामीवे"त्यत्र उपमालङ्कृतिः । अनेन च माधवीकौन्दीलतयोर्ज्येष्ठाकनिष्टानायिकाविशेषत्वप्रकाशनेन उर्वशीकाशीराजदुहित्रोर्ज्येष्ठाकनिष्ठिकाभावं गमयन् समासोक्त्यलङ्कारभङ्ग्या राज्ञः उर्वश्यां स्नेहनिषेकश्च काशिराजदुहितरि केवलं दाक्षिण्यमेवेति प्रदर्शयन् नायकमुखेन नायिकाविषयकं बहुमानं सूचयति तत्रभवान् महाकविः कालिदासः । तेन च नायकस्य शठत्वं ध्वन्यते । यदुक्तं-"गूढविप्रियकृच्छठः ।" समासोक्तिलक्षणं तु यथा दर्पणे, "समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः।"

अनुष्टुब् वृत्तम् ॥ ४॥

 विदूषकः -सदृशः उचित एवान्यानिनिवेशः । अस्य वायोः योग्या एव प्रीतिः । अभिनिवेशः प्रीतिराग्रहे वा । (इति परिक्रामन् विचरन् ) इदं प्रमदवनम् , भवान् प्रविशतु । 'ईदृश' इति पाठान्तरे सत्यमेतादृश एवेत्यर्थः ।

 राजा-वयस्य माणवक ! प्रविशाग्रतः। प्रथमं त्वमेव प्रविश ।

(उभौ राजविदूषको प्रवेशं नाटयतः दर्शयतः।)

 राजा-(त्रासं खेदं रूपयित्वा प्रकटयन् ) वयस्य ! मम मनसा उद्यानप्रवेशः आपदः खेदस्य प्रतीकारः निराकरणहेतुः भविष्यतीति पूर्वं साधु सम्यक् विचारितमासीत् । किन्तु तच्च अन्यथैव उपपन्नम्-विपरीतं जातम् । विविक्तसेवनं मम खेदनिराकरणं भविष्यतीति मया प्रागुचितमेव विचारितम् अभवत् किन्त्वधुना इह मलयानिलादीनां भावेन तत्तु अधिकं खेदकारणं जातमिति भावः। अत्रोपवनगमनस्य सम्भावितशान्तिहेतुत्वे सत्यपि तत्रापत्प्रतीकाराभावः प्रत्युत समधिकतापोद्भवरूपानर्थापातः, तेन चात्र विषमाख्योऽलङ्कारः; यदुक्तं साहित्यदर्पणे-“यद्वारब्धस्य वैकल्यमनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम्"।

 विविक्षोरिति यद् यस्मात् कारणादिति चूर्णकस्थवाक्येनान्वयः । उद्यानं प्रमदवनाख्यं विविक्षोः प्रवेष्टुमिच्छोर्मम इदमुपवनं अघशान्तये खेदनिवारणाय न ।  विदूषकः-कहं विअ ? [कथमिव ?]

 राजा---

  इदमसुलभवस्तुप्रार्थनादुर्निवारं
   प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
  किमुत मलयवातोन्मूलितापाण्डुपत्रै-
   रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ६ ॥


नेदम् मां सान्त्वयितुं पारयति । स्रोतसा जलप्रवाहेणोह्यमानस्य प्रापितस्य नीयमानस्य वा जनस्य यथा प्रतीपतरणं प्रवाहवेगस्य प्रतिकूलतरणं दुःखाकरं भवति एवमेव ममात्रागमनम् । यथा जलगतेः विरोधिप्लवनं केवलं दुःखायैव सम्पद्यते तथैवोद्यानप्रवेशः मां पीडयत्येवेति सारः । अघपदस्य दुःखार्थवाचकत्वमपि "अघं दुःखे व्यसनैनसो"रिति हैमवचनप्रामाण्यात् । विविक्षुरिति वेष्टुमिच्छुरिति सन्नन्तादुः । उपमालङ्कारश्च । अनुष्टुब् वृत्तम् ॥ ५ ॥

 विदूषकः-कथमिव-कथं नेदमुद्यानं दुःखनाशकमिति पृच्छति ।

 राजा-इदमिति -पञ्च बाणाः यस्य सः कामः इदं मदीयं असुलभं सौकर्येणालभ्यं यद्वस्तु तद्विषयिणी या प्रार्थना अभिलाषस्तस्मिन् दुःखेन निवारयितुं निरोद्धुं शक्यं मनः प्रथममपि आदौ एव क्षिणोति कृशयति । असुलभं यदुर्वशीरूपं वस्तु तस्मिन् साभिलाषं मदीयं मनः आदावेव मदनः कृशीकरोति । प्रथममेवाहं सन्तप्तोऽस्मीति भावः । पुनश्च मलयवातोन्मूलितापाण्डुपत्रैः मलयाचलतः वहता वातेन उन्मूलितानि पातितानि आपाण्डूनि ईषत्पीतान्यत एव पक्वानि पत्राणि येषां तैः उपवनसहकारैः उद्यानस्थाम्रवृक्षरङ्कुरेषु दर्शितेषु सत्सु किमुत का वा मे मनसः कथा । प्रथमं सहकारदर्शनमेवोद्दीपनम् । पुनश्च तेषु अङ्कुरोद्गमः समुद्दीपनम् , तथा च आपाण्डुपत्राणामभावेन नितान्तसौन्दर्यशालित्वेन सहकारस्य विशेषोद्दीपकत्वं तथा च मलयवातोन्मूलितत्वात्तस्य मलयाचलतो वहत अत एव सुगन्धिनः वायोस्तत्र सद्भावात् अत्यन्तमेवोद्दीपकत्वमिति गम्यते । तेन च भावस्तावदित्थमस्ति यत् प्रथममेव मे दुर्लभवस्तुकांक्षि मनः अनङ्गेन सन्तप्तं एवास्ति तत्रापि च पुनः मलयवातेन पातितानि शुष्कपत्राणि येषां तेषु सहकारेषु अङ्कुरदर्शनेन कीदृशी विरहव्यथा मे मनसि सञ्जायेतेति न ज्ञायते इति सारः। अत्र उत इति वितर्के ।

 अत्र नायिकागतरतेरुपकारकः उद्दीपनाख्यो विभावो वर्णितः। अपि चात्र विधानाख्यं मुखसन्ध्यङ्गम् । यदाह धनञ्जयः-"विधानं सुखदुःखकृत् ।" अत्र विप्रलम्भशृङ्गारपरिपोषिणां वितर्कौत्सुक्यचिन्तानां भावानां व्यज्यमानत्वाद्भावशबलता।

 अत्र च मालिनीवृत्तम् । तल्लक्षणं तु “ननमयययुतेयं मालिनी भोगिलोकैः । यस्मिन्न् वृत्ते नगणद्वयं मगणं यगणयुग्मं च भवति तद्वृत्तं मालिनी नाम । तत्र च अष्टाभिः सप्तभिश्च यतिरस्ति ॥ ६॥  विदूषकः-अलं भवदो परिदेविदेण । अइरेण इट्ठसंपादइत्तओ अणंगो एव्व दे सहाओ भविस्सदि । [अलं भवतः परिदेवितेन । अचिरेणेष्ठसम्पादयितानङ्ग एव ते सहायो भविष्यति ।]

 राजा-प्रतिगृहीतं ब्राह्मणवचनम् ।

(इति परिक्रामतः।)

 विदूषक:-पेक्खदु भवं वसन्तावदारसूइदं से अहिरामत्तणं पमदवणस्स । [प्रेक्षतां भवान् वसन्तावतारसूचितमस्याभिरामत्वं प्रमदवनस्य ।]

 राजा-नूनं प्रतिपदमेव तावदवलोकयामि ; अत्र हि----

  अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयो-
   र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।


 विदूषकः-भवतः परिदेवितेन विलापेनालम् । नास्ति काचनापेक्षा विलापस्येति । अलमिति पर्याप्तम् । मा कुरु विलापमिति भावः। अचिरेण शीघ्रमेव इष्टस्य अभीप्सितस्य वस्तुनः सम्पादयिता प्रापकः अनङ्गः कामदेवः एव ते अस्मिन् कार्ये सहायः सहकारी भविष्यति । काम एव सत्वरं स्वयं सर्वं सङ्गमधिष्यते अतो भवता तदर्थं न विलपितव्यमिति भावः ।

 राजा-ब्राह्मणस्य तव वचनं इष्टसम्पादकं वचः प्रतिगृहीतम् स्वीकृतम् । अनुगृहीतोऽस्मि ब्राह्मणवचसा ।

 [इति परस्परालापं कुर्वन्तौ विक्रमविदूषकौ प्रमदवने इतस्ततः तदीयशोभां निरूपयन्तौ मनोविनोदकारणं मार्गयन्तौ परिक्रामतः।]

 विदूषकः-प्रेक्षतामिति । भवान् अस्य प्रमदवनस्य वसन्तस्य ऋतुराजस्यावतारः प्रादुर्भावस्तेन सूचितं प्रकटीकृतमभिरामत्वं सौन्दर्यं प्रेक्षतां पश्यतामिति ।

 राजा-नन्विति । नन्ववधारणे । प्रमदवनस्य कमनीयतां प्रतिपदं स्थाने स्थाने अवलोकयामि । सर्वत्रैव रामणीयकरञ्जितमिदं प्रमदवनमाभातीति भावः । पदे पदे इति प्रतिपदम् इति वीप्सायां प्रतिपदप्रयोगः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः” इत्यमरः । “अत्र हि" इति चूर्णकस्थं पदद्वन्द्वं प्रमदवनमेव बोधयति ।

 अग्र इति-सखे माणवक ! अत्र हि अस्मिन् प्रमदवने अग्रे पुरत एव स्त्रीणां नखानि तद्वत्पाटलं श्वेतारुणं कुरबकं तदाख्यं कुसुमं तिष्ठति वर्तते । परत्र च द्वयोर्भागयोः पार्श्वभागयोः श्यामं, उपोढः सविशेषो रागः यस्य तेन च सुभगं बालाशोकं तत्कुसुमं च भेदोन्मुखं विकसनोत्सुकम् तिष्ठति । एकतः कुरबकः परतश्च

बालाशोकः स्तः । तयोर्मध्ये चूते सहकारतरौ लग्ना ईषत् स्वल्पं बद्धं विद्यमानं

  ईषद्वद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी
   मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥७॥

 विदूषकः-एसो कसणमणिसिलावट्टसणाहो अदिमुत्तलदाम-


यद्रजः केसरपांसुः तस्य कणेरग्रे अग्रभागे कपिशा श्यामरक्ता नवा नूतना मञ्जरी तादृशी शोभायमाना लक्ष्यते यथा मुग्धत्वस्य अप्रौढतायाश्च यौवनस्य च मध्ये स्थिता मधुश्रीर्वासन्ती शोभा एव भवेत् ।

 तात्पर्यं तु-कुरबकबालाशोकयोर्मध्ये विराजमाना सहकारमञ्जरी मुग्धत्वयौवनयोर्मध्ये शोभमाना मधुश्रीरिव राजते ।

 पाटलमिति श्वेतरक्तयोर्मिश्रणेन जायमानो रङ्गः । यतः "श्वतरक्तस्तु पाटलः" "तत्र शोणे कुरबकः" इति वचनात् शोणपुष्पं किञ्चन कुरबकाख्यम् । कपिशस्तु श्यामरक्तयोः सम्भेदेन रङ्गविशेषो जायते । यथा “श्यावस्तु कपिशः" इति । अत्र कुरबके मुग्धत्वमारोपितम् पाटलत्वात् । शासति तु तस्मिन् यौवने पूर्णरक्तत्वस्यावश्यम्भावात् । तदसति तु युक्तमेव श्वेतरक्तत्वम् । तथा च बालाशोके यौवनं संस्थापितम् तस्योपोढरागत्वात् विकासोन्मुखत्वाच्च । मुग्धत्वयुक्तस्य कुरबकस्य यौवनसनाथस्य च बालाशोकस्य मध्ये नवा रसालमञ्जरी मधुश्रीरिव विराजते इति भावः । कामिनीनां नखेषु सविशेषसौन्दर्यास्तित्वात् कुरबकाणां च नखसदृशतिर्यग्रूपत्वात् तयोर्विषयविषयीभावः । अशोकस्य बालत्वविशेषणं उपोढरागसन्निधानाय दत्तम् । भेदोन्मुखत्वेन मुग्धत्वदौर्बल्यसहकृतस्य यौवनस्य प्रादुर्भावः सूच्यते । ईषद्वद्धत्वेन मुग्धत्वस्येषत्संभवः । रजःकणैश्च यौवनमपि मञ्जर्यां समासादितम् । नवत्वेन कपिशत्वं युक्तमेव । अत्र च "स्त्रीनखपाटलमित्यत्रोपमालङ्कृतिः" । अपि च तिष्ठतेः कुरबकस्य बालाशोकस्य च प्रकृतयोः कारकत्वेन "तुल्ययोगितालङ्कारः" । यदाह-"वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता" । मञ्जरीयं च मधुश्रीरेव स्थिता इति तस्यां मञ्जर्यां मधुश्रियः संभावनयोत्प्रेक्षालङ्कारः । अत्र च स्वाभाविकस्योद्यानस्य वर्णनात् स्वभावोक्तिरलङ्कारः । “यदुक्तं स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम्" । एतेषां च परस्परं स्वाधीनतया चमत्काराधायकत्वेन संसृष्टिरलङ्कारः । यदुक्कं दर्पणे- “मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते" । कुरबकपदम् अशोकपदश्च पुष्पविशेषवाचकं प्रायेण पुंस्येव प्रयोज्यते । नपुंसकमशोकपदं पारदवाचि, यदुक्तं "अशोकस्त्रिषु निःशोके, पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्" इति मेदिन्याम् । अत्र च नपुंसकप्रयोगादप्रयुक्तत्वं दोषः, स च पूर्वार्धे लिङ्गव्यत्यासेन समाधेयः॥

 अनेन, च नायिकायां अपि मुग्धत्वयौवनमध्यस्था स्थितिः मधुश्रीत्वं च समारोपितम् । इह च माधुर्याख्यो गुणः । यदुक्तम् “चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते" । वृत्तं च शार्दूलविक्रीडितम् । लक्षणं तु प्रागुक्तमेव ॥ ७ ॥

 विदूषकः :-एष इति । एष प्रमदवनस्थः कृष्णः कृष्णवर्णो यो मणिशिलाण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो। [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।

 राजा-यदभिरोचते भवते । (इत्युपविशतः।)

 विदूषकः-दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उत्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान् !]

राजा-(निःश्वस्य)

   बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु ।
   चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥


पट्टः प्रस्तरः तेन सनाथः सुशोभितः अतिमुक्तलतायाः माधवीलतायाः मण्डपः वितानम् भ्रमराणां सङ्घः समूहैः विघटितानि विकसितानि कुसुमानि तैः कृतः उपचारः सत्कारः येन सः एतादृश एव वर्तते ।

 तत्र प्रमदवने माधवीलतामण्डपे एकः सुन्दरः उपवेशार्हः प्रस्तर आसीत्तदुपरि च वायुवेगेन कानिचित्कुसुमान्यपि अधःपातितानि आसन् । तेनोत्प्रेक्ष्यते यदिदं वासन्तीलतावितानम् विकसितैः कुमुमैः पूजार्हस्य भवतः स्वागतं करोति ।

 अत्र सप्रस्तरस्य लतामण्डपस्य वर्णनेन 'अत्र भवान् किञ्चिद्विश्रान्तुमर्हतीति' गम्यत तथा सुन्दरं सुवासितमिदं स्थलमिति च सूच्यते । तदेषः लतामण्डपः किञ्चिद्विश्रम्य अनुगृहणीयः भवता इति भावः ।

 अत्र चोत्प्रेक्षालङ्कारः । अतिमुक्तलता तु माधवीलता “अतिमुक्तः पुण्ड्रको वासन्ती माधवी लता" इत्यमरवचनात् ।

 राजा-यदिति--यथा त्वमिच्छसि तथैवावाम् कुर्व इति-आगच्छ । उपविशावोऽत्र किञ्चित्कालमिति ।

(इत्युपविशतः)

 विदूषकः-इदानीमिति-इदानीमधुना इह वासन्तीलतामण्डपे आसीनः विश्रान्तः, ललिताः रुचिरा या लतास्ताभिः लोभ्यमाने हार्यमाणे लोचने नयने यस्य सः एतादृशो भवान् उर्वशीगतां तद्विषयिणीमुत्कण्ठां लालसां विनोदयतु । इह सुन्दरं दृश्यं पश्यन् भवान् आत्मविनोदं कर्तुमर्हतीति भावः ।

 राजा -बहुकुसुमितास्विति-हे सखे मित्र ! बहूनि कुसुमानि यासु ताः बहुकुसुमिताः तासु प्रसूनभरसमेतासु अपि नम्रविटपासु कोमलशाखासु उप तदुपायश्चिन्त्यतां यथा सफलप्रार्थनोऽहं भवेयम् ।

 विदूषकः-(विहस्य ) भो! अहल्लाकामुअस्स इन्दस्स वज्जं सचिवो; उव्वसीपज्जुस्सुअस्स भवदो वि अहम् । दुवे वि एत्थ उम्मत्तआ । [भो! अहल्याकामुकस्येन्द्रस्य वज्रम् सचिवः, उर्वशीपर्युत्सुकस्य भवतोऽप्यहम् । द्वावप्यत्रोन्मत्तौ ।]

 राजा-न खलु चिन्तयति भवान् ।

 विदूषकः-(चिन्तयति ।) एसो चिन्तेमि । मा उण परिदेविदेहिं समाधि भंज्जस्ससि । (निमित्तं सूचयित्वा । आत्मगतम्) अहो!


वनलतासु तदङ्गनालोकदुलर्लितम् तादृशालौकिकरूपसमलङ्कृतायाः अङ्गनायाः लोकः दर्शनं तेन दुर्ललितं दूषितं मन्थरं स्तब्धं वा मम चक्षुः धृतिं न बध्नाति स्थिरतया स्थातुं न पारयति । तासु मम चक्षुर्न सञ्जति इति भावः । अनेन च नायिकायाः अलौकिकरूपशालित्वं व्यज्यते । विविधोपवनलतासु मे चक्षुर्न बध्नातीति वचसा नैककमनीयकामिनीकान्तेऽप्यन्तःपुरे मेऽन्तःकरणं न सञ्जतीति भावप्रदर्शनात् उपवनलतारूपोपमानपदेनोपमेयभूतानां नानारमणीनां निगरणं व्यज्यते । तस्माच्चात्र अतिशयोक्त्यलङ्कारध्वनिः । आर्या जातिः॥८॥

 तत्तस्मात् हेतोः उपायः चिन्त्यतां येन सफला प्रार्थना यस्य सः सफलप्रार्थनः सकामो भवेयम् । येनाहं तां प्रियां लभेय तदुपायोऽन्वेषितव्यः । सफलप्रार्थनाहेतूनामुपायानां चिन्तनस्य प्रतिपाद्यत्वात् "प्रयत्नो नाम कार्यस्य द्वितीयावस्था" इतः प्रक्रमते । यल्लक्षणं दशरूपके-"प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः" । अत एवात्र विक्रमोर्वशीसमागमहेतोरनुरागबीजस्य प्रथमाङ्कोपक्षिप्तस्य चेटीविदूषकाभ्यां ज्ञायमानतया किञ्चिल्लक्ष्यस्य, काशीराजदुहित्रा च भूर्जपत्रवृत्तान्तेनोन्नीयमानस्य दृश्यादृश्यरूपतयोद्भेदात् इतः प्रभृति प्रतिमुखसन्धिः प्रवर्तते । यदाह विश्वनाथ:-“फलप्रधानोपायस्य मुखसन्धिनिवेशितः । लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखञ्च तत् ॥

 विदूषकः-(विहस्य-किञ्चिदात्मश्लाघां कुर्वन् परिहासेन)। भो मित्र ! यथा अहल्यायाः गोतमस्य भार्यायाः कामुकस्येन्द्रस्य वज्रम् एव सचिवः कार्यवाहको बभूव तथैव उर्वशीपर्युत्सुकस्य तत्प्राप्तिसमुत्कण्ठितस्य तव अहं नियोजितकार्यधूः सचिवोऽस्मि । अत्र कार्ये द्वौ अपि वज्रम् अहं च उन्मत्तौ भयावहौ । विलक्षणकार्यशक्तिसम्पन्नत्वात् ।

 राजा-न खलु चिन्तयति भवान्-उपायम् । किन्तु किमपि संल्लपति ।

 विदूषकः-(चिन्तयति-उपायचिन्तनं नाटयति) एष चिन्तयामि । किन्तु त्वं परिदेवितः विलापैः समाधिं चित्तकाग्र्यं भङ्ग्यसि विनाशयसि । अहो । अहं कज्जदंसी । [एष चिन्तयामि । मा पुनः परिदेवितः समाधिं भङ्क्ष्यसि । अहो ! अहं कार्यदर्शी ]

