विग्रहव्यावर्तनी (व्याख्यासहितः)

विग्रहव्यावर्तनी (व्याख्यासहितः)
[[लेखकः :|]]


॥ नमो बुद्धय ।

सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलं ॥ १ ॥

यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्राञ्च पृथक्च यत्र सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । न हि बिजे हेतुभूतेऽङ्कुरो स्ति । न पृथिव्यप्तेजोवाय्वादिनामेकेकस्मिन् प्रत्ययसंज्ञिते । न प्रत्ययेषु समग्रेषु न हेतुप्रत्ययेषु समग्रेषु न हेतुप्रत्ययसामग्रां न हेतुप्रत्ययविनिर्मुक्तः पृथगेव वा । यस्मादत्र स्वभावो नास्ति तस्मान्निःस्वभावोऽङ्कुरः । यस्मान्निःस्वभावः तस्मात्शून्यः । यथा चायमङ्कुरो निःस्वभावो निःस्वभावाच्च शून्यः तथा सर्वभावा निःस्वभावत्वाच्छून्य इति ।

(व्व्२१८)
अत्र वयं ब्रूमः । यद्येवं तवापि वचनं यद्येतच्छून्याः सर्वभावा इति तदपि शून्यम् । किं कारणं तदपि हेतौ नास्ति । महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोष्ठजिह्वादन्तमूलतालुनासिकामूर्धप्रभृतिषु यन्नैवोभयसामग्र्यामस्ति । हेतुप्रत्ययसमग्रीविनिर्मुक्तं पृथगेव वा नास्ति । यस्मादत्र सर्वत्र नास्ति । तस्मान्निःस्वभावम् । यस्मान्निःस्वभावम् । तस्माच्छून्यम् । तस्मादनेन सर्वभावस्वभावव्यवर्तनमशक्यं कर्तुम् । किं कारणंन् । न ह्यसदग्निना दग्धम् । नाप्यसता शास्त्रेण शक्यं छेत्तुम् । नासतीभिरत्भिः शक्यं क्लेदयितुमेवमसत्ता वचनेन शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुं न शक्यः सर्वभावस्वभावो निवर्तयितुम् । तत्र यदुक्तं सर्वभावस्वभावः प्रतिषिधः सर्वत्र भावस्वभावो विनिवर्तत इति । तन्न ॥

(व्व्२२०)

अथ सस्वभावमेतद्वाक्यं पूर्वा हत प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥

अथापि मन्यसे मा भूदेष दोष इति सस्वभावमेतद्वाक्यम् । सस्वभावत्वाच्चाशून्यम् । तस्मादनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्त इति ॥

अत्र ब्रूमः । या हि ते प्रतिज्ञा शून्याः स्वभावा इति । हता शा ॥ किञ्चान्यत्सर्वभावान्तर्गतञ्च तद्वचनम् । कस्मात्सर्वभावेषु त्वद्वचनमशून्यं येनाशून्यत्वात्सर्वभावस्वभावः प्रतिषिद्धः ॥ एवं षट्कोटिको वादः प्रसक्तः । स पुनः कथमिति ।

हन्त चेत्पुनः शून्याः सर्वह्हावास्तेन त्वद्वचनं शून्यं सर्वभावान्तर्गतत्वात्त्वद्वचनस्य । तेन शून्येन प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्याः सर्वभाव इति अनुपपन्नः । १ । उपपन्नश्चेत्पुनः शून्याः सर्वभावा इति प्रतिषेधस्तेन त्वद्वचनशून्यत्वादनेन प्रतिषेधो अनुपपन्नः । २ । अथ शून्याः सर्वभावास्त्वद्वचनञ्चाशून्यः येन प्रतिषेधस्तेन त्वद्वचनं सर्वत्रासंगृहीतम् । (व्व्२२२) तत्र दृष्टान्तविरोधः । ३ । सर्वत्र चेत्पुनः गृहीतं त्वद्वचनं सर्वभावाश्च शून्याः । तेन तदपि शून्यं शून्यत्वादनेन नास्ति प्रतिषेधः । ४ । अथ शून्यमस्ति वानेन प्रतिषेधः शून्यः सर्वभावा इति तेन शून्यापि सर्वभावाः कार्यक्रियासमर्था समर्थभवेयुः । न चैतदिष्टम् । ५ । अथ शून्याः सर्वभावाः न च कार्यं क्रियासमर्थं भवंति मा भूत्दृष्टान्तविरोध इति कृत्वा शून्येन त्वद्वचनेन सर्वभावास्वभावो प्रतिषेधो नोपपन्न इति । ६ ।

किञ्चान्यत् । एवं तदस्तित्वात्वैषमिकत्वप्रसङ्गः । किञ्चित्शून्यं किञ्चिदशून्यमिति । तस्मिंश्च वैसमिकत्वे विशेषहेतुर्वक्तव्यः । येन हि विशेषहेतुना किञ्चित्शून्यं किञ्चिदशून्यं स्यात् । स च नोपदिष्टो हेतुः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न ॥

(व्व्२२४)
किञ्चान्यत्

मा शब्दवदित्येतत्स्यात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देनात्र सता भविष्यतो वारणं तस्य ॥ ३ ॥

स्यात्ते बुद्धिः यथा नाम कश्चित्ब्रूयात्मा शब्दं कार्षीर्मा शब्दं कार्षीरिति । तेन च शब्देन व्यावर्तनं क्रियते । एवमेव शून्याः सर्वभावा इति । शून्येन वचनेन सर्वता सर्वभावस्वभावव्यावर्तनं क्रियत इति ।

अत्र वयं ब्रूमः । एतदप्यनुपपन्नं किं कारणम् । सता ह्यत्र शब्देन ह्यत्र भविष्यतः शब्दस्य प्रतिषेधः क्रियते । न पुनरिह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि मतेन वचनमप्यसत् । सर्वभावस्वभावोऽप्यसत् । तस्मादयं मा शब्दवदिति विषयोपन्यासोऽसन्निति ॥

(व्व्२२६)
किञ्च

प्रतिप्रतिषेध्योऽप्येवमिति मतं भवेत्तदसदेव ।
एवं तव प्रतिज्ञ लक्षणतो दूष्यते न मम ॥ ४ ॥

स्यात्ते बुद्धिः प्रतिषेधः प्रतिषेध्योऽप्यनेनैव कल्पेनानुपपन्नः । तत्र यद्भवान् सर्वभावस्वभावप्रतिषेधशूचनं प्रतिषेधयति । तदनुपपन्नमिति ।

अत्र वयं ब्रूमः । एतदशब्देन सदेव । कस्मात्तव च हि प्रतिज्ञालक्षणप्राप्तमेतन्न मम भवानिह ब्रवीति । शून्याः सर्वभावा इति नाहम् । तस्मात्त्वत्प्रतिज्ञान्न(?)पयामि । पूर्वकः पक्षो न मम । तत्र यदुक्तं प्रतिषेधः प्रतिषेध्योऽप्येवं मतमिति । उपपन्नंमिति ॥ तन्न ।

(व्व्२२८)
किञ्चान्यत् ।

प्रत्यक्