 राजा-

  असुलभा सकलेन्दुमुखी च सा
   किमपि चेदमनङ्गविचेष्टितम् ।
  अभिमुखीष्विव वाञ्छितसिद्धिषु
   व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥

 (इति मदनोत्सुकस्तिष्ठति ।)

(ततः प्रविशत्याकाशयानेनोर्वशी चित्रलेखा च)

इति आह्लादे । तेन कामपि कार्यनिष्पत्तिं सूचयन् अहम् कार्यदर्शी कुशल इति गगने उपयान्तीमुर्वशीं प्रेक्ष्य विस्मितो ब्रूते ।

 राजा-असुलभेति । सकलेन्दुमुखी पूर्णचन्द्रानना सा सुकुमारी युवती असुलभा दुर्लभा । तथापि किमपि कुतोऽप्यकथ्यकारणात् इदं वामेतरनयनस्पन्दनादिकं अनङ्गविचेष्टितम् कामचेष्टा च मयि भवति । अपि च मनः वाञ्छितस्य अभीप्सितस्य वस्तुनः सिद्धिषु प्राप्तौ अभिमुखीषु अनुकूलासु अचिरनियमानासु वा सत्सु यथा निर्वृतिं सुखं तापराहित्यं वा व्रजति प्राप्नोति तथैव मम मनः एकपदे सपदि तस्मिन्नेव वा क्षणे निर्वृतिं शान्तिमुपैति । तात्पर्यं तु-दुर्लभा तु मम प्रिया । भवति च मयि किमप्यवर्णनीयः कामप्रभावः तथा च मम मनः तादृशीं शान्तिं अस्मिन्नेव क्षणे प्राप्तम् यथा मनोरथसिद्धिः अचिरभाविनी एव स्यात् । अनेन उर्वशीसम्मेलनं शीघ्रमेव भविष्यतीति दक्षिणाक्षिस्फुरणेन व्यक्तमिति सूचितम् । अत्र च पूर्वार्धे चकारद्वयप्रदानेन सकलेन्दुमुख्याः असुलभत्वेन अनङ्गविचेष्टितम् विरोधीति वैरोध्यं सूचितम् । सम्पूर्णाभिः कलाभिः युक्तमिति सकलश्चासौ इन्दुः तादृशं मुखं यस्याः सा सकलेन्दुमुखी । अत्र धर्मवाचकलुप्तोपमालङ्कारः । एकपदे तस्मिन्नेव क्षणे "तत्क्षणैकपदे तुल्ये सद्यः सपदि च स्मृतम्" इति हलायुधः । अत्र वाञ्छितसिद्धिषु अभिमुखीष्विवेति तत्समये असुलभायां अपि शीघ्रमेव सम्पाद्यत्वसमारोपणेनोत्प्रेक्षालङ्कारः । यतः उर्वशीलाभरूपकार्यस्य नाटकीयवस्तुनो नायकमनःकामनायाः प्रारम्भयत्नप्राप्त्याशानियताप्तिफलागमरूपाः पञ्चावस्थाः सन्ति, तेन वाञ्छितस्य पञ्चाङ्गत्वम् एकैकस्य चाङ्गस्य क्रमेण सिद्धिः, तासां च समस्तानां समानगौरवशालित्वान्नायकाभीप्सितत्वात्पृथग्ग्रहणम् , अत एवात्र वाञ्छितसिद्धिषु इति वहुवचनप्रदानम् । तेन च नायिकानुकूल्यं अस्तीति नायकहृदि दूरस्थभावविनिमयशक्त्या (by means of Telepathy) प्रतिबिम्बितमिति प्रत्ययगतवक्रताजनिता वस्तुध्वनिः ॥  चित्रलेखा-सहि उव्वसि ! कहिं क्खु अणिदिट्टकालणं गच्छीअदि ? [ सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं गम्यते ?]

 उर्वशी-(मदनवेदनामभिनीय सलज्जम् ) सहि ! हेमऊडसिहरे लदाविडवान्दरे लग्गा वैजअन्तिआ मोआवेहि त्ति भए भणिदा उवहसिअ मं भणासि दिढं क्खु लग्गा ण सक्का मोआविदुम् । दाणिं पुच्छसि कहिं अणिदिट्टकालं गच्छीअदि त्ति । [सखि ! हेमकूटशिखरे लताविटपान्तरे लग्ना वैजयन्तिका मोचयेति मया भणिता उपहस्य मां भणसि दृढं खलु लग्ना न शक्या मोचयितुम् । इदानीं पृच्छसि कुत्रानिर्दिष्टकारणं गम्यत इति ।]

 चित्रलेखा-किं णु तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि ? [किं नु खलु तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि ?]


 अत्र च नायिकया मेलने जाताशस्य संभोगाकाङ्क्षिणः नायकस्य स्थितिवर्णनेन विलासं नाम प्रतिमुखसन्ध्यङ्गम् । यदुक्तं दर्पणे-"समीहा रतिभोगार्थो विलास इति कीर्तितः" । प्रसादाख्यो गुणः ।

 अत्र च द्रुतविलम्बिताख्यं वृत्तम् । यदुक्तम् “द्रुतविलम्बितमाह नभौ भरौ" पादान्ते च यतिः ॥ ९ ॥

 (इति विचारयन् मदनोत्सुकः मदनपीडितः तिष्ठति । ततः आकाशयानेन गगनमार्गेण उर्वशी च चित्रलेखा प्रविशति ।)

 चित्रलेखा-सखि उर्वशि! कुत्र खलु अनिर्दिष्टकारणं अनिश्चितकारणं अकारणं वा गम्यते ? त्वं कारणं विनैव क्व गच्छसीति भावः ।

 उर्वशी-(मदनजन्यां वेदनां पीडां अभिनीय प्रकटयन्ती सलज्जम् ) सखि ! हेमकूटशिखरे लतानां विटपो वितानं तदन्तरे तन्मध्ये लग्ना वैजयन्तिका मदीया एकावली तां मोचय इति मया भणिता उक्ता त्वं उपहस्य हास्यं कृत्वा मां भणसि प्रोक्तवती यत् इयं दृढं कठिनं यथा स्यात्तथा लग्ना अत एव मोचयितुं न शक्या इति वदन्त्यपि त्वं इदानीं पृच्छसि कुत्र अनिर्दिष्टकारणं विशेषकारणं विनैव गम्यते गच्छसि । भणसीत्यत्र भूतार्थे लट् ।

 आदौ तावत् विक्रमं विहाय दूरं गमनप्रवृत्तायां तस्यां तदीयैकावली लतायां यदा रुद्धा तदा चित्रलेखा व्यहसत् यदमोच्येयम् । तदेवोर्वशी तां स्मारयति यत्कथं त्वमधुना जानत्यपि दुर्मोच्यत्वं तस्या, इदं पृच्छसि यत्क्वाकारणं गम्यत इति भावः अनेन नायिकायाः स्वालम्बने प्रेमातिशयो द्योत्यते ।

 चित्रलेखा-किं त्वं तस्य राजर्षिणः पुरूरवसः विक्रमस्य सकाशं समीपे प्रस्थितासि प्रचलिताऽसि ? तमुद्दिश्येदं गमनं त्वदीयं किमिति भावः । नु इति प्रश्ने।  उर्वशी-एसो मे अवहत्थिदलज्जो व्यवसाओ।[एषो ममापहस्तितलज्जो व्यवसायः।]

 चित्रलेखा-सहि ! तधा वि संपधारीअदु दाव । को उण सहीए तहिं पढमं पेसिदो ? [ सखि ! तथापि सम्प्रधार्यतां तावत् । कः पुनः सख्या तत्र प्रथमं प्रेषित्तः ?]

 उर्वशी-णं हिअअम् । ( ननु हृदयम् ।)

 चित्रलेखा-को णु तुमं णिओजेदि ? [ को नु त्वां नियोजयति ?]

 उर्वशी-मअणो क्व मंणिओजेदि । [मदनः खलु मां नियोजयति ।]

 चित्रलेखा-अदो अवरं णस्थि मे वअणम् । [अतः अपरं नास्ति मे वचनम् ।]


 उर्वशी-एष अयमेव अपहस्तिता दूरीकृता लज्जा यस्मादिति तादृशो व्यवसायो विचारः कर्म । नायिकायाः स्वयमभिसरणरूपोऽयं निर्लज्जो मदीयो व्यवहारः । अर्थात् यत्त्वयोक्तं तत् साधु । अहं नत्रैव तत्सकाशं प्रस्थिताऽस्मि । अत्र मदनव्यापारानुरोधात् नाविकायाः स्वयं अभिसरणात् उर्वश्या अभिसारिकात्वं गम्यते, यल्लक्षणं रूपके-"कामार्ताऽभिसरेत्कान्तं सारयेद्वाभिसारिका" इति ।

 चित्रलेखा-सखि : यद्यपि त्वया व्यवसितमिदमङ्गनाजनविरोधि तथापि सम्प्रधार्यतां विचार्यतां तावत् यत् सख्या त्यया प्रथममादौ त्दादागमनविज्ञापनाय को जनः प्रेषितः।

 उर्वशी -ननु हृदयम् हृदयमेव मया आदौ मदागमनविज्ञापकं प्रेषितम् । ननु निश्चये । निश्चयेन वच्मि यन्मे हृदयादृते नान्यः कोऽप्यत्र कर्मणि प्रणिधिः अस्तीति भावः।

 चित्रलेखा-को वा नियोजयति- त्वां कः पुनः प्रेरयति ?

 उर्वशी-मदनः खलु कामः मां नियोजयति प्रेरयति । अत्र “एष मे अपहस्तितलज्जो व्यवसायः" इति मुक्तात्मश्लाघनात्, “मदनो मां नियोजयतीति" वचसा स्वमनोवृत्तः अचञ्चलत्वख्यापनात् धैर्याख्यः प्रमदानां सात्त्विकभावमुल्लिख्य अयत्नजो नायिकालङ्कारः प्रोक्तः, यल्लक्षणं दशरूपके-"चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना" इति ॥

 चित्रलेखा-अतःपरं नास्ति मे वचनमुत्तरम् । यदीदं चेत् अनुत्तराऽस्मि ।

 ६ विक्र०  उर्वशी-तेण आदेसदु मे सही मग्गं जेण तहिं गच्छन्तीए ण अन्तराओ भवे । [तेन आदिशतु मे सखी मार्गं येन तत्र गच्छन्त्याः नान्तरायो भवेत् ।]

 चित्रलेखा-सहि ! वीसद्धा होहि । णं भअवदा देवगुरुणा अवराइदं णाम सिहावन्धणं विजं उवदिसंतेण तिदसपडिवक्खस्स अलंघणीआ कदे म्ह । [ सखि विस्रब्धा भव ! ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धिनी विद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः।]

 उर्वशी-(सलज्जम् ) ताए पओअं सव्वं सुमरेसि ? [ तस्याः प्रयोगं सर्वं स्मरसि ?]

 चित्रलेखा-सहि ! हिअ एवं सव्वं जानादि । [सखि ! हृदयं एतत् सर्वं जानाति । ]

(उभे भ्रमणं रूपयतः)

 चित्रलेखा-सहि ! पेक्ख पेक्ख । एदं भअवदीए भाईरहीए


 उर्वशी-तेन यतस्त्वं निरुत्तरा सम्पन्ना तं मार्गमादिशतु प्रदर्शय येन तत्र विक्रमसन्निधौ गच्छन्त्याः मम पथि कोऽपि अन्तरायो विघ्नभूतो न भवेत् ।

 चित्रलेखा-सखि ! विस्रब्धा भव विश्वस्ता स्वस्थचित्ता भव । ननु सम्प्रधारणे । भगवता पूज्येन देवगुरुणा बृहस्पतिना अपराजितां नाम शिखां बध्नातीति शिखाबन्धिनी तां विद्यां उपदिशता प्रयच्छता आवाम् त्रिदशानां देवानां प्रतिपक्षाः शत्रवः दैत्यास्तेषामलङ्घनीये जेतु मशक्ये कृते । तात्पर्यं तु-भगवता गुरुणा अस्मान् अपराजितानाम्नी विद्या शिक्षिता । तस्याश्च प्रभावेण दैत्याः अस्मान् जेतुं न प्रभवन्ति । तदेवोच्यते यदावाम् अपराजितां विद्यां पाठयता गुरुणा दैत्यानामवशंवदे कृते इति भावः । अपराजिता तु-यया विद्यया अथवा यस्या विद्यायाः प्रभावात् न केनापि पराजेतुं प्रभूयते इति अपराजिता- सरलतया तु, यया केनापि पराजितो न भवतीति भावः ।

 उर्वशी-(सलज्जम् ) तस्याः विद्यायाः प्रयोगं विधिं सर्वं स्मरसि । अपि जानासि कथं प्रयोक्तव्या सा विद्येति । सामान्यमपीदं प्रश्नवाचकं वाक्यम् ।

 चित्रलेखा-सखि ! इदं हृदयं (मदीयं) सर्वं एतत् विधानं जानाति । ज्ञायते मया तस्याः प्रयोगविधिः ।

(उभे उर्वशीचित्रलेखे भ्रमणं आकाशे चङ्क्रमणं रूपयतः।)

 चित्रलेखा-सखि उर्वशि! प्रेक्षस्व प्रेक्षस्व पश्य पश्येति कौतूहले वीप्सा । जमुणासंगपावणेसु सलिलेसु पुण्णेसु अवलोअन्तस्स विअ अत्ताणअं पइट्ठाणस्स सिहाभरणभूदं विअ तस्स राएसिणो भवणं उबगद म्ह। [सखि ! प्रेक्षस्व प्रेक्षस्व । एतत् भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येषु अवलोकयत इवात्मानं प्रतिष्ठानस्य शिखाभरणभूतमिव तस्स राजर्षेर्भवनमुपगते स्वः।]


भगवत्याः परमपावनायाः भागीरथ्याः गङ्गायाः यमुनासङ्गेन पावनेषु पवित्रेषु पुण्येयु पुण्यपदेषु सलिलेषु जलेषु आत्मानं स्वीयं खरूपमिवावलोकयतः पश्यतः प्रतिष्ठानस्य तदाख्यनगरस्य शिखाभरणभूतमिव चूडामणिरिव तस्य दिव्यस्य राजर्षेः पुरुरवसः भवनं निवाममन्दिरमुपगते प्राप्ते स्वः । तात्पर्यं तु-विक्रमस्य राजधानी गङ्गातटपरिचुम्बिनी बभूव । तेन गङ्गाजलेघु तस्याः प्रतिबिम्बमदृश्यत । तत्रोत्प्रेक्षते तत्रभवान् कविर्यत् गङ्गायाः सलिलेषु राजधानीयं स्वीयं रूपं अवलोकयति इति । तेन चायं भावः-भगवत्याः गङ्गायाः यमुनया सह सङ्गमेन अधिकपुण्येषु जलेषु स्वरूपमेव पश्यतः प्रतिष्ठानाख्यनगर्याः चूडामणिमिव संस्थितं राजप्रासादमावाम् प्राप्नुवः इति ।

 अत्र हि राजधान्या गङ्गासलिलेष्वेव खरूपदर्शनरूपव्यापारप्रतिपादनेन उत्प्रेक्षामिषेण गङ्गातटस्थलं लक्ष्यते । तेन च शैत्यपावनत्वादिकं पुण्यशीलत्वं च तस्यां व्यज्यते। तेनेह 'गङ्गायां घोष' इतिवत् प्रयोजनवती उपादानलक्षणा। शिखाभरणभूतमिवेति अन्योत्प्रेक्षा । ततश्च प्रासादस्य सर्वोत्कृष्टवं प्रतिपादितम् । भागीरथ्या यमुनासङ्गित्वप्रदानेन अधिकपुण्यवत्त्वं व्यक्तीकृतम् । तथा च तस्य राजधानी यत्र कुत्रापि तीर्थराजस्य प्रयागस्य समीपे एवासीदिति सूचितम् । प्रतिष्टानस्येत्यनेन भवेत् “पटना" प्रयागपूर्वतीरस्थितं (झूसी) नगरम्-इति रङ्गनाथः । अत्र भगीरथेन स्वपितामहसन्तरणार्थं भुवि समानीतेति भागीरथी, तथा च यमस्य भगिनी तेन यमुनेति पौराणिककथाद्वयमनुसन्धेयम् । पुनश्च गङ्गामन्दाकिनीतिपदव्यावृत्तिपूर्वकं भागीरथीपदग्रहणेन अस्यां पितृपितामहादीनां सर्वेषामपि सन्तारणसामर्थ्यसनाथत्वं व्यज्यते । कालिन्द्यादीनि पदानि विहाय यमुनापदग्रहणेन यमस्य भगिनीत्वात् तस्य राजधान्यामपि दुष्टानां पापानां निग्रहसामर्थ्यवत्त्वस्य व्यज्यमानत्त्वात् तस्य राजधान्यामपि पापानां निग्रहानुरूपन्यायानुसारित्वमासीदिति द्योतितम् । “सलिलेष्विति" बहुवचनप्रदानेन बहूनां पुण्यजलानां अस्यां सन्निवेशः आसीदिति प्रकटीकृतम् । आदरार्थे वा बहुवचनम् भगवतीपदप्रयोज्यत्वात् । महतीनां नदीनां जलस्य बहुवचनेन सम्बोधनमसाम्प्रतं न । अन्यास्वपि भाषासु तादृशप्रयोगदर्शनात् यथा (Cf-the waters of the Holy Ganges)। न चात्र यमुनासङ्गपावनेषु तथा पुण्येषु इति समानार्थकपदद्वयप्रदानेन पुनरुक्तिरिति वाच्यम्, तेन स्वयं पुण्येषु एव, पुनश्च यमुनासङ्गमेन परं पावनीकृतेषु इति आत्यन्तिकपावनत्वस्य द्योतितवात् । अथवा पुण्यपदमात्र रुचिरत्ववाचकम्  उर्वशी-(सस्पृहमवलोक्य)। णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । ( विचार्य ) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे ? [ ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । ( विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ? ]

 चित्रलेखा-पदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो। [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]

(उभे अवतरतः)

 चित्रलेखा-(राजानं दृष्ट्वा सहर्षम् ) सहि ! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि ! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]


यथाहामरः-"पुण्यं तु चार्वपि” इति । अत्र हि निर्जीवस्यापि नगरस्य सजीवसदृशव्यापारशालित्वसमारोपेण च शिखाभरणभूषणतोऽलौकिकत्वसमारोपे च भिन्नकार्यवात् अन्योन्यनिरपेक्षतया स्थितत्वात् उत्प्रेक्षाद्वयस्य संसृष्टिरलङ्कारः । आङ्ग्लमतानुसारं तु निर्जीवे सजीवत्वारोपणात् चेतनत्वोपचाराख्यं(personification इति तदाख्यं) अलङ्करणम् । अत्र नायिकायाः विरहपीडितायाः दूरतो नायकगृहदर्शनेन वर्धितत्वात् कौतूहलस्य, उद्दीपनाख्यो विभावो व्यज्यते, स्वयमभिसरन्त्याः उर्वश्याः पुरतः राजर्षिपदस्वीकारेणात्र नायकगतोत्तमत्वप्रदर्शनेन रतेरधिकतयोद्दीपनत्वात् । राजर्षेश्च तस्येति विशेषणप्रदानेन अलौकिकत्वं किङ्करीकृतदयादाक्षिण्यादिगुणवृन्दत्वं प्रियसख्या उर्वश्याः कान्ते नायके सहचर्या सूचितम् ।

 उर्वशी-सस्पृहमवलोक्य-कौतूहलवशाद् नायकप्रासादोपलब्धिहेतुकं सस्पृहत्त्वम् । ननु अवधारणे । प्रदेशोऽयं स्थानान्तरगतः स्वर्ग इति अन्योऽयं स्वर्ग एव इति वक्तव्यम् । स्वर्ग एवायम् । अन्यत् स्थानं स्थानान्तरम् । सखि ! कुत्र कस्मिन् स्थाने आपन्नानां पीडितानामनुकम्पी सहायकः भवेत् । क्व प्राप्स्यते स महाराजः आर्तेषु परमदयालुरिति । स्वर्ग एवेत्यत्र गम्योत्प्रेक्षा ।

 चित्रलेखा-एतस्मिन् नन्दनवनस्य एकप्रदेशे एकविभाग इव प्रमदवने अवतीर्य ज्ञास्यामः । नन्दनवनसमसुन्दरेऽस्मिन् प्रमदवने क्व लभ्यः स महाराजः इति वयं ज्ञास्यामः । अत्र च सखीच्छानुसारिणी चित्रलेखा प्रमदवनम्, नन्दनैकदेशं वर्णयति । इह च "इष्टनष्टानुसरणम् परीसर्पश्च कथ्यते' इति वचनात् परिसर्पाख्यं प्रतिमुखसन्ध्यङ्गम् ।

(उभे आकाशाद् अवतरतः)

 चित्रलेखा-(राजानं तत्रैव प्रमदवने दृष्ट्वा सहर्षम् सानन्दम् ) सखि ! एष पुरो दृश्यमानः प्रथमोदित इव भगवान् चन्द्रः द्वितीयाचन्द्र इव कौमुदीसदृशीं त्वाम उर्वशी-( विलोक्य ) हला ! दाणिं पढमदंसणादो वि सविसेसं पिअदंसगो मे महाराओ पडिभादि [हला ! इदानीं प्रथमदर्शनादापि सविशेपं प्रियदर्शनो मे महाराजः प्रतिभाति ।]

 चित्रलेखा-जुनदि । ता एहि उवसप्पम्ह । [युज्यते । तदेहि उपसर्पावः।]

 उर्वशी-ण दाव उवसप्पिसम् । तिरक्करिणीपडिच्छण्णा पास्सवत्तिणी भविअ मुणिस्सं दाव पामवत्तिणा वअस्सेण सह विअणे किं मन्तअन्तो चिट्ठदि त्ति । [न तावदुपसर्पिष्ये ।तिरस्करिणीप्रतिच्छना पार्श्ववर्तिनी भूत्वा श्रोष्ये तावत् पार्श्ववर्तिना वयस्येन सह विजने क्रिम् मन्त्रयन् तिष्ठतीति । ]


वेक्षते प्रतीक्षते अत्रैवास्ते महाराजः स्वां परिपालयन् यथा चन्द्रः कौमुदीं प्रतीक्षते । यथा कृष्णपक्षानन्तरं प्रथमोदितो द्वितीयाचन्द्रः लोकान् आह्वादयति तथैवाऽयं आल्हादयत्यत्मान् । अपि च यथा द्वितीयाचन्द्रः क्षीणः असमग्रकलो भवति तथैवायमपि तद्विरहक्षीणः अस्तीति गम्यते । यथा स्वीयज्योतिःपोषिकां कौमुदीं चन्द्रः प्रतिपालयति तथैवाऽयमपि त्वदागमनप्रतीक्षां कुर्वाणः तिष्ठति । अत्र भगवानिति पदप्रदानेन यथा ऐश्वर्यशालिनोऽपि चन्द्रस्य चन्द्रिकापेक्षा तथैव महाराजस्य दासीकृतैश्वर्यस्यापि त्वदपेक्षा इति व्यज्यते । तथा च कौमुदीत्वसमारोपेण नायिकायां तस्मै सविशेषानन्ददायित्वं ध्वन्यते । उपमालङ्कारश्च । अवोपसर्गपूर्वकेक्षतेः प्रतीक्षणार्थे कविना अन्यत्रापि प्रयोगो विहितः-यथा “नहि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः” (मालविकाग्निमित्रे)।

 उर्वशी-(तादृशं तं विलोक्य ) इदानीमस्यामवस्थायां विद्यमानोऽयं महाभागः प्रथमदर्शनाद् अपि सविशेषमत्यन्तं प्रियं दर्शनं यस्येति तादृशो मनोहारी मे मह्यं दृश्यते । पूर्वतः अधिकं शोभनो लक्ष्यते । अत्र स्वभावोक्तिः । हृदये जाते तु रतेरुद्गमे चिरविरहानन्तरं पुनः सम्मेलने आलम्बनयोः परस्परं सविशेषा प्रीतिः निरतिशयः आल्हादातिरेकः सन्मानं च भवति इति सहृदयानुभव एवात्र प्रमाणम् । अथवा 'मे महाराज' इति षष्ठीविभक्त्यन्तमस्मत्पदम् मदीयत्वं सूचयति ।

 चित्रलेखा-युज्यते-यत्त्वं वदसि तत्तु यथार्थम् । तदेहि । उपसर्पावः तस्य निकटं प्राप्नुवः।

 उर्वशी -न तावदुपसर्पिष्ये। नाहं तन्नयनपथगामिनी भवितुमिच्छामि । अदृश्यत्वसामर्थ्यप्रदा तिरस्करिणी तदाख्या विद्या तया प्रतिच्छिन्ना अन्तर्हिता सती अस्य पार्श्ववर्तिनी निकटस्था भूत्वा श्रोष्ये आकर्णयिष्यामि यत् किमपि अयं पार्श्ववर्तिना समीपस्थेन वयस्येन माणवकेन सह विजने रहसि मन्त्रयन् विचारयन् तिष्ठति । अहं तु किमयं मित्रेण सह विचारयतीति श्रोष्ये न तु तद्दर्शनपथं ।  चित्रलेखा-जहा दे रोअदि । [यथा ते रोचते ।]

( उभे यथोक्तमनुतिष्ठतः)

 विदूषकः -भो ! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ। भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः।]

(राजा तूप्णीमास्ते)

 उर्वशी-का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]

 चित्रलेखा-झाणस्स किं बिलम्वीअदि ? [ध्यानाय किं विलम्ब्यते ?]


गन्तुमिच्छामीति भावः । अनेन नायिका नायकस्य आत्मानं प्रति कियत् प्रेमेति परीक्षितुमिच्छति । एतत्तु उत्तमनायिकाया लक्षणम् यतस्तया यः कोऽपि क्रियते प्रेमबन्धः स तु विचार्य क्रियते यन्मम प्रेमानुबन्धी स्वानुरूपो विद्यते न वायं ममालम्बनमिति । यस्या विद्यायाः प्रभावात् पुरुषः केनापि अलक्षितो भ्रमितुं, स्थातुं वा प्रभवति सा विद्या तिरस्करिणी नाम ।

 चित्रलेखा-यथा ते रोचते । यथा त्वमिच्छसि तथा कुरु । अत्र "रुच्यर्थानां प्रीयमाणः' इति रोचतेर्योगे चतुर्थी ।

(उभे उर्वशीचित्रलेखे यथोक्तं अनुतिष्ठतः कुर्वतः । पार्श्ववर्तिन्यौ भूत्वा नर्मसचिवेन सह किं विचार्यते राज्ञेति निभृतं शृणुतः।)

 विदूषकः-भो वयस्य ! मया दुर्लभप्रणयिजनस्य समागमोपायश्चिन्तितः। कथं दुर्लभमपि प्रीतिपात्रं वस्तु लभ्यं भवेत् तदुपायस्तु मया ज्ञातः।

 राजा तूष्णीमास्ते-राजा तु तस्या नितान्तं ध्याने मग्नः सन् किमुच्यते माणवकेनेत्यपि नावधारयते अत्र नान्दीगतस्थाणुपदेन इयमेव निश्चला परिस्थितिः सूचिता।

 उर्वशी -का सा स्त्री परमधन्या भवेत् या अनेन राज्ञा परिमृग्यमाणा अन्वेष्यमाणा विचार्यमाणा वा सती आत्मानं धन्यतां प्राप्तं विनोदयति ? का भवेत् सा पुनर्नारी या अनेन इत्थं चिन्त्यमाना सती स्वमात्मानं धन्यतां नयति रञ्जयति । धन्या पुण्यातिरेकशालिनी, प्रलोभिका वा, यदुक्तं- "रामा त्रिवर्गहेतुः स्त्री, धन्या योषित्प्रलोभिका" । प्रलोभिका तु रतिरूपा चित्ताकर्षकत्वात् ।

 चित्रलेखा -ध्यानाय किं विलम्ब्यते? त्वं दिव्या असि । सर्वं ध्यानवशेन ज्ञातुं प्रभवसि तदा का पुनः सा धन्या स्त्री या अनेन चिन्त्यते इति कथं न त्वं ध्यानविधिना तां परिज्ञातुं यतसे । किमर्थ विलम्बं करोषि ध्यानवशेन तस्याः परिज्ञाने इति भावः।  उर्वशी-सहि ! भीआमि सहसा पहावादो विण्णादुम् । [सखि ! बिभेमि सहसा प्रभावतो विज्ञातुम् । ]

 विदूषकः -भो! णं भणामि चिन्तिदो मए दुल्लहपणइजणसमागमोवाओ [भोः ! ननु भणामि चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः।]

 राजा-वयस्य ! कथ्यताम् ।

 विदूषकः-सिविणसमागमआरिणं णिद्दं सेवदु भवम् । अहवा तत्तभोदीए उव्सीवए पडिकिदिं चित्तफलए अहिलिहिअ आलोअन्तो अत्ताणअं विणोदेहि । [स्वप्नममागमकारिणीं निद्रां सेवताम् भवान् । अथवा तत्रभवत्याः उर्वश्याः प्रतिकृतिं चित्रफलके अभिलिख्य आलोकयन् आत्मानं विनोदय ।]


 ध्यानायेत्यत्र “तुमर्थाच्चेति" सूत्रेण ध्यातुमित्यर्थे चतुर्थी ।

 उर्वशी-सखि ! प्रभावतः ध्यानवशात् तां ज्ञातुं बिभेमि । कुतः- सम्भवतीदं यत् राज्ञः काप्यन्या प्रिया भवेत् यां मार्गयमाणोऽयमित्थं तुष्णीमास्ते। यदि मया प्रभावतो जिज्ञासा कृता, तदनन्तरं यदि तेन निदिध्यास्यमाना कापि सा मदन्या भवेत्तदा तु तत् ध्यानार्जितं ज्ञानं केवलं मम तापायैव स्यात् इति मत्वा प्रभावतो विज्ञातुमहं भीताऽस्मि ।

 विदूषकः-ननु अवधारणे । भणामि अहं कथयामि यन्मया दुर्लभप्रणयिजनसमागमोपायः चिन्तितः । कथं दुर्लभापि प्रिया सुगमा स्यादित्युपायो मयाऽत्र आविष्कृतः। प्रेयसीं निदिध्यासतोऽनवहितस्य महाराजस्य पूर्वमभिहितं विदूषकवचनमनाकर्णयतश्चित्तमावर्जयितुं "ननु भणामीति" पदयुगलमत्रगुरूच्चारणव्यञ्जकम्।

 राजा-वयस्य ! कथ्यताम् कस्तावत् स उपायः । एतत्तु राज्ञा औदासीन्येन तद्वचने बहुमानं अकृत्वैव प्रोक्तम् । भवतु त्वदुपायस्यापि शृणोमि इति ।

 विदूषकः-भवान् स्वप्ने प्रियया सह समागमः सम्मेलनं तत्कारिणीं निद्रां सेवताम् । भवान् स्वपितु । तत्र स्वप्ने प्रियया सह समागमो भविष्यति इति । एकस्तावदयमुपायः । अपरश्च तत्रभवत्या आदरणीयायाः उर्वश्याः प्रतिकृति प्रतिरूपं चित्रफलके अभिलिख्य आलोकयन् प्रेक्षमाणः आत्मानं विनोदय अथवा आलेख्ये तस्याः प्रतिमानं लिखित्वा कुरु तावत् स्वमनोरञ्जनम् ।

 पूर्वोपायदर्शने भवानिति पदस्य, परत्र च विनोदयेत्यत्राध्याहृतस्य युष्मत्पदस्य प्रयोगेण विदूषकस्य सौहार्दवशानिरङ्कुशत्वं गम्यते ।  उर्वशी-(सहर्षम् ) हीणसत्त हिअअ! समस्सस समस्सस । [हीनसत्त्व हृदय ! समाश्वसिहि समाश्वसिहि ।]

 राजा-तदुभयमप्यनुपपन्नम् ।

  हृदयमिषुभिः कामस्यान्तःसशल्यमिदं सदा
   कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् ।
  न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां
   मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ १० ॥


 उर्वशी-सहर्षम्-राज्ञा चिन्त्यमाना प्रिया अहमेवास्मि नान्येति सहर्षम् कुतः अन्यनारीशङ्कासमाधानात् । श्रुत्वा त्विदं वचनम् उत्तम्यदात्मनो हृदयं तदा सा सम्बोधयति । रे हीनसत्त्व, अधीर ह्रदय, किञ्चित् समाश्वसिहि समाश्वसिहि । विश्रब्धं भव । धैर्य धर । शान्तिं लभस्व ।

 राजा-तदुभयमप्यनुपपन्नम् । माणवकं प्रति इयमुक्तिः । मया प्रदर्शितमुपाययुग्मं अपि अनुपपन्नम् अनुचितम् असम्भवात् । नान्यतरोऽपि कर्तुं शक्यत इत्युपपादयितुं तत्र हेतुं दर्शयति-

 हृदयमिति-हे सखे मित्र ! कामस्य मनोजस्य इषुभिर्बाणैः इदं मदीयं हृदयं सदा सर्वकालं अन्तःसशल्यं व्यथितमस्ति । अस्यां दशायाम् स्वप्ने प्रियया सह समागमकारिणीम् निद्रां कथमुपलमे प्राप्नोमि न कदापीति भावः । यदा मम हृदयं मनोजपीडितं वर्तते तदा कथं निद्रामहं लप्स्ये इति सारः । अनेन पूर्वार्धेन विदूषकेण प्रदर्शितस्तावद् प्रथमोपायो निराकृतः । सुन्दरं वदनं मुखं यस्याः सा तादृशीं सुमुखीं प्रियां आलेख्ये चित्रफलके लेखनविधौ असमाप्य मम नयनयोरुद्वाष्पत्वं प्रादुर्भूताश्रुत्वं न भविष्यतीति न, अपि तु भविष्यत्येव । चित्रफलके यदि अहं तस्याः प्रतिकृतिं लिखामि तदा यावता समयेन लेखनविधिः समाप्तिं गमिष्यति तस्य पूर्वमेव मम नयनाभ्यामश्रुपातः न निर्गमिष्यतीति न, अपि तु लिखतः एव मम नयनाभ्यामश्रुवृष्टिर्भविष्यति तेनाहं प्रतिकृतिमपि समापयितुं न पारयामि । अनेन द्वितीयश्चाप्युपायः अपाकृतः । तात्पर्यं तु-व्यथितचेतसः पुरुषस्य निद्रागमनमसम्भवम् । अश्रुनिरुद्धनेत्रस्य प्रतिमालेखनमपि न घटत इति ।

 अन्तःसशल्यमिति । शल्यं नाम शङ्कुः कण्टकम् वा “शल्यं तु न स्त्रियां शङ्कौ" इति मेदिनी । शल्येन सह इति सशल्यम् अन्तः सशल्यमिति अन्तःसशल्यम् विद्धम् इति पर्यायः । उद्बाष्पत्वम्-बाष्पम् अश्रु । उद्गतानि बाष्पाणि ययोरिति उद्बाष्पे तयोर्भावः उद्बाष्पत्व निर्गताश्रुत्वम् ।

 बाष्पम्-बाध् निरोधे। निरोधार्थकबाध् धातोः षः प्रत्ययः । तस्मात् बाष्पमिति रूपम् “खष्पशिल्पशष्पबाष्परूपपर्पतल्पा" इति वचनप्रामाण्यात् ।(उणादिके तृतीयपादे अष्टाविंशतितमम् सूत्रम् ।)  चित्रलेखा-सहि, सुदं तुए वअणम ? [ सखि ! श्रुतं त्वया वचनम् ?]

 उर्वशी-सुदम् । ण उण पज्जत्तं हिअअस्स । [श्रुतम् । न पुनः पर्याप्तं हृदयस्य ।]

 विदूषकः-एत्तिओ मे मदिविहओ । [एतावान् मम मतिविभवः ।]

 राजा-(सनिःश्वासम् )

  नितान्तकठिनां रुजं मम न वेद सा मानसीं
   प्रभावविदितानुरागमवमन्यते वापि माम् ।


 हरिणीवृत्तम्-लक्षणं तु यथा “'रसयुगहयैन्सौभ्रोस्लौ गो यदा हरिणी तदा" इति । षड्भिस्ततश्चतुर्भिस्ततः सप्तभिर्यतिः । यदा नगणसगणौ मगणरगणौ सगणः लघुर्गुरुश्च भवन्ति तदा हरिणी नाम छन्दः स्यात् । वृत्तमिदं परमेव हृदयव्यथाव्यजकम् भाव्यरसानुरूपम् ॥ १० ॥

 चित्रलेखा-सखि ! श्रुतं त्वया वचनम् । यत्त्वद्विरहेण कियान् कातरोऽयं महाभागः।

 उर्वशी-श्रुतम् । किन्तु मम हृदयस्य पर्याप्तम् न । तथापि असन्तुष्टं हृदयम् । अधिकं श्रोतुमिच्छामीति तस्या आकृतम् ।

 विदूषकः-एतावान् एव मम मतिविभवः विचारशक्तिः । अतःपरं नाहमुपायान्तरं चिन्तयितुं शक्नोमि ।

 राजा-सनिःश्वासम्-व्यथां व्यञ्जयन्-

 नितान्तेति- स्वप्रियामेवाधिक्षिपति नायकः तस्या निर्दयित्वशंसनात् । सा तत्रभवती उर्वशी मम मानसीं मनोभवां नितान्तं कठिनां दुःसहां रुजं व्यथां न वेद ज्ञातवती । यदि अभविष्यत् सानुकम्पा सा तदा तु जानन्ती ममेतादृशीं विरहव्यथां अवश्यमेव दर्शनं मह्यमदास्यदेव । तेनेत्यमनुमिनोमि यत् तया मम व्यथा एव न ज्ञाता । अपरः कल्पः-अथवा सा तु देवाङ्गना । ज्ञातुं प्रभवति स्वप्रभावात् मन्मनोव्यथाम् । तेन च सा खप्रभावेण विदितः अवगतः अनुरागः प्रेम यस्य सः एतादृशं माम् अवमन्यते तिरस्करोति मम अवहेलनां वा करोति । यदि तया ज्ञातं तस्या कृते ममायमनुराग इति तथापि च दर्शनेन मां न सम्भावयति तदा तु सा अवश्यमेव मां न्यग्भावयति । यदि सा अपि मामित्थमेवाभि(वाञ्छति)लष्यात् तदा तु नावगणिष्यदेव माम् इति भावः।

अपरार्धेनात्मनो नैराश्यमसूचयत्

  अलब्धफलनीरसं मम विधाय तस्मिञ्जने
   समागममनोरथं भवतु पञ्चबाणः कृती ॥ ११ ॥


 अन्यतरेणापि हेतुना तस्मिञ्जने मम समागममनोरथं सम्मेलनेच्छां अलब्धं अप्राप्तं यत्फलं तेन नीरसं निष्फलं विधाय पञ्चबाणः कृती स्वेप्सितसाधनपटुर्भवतु । यदि मम समागमाभिलाषः निष्फलत्वेन नीरसः भवेत्तदा तादृङ्नीरसतां समुत्पाद्य कामो निकामं सकामः स्यात् । यतः तद्विरहे तु नूनमहं पञ्चत्वं गमिष्यामि । तेन च सोऽपि कामः स्वीयबाणगतपञ्चत्वं माम् पञ्चत्वं गमयन् सार्थकं करोतु इति भावगाम्भीर्यमुद्दिश्येह तत्रभवता कविना कामवाचकानि अन्यानि पदानि अनादृत्य पञ्चबाणपदमेव खीकृतम् ।

 सरलार्थस्तु-आदौ तु तया ममेतादृशी विरहव्यथा अस्तीति नावगतेव दृश्यते यतः तया दर्शनप्रदानेन नाहं सम्भावितः। अथवा यदि तया स्वप्रभावविशेषेण मम प्रीतिर्ज्ञाता तदा तु सा 'अहं देवाङ्गनाऽस्मि कथमिमं मानुषं वृणोमीति' विचार्य मामवगणयति । यदि अनयोरन्यतरोऽपि सत्यः स्यात् तस्याश्च मे सङ्गमो न भवेत्तदा तु कामदेवो माम् पञ्चत्वं प्रापयन् स्वस्य पञ्चबाणत्वं सफलीकरोतु नाम, यतोऽतः परं तस्याः समागमं विना मम जीवधारणमध्रुवमेव इति ।

 अलब्धफलत्वात् नीरसमिति अलब्धफलनीरसम् । कृतमनेनेति कृती ।

 अत्र पूर्वार्धे तस्या इहागमनाभावस्य कारणे सन्देहात् ससन्देहालङ्कारः। तथात्र अलब्धफलनीरसमित्यत्र फलाप्राप्तौ तु मरणमेव शरणं स्यात् तेन च पञ्चबाणस्य बाणपञ्चकस्वीकरणं सफलमेव स्यादिति फलध्वनिः । पुष्पधन्वनः पञ्चबाणाः- "अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः" इति । अथवा "सम्मोहनोन्मादनौ च शोषणस्तपनस्तथा । स्तम्भनश्चेति कामस्य पश्च बाणाः प्रकीर्तिताः" । अत्रोपायान्तरदर्शनाभावात्तपनं नाम प्रतिमुखसन्ध्यङ्गम् । यदाह विश्वनाथः- "उपायादर्शनं यच्च तपनं नाम तद्भवे"दिति ।

अत्र पृथ्वी वृत्तम्-यदुक्तम् “जसौ जसलया वसुग्रहयतिश्च पृथ्वी गुरुः"। जगणसगणौ जगणसगणयगणाः लघुरेको गुरुश्च यत्र भवन्ति तत् पृथ्वी नाम छन्दः । तथा अत्र अष्टभिस्ततो नवभिर्विरामः कार्यः । पद्येऽस्मिन् पृथ्वीवृत्तलक्षणसमन्वये विहिते द्वितीयचरणस्य यतिविच्छेदस्तावदेवं भवति यथा-

 प्रभावविदितानुरागमवमन्यते वापि माम् ॥

 इह पूर्वभागस्याष्टाक्षरत्वमुत्तरस्य च नवाक्षरमयत्वम् । 'अनुरागपदे' च एकस्य गकाराक्षरस्योत्तरभागे समावेशादत्र यतिभङ्गाख्यो दोषः, यथा पिङ्गलनागप्रोक्ते यतिर्विच्छेदेति सूत्रे (६१) भट्टहलायुधेन स्मृतं यत् “क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत्, यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ" इति । अत्रापरभागस्तु एकवर्णक एव । अस्य च दोषस्य "अपि माषं मषं कुर्याच्छन्दोभङ्गं न  चित्रलेखा-सुदं तुए ? [श्रुतं त्वया ?]

 उर्वशी-हद्धी हद्धी ! मं वि एवं अवगच्छदि । सहि ! असमत्थम्हि अग्गदो भविअ अत्ताणअं दंसिदुम । ता पहावणिम्मिदेण भुजवत्तेण लेहं संपादिअ अन्तरा खिविदुमिस्सामि । [हा धिक् हा धिक् । मामप्येवमवगच्छति । सखि ! असमर्थास्म्यग्रतो भूत्वात्मानं दर्शयितुम् । तत्प्रभावनिर्मितेन भूर्जपत्रेण लेखं सम्पाद्यान्तरा क्षेप्तुमिच्छामि ।]

 चित्रलेखा-अणुमदं मे । [ अनुमतं मे ।]

(उर्वशी नाट्येनाभिलिख्य क्षिपति)


कारये"दिति न्यायाद् वर्जनीयवात् समाधानं "उपैक्षत ममापि वा प्रणयमान्म- शक्तीरितम्" इति पाठेन विधातुं शक्यम् । एवञ्च समाहिते अवहेलनायाः पुरुषविशेषनिरपेक्षमनुरागस्य विषयीभूतत्वात् विधेयस्य समासे गुणीभूतस्य पृथड्निर्देशादापन्नस्याविमृष्टविधेयांशस्यापि दोषस्य परिहारः स्यात् किन्तु, वस्तुतोऽत्र उभौ एवैतौ दोषौ वक्तृविशेषमुखापतिती विरहखिन्नस्य नायकस्य हार्दिकोद्वेगं व्यञ्जयन्तौ कामप्यभिख्यां पुष्णन्तौ गुणाय प्रकल्पेते, यथा पण्डितराजो जगन्नाथः पीयू,लहर्या आत्मनः खेदातिरेकं गमयितुं यतिभङ्गेन आह----

  तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
   मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः।
  इदानीमौदास्यं यदि भजसि भागीरथि तदा
   निराधारोहा रो-दिमि कथय केषामिह पुरः ॥११॥ (शिखरिणी)

 चित्रलेखा-श्रुतं त्वया-कथं त्वमुपालभ्यसे इति ।

 उर्वशी-हा धिक् धिक् इति विगर्हणे । मामेवायं महानुभावः एवं नितान्त- कठिनवेदनाज्ञानवतीं, ज्ञानेऽपि वा तमवमन्यमानां अवगच्छति विचारयति । अस्मात्कारणात् हे सखि! अग्रतो भूत्वा अस्य सम्मुखीभूय आत्मानं दर्शयितुं असमास्मि ।

 यत अनेनाहमीदृशी निष्ठुरा कल्पिता तत असाम्प्रतमिदं सम्प्रति अस्य पुरोग- मनम् । अत एव प्रभावनिर्मितेन प्रभावविशेषेण समुत्पादितेन भूर्जपत्रेण लेखं सम्पाद्य लिखिला अन्तरा अनयोमहाभागतन्मित्रयोर्मध्ये क्षेप्तुमिच्छामि । इति मदनलेखं लिखितुं विचारयति ।

 चित्रलेखा-अनुमतं मे । सहमताऽस्मि तवाऽस्मिन् विचारे ।

(उर्वशी नाव्येन लेखनविधिं निरूप्य अभिलिखति क्षिपति च)

 विदूषकः--अविद अविद भो, किं णु एदम् । भुअङ्गणि-

म्मोओ किं मं खादितुं णिवडिदो [अविदाविद भोः ! किं न्वेतत् ! भुजङ्गनिर्मोकः किं मां खादितुं निपतितः ? ]

 राजा-(दृष्ट्वा ) नायं भुजङ्गनिर्मोकः । भूर्जपत्रगतोऽयं अक्षरविन्यासः।

 विदूषकः--णं क्खु अदिट्ठाण उव्वसीए भवदो परिदेविअं मुणिअ भुज्जवत्ते अणुराअसूअआ अक्खरा अहिलिहिअ विसज्जिआई भवे । [ननु खल्वदृष्टया उर्वश्या भवतः परिदेवितं श्रुत्वा भूर्जपत्रेऽनुरागसूचकान्यक्षराण्यभिलिख्य विसर्जितानि भवेयुः।]

 राजा-नास्त्यगतिर्मनोरथानाम् (गृहीत्वानुवाच्य च सहर्षम् ) सखे! प्रसन्नस्ते तर्कः।

 विदूषकः-जं एत्थ अहिलिहिदं तं सुणिदुं इस्सामि । [ यदत्राभिलिखितं तं श्रोतुमिच्छामि ।]


 विदूषकः-अविद अविद भोः ! ज्ञायतां ज्ञायतामिति । “अदृष्टाश्रुतसम्प्राप्तावविदाविद भोः पदम्" इति सागरोक्तेः । अस्य विस्मयावबोधकस्याव्ययस्य अदृष्टाश्रुतसम्प्राप्तिरूपोऽर्थः । किं नु एतत् इति विस्मयः। भुजङ्गनिर्मोकः किम् भोः मां खादितुं निपतितः । भुजङ्गस्य निर्मोकः कञ्चुकः (कांचली इति भाषायाम् 'Slough' इति आङ्ग्लाः) “निर्मोको मोचने व्योम्नि सन्नाहे सर्पकञ्चुके" इति कोशः।

 राजा-(दृष्ट्वा) । नायं भुजङ्गनिर्मोकः किन्तु भूर्जपत्रगतोऽयं अक्षरविन्यासः । किमपि भूर्जपत्रे लिखितमस्तीति भावः । (भोजपत्र इति भाषा- Birch इति आङ्ग्लाः)।

 विदूषकः-ननु खलु इति वितर्के । सम्भवमिदं यत् , अदृष्टया उर्वश्या भवतः परिदेवितं विलापं श्रुत्वा भूर्जपत्रेऽस्मिन् अनुरागसूचकानि प्रेमप्रदर्शकाणि अक्षराणि अभिलिख्य विसर्जितानि पातितानि भवेयुः इति तर्क्यते । मदनपत्रिकेयं भवेदिति भावः ।

 राजा-मनोरथानामगतिरविषयः किमपि न। यत्र कुत्रापि मनोरथानां गतिरस्तीति भावः । सम्भवमिदं नु स्यात् इति तात्पर्यम् । एतदेव शाकुन्तलेऽपि- "मनोरथानामतटप्रपातः" इति । (भूर्जपत्रं गृहीत्वा अनुवाच्य मनस्यैव पठित्वा प्रियालेखत्वात्सहर्षम् ) सखे माणवक ! प्रसन्नस्ते तर्कः-यत्त्वया तर्कितमासीत् तत्तु तथैव । शुद्धस्तेऽनुमानः ।।

 विदूषकः-यदत्र भूर्जपत्रे लिखितं तत् श्रोतुमिच्छामि ।  उर्वशी-साहु साहु अज्ज ! णाअरोसि । [साधु साधु आर्य ! नागरोऽसि ।]

 राजा- श्रृयताम्-

(इति वाचयति)

  सामिअ संभावितआ जह अहं तए अमुणिआ
   तह अ अणुरत्तस्स मुहअ एअमेअ तुह ।
  णवरि अ मे ललिअपारिआअसअणिज्जम्मि
   होन्ति सुहा णंदणवणवाआ वि सिहि व्व सरीरे ॥१२॥

  [स्वामिन् सम्भाविता यथाहं त्वयाज्ञात्री
   तथा चानुरक्तस्य सुभग एवमेव तव ।
  अनन्तरं च मे ललितपारिजातशयनीये
   भवन्ति सुखा नन्दनवनवाता अपि शिखीव शरीरे ॥१२॥]


 उर्वशी-साधु साधु-त्वया साधूक्तम् । आर्य ! नागरोऽसि चतुरोऽसि, यदेवं परस्परालम्बनयोः प्रीतिप्रसरः श्रोतुमिष्यते त्वया ।

 राजा-श्रृयताम्-यत्र लिखितमिति शेषः ।

(इति वाचयति-यदत्र लिखितं तत् पठति ।)

 उर्वशी-सामिअ ----इति-हे स्वामिन् प्राणेश्वर : यथा अहं त्वया अज्ञत्री त्वदीयपीडामजानती सम्भाविता कल्पिता तत्तु हे सुभग : मयि अनुरक्तस्य तव एवमेव सत्यम् । “नितान्तकठिनामिति” (१-११) इति पद्ये प्रतिपादितां मद्वियोगवेदनां भवदीयां अहं न ज्ञातवती अत एव यद् भवता परिकल्पितं यद् मया न ज्ञाता भवेत् भवदीया विरहवेदना इति तत्तु सत्यम् एव । मया तु भवतः मद्विषयका प्रीतिं तु न ज्ञातैव । अनन्तरं ज्ञातायां तु भवद्वेदनायां ललितं सुन्दरं कोमलं यत् पारिजातकुसुमविशेषनिर्मितं शयनीयं शय्या यदर्थमिति एतादृशि मम शरीरे सुखाः मुखशान्तिप्रदाः नन्दनवनवाताः नन्दनाख्ये अमरपुरवने पवमाना अत्यन्तशीतला अपि वाताः शिखीव अग्निरिव दाहका अभवन् । यतःप्रभृति मदनुरागकेन्द्रस्य भवतः नदर्थनेतादृशीं पीडां बोधितवती ततःप्रभृति कुसुमशय्यामधिशयाने मदीयशरीरे नन्दनवने वहन्तोऽपि मन्दमन्दममन्दामोदवन्तोऽपि वाताः अग्निरिव देहदाहकाः समपद्यन्त । इति स्वीयमनुरागं तस्मिन् प्रकाशयन्ती तदीयोपालम्भविषयितां आत्मनो निराचकार । पारिजातेति पदस्वीकारेण सुरद्रुमप्रसूनैः निर्मितेऽपि शयनीये मम विरहव्यथानल्पा आसीदिति भावः ।

 शिखीवेत्यत्र दाहकत्वरूपधर्माप्रदानेन धर्मलुप्तोपमालङ्कारः । कुमुमशयनीयत्वप्रदानेन च शरीरस्य शिरीषप्रसूनाधिकसौकुमार्यवत्त्वं व्यक्तम् । नन्दनवनवाता

  ७ विक्र०  उर्वशी-किं णु संपदं भणिस्सदि ? [किं नु साम्प्रतं भणिष्यति ?]

 चित्रलेखा-किं णु । भणिदं एव्व एदेण मलाणकमलणालोवमेहिं अंगेहिं । [किं नु । भणितमेवैतेन म्लानकमलनालोपमैरङ्गैः।]

 विदूषकः-दिट्ठिआ मए क्खु बुभुक्खिदेण सोत्थिवाअणिअं विअ लद्धं भवदो समस्सासणकारणम् । [ दिष्ट्या मया खलु बुभुक्षितेन स्वस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् ।]

 राजा-समाश्वासनमिति किमुच्यते ।

  तुल्यानुरागपिशुनं ललितार्थबन्धं
   पत्रे निवेशितमुदाहरणं प्रियायाः।
  उत्पक्ष्मलं मम सखे मदिरेक्षणाया-
   स्तस्याः समागतमिवाननमाननेन ॥ १३ ॥


अपि शिखीव भवन्तीत्यनेन मदनव्याधिः परः प्रकाशते । नायकस्यावमाननं उत्तमा नायिका न कदापि करिष्यतीति विज्ञापयितुं पूर्वार्धे तया नायकस्य प्रथमस्तावत् सन्देहो यथार्थ इति स्वीकृतम् , अनेन नायिकायाः साधारणत्वेऽप्युत्तमत्वं ध्वनितम् । "णवरि” इति प्राकृतं अनन्तरार्थे रूढम् । अत्र लेखो-"विवक्षितार्थकलिता पत्रिका लेख उच्यते" । भावाभिव्यक्तेरयं प्रथमः प्रकारः । इदं चतुष्पदीच्छन्दः ॥ १२ ॥

 उर्वशी-विचारयति । साम्प्रतं इदं पठित्वा किं नु भणिष्यति कथयिष्यति । नु इति वितर्के । अनेनौत्सुक्यातिशयं व्यज्यते ।

 चित्रलेखा-किं नु इति सन्देहानपेक्षा । एतेन नायकेन म्लानकमलनालसदृशैः स्वकैरङ्गैः कथितम् एव । यदस्याङ्गानि म्लानानि जातानि तेनास्य क्षीणता प्रकाशिता । इह नायको नूनमन्तःपिहितमदनविकारोऽस्तीति युक्तियुक्तवाक्याभिधानेनाप्रत्यक्षार्थस्य साधनात् विचारो नाम नाटकलक्षणम्-यदुक्तं दर्पणे- "विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थसाधनम्" इति ।

 विदूषकः-दिष्ट्या महद्भाग्यमेवैतत् । यथा बुभुक्षितस्य क्षुधितस्य कृते स्वस्तिवाचनिकमुपहारः भोज्यं वा लब्धं भवेत् , तथैव भवतोऽपि किमपि समाश्वासकारणम् प्रियालिखितमिदं प्रेमपत्रम् मया प्राप्तम् । तत्समाश्वसिहीति भावः । खस्तिवाचनिकं लाभकारी, अनेन इह भोज्यमित्यर्थः ।

 राजा-समाश्वासनमिति किमुच्यते । कुतो न भविष्यति सान्त्वनम्- यतः हेतुरेवेदं तस्य । यतः-तुल्येति । हे सखे ! प्रियाया उर्वश्यास्तुल्यः समानो योऽनुरागस्तस्य पिशुनं सूचकम् ; ललितः सुन्दरो योऽर्थः तस्य बन्धः निवेशो वाक्यरचना, वा यस्मिन् तत् रमणीयभावं उदाहरणमुक्तिः अनङ्गलेखो वा पत्रे  उर्वशी-एत्थ णो समभाआ मर्दा । [अत्रावयोः समभाग मतिः ।]

 राजा-वयस्य ! अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यतां अयं स्वहस्ते निक्षेपः प्रियायाः।


भूर्जपत्रे निवेशितम् लिखितम् । तत्तु अहं तस्याः अनुपमसौन्दर्यालङ्कृतायाः मदिरेक्षणायाः मदघूर्णितलोचनायाः उन्नते पक्ष्मले नेत्रलोमनि यस्मिन् तादृशं विस्फारितलोचनमाननं मम आननेन मुखेन समागतमिव मन्ये । तात्पर्य तु- अस्य पत्रस्य प्राप्तिं प्रियासमागमात् अन्यूनामिव मन्ये-प्रियासङ्गममेव मन्ये । एतत् पत्रं तु किं मिलितं, प्रियासमागम एव जात इति भावः । अनेन विरहातिरेकः गम्यते । यथा कश्चनात्यन्तिकवियोगविधुरः प्रेयस्या साक्षात् समागमेऽसम्भवे सति, तल्लेखप्रतिमादर्शनादिकमेव तत्समागममेव मन्यते, एवमेवात्र मन्वानस्य विप्रलम्भविधुरस्य तस्य विक्रमस्यानेन अतिशयप्रेमाभिव्यञ्जकं वियोगदुःसहत्वं ध्वन्यते। अत्र च पत्रे तदाननत्वसम्भावनयोत्प्रेक्षालङ्कारः। अत्र पुष्पं नाम सन्ध्यङ्गम् "पुष्पं विशेषवचनं मतम्" । पिशुनपदस्य अभिव्यञ्जकत्वरूपोऽप्यर्थः "पिशुनौ खलसूचकौ" इति त्रिकाण्डशेषः । माद्यत्यनयेति मदिरा इति मदि हर्पे (दिवादिः परस्मै सेट् ) धातोः “इषिमदिमुदि” (उ. १-१५१) इत्यादिना किरचान्तव्युत्पत्तेः मदिरामदविघूर्णन्नयनाया नायिकाया दर्शनात् हर्षः मदश्च जायते इति विशेषार्थबोधः । “सौष्ठवेनापरित्यक्ता स्मरापाङ्गमनोहरा ! वेपमानान्तरा दृष्टिर्मदिरा परिकीर्तिता" इति सङ्गीतकलिकायाम् ॥

 वसन्ततिलका वृत्तम् "उक्ता वसन्ततिलका तभजा जगौ गः" तकारभकारजकाराः यत्र सगुरुद्वया भवन्ति तत्र वसन्ततिलकाख्यं वृत्तम् । पादान्ते च यतिः॥१३॥

 उर्वशी-(चित्रलेखां प्रति) अत्र आवयोः समभागा समाना अनुकूला वः मतिः। यत् त्वयोकं “अस्य म्लानैः अङ्गकैः भणितमेवैतत्" इति यथार्थमेव ॥

 यद्वा-(विक्रममुद्दिश्यात्मगतमेव) एतस्य दर्शनेन आवयोः समागतमिवाभवत् इति यत् भवद्भिः भणितम् तत्तु मम विचारानुकूलमेव । अत्रावयोः सदृश एव विचारः।

 राजा-वयस्य माणवक ! मे अङ्गुलीजन्येन खेदेन अक्षराणि (अस्मिन् पत्रे लिखिताक्षररचना) लुप्यन्ते परिमृष्टानि भवन्ति ॥ लोपस्तु अविद्यमानता- "अदर्शनं लोपः" इति कौमुदी । अक्षराणि नष्टानि दुर्वाच्यानि वा भवन्ति । अत इति शेषः। प्रियायाः मम अयं निक्षेपः न्यासः स्वहस्ते धार्यताम् । निक्षेपपदेन पुनरेतद् दर्शनीयं देयं वा भवेत् इति सूचयति । साक्षात्समागमवेलायां कदापि भविष्यत्यस्यापेक्षा वा इति भावः ।  विदूषकः-(गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि ? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]

 उर्वशी–हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [ सखि ! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]

 चित्रलेखा-तहा।[तथा।] (इति तिरस्करिणीमपनीय राजानमु- पसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः।]

 राजा-(सम्भ्रमादरगर्भम् ) स्वागतं भवत्यै ( पार्श्वमवलोक्य ) भद्रे !


 विदूषकः-(गृहीत्वा-तत्पत्रमिति भावः) ततः परस्परालम्बनत्वेऽपि किम् तत्रभवती मान्या उर्वशी भवतः मनोरथः एव तरुः तस्य फलागमसूचकं कुसुम प्रदर्श्य पश्चात् फले विसंवदिष्यति मिथ्या भविष्यति । कुसुमागमानन्तरं क्वचिदेवेदं भवति यत् तरुषु फलं न दृश्येत । तथैव तदुपलब्धिरूपभवन्मनोरथानोकहे एतत्पत्रप्रेषणरूपकुसुमं प्रदर्श्य किं सा उर्वशी समागमरूपफले मिथ्यात्वं प्राप्स्यते। प्रायः नैतत्सम्भवमिति भावः। अत्र उर्वश्याः तत्रभवतीति विशेषणम् परं साकूतम् , मान्यस्यैतादृशः फलविसंवादः अयोग्य एव इति सामान्यवस्तुज्ञापनात्, अत एवात्र परिकरालङ्कृतिः । यथा कुसुमदर्शनानन्तरं तरुषु नान्तरीयकतया फलावगमः, एवमेव पत्रप्रेषणमनु नूनं समागमो भावीति साम्यादभूतार्थस्य कल्पनादिह अभिप्रायो नाम नाटकलक्षणम्-'अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पनेति' वचनात् । मनोरथतरुरित्यत्र रूपकम् । फले न कदापि विसंवदिष्यतीति तात्पर्यावगमादर्थापत्तिरलङ्कारश्च । एतेषां च संसृष्टिः ॥

 उर्वशी-सखि चित्रलेखे ! यावता समयेन उपस्थाने उप तस्य समीपे स्थाने स्थितौ तत्समीपागमे कातरं भीरु आत्मानं समवस्थापयामि समाश्वासयामि तावता कालेन त्वं आत्मानं दर्शयित्वा तिरस्करिणीं विहाय सर्वलक्ष्या भूत्वा यत् मे मम अनुमतं वाञ्छितं तद्भण तत् सर्वं तस्मै विज्ञापय । भावाभिव्यक्तेरयमपरः प्रकारः यथाह विश्वनाथः-'दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते'।

 चित्रलेखा--तथा-उचितम् , तथैव करोमि । (इति तिरस्करिणीं अलक्ष्यतामपनीय दूरीकृत्य राजानमुपसृत्य) जयतु जयतु महाराजः । जयपाठेन महाराजस्य कल्याणशंसनं करोति ।

 राजा-(सम्भ्रमः विस्मयजन्यं भयम् तत्सहितं चित्रलेखाविषये आत्मनः प्रियायाः सखित्वात् आदरं प्रदर्श्य ) खागतं भवत्यै-इति समुदाचारः।

(पार्श्वमवलोक्य इत आस्यताम् इति बोधयति ) भद्रे कल्याणिनि !

न तथा नन्दयसि मां सख्या विरहिता तया ।
सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥

 चित्रलेखा-णं पढमं मेहराई दीनदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते पश्चाद्विद्युल्लता।]


 नेति -तया मद्बुद्धिस्थप्रकारावच्छिन्नया पूर्वदृष्टया अपूर्वया अनुपमसौन्दर्यया उर्वश्या विरहिता विहीना त्वं मां तथा तादृङ् न नन्दयति आनन्दयसि । तां विना त्वदागमनं न मदानन्दहेतुः, तद्विरहात् आनन्दात्यन्ताभावात् । यथा सङ्गमे प्रयागे दृष्टपूर्वा यमुना पश्चात् गङ्गया विहीना दृष्टा सती न तथा तादृशं आनन्दं ददाति । यथा वा गङ्गायमुनयोः सङ्गने द्ष्टशोभा यमुना यदि गङ्गां विना पुनरपि दृष्टा चेत् न ना तादृशीमभिख्यां धत्ते न च प्रेक्षकान् , नन्दयति तथैव उवर्श्या विना एकाकिनी त्वं मदाल्हादजनयित्री भवितुं नार्हसि इति भावः । अत्र उपमालङ्कारः । विनार्थसम्बन्धात् विनोक्तिश्च। अनेन गङ्गासदृशत्वप्रतिपादनेन नायिकायाः शुभ्रत्वं परमगाम्भीर्यं च सूच्यते । अत्र पूर्वार्धे तथेति पदम् उत्तरार्धगतस्य यथेतिपदस्य सहकारित्वात् केवलमौपम्यसूचकं न, परन्तु तथेति पदमत्र नन्दयतेः आनन्दनव्यापारस्य इयत्तासूचकं परिमाणवोधकं क्रियाविशेषणम् ! यावदानन्दमुर्वशीसहकृता त्वं ददासि न तावत्त्वं तदसहकृतेति भावः, अतएव तथेति क्रियाविशेषणस्य उपमेयोपमानोभयकोट्योः अन्वयो विधेयः । सरलार्थस्तु-यथा प्रयागे गङ्गयासह सङ्गता यमुना एकदा दृष्टा सती पश्चात् एकाकिनी दृष्टा चेन्न तादृक्प्रमोदहेतुर्भवति एवमेव कमनीयया कामिन्या प्रियसख्या उर्वश्या सह एकदा दृष्टा त्वमिदानीमेकाकिनी मिलिता सती तादृशं (तावत्परिमाणकं ) मे विनोदं न विदधासीति उत्कण्ठितस्य नायकस्य आकूतम् ।। अनुष्टुब् वृत्तम् ॥ १४ ॥

 चित्रलेखा-ननु अवधारणे । प्रथमं मेघराजिः जलदपङ्क्तिः दृश्यते, पश्चात् विद्युल्लता । आदो अहं दृष्टा पश्चात्सापि आगमिष्यति यथा प्रथमं मेघाः दृश्यन्ते पश्चात्तडिद्दर्शनम् । अनेन तस्यां विद्युत्त्वारोपणेन दीप्तिमत्त्वं, चाञ्चल्यम् , ईषत्कालपर्यन्तं स्थितिश्च तस्याः व्यज्यते । अत्र सुन्दरं कियदाह्लादकं परम्परितरूपकम् । यदि चित्रलेखायां प्रथमप्रादुर्भावात् मेघराजित्वारोपणं सम्पद्यते तदा तस्यामपि विद्युलतात्वारोपणं भवेदिति निगीर्याध्यवसानाद् रूपकातिशयोक्तिः । पूर्व 'न तथा नन्दयसीति' पद्ये नायकेन उर्वशीचित्रलेखयोः दिव्याङ्गनयोः सततप्रवाहिन्योः नद्योः गङ्गायमुनयोरध्यवसानात् नायिकायाः गङ्गासदृशमत्रत्यं सातत्यं विज्ञापितमभूत् किन्तु वाक्केलिनिपुणया चित्रलेखया मेघपङ्क्तिविद्युल्लतयोरध्यवसानादचिरस्थायित्वं झगिति दृश्यमानत्वं आशुगामित्वमात्मनः ख्यापयन्त्या नायकोक्तिः प्रत्याख्याता; अनेन च पूर्ववद् युवयोः सम्मेलनमाशु भावि, परश्च विरहोऽपि नूनं तथैवेति रसतन्त्रकोविदया दूत्या सम्यग् ध्वनितमित्यतो वक्रोक्तिचमत्कृतिरत्र विभावनीयेति रहस्यम् ॥  विदूषकः-(अपवार्य ) कहं ण एसा उव्वसी उवगदा ! तत्त- भोदीए उव्वसीए सहअरीए एदाए होदव्वम् । [ कथं नैषा उर्वश्युपगता ! तत्रभवत्या उर्वश्याः सहचर्यैतया भवितव्यम् ।]

 राजा-एतदासनमास्यताम् ।

 चित्रलेखा-उव्वसी महाराअं सिरसा पणमिअ विष्णवेदि । [उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति ।]

 राजा-किमाज्ञापयति-

 चित्रलेखा-मम तस्सिं सुरारिसंभवे दुण्णए महाराओ एव्वं सरणं आसी । संपदं सा अहं तुह दंसणसमुत्थेण आआसिणा बलिअं बाधिअमाणा मअणेण पुणो वि महाराअस्स अणुकंपणीआ होमि । [मम तस्मिन् सुरारिसम्भवे दुर्नये महाराज एव शरणमासीत् । साम्प्रतं साहं तव दर्शनसमुत्थेनायासिना बलवद्वाध्यमाना मदनेन पुनरपि महाराजस्यानुकम्पनीया भवामि ।]


 विदूषकः-(मनस्येव उभयोर्वाक्प्रसरं निशम्य विचारयति ) कथं नैषा उर्वशी उपगता ! आदौ “जयतु जयतु" इति शब्दं श्रुत्वा तु तेन इयमेवोर्वशीति अनुमितमासीत् किन्तु उत्तरेण वाक्यार्थेन शङ्का समुत्पन्ना । तदा स विदूषको विचारयति । नेयमुर्वशी । भवेदियं तस्याः सखी इति ।

 राजा-(चित्रलेखां प्रति ) इदमासनमास्यताम् । अत्रोपविशेति भावः ।

 चित्रलेखा-उर्वशी महाराज शिरसा प्रणम्य एतत् कथ्यमानं विज्ञापयति निवेदयति ।

 राजा-किमाज्ञापयति । नायकः प्रेमवशात् तन्निवेदनम् अवश्यकरणीयत्वगुणसम्पन्नमाज्ञापनमिति मन्यते ।

 चित्रलेखा-मम तस्मिन् (प्रथमाङ्कोद्दिष्टे) सुरारेः सम्भवः यस्य सः तस्मिन् , दैत्यकृते दुर्नये विप्लवे महाराज एव शरणं रक्षितासीत् । 'शरणं - गृहरक्षित्रोः' इति कोषः। यदाहं केशिना दैत्येनापहृता तदा भवतैवाभयं दत्त्वा समुद्धृता। साम्प्रतं सैवाहं तव दर्शनात् समुत्थेन समुत्पन्नेन आयासिना संत्रासकेन मदनेन बलवद् अत्यन्तं बाध्यमाना पीड्यमाना पुनरपि यथापूर्वं महाराजस्यानुकम्पनीया दयनीया भवामि । यथा पुरा केशिबाधातः समुद्धृताऽहं तथैवाधुना भवद्दर्शनोत्पन्नेन कामेन सन्तप्ताहं दयनीयेति प्रार्थयति । अत्र चित्रलेखा उर्वश्याः दूतीत्वं स्वीकरोति।

 तथा च 'सुरारिसम्भवेति' परं च, दर्शनसमुत्थेनेत्यत्र एकत्र "भुवः प्रभवश्च" परत्र “जनिकर्तुः प्रकृतिः" इति सूत्रद्वयेन पञ्चमी ।  राजा-अयि सखि!

  पर्युत्सुकां कथयसि प्रियदर्शनां ता-
   मार्तिं न पश्यसि पुरूरवसस्तदर्थाम् ।
  साधारणोऽयमुभयोः प्रणयो यतस्व
   तां कौमुदीमिव समागमयेन्दुबिम्बे ॥ १५ ॥

 चित्रलेखा-(उर्वशीमुपेत्य ) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवुत्ता। [ सखि ! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता।]

 राजा-अयि सखि !

 पर्युत्सुकामिति-प्रियं दर्शनमवलोकनं यस्याः सा एतादृशी प्रियदर्शना मनोहारिणी । ताम् त्वं पर्युत्सुकां मयि उत्कण्ठित्तां कथयसि तथा च पुरूरवसः मम तस्यै इति तदर्थामार्तिं पीडां न पश्यसि । त्वं निवेदयसि यत् मनोहररूपा सा मनोजेन भृशं पीडिता किन्तु अहमपि तथैवास्मीति नावबुद्धं त्वया इत्यर्थः। यतः आवयोः पारस्परिकी समुत्कण्ठा विद्यते तदा त्वं कथं नावाम् सम्मेलयसीति- अयं प्रणयः प्रेम उभयोरावयोः साधारणः सामान्यम् । अतः कौमुदीं चन्द्रिकां इव तां इन्दुबिम्बे मयि समागमय सम्मेलय । तदर्थं यतस्व । यथा इन्दुबिम्बं चन्द्रिकायाः साहजिकं स्थानं तथैव कौमुदीसदृशायां तस्यां विश्लेषितायां स्वस्थानान् , त्वं तदीया सखी भूत्वापि कथं नावाम् समागमयसि । तदर्थं त्वया यत्नः कार्यः इति तां अभ्यर्थयते राजा।

 अत्र उर्वश्याः नयनानन्दकरत्वेन कौमुद्या सह साधर्म्यप्रदर्शनात् उपमालङ्कृतिः। इन्दुबिम्बेति प्रदानेन स्वस्य तदीयप्रेमपात्रत्वम् गम्यते । इह नायकस्य प्रणयपूर्णाया धृतेः सत्त्वात् द्युतिसमाख्यं प्रतिमुखसन्ध्यङ्गम् , यदुक्तं धानञ्जये- "धृतिस्तज्जाद्युतिर्मता” इति । ममेति पदमप्रयुज्य पुरूरवस इति अन्यपुरुषसम्बोधनेन स्वीयमाहात्म्यं प्रकाशयन् “ममेति" कथनेन आगम्यमानं निर्लज्जत्वं वारयति । यत्नस्य साधारणप्रणयहेतुकत्वादत्र काव्यलिङ्गमलङ्कारः । वसन्ततिलका वृत्तम् ॥ १५॥

 चित्रलेखा-(उर्वशी तिरस्करिणीसमावृतामुपेत्य) सखि ! इतः अस्मात् स्थानात् एहि गच्छ । निभृततरं अदृश्यं भीषणं परमनिर्दयं मदनं प्रेक्ष्य ते तव प्रियतमस्य विक्रमस्य दूती प्रियासङ्गमयित्री मदनसमाचारदात्री च अस्मि अहं संवृत्ता । मया नाम मदनेन भृशं पीडितस्य तव प्रियस्य प्रियाह्वानरूपं दूतीत्वमपि स्वीकृतम् । अत्रास्मीतिपदं उत्तमपुरुषवाचकं अव्ययम् ।

 इह नायकस्य नायिकाविषये दूतिप्रयोगः । दूत्याः गुणास्तावदाह विश्वनाथपण्डितः उर्वशी-(तिरस्करिणीमपनीय) अयि अणवत्थिदे ! लहु एव्व तुए परिच्चत्ताम्हि । [अयि अनवस्थिते ! लघु एव त्वया परित्यक्तास्मि ।]

 चित्रलेखा-( सस्मितम् ) एदस्सिं मुहुत्ते जाणिस्सामो को कं तजिस्सदि त्ति । आआरं दाव पडिवज्ज । [एतस्मिन् मुहूर्ते ज्ञास्यामः कः कं त्यक्ष्यतीति । आकारं तावत् प्रतिपद्यस्व ।]

 उर्वशी-(ससाध्वसमुपसृत्य सव्रीडम्) जेदु जेदु महाराओ। [जयतु जयतु महाराजः।]

 राजा-(सहर्षम् ) सुन्दरि !


"कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ।
माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ।"

 इयं चेह दूती उत्तमा–यतः अनयेह परमौचित्यं कृतम् । भृशं पीडितयोर्नायकनायिकयोरवस्थां निरूप्य मेलनप्रकारः क्रियते इति ।--"एता अपि यथौचित्यमुत्तमाधममध्यमाः" - तथा चेयं दूती निसृष्टार्था-"उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः"-स इति दूतः। एतदेव लक्षणं दूत्या अपि “कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधः" इति वचनप्रामाण्यात् ।

 उर्वशी-(तिरस्करिणीं रूपगोपिनीं विद्यां अपनीय ) अयि अनवस्थिते ! अयि विशेषोत्साहत्वादविमृश्यकारिणि ! अहं त्यया लघु एव अल्पकालमेव [लघ्व्या हीनया इव (पाठान्तरम् ) ] परित्यक्ताऽस्मि । यद्यपि उर्वशी तस्याः सत्वरागमनं मनसि प्रशंसति तथापि उत्तमनायिकात्त्वात् स्वीयोत्साहं गोप्तुमनास्तामेवाधिक्षिपति।

 चित्रलेखा-(सस्मितं) एतस्मिन् मुहूर्ते प्रियसङ्गमसमये ज्ञास्यामः कः कम् त्यक्ष्यति ।-कथं वा त्वं प्रियं सत्वरं परित्यक्तुं प्रभवसि । तत्प्रियं आकारं स्वरूपं तावदादौ प्राप्नुहि ।

 त्वं तु विरहं असहमाना तत्प्रियस्वरूपं निरूप्य कथं तं त्यक्ष्यसीति वयं जानीमः इति उर्वशीकृतमधिक्षेपं प्रत्यधिक्षिपति । अत्र परिहासस्य गम्यत्वात् "नर्म" नाम सन्ध्यङ्गम् । यदुक्तं “परिहासवचो नर्म" । इति ।

 उर्वशी-( ससाध्वसं राज्ञः तेजोविशेषात् सभयं उपसृत्य समीपं गत्वा । सव्रीडम् सलज्जम् प्रियदर्शनात् ) जयतु जयतु महाराजः । महाराजस्य जयमाकाङ्क्षती नायिका स्वीयप्रियस्योत्कर्षमभीप्सते ।

 राजा-(सहर्षम्-प्रियालोकनात् ) सुन्दरि मनोरमे !

मया नाम जितं यस्य त्वयायं समुदीर्यते ।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १६ ॥

(हस्ते गृहीत्वा आसन उपवेशयति ।)

 विदूषकः-कीदिसी त्थिति भोदीए रज्जे । पिअवअस्सो वम्हणो ण वन्दीअदि । [ कीदृशी स्थितिर्भवदीये राज्ये, प्रियवयस्यो ब्राह्मणो न वन्द्यते।]

(उर्वशी सस्मितं प्रणमति ।


 मयेति -मया नाम जितम्-सत्यमेव ममोत्कर्षः संजातः। अवित्थमेवोत्कर्षशाली अहम् । यतः पदमिदम् पुरा पुरन्दरप्रयोज्यमेवाभवत् साम्प्रतं तु मादृशि जने तस्य प्रवृत्तत्वात् सत्यमहमुत्कर्षशालीति भावः । तस्य हेतुमाह- यस्य पुरुषस्य त्वया तादृशया अयं जयशब्दः समुदीर्यते प्रोच्यते; यो जयशब्दः सहस्राक्षादिन्द्रात् पुरुषान्तरम् मामुपागतः प्राप्तः । अन्यः पुरुषः पुरुषान्तरः ।

 अत्र सुमुखिमनोरमप्रियादिविविधपदोपादानविरहपूर्वकं केवलं सुन्दरीपदप्रदानेन परमादरणीयत्वं स्वलावण्येन चित्तद्रावकत्वं च व्यज्यते । सु द्रियते इति सुन्दरः 'दृङ् आदरे' ( तुदादि-आ. अ.) "गृहबृह" ( ३।३।५८ ) इत्यादिना अप् प्रत्ययः । अनया व्युत्पत्त्या आदरणीयत्वं व्यज्यते । तथाच नु उनत्ति चित्तं द्रवीकरोति इति सुन्दः "उन्दी क्लेदने" ( रु. प. से.) ततश्च बाहुलकादरः । "शकन्ध्वादिः" (वा. ६।१.९४) तेन च सुन्दरः। पश्चात् "स्त्रियां गौरादित्वात्" (४।१।४१) इति सूत्रेण ङीष् । तेन सुन्दरीतिसम्बुद्ध्या हृदयद्राविरूपसम्पन्नत्वं नायिकाया व्यज्यते।

 तथा च "जेदु जेदु" इत्यतः “पुरुषान्तर"पर्यन्तम् नायकनायिकयोरुत्तरोत्तरसंवादेन "प्रगमनं" नाम प्रतिमुखसन्ध्यङ्गम्--यदुक्तं दर्पणे-“प्रगमनं वाक्यं स्यादुत्तरोत्तरम्" इति । अनुष्टुब्वृत्तम् ॥ १६ ॥

 हस्ते गृहीत्वा तां आसने उपवेशयति । उपपूर्वकविशतेर्णिजन्तप्रयोगः। तेन च प्रेमातिशयं द्योत्यते।

 विदूषकः-उर्वशी राजानं प्रेक्ष्य प्रेमातिशयात् सर्व समुदाचारं विस्मरन्ती तं भृशं निदिध्यायन्ती अन्तरे विदूषकोपालम्भे पतिता । भवदीये राज्ये कीदृशीयं स्थितिः यत् प्रियवयस्यो ब्राह्मणो न वन्द्यते । कोऽयं युष्माकं शिष्टाचारो यद् वन्दनीयस्य वन्दनरूपं सत्पथः अवमन्यते । अत्र 'हासः'यल्लक्षणं-भाषणाकृतिवेषाणां क्रियायाश्च विकारतः। लौल्यादेश्च परस्थानामेषामनुकृतेरिति ॥ विकासश्चेतसो हासः॥

(उर्वशी ईषद्धसन्ती विदूषकं प्रणमति ।)

विदूषकः-सोत्थि भोदीए । [ स्वस्ति भवत्यै। ]

देवदतः-चित्रलेखे ! त्वरयोर्वशीम्----

  मुनिना भरतेन यः प्रयोगो
   भवतीष्वष्टरसाश्रयो निबद्धः ।
  ललिताभिनयं तमद्य भर्ता
   मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥

(सर्वे आकर्णयन्ति । उर्वशी विषादं रूपयति ।)


विदूषकः :-स च स्वीयधर्मानुसारं प्रणमन्त्यै तस्यै स्वस्तीति कल्याणकरेण वचसा मङ्गलमाशास्ते।
देवदूतः-चित्रलेखे ! उर्वशीं त्वरय शीघ्रं सज्जीकुरु ! “ञित्वरा संभ्रमे" (भ्वा. उ. से.) तस्मात् लोटः प्रयोगः ।
मुनिनेति-मुनिना भरतेन नाट्यशास्त्रविधात्रा यः ( अष्टौ च ते रसाश्च अष्टरसा शृङ्गारप्रभृतयः आश्रयन्ते यस्मिन् इति ) अष्टरसाश्रयः सकलरसालङ्कृतः प्रयोगः नाट्यप्रयोगः भवतीषु अप्सरःसु निबद्धः अध्यापनेन स्थापितः, ललितो मनोहारी अभिनयः भावाभिव्यञ्जनं यस्मिन्निति तादृशं हावभावपरिपूर्ण तं प्रयोगविशेषं लोकान् पालयन्ति ते लोकपालाः तैः सह मरुतां देवानां भर्ता इन्द्रः अद्य द्रष्टुमनाः द्रष्टुमिच्छति ।

 यः प्रयोगः भवत्यो भरतेन पाठितः तं साभिनयं प्रयोगं अद्य इन्द्रो दिदृक्षतीति भावः । अत एव उर्वशीं त्वरितं प्रयोगाय सज्जीकुरु ।

 भरतः सङ्गीतनाट्यशास्त्रविधाता । प्रयुज्यते रङ्गाङ्गणेऽभिनीयत इति प्रयोगः ।

 अभिनयति व्यञ्जयति अर्थम् इति अभिनयः अभिनयतीति पचाद्यच् । अभिनयो वाचिकाङ्गिकाहार्यसात्त्विकभेदाच्चतुर्विधः । अभिनयो हि अङ्गविक्षेपादिमयैः हावभावैः इङ्गितैश्च मनोगतार्थव्यञ्जनम् ।

 अनया त्वरया नायकनायिकयोरुत्कण्ठावृद्धिर्विधीयते । एतदेव कवेश्चातुर्य यत् तयोः पारस्परिकं मेलनं बहुधा केनापि दृश्येनान्तरायते । क्वचिद्देवी मध्ये समायाति, क्वचिद्व्यग्रता स्वीयं प्राधान्यं व्यनक्ति; क्वचिन्नायिका च तत्पालकैराहूयते इति विविधैर्हेतुभिः तयोः समागमे जायमाने केनाप्यन्तरायेण तज्जन्येन च वियोगेन पारस्परिकोऽभिलाषः उत्कण्ठा च विवर्धते । तेन चमत्कारातिशयश्च रसिकानां परमप्रमोदजनकः सम्पद्यते । अत्र कृच्छ्रेण मिलितयोः परस्परोद्बुद्धभावयोः नायकनायिकयोः विश्लेषणानिरोधनं नाम प्रतिमुखसन्ध्यङ्गम् । यदुक्तं दशरूपके-“हितरोधो निरोधन"मिति ।

 वृत्तं औपच्छन्दसिकम् । लक्षणं तूक्तमेव प्राक् ॥ १७॥

(इमां घोषणां सर्वे आकर्णयन्ति शृण्वन्ति ।)

(उर्वशी च प्रियविरहजनितं विषादं शोकं रूपयति प्रदर्शयति ।)

 चित्रलेखा-सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि

महाराअम् । [ श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् । ]

 उर्वशी-(निःश्वस्य ) णस्थि मे वाआविहवो । [ नास्ति मे वाग्विभवः।]

 चित्रलेखा-महाराअ ! उव्वसी विण्णवेदि-परवसो अअं जणो । महाराएण अव्भणुण्णादा इच्छामि देअदेअस्स अणवरद्धं अत्ताणों कादुम् । [ महाराज ! उर्वशी विज्ञापयति-परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् । ]

 राजा-( कथं कथमपि वचनं संस्थाप्य ) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।


 चित्रलेखा -त्वया देवदूतस्य श्रुतं वचनम् । अत एव महाराजम् अनु- जानीहि । महाराजात् गन्तुमनुज्ञां गृहाण । गमनायापृच्छस्वेति भावः।

 उर्वशी-(निःश्वस्य शोकाकुलत्वात् ) मे वाग्विभवः वाचि सामर्थ्यं नास्ति । नाहं प्रभवामि अनुज्ञां ग्रहीतुम् । अनेन नायिकाया विरहकातरत्वं गम्यते ।

 चित्रलेखा -महाराज : उर्वशी विज्ञापयति निवेदयति-

 अयं जनः भवत्सु दत्तचित्तः परवशः पराधीनः । (तथापि ) महाराजेन अभ्यनुज्ञाता दत्तगमनाज्ञा विसर्जिता वा देवदेवस्येन्द्रस्यानपराद्धम् अपराधदूषणशून्यमात्मानं कर्तुं इच्छामि-यदि भवद्भिराज्ञा दीयते चेत् यथासमयं यथास्थानं प्राप्ता देवदेवाज्ञां विधित्सुरयं जनः इति उर्वशी निवेदयतीति भावः । गन्तुमाज्ञा गृह्णाति । विक्रमे वद्धभावत्वान्नायिकाया पराधीनत्वं, अत एव महाराजानुज्ञानप्रयत्नस्य च सामञ्स्यम् । अथवा महेन्द्राधीनत्वात् पारवश्यमुर्वश्याः इति अधरः पक्षः, प्रणयिन्या अपि प्रेमापरतन्त्रानुवर्तिवाङ्गीकारात् ।

 राजा-(कथं कथमपि महता क्लेशेन वचनं संस्थाप्य खीकृत्य ददति-स एतादृग् वियोगकातरः सञ्जातो यद् वचनादानेऽप्यशक्तः।)

 भवत्योः उर्वशीचित्रलेखयोः ईश्वरनियोगपरिपन्थी प्रभोराज्ञाभङ्गकर्ता न भवामि । नियोगः आज्ञा तस्य परिपन्थी विपक्षो विरोधी वा। किन्तु अयं जनः स्मर्तव्यः । भवतामेवाहमिति स्मृतिः परिपालनीया इति भावः ।

 अत्र ईश्वरशब्दस्य ऐश्वर्यशालित्वम् प्रभुत्वमर्थः, न तु क्लेशकर्मविपाकादिभिरपरामृष्टपुरुपविशेषत्वम् । यतः प्रसिद्धा एव इन्द्रादीनां कर्मपरतन्त्रता, शतमखत्वेन

इन्द्रत्वप्राप्तिश्रवणात् , ययातेश्च इन्द्रपदपरिच्युतिस्मरणाच्च ।

(उर्वशी वियोगदुःखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्रान्ता ।)

 राजा-(सनिःश्वासम् ) वैयर्थ्यमिव चक्षुषः सम्प्रति ।

 विदूषकः-(पत्रं दर्शयितुकामः) णं भुज्ज-( इत्यर्धोक्तेनात्मगतम् ) अविद अविद भो, उव्वसीदसणविम्हिदेण मए तं भुजवत्तं पब्भट्टं वि हत्ताणो ण विण्णादम् । [ननु भूर्ज- । हा धिक् हा धिग् भोः । उर्वशीदर्शनविस्मितेन मया तद्भूर्जपत्रं प्रभ्रष्टमपि हस्तान्न विज्ञातम् ।]

 राजा-किमसि वक्तुकामः ।

 विदूषकः -वअस्स ! एदम्हि वत्तुकामो । मा भवं अंगाईं वि मुंचदु । दिढं क्खु तुई बद्धभावा उव्वसी । ण सा इदो गदुअ एदं


 ( उर्वशी वियोगदुःखं वियोगजन्यं दुःखं रूपयित्वा प्रदर्शयन्ती सख्या चित्रलेखया सह निष्क्रान्ता) अत्र नायिकानिर्गमो स्थायिनः रतेः परिपोषाय । इह च विप्रलम्भः शृङ्गारः, सम्भोगस्योपबृंहणे विप्रलम्भस्य हेतुत्वात् । “न विना विप्रलम्भेन शृङ्गारः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागोऽभिवर्धते" इति न्यायात् ।

 राजा-(वियोगजन्यदुःखस्य दुःसहत्वात् सनिःश्वासम् )

 सम्प्रति अस्तायां तु नयनचन्द्रिकायां तस्यां, चक्षुषः वैयर्थ्यम् वृथात्वम् । निष्प्रयोजने एव नयने इदानीं, तयोर्दृश्याभावात् । अयमेवार्थो भवभूतिनापि निबद्धः-

  असारं संसारं परिमुषितरत्नं त्रिभुवनं
   निरालोकं लोकं मरणशरणं बान्धवजनम् ।
  अदर्पं कन्दर्पं जननयननिर्माणमफलं
   जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ इति ॥

       ( मालतीमाधवे ५:३०)

 विदूषकः-(पत्रं प्रियाक्षरालीविभूषितं भूर्जपत्रं राजानं समाश्वासयितुं दर्शयितुमिच्छति ।)

 ननु इति शङ्कायां-भूर्ज-इत्यर्धोक्ते भूर्जपत्रादर्शनात् साशङ्कं मौनं धत्ते । (आत्मगतम्) अविदाविद भोः किमेतदाश्चर्यमापतितम् । उर्वशीदर्शनात् विस्मितेन चकितेन सम्भ्रान्तेन वा मया तत् उर्वशीलिखितं भूर्जपत्रं हस्तात् प्रभ्रष्टमपास्तं स्रस्तमपि न ज्ञातम् । अविदितमेव विस्मितस्य मे हस्तादपास्तं भूर्जपत्रमिति भावः।

 राजा--किमपि विदूषकमुखनिर्गतं शब्दं निशम्याह-किमसि वक्तुकामः । वक्तुमिच्छसीति भावः ।

 विदूषकः-चातुर्येण नष्टं भूर्जपत्रं विहाय किमप्यन्यदेव वदति ।

 वयस्य ! एतदेव वक्तुं इच्छामि । भवान् अङ्गानि स्वीयसहिष्णुतां धैर्य वा मा विमुञ्चतु । धैर्य परिष्वजस्व । उर्वशी त्वयि बद्धभावा बद्धप्रेमा । आसक्ता अणुबंधं सिढिलीकरेदि । [ वयस्य ! एतदस्मि वक्तुकामः । मा भवानङ्गानि विमुञ्चतु । दृढं खलु त्वयि बद्धभावा उर्वशी । न सा इतो गत्वा एनमनुवन्धं शिथिलीकरोति । ]

 राजा-ममाप्येतदेव मनसि वर्तते । तया खलु प्रस्थाने-

अनीशया शरीरस्य हृदयं स्ववशं मयि ।
स्तनकम्पक्रियालक्ष्यैर्न्यस्तं नि:श्वसितैरिव ॥ १८ ॥

 {{bold|विदूषकः-(स्वगतम् ) वेवदि मे हिअअं केत्तिए वेलाए तस्स भुजवत्तस्स अत्तभवदा वअस्सेण णामं गेण्हिदव्वं त्ति ।

 [ वेपते मे हृदयं कस्यां वेलायां तस्य भूर्जपत्रस्यात्रभवता वयस्येन नाम ग्राह्यमिति ।]


हि त्वय्युर्वशी । खलु निश्चये । सा इतो गत्वा एनमनुबन्धमासक्तिं प्रीतिं वा न शिथिलीकरिष्यति न्यूनां करिष्यति । इह शिथिलीकरोतीति भाविनि अर्थे लट् ।

 राजा-समीचीनम् । मम मनसि अपि एतदेव अयमेव भावो वर्तते । तया खलु प्रस्थाने गमनवेलायाम्-चूर्णकस्थस्यास्य वाक्यार्धस्य वक्ष्यमाणश्लोकेनान्वयः-

 अनीशयेति-शरीरस्य स्वदेहस्यापि अनीशा अनीश्वरा तया स्वदेहस्यापि न प्रभवन्त्या तया स्ववशं स्वतन्त्रं हृदयं मयि स्तनयोः कम्पः तस्य च क्रिया तया लक्ष्यैरुन्नेयैरनुमेयैर्वा निःश्वसितैः श्वासैर्न्यस्तं स्थापितमिव । शरीरस्यानीशत्वमिन्द्राधीनत्वाद्वेत्यपरोऽपि पक्षः ।

 "अनीशया इति" चूर्णकस्थस्य तयेतिपदस्य विशेषणम् । अथवा शरीरस्य अनीशत्वम् इन्द्राधीनत्वात् । किन्तु हृदयन्तु स्ववशं स्वाधीनमेवासीत् । ततः स्वाधीनं हृदयं मयि स्थापितमिति वा भावः । किन्तु-

 मां प्रेक्ष्य कुसुमचापशरनिकरेण भृशं बाध्यमाना स्वीयदेहोपरि स्वामित्वमनुपलभमाना मय्येव खस्य हृदयं स्थापितवती । कथं स्थापितवतीति शङ्कायाम् उत्प्रेक्षते तावद्यत् तया वेगेन चलद्भिः श्वासैः इव स्थापितं स्वहृदयम् । ते च श्वासोच्छासाः कथं नामोन्नेया इति स्तनयोः कम्पनेनानुमेयमिदमभवत् यदभवत् तत्र वेगवत्तरा श्वासा इति । "न्यस्तमिवे"ति उत्प्रेक्षालङ्कारः । अनुष्टुब् वृत्तम् ॥ १८॥

 विदूषकः-(स्वगतम् ) मे हृदयं वेपते कम्पते, भीतत्वात् । कुतो भयमित्याह-कस्यां वेलायां तस्य प्रियाक्षरालीयुतस्य भूर्जपत्रस्य अत्रभवता मान्येन वयस्येन राज्ञा नाम ग्राह्यम् । भूर्जपत्रं तु नष्टम् । अतः एतदेव मे भयं यत् गृहीते तु तन्नामानि कुतो देयम् तत् पत्रमिति अतः हृदयं मे वेपते ।


 ८ विक्र०  राजा-वयस्य ! केनेदानीं उन्मनसमात्मानं विनोदयामि । (स्मृत्वा ) उपनय भूर्जपत्रम् ।

 विदूषकः-(सर्वतो दृष्ट्वा सविषादम् ) हा कहं ण दिस्सदि । भो, दिव्वं क्खु तं भुजवत्तं गदं उव्वसीमग्गेण । [हा! कथं न दृश्यते । भोः ! दिव्यं खलु तद्भूर्जपत्रं गतमुर्वशीमार्गेण । ]

 राजा-(सासूयम्) सर्वत्र प्रमादी वैधेयः ।

 विदूषकः-णं विचिणु (उत्थाय) इदो भवे । एत्थ वा भवे । [ननु विचिनुहि । इतो भवेत्, अत्र वा भवेत् । ]

(इति विचेतव्यं नाटयति ।)

(ततः प्रविशत्यौशीनरी चेटी च विभवतश्च परिवारः।)

 औशीनरी-हञ्जे णिउणिए ! सच्चं किं लदाघरं विसन्तो अज्जमाणवअसहाओ दिट्ठो तुए महाराओ ? [हञ्जे निपुणिके ! सत्यं


 राजा-वयस्य ! सखे माणवक ! उन्मनसं विमनायमानं खिन्नं वा ममात्मानं इदानीं केन उपायेन विनोदयामि । कथं नाम खिन्नं मे मनः विनोदयितव्यम् इति पृच्छति । (स्मृत्वा भूर्जपत्रं स्मृतिमुपनीय ) उपनय भूर्जपत्रम्-उपनय देहि आनय वा।

 विदूषकः-(सर्वतः सर्वत्र दृष्ट्वा सविषादम् सखेदम् ) हा इति शोके- विस्मयगर्भितेन शोकेन ब्रूते-कथं न दृश्यते ! कुत्र तद्गतम् । अहं तु न कुत्रापि गतवान् । भोः ! तद्भूर्जपत्रं दिव्यमलौकिकम् तेन च उर्वशीमार्गेण गतम् । अत्र दिव्यत्वेन तस्मिन् सचेतनत्वं परिकल्प्यते । इदं विदूषकस्य वाक्पाटवम् ।

 राजा-(सासूयम्-तस्मिन् दोषमारोप्य-सक्रोधम् वा) सर्वत्र प्रमादी असावधानो वैधेयो मूढः । विधेयस्याधिकारी वैधयः इत्यण् ।

 "मूर्खवैधेयबालिशा" इत्यमरः । केचित् वैधेयपदेन नीचतां ख्यापयन्ति ।

 विदूषकः-ननु विचिनुहि-मार्गय तद्भूर्जपत्रम् । (उत्थाय ) इतः अत्र भवेत् वा तत्र भवेत् तत् भूर्जपत्रम् इति तद्वस्तु विचेतव्यं मार्गणीयं नाटयति दर्शयति ।

 (ततः औशीनरी उशीनरस्य राज्ञः गोत्रापत्यं स्त्रीति औशीनरी काशिराजदुहिता नायकस्य महिषी चेटी दासी च तथा च विभवतः खरूपानुरूपः परिवारः रङ्गभूमिं प्रविशति ।)

 औशीनरी-हले इति चेटी प्रति सम्बोधनम् । अयि निपुणिके ! किमेतत् सत्यं यत् त्वया आर्यमाणवकसहायः माणवकेन सह लतागृहं विशन् महाराजः किं लतागृहं विशन्नार्यमाणवकसहायो दृष्टस्त्वया महाराजः ?]

 चेटी-अलीअं किं मए भट्टिणी विण्गविदपुवा ? [ अलीकं किं मया भट्टिणी विज्ञापितपूर्वा ? ]

 देवी-तेण हि लदाविडवन्तरिदा सुणिस्सं दाव वीसंभमंतिदाईं जं तुए कहिदं सच्चं ण वेत्ति । [ तेन हि लताविटपान्तरिता श्रोष्ये तावद्विश्रम्भमन्त्रितानि यत्त्वया कथितं सत्यं न वेति ।]

 चेटी-जं देवीए रुच्चदि । [ यद्देव्यै रोचते । ]

 देवी-(परिक्रम्य पुरस्तादवलोक्य च) णिउणिए ! किं णु एदं वत्तं णवचीअरं विअ इदो दक्षिणमारुदेण आणीअदि ? [निपुणिके ! किं नु एतत्पत्रं नवचीवरमिवेतो दक्षिणमारुतेनानीयते ? ]

 चेटी-(विभाव्य ) भट्टिणि! पडिवत्तणविभाविदक्खरं भुज्जवत्तं क्खु एदम् । हन्त, कहं देवीए एव्व णेउरकोडिलग्गम् (गृहीत्वा) कहं वाचीअदु एदम् । [ भट्टिनि ! परिवर्तनविभाविताक्षरं भूर्जपत्रं


दृष्टः ? अपीदं सत्यं यद्धि आर्यपुत्र इहैव वर्तत इत्यर्थः । 'हञ्जे' इति पदं शौरसेन्यामभिमतम् ।

 चेटी -मया भर्त्री देवी किं अलीकं मिथ्यैव विज्ञापितपूर्वा । किं मया यदुदितं तत् पूर्वं किं असत्यमासीत् कदापि । न हि-महाराजः इहैवास्तीति सत्यमेवेति तात्पर्यम् ।

 देवी-तेन हि अत एव, यत इदं सत्यमेवास्तीति कारणात् लताविटपे अन्तरिता गुप्ता अहं विश्रम्भे विश्वासपात्रे एकान्ते च मन्त्रितानि गुप्तविचारान् श्रोष्ये ।

 यत् वया कथितं तत् सत्यं न वा इति परिक्षितुं अहमिहैवात्मानं सङ्गोप्य श्रोष्यामि यद्रहसि महाराजेनालप्यत इति ।

 चेटी-यद्देव्यै रोचते । यथा देवी प्रीणाति तथैवास्तु । अत्र देव्यै इति चतुर्थी "रुच्यर्थानां प्रीयमाणः" इत्यनेन रुचतेः योगे।

 देवी-परिक्रम्यावलोक्य च इतस्ततः परिभ्रमन्ती विलोक्य च ।

 निपुणिके ! किं नु एतत् पत्रम् नवचीवरं मुनीनां परिधानमिव इतः अत्र दक्षिणमारुतेन दक्षिणदिशो वहता वायुना आनीयते । भूर्जपत्रमेतत् ।

 चीयते इति “छित्वरच्छत्वर -" (उ. ३१) इति सूत्रेण चीवरम् । “शाक्यभिक्षुप्रावरणमिति" सुभूतिः । नु इति प्रश्ने।

 चेटी-भर्त्रि ! परिवर्तनेन विभावितानि ज्ञातानि अक्षराणि यस्मिन्नेतादृग् भूर्जपत्रं खलु एतत् । वायुवेगेन चालितत्वात् ज्ञाताक्षरं भूर्जपत्रमित्यर्थः । खलु खल्वेतत् । हन्त, कथं देव्या एव नूपुरकोटिलग्नम् ! कथं वाच्यतामेतत् । ]

 देवी-अवलोएहि दाव एदम् । जदि अविरुद्धं तदो सुणिस्सम् । [अवलोकय तावदेतत् । यद्यविरुद्धं तदा श्रोष्ये ।]

 चेटी-( तथा कृत्वा ) भट्टिणि! तं एवं कोलीणं विअम्भदि भट्टारअं उद्दिसिअ उव्वसीअक्खरो कव्वबन्धो त्ति तक्केमि । अज्ज माणवअप्पमादादो अम्हाणं हत्थं आगदम् । [ देवि! तदेतत्कौलीनं विजृम्भते । भट्टारकमुद्दिश्य उर्वश्यक्षरः काव्यबन्धः इति तर्कयामि । आर्यमाणवकप्रमादादावयोहस्तमागतम् ।]

 देवी-णं गिहीदत्था होहि । [ननु गृहीतार्था भव ।]

(चेटी वाचयति)

 देवी-एदेण एव्व उवआरेण तं अच्छराकामुअं पेक्खमम्ह ।


निश्चये । हन्त ! इति विस्मये। कथमेतत् देव्या एव नूपुराणां कोटौ अग्रभागे एव लग्नम् । कथं वाच्यतामेतत् । इह "कथम्" शङ्कागर्भितेच्छायाम् ।

 देवी-अवलोकय वाचय तावत् । यद्यविरुद्धं यदि हृद्यं भवेत् , तदा श्रोष्ये ।

 चेटी-(तथा कृत्वा-वाचयिला) देवि ! एतत् तु कौलीनं लोकापवादः विजृम्भते अस्ति । किंवदन्तीयमिति भावः ।

 "कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः" इति धरणिः । भट्टारकं महाराजमुद्दिश्य उर्वश्याः अक्षराणि यस्मिन् सः उर्वश्यक्षरः उर्वशीलिखितः काव्यबन्धः कवितामयो मदनलेखः अयमस्ति इति तर्कयामि अनुमिनोमि ।

 "भट्टारको नृपे नाट्यवाचा देवे तपोधने" इति मेदिनी। भटति "भट परिभाषणे आज्ञापने" (भा. प. से.) भट्टं स्वामित्वं ऋच्छतीति भट्टारः "कर्मण्यण्" । भट्टार एव भट्टारकः "स्वार्थे कन्" च ।

 आर्यमाणवकस्य प्रमादात् अनवेक्षणात् अनवधानाद्वा आवयोर्हस्तं प्राप्तमिदं भूर्जपत्रम् ।

"प्रमादोऽन वधानता" इति त्रिकाण्डी ।

 देवी-ननु इति आज्ञायाम् । गृहीतो ज्ञातः अर्थो यया तादृशी भव । किमस्मिन् लिखितं तत्तावद् विज्ञापय ।

(चेटी वाचयति यदत्र लिखितमिति)

 देवी-एतेनैव उपचारेण अनयैव पूजया तमप्सरःकामुकं प्रेक्षावहे । [ एतेनैवोपचारेण तमप्सरःकामुकं प्रेक्षावहे।]

 चेटी-जं देवी आणवेदि । [यद्देव्याज्ञापयति । ]

( इति परिजनसहिते लतागृहं परिक्रामतः।)


 विदूषकः -भो वअस्स ! किं एदं पवणवसगामि पमदवणसमीवगदक्कीडापव्वदपज्जंते दीसदी ? [ भो वयस्य ! किमेतत्पवनवशगामी प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते ?]

 राजा-( उत्थाय ) भगवन् वसन्तसख मलयानिल !

वासार्थं हर सम्भृतं सुरभि यत्पौष्पं रजो वीरुधां


यदा कदापि राज्ञः समीपे गम्यते तदा किमपि पूजार्थं गृह्यते । “रिक्तहस्तेन नोपेयात् , राजानं देवतां गुरुमिति" मनूक्तेः । अतः इदानीं एतद् भूर्जपत्रमेव गृहीत्वा तं अप्सरःकामिनं पश्यावः । नायकविषये पट्टमहिषीमुखात् अप्सरःकामुकमिति विशेषणं इह क्रोधविषयित्वात् साधु । तञ्च परलुब्धत्वं अनर्थकारित्वं च सूचयति ।


 चेटी-यद्देवी आज्ञापयति-तथैवास्तु इति शेषः ।

(इति परिजनसहिते चेटीदेव्यौ लतागृहं परिक्रामतः प्रविशतः।)


 विदूषकः-भोः वयस्य ! किं एतत् भूर्जपत्रं पवनस्य वायोः वशात् गामी वायुवेगेनापह्रियमाणः प्रमदवनसमीपगतो यत् क्रीडार्थं पर्वतस्तस्य पर्यन्तभागे दृश्यते । किं वायुनापहृतं तद्भूर्जपत्रम्-इति आशङ्कते।


 प्रमदवनम्-विहारोचितस्थानम् । “विज्ञेयं प्रमदवनं नृपस्तु यस्मिन् शुद्धान्तैः सह रमते पुरोपकण्ठम्" इति हलायुधः ।


 राजा-(उत्थाय) भगवन् वसन्तसख ! मलयानिल! दक्षिणवायो ! "भगवन्" इति सम्बोधनेन वायोः प्रार्थ्यत्वं गम्यते । वसन्तसखेत्यत्र "राजाहःसखिभ्यष्टच्" इति सूत्रेण अकारान्तपदत्वम् ।


 वासार्थमिति-

 भावस्तु-सौगन्ध्यापेक्षया यदि त्वं कुसुमानां परागं हरति तत्तु त्वं हर किन्तु यत् मदीयदयितालिखितलेखं हरसि तत्तु अन्याय्यम् । तत्र न कोऽपि तव लाभ इति । परश्च यदि वायुर्विवेकहीनः स्यात् तदा कथं नाम तेनेदं विवेचनीयम् । तदर्थमेवाह -न खलु भवान् विवेकश्रान्तः । यतो ज्ञायते वायुना यत् विरहिणां कृते मदनलेखचित्रफलकादीन्येव समाश्वासनहेतवः ।

 वीरुधां लतानां सुरभि सुगन्धि सम्भृतं एकत्र सञ्चितं यत् पौष्पं पुष्पसम्बन्धि रजः परागः तत् त्वं वासार्थं सुगन्धार्थं हर । तत्र हरणे तु तव सुगन्धलाभः, चास्माकं न कापि क्षतिः । किन्तु मिथ्या अकारणं निष्प्रयोजनमेव हृतेन अपनीतेन मे मम दयितायाः प्रियायाः स्नेहस्वहस्तेन स्नेहसूचकेन स्वहस्तेन लिखितेन मदनलेखेन भवतः किं प्रयोजनम् ? न किमपीति भावः । अतः माद्दशवियोगि किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे।


 हृद्दाहकेनानेन कर्मणा ते को नाम लाभः । भवान् एवंविधैः अनङ्गलेखचित्रफलकदर्शनप्रभृतिभिः विनोदानाम् शतैः धारितं धृतजीवनं जीवन्तं वा तथा च विशेषतः आलम्बिता कृता प्रार्थना येन तादृशं कामार्तं जनं अभिभवितुं पीडयितुं न जानीते इति अञ्जसा सत्यमेव । भवांश्च एतादृग्दयार्द्रहृदयो यत्कथमपि एतादृशैः विनोदैर्धृतदेहं जनं न पीडयतीति सत्यमेव । अतः भवतो मादृग्विधवधाधर्माधारणाय स्वीयदक्षिणत्वसंरक्षणाय च नापहरणीयो लेख इति प्रार्थ्यते ।

 अत्र श्लोके चूर्णकस्थस्य मलयानिलस्य हेतोः भवन्निति सर्वनामव्यपदेशः। चूर्णकस्थं भगवन्नितिपदं मलयानिलस्य महिम्नः द्योतनाय दीयते, यदि न चेतू प्रार्थ्यो जनो महान् तदा तु प्रार्थनमसाम्प्रतमेव स्यात् “याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा" इति न्यायात् ।

 वासस्तु गन्धः । सामान्यव्यपदेशात् सुवास एव, “वासितं सुरभीकृते" इति विश्ववचनाच्च ।

 अञ्जसा सत्यम् “तत्त्वे त्वद्धाञ्जसाद्वयम्" इत्यमरः । “अञ्जू व्यक्तौ" तस्मात् व्युत्पन्नत्वात् व्यकत्वं स्फुटत्वं सत्यत्वं वा अञ्जसापदवाच्यम् ।

 अत्र प्रथमचरणे "यत्पौष्पं रजः" इत्यत्र तच्छन्दाभावात् “यत्तदोर्नित्यसम्बन्धः" इति नियमविरुद्धत्वेऽपि “यच्छब्दस्योत्तरवाक्यगतत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छन्दस्यार्थः" इति दर्पणकृतां वचनप्रामाण्यात् “आत्मा जानाति यत्पापम्" इतिवत् साधुत्वात् इह अभवन्मतसम्बन्धाख्यो दोषो न विभावनीयः। किन्तु तत्रैव "वासार्थम् हर" इत्यत्र ह्र (हर) हरणे" इति धातोः स्वाव्यवहितोत्तरत्वेन श्रूयमाणस्य लोटि मध्यमपुरुषैकवचनव्यञ्जकस्य सिप्प्रत्ययस्य सत्त्वात् "त्वम्पदं" "हरेत्यस्य" कर्तृत्वेनाध्याह्रियते । तथा च द्वितीयचरणे "भवतः" तथा च तृतीयचरणे "भवान्" इति पदप्रदानात् एकत्र एकस्यैव वुद्धिस्थप्रकारावच्छिन्नस्य मध्यमान्यपुरुषद्वयेन सम्बोधितत्वात् भग्नप्रक्रमतादोषापत्तिः । भग्नो विच्छिन्नः प्रक्रमः प्रस्तावः यस्मिन् इति भग्नप्रक्रमः। प्रस्तावश्चात्राकाङ्कक्षितप्रकारकोऽर्थः । यद् येन प्रकारेण प्राङ् निर्दिष्टं तस्य तत्प्रकारेणैव पश्चादनुक्तिरेव भङ्गः । दोषश्चायं राज्ञः सशोकावस्थां दर्शयन् गुणत्वं भजतां नाम ।

 "दयितास्नेहस्वहस्तेनेत्यत्र" हस्तस्य हृतेनेति पदेन व्यपदिश्यमानेन हरणव्यापारेण सहान्वयानुपपत्तौ, जाते च मुख्यार्थबाधेव तद्युक्ते "हस्तलेखे" “शोणो धावतीतिवत्" अजहत्स्वार्था हस्तलेखे हस्तसारोपणात् प्रेमातिशयप्रकाशनरूपप्रयोजनवती लक्षणा विधीयते । अनया लक्षणया च लेखे वस्तुत्वारोपात् तुल्यानुरागेति पद्ये उक्तेन "समागतमिव मन्ये" इति वचनेन समञ्जसत्वमेव ।

 अत्र च "समानशीलव्यसनेषु सख्यं" इति नियमात् कामुक एव कामुकस्य पीडां सुखं वा ज्ञातुं प्रभवति" यदि न चेदयं मलयानिलः कामुकः कथं वा

पारयेद्विक्रमकामव्यथाम् ज्ञातुमिति सन्देहवारणाय समासोक्त्यलङ्कारभङ्ग्या कविवरो

  जानीते हि भवान्विनोदनशतैरेवंविधैर्धारितं
   कामार्तं जनमञ्जसाभिभवितुं नालम्बितप्रार्थनम् ॥ १९ ॥


व्यञ्जयति वायोः कामरसिकत्वम्ल । प्रथमं तु चूर्णक एव वसन्तसखेति विशेषणप्रदानेन काममित्रेण सहास्य सख्यं प्रदर्शितम् । पश्चाच्च “वीरुधां रजो हरेति" वाक्ये रजसस्तावन्नियतिनियमानुसारं पुष्पेषूत्पत्तिर्न खलु लतासु । तदा वीरुत्सु रजसारोपणेन तासु रम्यकामिनीत्वारोपः, जाते तु रजसि रमणीत्वप्राप्तेः । तदपि रजः पुनः सम्भूतं सञ्चितं तस्माच्च शासितयौवनत्वं तासु समारोप्यते । तथा च उत्तमत्त्वाच्च सुरभित्वमपि समीचीनमेव । अत इह वीरुधां स्त्रीलिङ्गलात्, मलयानिलस्य च पुंस्वात् रजोहरणक्रियया च, सम्यक्तया सङ्गच्छते पारस्परिककामिनीकामुकत्वम् । अनेन राज्ञश्च वायोश्च समानतया कामुकत्वं दृश्यते । कुतः प्रकृतनायिकायामपि देवाङ्गनात्वाद् सुरभिरजोवत्त्वं, पूर्णयौवनत्वात् सम्भूतरजोवत्त्वं च आलिङ्गते । अविद्यनानायां तु अस्यां समासोक्तौ तृतीयचरणगतजानातेः सम्यक् सम्बन्धो न सम्पद्यते । अधुना कामुकत्वस्य समानत्वात् वायुः कामार्तं नाभिभवितुं जानीत इति स्वकीयानुभवात् साधु सङ्गच्छते, परश्च जानातेरत्र आत्मनेपदप्रयोगस्तु निजानुभवस्मरणायैव विहित इति विद्वद्भिरुन्नेयः । तथाच "हिपदेन" प्रकाश्यमाना या निश्चयात्मकता सापि सम्यक् समासोक्त्यभावेऽनु- संहिता न भविष्यति । तेन चास्याः समासोक्त्याः जानातेरर्थोपपत्त्यै कारणत्वम् । ततश्च काव्यलिङ्गमलङ्कारो व्यज्यते । समासोक्तिलक्षणं तु “समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य च" इति कुवलयानन्दकृतम् । पुनश्च “धारितम्" अत्र घृतमित्यनूच्य ध्रियमाणार्थबोधनतया णिजन्तप्रयोगेण च विनोदनमात्रप्रभावेण यथाकथञ्चिद् धृतमित्यर्थं व्यनक्ति । अपि च कामार्तेति पदप्रदानेनामृतस्य मारणे शूरत्वं, न तु मृतमारणेति अर्थो बुध्यते । “शूराणां मृतमारणे न हि वरो धर्मः प्रयुक्तो बुधैरिति” नियमात् । पुनश्च यदि मृतस्यापि मारणमङ्गीकृतं चेत् तथापि शरणागतस्यातीवासाम्प्रतम्-तद्धेतोरेव आलम्बितप्रार्थनमिति ग्रहणम् । अत्र वायौ चेतनत्वधर्मारोपपूर्वकसम्बोधनात् (Apostrophe) समासोक्तिरलङ्कारः इति दिक् ।

 इह च कैश्चन चरमचरणे "कामार्तं जनमञ्जनां प्रति भवानालक्षितप्रार्थनः" इति पाठोऽङ्गीक्रियते । तेषां मते "अञ्जनां प्रति आलक्षितप्रार्थनः समीक्षिताभिलाषः" इत्यर्थप्रदानेन वायोः अपि कामुकत्वं प्रतिपाद्य स्वस्य अनुभवित्वाद् कामिनां क्लेशजनकत्वमनुचितमिति विशेषार्थः । तथा चेदं ज्ञाप्यते यत् कामवशवर्तित्वं तु भवादृशामपि दृश्यते तदा तु मत्पक्षे नायं दोषावह इति । वायोरञ्जनाकामुकत्वं प्रसिद्धं पुराणेषु-कस्मिंश्चित् समये प्लवङ्गकुञ्जरस्य कुञ्जराख्यस्य तनया (पश्चाद्धनुमन्माता) अञ्जना शिशिरानिलविहरणपरायणा मनोहारिणि नगरोपकण्ठे विलसन्ती आस । तत्र च तस्याः स्रस्तांशुकायाः कमनीयाङ्गसम्पदा निमेषनिपातनिर्दयेऽपि स्वनयेन सभाजयन् भगवान् गन्धवाहो मदनैकशरणामवस्थामवाप ।  निपुणिका-भट्टिणि ! एदस्स एव्व अण्णेसणं वट्टदि । [देवि! एतस्य एवान्वेषणं वर्तते ।]

 देवी-पेक्खामि । [प्रेक्षे ।]

 {{bold|विदूषकः-भो! मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धोम्हि । [भोः ! म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोऽस्मि]

 राजा-सर्वथा हतोऽस्मि मन्दभाग्यः।

 देवी-(सहसोपसृत्य ) अज्जउत्त! अलं आवेगेण । एदं एव्व तं भुज्जवत्तम् । [आर्यपुत्र ! अलमावेगेन । एतदेव तद्भूर्जपत्रम् । ]

 राजा--(ससम्भ्रममात्मगतम् ) अये ! इयं देवी । (प्रकाशम् ) स्वागतं देव्यै ।

 देवी-दुरागदं दाणिं संवुत्तम् । [ दुरागतमिदानी संवृत्तम् ।]


सुकुमारकुमारीभावपरिरक्षणानुरूपमाचरणाय तया निवेदितो मलयानिलः स्वसंसारावतरणश्रमकृतार्थतया सङ्गमय्य तस्यां मनोजवं मनोजजन्मानं मारुतिं प्रादुर्भावयामासेति पुरातनवचनसङ्गतिः ॥

 श्लोकश्चायं शार्दूलविक्रीडितेन च्छन्दसा निबद्धः । लक्षणं तूक्तं प्रागेव ॥१९॥

 निपुणिका-भर्त्रि ! एतस्यैव भूर्जपत्रस्यान्वेषणं वर्तते ।

 देवी-प्रेक्षे-यद्यदन्यद् क्रियते।

 विदूषकः :-म्लायमाना मलिनीकृता केसराणां कुसुमकिञ्जल्कानां छविः कान्तिस्तेन मयूराणां पिच्छेन विप्रलब्धोऽस्मि वञ्चितोऽस्मि । मयूरेण स्वपिच्छद्वारा अपहृतं भवेदिति शङ्का ।

 राजा-सर्वथा मन्दभाग्यः दुर्भागी अहं हतोऽस्मि त्रासितोऽस्मि ।

 देवी-(सहसाऽतर्कितमेवोपमृत्य)-आर्यपुत्र । आवेगेन शोकेन अलं, कृतं शोकेन-एतदेव तद्भूर्जपत्रम् । शोकेनालमित्यस्य हेतुः । आवेगेनेति “अलं योगे" तृतीया ।

 राजा-(ससम्भ्रमम् सभयम्-आत्मगतमेव ) अये! इयं देवी एतस्मिन् प्रसङ्गे देवीदर्शनमेव भयहेतुः। (प्रकाशम्) स्वागतं देव्यै इति समुदाचारं विधत्ते ।

 "सम्भ्रमः साध्वसेऽपि स्यादिति" कोषः।

 देवी-राजानं उपहसति । इदानीं दुरागतं संवृत्तम् । मदागमनं असमीचीनं जातम् । इदं तु भवत्खेदकारित्वात् दुरागतमेव न तु स्वागतमिति भावः।  राजा-(जनान्तिकम् ) वयस्य ! किमत्र प्रतिविधानम् ।

 विदूषकः-(जनान्तिकम् ) लोत्तेण सूइदस्स कुंभिलअस्स अत्थि वा पडिवअणम् ? [लोप्त्रेण सूचितस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम् ?]

 राजा-(अपवार्य) मूढ ! नायं परिहासकालः । (प्रकाशम् ) नेदं पत्रं मया मृग्यते । तत्खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।

 देवी-जुज्जइ अत्तणो सोहग्गं पच्छादेदुम् । [युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् ।]

 विदूषकः -भोदि ! तुवरेहि से भोअणम् । पित्तोवसमणेन सुत्थो होदु। [भवति! त्वरयस्वास्य भोजनम् , पित्तोपशमनेन स्वस्थो भवतु।]


 अत्र औशीनर्या पुरूरवसः उर्वशीविषयकानुरागोद्भेदनात्प्रत्यक्षनिष्ठुराभिधानं विहितम् , अतः इह वज्रं नाम प्रतिमुखसन्ध्यङ्गम् । यल्लक्षणं-"वज्रं प्रत्यक्षनिष्ठुर" मिति दशरूपके।

 राजा-(जनान्तिकम्-अपवार्य ) वयस्य माणवक ! किमत्र प्रतिविधानम् प्रतीकारः । इदानीं गोपायितुं स्वरहस्यं किं नाम कर्तव्यमिति परामृशति ।

 विदूषकः-(जनान्तिकम्-अन्यैरश्रूयमाणम् ) लोप्त्रेण स्तेयेन चोरितेन वस्तुना सूचितस्य कुम्भीरकस्य चोरस्य किमपि प्रतिवचनम् अस्ति किम्-नास्तीति भावः । अत्रार्थापत्तिः, चोरसमीपे यदि चोरितं धनं लभ्येत चेत् स तु चोर एव निश्चीयते तथैव स्वमपि भूर्जपत्रेण विज्ञापितोऽधुना कथं प्रतिविधानं कर्तुं पारयिष्यसीति भावः।

 राजा-(अपवार्य ) मूढ ! नायं परिहासकालः-सत्यमेव त्वया किमपि प्रतिवचनं दर्शनीयम् आसीत् । (प्रकाशम् ) देवि ! इदं भूर्जपत्रं मया न मृग्यते किन्तु मन्त्रपत्रं राजकीयकार्यपत्रं गवेषयितुं ममायं आरम्भः प्रयत्नः । नाहं मार्गयामि भूर्जपत्रमेनं किन्तु राजपत्रं तत् इति सङ्गोपयति रहस्यम् । अत्र दोषप्रच्छादनात् “नर्मद्युतिर्नाम" सन्थ्यङ्गम् ।

 देवी-युज्यते -आत्मनः सौभाग्यं प्रच्छादयितुम् एतादृक्कथनं खकीयशुद्धतां निरपराधित्वं च प्रदर्शयितुं युक्तमेव ।

 विदूषकः-भवति देवि! भवतु यत्किमपि-अस्य राज्ञः भोजनमिष्टं त्वरयस्व आशु देहि । अस्यैव पत्रस्य कृते व्याकुलीभूयतेऽनेन अतः देहि पत्रमेनमिति भावः । अयं च पित्तोपशमनेन खस्थो भवतु । दत्ते च भोजने यथा पित्तं शाम्यति तथैव प्रदानेनास्य पत्रस्य सुस्थो भविष्यति राजा इति सारः । अत्र चान्योक्तिः । भोजनमिषेण यथा पित्तस्य तथैव पत्रस्यैव शामकत्वं प्रतिपादितम् ।  देवी-णिउणिए ! सोहणं खु बम्हणेण आसासिदो वअस्सो। [निपुणिके ! शोभनं खलु ब्राह्मणेनाश्वासितो वयस्यः।]

 विदूषकः-णं पेक्ख । आसासिदो वअस्सो चित्तभोअणेण । [ननु प्रेक्षस्व । आश्वासितो वयस्यश्चित्रभोजनेन।]

 राजा-मूर्ख !बलादपराधिनं मामापादयसि ।

 देवी-णत्थि भवदो अवराहो । अहं एव्व अवराद्धा जा पडिऊलदंसणा भविअ अग्गदो चिट्टामि । इदो गमिस्सम् । [नास्ति भवतोऽपराधः । अहमेवापराद्धा या प्रतिकूलदर्शना भूत्वा अग्रतस्तिष्ठामि । इतो गमिष्यामि ।]

(इति कोपं नाटयिखा प्रस्थिता)

 राजा-अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् । सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः॥२०॥


 देवी-निपुणिके ! शोभनं सुष्ठुरीत्या विदूषकेन आत्मनः प्रियवयस्यः आश्वासितः।

 विदूषकः-ननु प्रेक्षस्व! ननु इति अनुनये । प्रियवयस्यः चित्रेण विलक्षणेन भोजनसङ्कीर्तनेनाश्वासितः चित्ररूपिणा भोजनेनाश्वासितः ।

 राजा-मूर्ख ! बलाद् मिथ्यैव माम् अपराधिनं कृतापराधं आपादयसि करोषि निश्चिनोषि वा।

 देवी-(राजानं प्रति) नास्ति भवतोऽपराधः-किन्तु अहमेव अपराद्धाऽस्मि यत् प्रतिकूलमनिष्टं दर्शनं यस्याः सा एतादृशी भूत्वा भवतः अग्रतः तिष्ठामि । स्वापराधहेतुरयम्, यतः पतिव्रतया पत्युः प्रतिकूलं नाचरणीयम् । इहागमनं च पत्युरनिष्टम् तस्मात् कृतागस्त्वम् स्वीयमेव विज्ञापयति । अत एव इतः गमिष्यामि । ( इति उक्त्वा कोपं नाटवित्वा प्रदर्श्य प्रस्थिता चलिता।)

 राजा-अपराधीति।

 हे रम्भोरु ! प्रसीद प्रसन्ना भव । कदलीस्तम्भसदृशे वृत्तानुपूर्वे ऊरू जङ्घे यस्याः सा एतादृशि प्रिये ! अहमेवापराधी नाम । संरम्भात् कोपात् विरम । क्रोधं हरेति भावः । सेव्यो जनः कुपितः तदा दासः कथं निरपराधः दोषशून्य: भवितुमर्हति । कथं स्याद्दासो निरपराधी यदि तस्याधिपतिस्तस्मै क्रुद्धः । प्रभोः कदापि समुत्पन्ने तु क्रोधे न दासस्य निरपराधत्वं निश्चेतव्यम् ।

 सेव्यः-यस्य सेवा क्रियते, यो वा सेव्यत इति सेव्यः प्रभुः ।

 इह "नाम" प्राकाश्यरूपेऽर्थे । अहमपराधी नाम इति अपराधित्वं प्रकाश्यते

। अथवा यदि नामपदं अहंपदेन "अहं नामापराधीति" अन्वेति तदा

(इति पादयोः पतति)

 देवी-(आत्मगतम्) मा खु लहुहिअआ अणुणों वहु मण्णे किं दु दक्खिण्णकिदपच्छादावस्स भाएमि । [मा खलु लघुहृदया अनुनयं बहु मन्ये । किन्तु दाक्षिण्यकृतपश्चात्तापस्य बिभेमि । ]

(इति राजानमपहाय सपरिवारा निष्कान्ता)

 विदूषकः-पाउसणदी विअ अप्पसण्णा गदा देवी । णं उठ्ठेहि । [प्रावृण्नदीवाप्रसन्ना गता देवी, ननूत्तिष्ठ । ]


"नाम" कुत्सारूपेऽर्थे । स्वस्यापराधित्वात् अन्यस्त्रीकामुकत्वाच्च कुत्सितत्त्वं विज्ञाप्यते । "नाम" 'सम्भाव्यकुत्साप्राकाश्यविकल्पेष्वपि दृश्यते' इति मेदिनी । नुश्चात्रानुनयार्थे-"नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयो"रिति विश्वः । इह च राज्ञः अनुनयात् पर्युपासनं नाम प्रतिमुखसन्ध्यङ्गम् ।

 अत्र रम्भोरु-संरम्भात् इति एकानुपूर्व्या एवासकृदावृत्त्या छेकानुप्रासालकृतिः "छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा" इति दर्पणोक्तलक्षणात् ।

 इयं च आर्याजातिः-लक्षणं तु प्रागुक्तमेव ॥ २० ॥ इति पादयोः पतति-अनुनयार्थम् । इह तु “पादयोः पततीति" अत्र साम्नि निष्फले सति नतिर्नाम उपायः प्रयुक्तः इति ज्ञेयम् , कुतः अन्यासङ्गिनि प्रिये प्रमदानामीाकृतं मानं “साम्ना भेदेन दानेन नत्युपेक्षारसान्तरै' रिति वचनादेभिः षड्डपचारैः प्रसादनीयमिति अतः इह नतिः शठस्य नायकस्य कृते समीचीना।

 देवी-( आत्मगतम् ) लघुहृदया असंक्षोभ्यहृदया एतादृशैः कृत्रिमानुनयैरद्रुतहृदया अहं अनुनयं प्रणिपातादिकं बहु गुरु न मन्ये । अहं तावदीदृशैः प्रणिपातादिभिः आशु एवानुनेतुमशक्या इदं महाराजकृतं गुरु न चिन्तयामि किन्तु आर्यपुत्रस्य च्छन्दानुवर्तनरूपं यन्मम दाक्षिण्यव्रतं तज्जन्यो भावी यः पश्चात्तापः तस्मात् बिभेमि । यद्यप्यनुनयः न तावत् माम् द्रावयति किंतु भाविनोऽनुतापाद्भीताऽस्मि । अत्र लघुपदस्य हीनत्वं न वाच्यम् , किंतु लघुनाम असंक्षोभ्यम् । पुनरपि अत्र मन्यतेः लडन्तप्रयोगात् माशब्द एव ग्रहणीयः न तु माङ्।

(इति राजानमपहाय त्यक्त्वा सपरिवारा परिजनैः सह निष्क्रान्ता।)

 विदूषकः-प्रावृण्नदीवाप्रसन्ना गता देवी-प्रावृड् वर्षाऋतुः तत्कालीना नदी इव अप्रसन्ना देवी गता। अत्र अप्रसन्नेति पदे श्लेषः-देवीपक्षे अप्रसन्ना क्रुद्धा एव । नदीपक्षे आविला, अनिर्मलजला । यथा वर्षासु नदी अप्रसन्ना आविला भवति तथैव देव्यपि अप्रसन्ना क्रुद्धैव सती गता।


 अत्र च श्लेषप्राणितोपमालङ्कारः । ननु उत्तिष्ठ-ननु प्रार्थनायाम् ।  राजा-(उत्थाय ) वयस्य ! नेदमुपपन्नम् । पश्य-

  प्रियवचनकृतोऽपि योषितां
   दयितजनानुनयो रसादृते।
  प्रविशति हृदयं न तद्विदा
   मणिरिव कृत्रिमरागयोजितः ॥ २१ ॥


 राजा-(उत्थाय) वयस्य । इदमुपपन्नम् युक्तम् न, अनुचितमिदमिति भावः । औशीनर्या एतस्मिन् प्रसङ्गे इहागमनम् भूर्जपत्रस्य च तस्याः हस्ते प्राप्तिः, पुनश्च ममानुनयमनादृत्य तस्याः अप्रसन्नाया एव प्रतिनिवर्तनमादि यत्पूर्वं अभूत् तत् सर्वं सामान्यतस्तु असाम्प्रतमेव जातमित्यर्थः । चूर्णकस्थपश्येत्यस्यानुगामी श्लोकः कर्मत्वेनान्वेति । पश्य तर्कय मनाक्-

 प्रियवचनेति-प्रियाणि प्रेमप्रदर्शकाणि च तानि वचनानि तैः कृतोऽपि कृत्रिमो मिथ्या रागः प्रेम तेन योजितः प्रयुक्तः दयितजनेन प्रियेण कृतः अनुनयः सान्त्वनम् रसात् अषितधरागात् ऋते विना तद्विदा कृत्रिमरागविदा योषितां स्त्रीणां हृदयं न प्रविशति हृदयग्राही न भवति यथा कृत्रिमेण रागेण रङ्गेण योजितः मिश्रितः मणिस्तद्विदा मणिकाराणां हृदयं न प्रविशति सन्तोषावहो न भवति ।

 यथा कृत्रिमरागेण रक्तोऽयं मणिरथवा अकृत्रिमेणेति जानन्तो मणिकाराः कृत्रिमरागरक्तेन मणिना प्रसन्ना न भवन्ति तथैव कृत्रिमप्रीत्यभिज्ञाः स्त्रियोऽपि यथार्थरागविसंहतैर्प्रियवचनचाटुशतैः क्रियमाणेन प्रियजनानुनयेन न प्रसीदन्ति इति भावः।

 अत्रापि श्लेषः-कृत्रिमरागयोजित इत्यत्र रागपदम् श्लिष्टम्-योषित्पक्षे तस्य प्रेमवाचकत्वम् । मणिपक्षे अरुणिमा, रक्तत्वं वा रागपदवाच्यम् । तद्विदामित्यत्र तच्छब्देन कृत्रिमरागो गृह्यते। अत्रापि 'योजित' इति पदेन स अनुनयः न स्वयं खाभाविकतयोत्पद्यते किन्तु कथमपि कृत्रिमरागबलेन योजितो भवतीति विशेषार्थं द्योतयितुं णिजन्तप्रयोगालिङ्गनम् । अपिपदं गर्हायाम्-प्रियवचनानां निरर्थकता च प्रदर्शिता।

 योषितामित्यत्र दयितापदमप्रयुज्य योषित्पदग्रहणेन तस्यां प्रियस्य अन्यनायिकाकामुकत्वात् प्रीतिराहित्यम् किन्तु सा तु तस्मिन् रज्यते एव अमुमर्थमुद्दिश्य 'योषति सेवते पतिम् इति योषित्' इति व्युत्पत्तिनिरुक्तं पदं प्रयुक्तम् । तथा च द्वितीयचरणे स्त्रीमनसि तु स्वस्य पत्यौ तदेवोच्चभावनासद्भावात् दयितपदस्वीकारः तथा च प्रेम्णः रागाद् वा ऋते इति प्रयोगमनादृत्य रसादिति पदस्वीकृतिरिह रस्यते रसयति चेति रसः रागस्य परा कोटिरिति व्युत्पत्तिलभ्यं विशेषार्थं द्योतयति ।

 अत्र उपन्यासो नाम प्रतिमुखसन्ध्यङ्गम् । यस्य लक्षणं तावत् 'उपपत्तिकृतो योऽर्थः उपन्यासः स कीर्तितः' इति । अत्र असहजरागप्रदर्शनान्न सा प्रसादमेष्यतीत्युपपन्नार्थनिक्षेपाल्लक्षणसमन्वयः । ।  विदूषकः-अणुऊलं एव्व पदं भवदो । ण हु अक्खिदुक्चिदस्स पमुहे दीवसिहा सहेदि । [अनुकूलमेवैतद्भवतः । न खल्वक्षिदुःखितस्य प्रमुखे दीपशिखा सहते । ]

 राजा-मैवम् । उर्वशीगतमनसोऽपि मे देव्यां स एव बहुमानः । किन्तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये ।

 विदूषक:-चिट्ठटु दाब धीरदा । बुभुक्खिदबम्हणस्स जीविदं अवलम्बदु भवम् । समओ खु ण्हाणभोअणे सेविदुम् । [तिष्ठतु


 अत्र ऋते योगे पञ्चमी- "अन्यारात्" इति सूत्रवचनात् ।

 इह च श्लेषालङ्कारः वृत्तं च अपरवक्त्रं नाम । यदुक्तं पैङ्गले- "अपरवक्त्रं नौर्लौग्न्जौ ज्रौ इति यस्य प्रथमतीयपादयोः नकारौ रेफलकारगकाराश्च तथा द्वितीयचतुर्थयोः-रकारजकारौ च तद्वृत्तं अपरवक्त्रं नाम । वृत्तमिदं अर्धसमम् वैतालीयान्तर्गतम् ॥ २१ ॥

 विदूषक:-एतद् तस्याः इतो गमनं भवतः अनुकूलं इष्टमेव । न खलु अक्षिदुःखितस्य चक्षुरोगरुग्णस्य प्रमुखे सम्मुखे दीपस्य शिखा तेजःज्योतिः सहते। यथा चक्षुरोगिणे दीपशिखा अहिता तथैव सा तुभ्यमहितैव । अत्रान्योक्तिः खलुवाक्यभूषणम् । अक्षिदुःखितेत्यत्र प्राकृते पूर्वनिपातानियमात् दुःखिताक्षस्येतिस्थाने प्रकृतरूपमेव साधु । अत्र कर्तरि पष्टी।

 राजा-मैवम् । मा भवन्तः इत्थं विचारं कुरुत । उर्वश्यां गतम् लग्नम् मनः यस्य एतादृशस्यापि मन देव्यां काशिराजदुहितरि स एव बहुमानः आदरः । किन्तु प्रणिपातोऽनुनयस्तस्य लङ्घनदुष्क्रमणात् अहमस्यां देव्यां धैर्यमवलम्बिष्ये। इर्यं धारयिष्यामीति भावः । प्रणिपातप्रभृतिप्रखरमानपरभव प्रवीणानां समन्तानां इहास्तमितप्रभावाणामुपायानां निरुपायत्वे फलिते सति धैर्यावलम्बनपरे एव राज्ञि प्रतिपादिते “उपेक्षा धैर्यधारणमिति" वचनात् उपेक्षा नाम सन्ध्यङ्गमुक्तं भवति ॥ आत्मनः प्रसादमप्रदर्श्यापि औशीनर्या गमनं उर्वशीबद्धमनसो राज्ञः कृते तु अनुकूलमेवाभवदिति विदूषकाभिप्रायः । तमर्थं राजा निषेधति-वयस्य माणवक ! यत्त्वमात्थ यदौशीनर्या गमनं मेऽनुकूलमेव तन्न । यतः यद्यपि मे मनः उर्वश्यां बद्धं तथापि देव्यामौशीनर्यां मम तादृश एव बहुमानः अस्ति; किन्तु अधुना मया कृतस्यानुनयस्य झगित्यवहेलनं तया कृतम् अनेनागसा दूषिता सा यद्यपीतः अप्रसन्ना परावृत्ता तथापि अहं तस्या अप्रसादं न परिगणयामि । अत एव यद्यपि तस्या इतो गमनं केनापि प्रकारेण ममानुकूलं न, तथापि कथमपि तन्मम न चिन्ताहेतुः । अनेन चाहं अक्षुब्धो भूत्वा अस्यां औशीनर्याः विषये, तस्याः अप्रसादविषये च अहं धैर्यमवलम्विष्ये, मनागपि सचिन्तो न भवामीति भावः । परिच्छन्नभावोऽयं नायकगतं शठत्वं गमयति ॥

 विदूषकः-तिष्ठतु तावद्धीरता । तव नाम धीरता अस्तु । अहं तु बुभुक्षितः

 ९ विक्र० तावद्धीरता । बुभुक्षितब्राह्मणस्य जीवितमवलम्बतां भवान् । समयः खलु स्नानभोजने सेवितुम् ।।

 राजा-(ऊर्ध्वमवलोक्य ) कथमर्धं गतं दिवसस्य । अतः खलु-

  उष्णार्तः शिशिरे निषीदति तरोर्मूलालवाले शिखी
   निर्भिद्योपरि कर्णिकारमुकुलान्याशेरते षट्पदाः ।
  तप्तं वारि विहाय तीरनलिनी कारण्डवः सेवते
   क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥२२॥


न धीरतां धारयितुं प्रभवामि । बुभुक्षितस्य क्षुधितस्य ब्राह्मणस्य जीवितं भोजनं अवलम्बतां भवान् इति उपहासः । समयः खलु स्नानं च भोजनं च स्नानभोजने तयोः सेवनस्य प्राप्तः।

 इदानीं भोजनवेला अतिक्रामति ।

 राजा-(ऊर्ध्वं सूर्यस्थितिमवलोक्य)

 कथं दिवसस्य अर्धं गतम्-कथं मध्याह्नः प्राप्तः इति । पुरा घटिकायन्त्राद्यभावात् गगने सूर्यस्थित्यैव वेलापरिज्ञानं भवति स्म । कथमिति विस्मये ।

 यतः मध्याह्नः प्राप्तः अस्माद्धेतो:-किं क्रियते इति विवक्षा श्लोकेन प्रपूर्यते । खलु निश्चये।

 उष्णार्त इति-मध्याह्नसमयस्य वर्णनमिदम् । उष्णेन आतः पीडितः शिखी मयूरः तरोः वृक्षस्य शिशिरे शीतले मूलालवाले मूले कृतो जलाधारस्तस्मिन् निषीदति उपविशति । उष्णेन बाधितो मयूरः तरूणां जलाधारेषु शीतले जले उपविशतीति भावः । अनेन दिने बलवान् ऊष्मा जात इति गम्यमानत्वात् मध्याह्नवेलेयमिति अनुमीयते। षट्पदाः भ्रमराः कर्णिकारपुष्पाणां मुकुलानि कलिका निर्भिद्य विदीर्य आशेरते स्पपन्ति विश्राम्यन्ति वा । उष्णत्वात् भ्रमरा अपि निद्रां लभन्ते इत्यनेन मध्याह्नकालोऽनुमीयते । कारण्डवः पक्षिविशेषः तप्तं सूर्यातपादुष्णं वारि जलं विहाय परित्यज्य तीरस्थां नलिनीं कमलिनीं सेवते । नलिन्याः शीतलत्वात् तत्र सुखम् । अनेनापि मध्याह्नसमयोऽनुमीयते । एषः क्लान्तः तृषयोद्विग्नः पञ्जरशुकः पञ्जरस्थः कीरः क्रीडावेश्मनि लीलागृहे जलं याचते । मध्याह्नकाले तृषा बलवत्तरं बाधते अत एव जलं याचते । इति चिह्नचतुष्टयप्रदानेन मध्याह्नसमय एष सम्प्राप्त इति निश्चीयते ।


 शिखी-शिखा चूडा मयूराणां शिरोवर्तिनी। सा यस्यास्तीति शिखी मयूरः- "शिखावलः शिखी केकी" इत्यमरः । षट् पादाः येषां ते षट्पदा भ्रमराः ।


 अत्र च स्वभावोक्तिरलङ्कारः । सर्वेषां खभावोऽयं यत् उष्णेन बाध्यमानाः

शीतलं स्थलं विचिन्वन्ति ।

(इति निष्क्रान्तौ।)

॥ द्वितीयोऽङ्कः॥



 तथा च मध्याह्नवेलायमिति निश्चयार्थं एक एव हेतुः चिह्नं वा पर्याप्तमासीत् । प्रतिपादिते शिखिनः मूलालवाले निषीदने मध्याह्नः सम्प्राप्त इति निश्चयो भवितुं अर्हति । तदापि बहुचिह्नप्रदानेन समुच्चयालङ्कारः । तल्लक्षणं यथा -"समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेदिति" साहित्यदर्पणे । अनेन अधुना विश्रामसमयः स्नानभोजनकालश्च समायातः अतश्चेतो गन्तव्यम् इति व्यज्यते । तथा च काव्येषु मध्याह्नदिवर्णनम् भूषणम् ।

(इति निष्क्रान्तौ।)

 राजविदूषकौ रङ्गभूमितः प्रस्थितौ ।

 इति द्वितीयोऽङ्कः द्वितीयः परिच्छेदः । अङ्कलक्षणं तूक्तं प्रागेव ।

 इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनकुतूहलस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजः प्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदारविन्दद्वन्द्वानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताजलधिकौस्तुभेन एम्. ए. काव्यतीर्थ साहित्यविशारदाद्यनेकोपाधिसमल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोर्वंशीसञ्जीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् द्वितीयाङ्कोन्मेषः ।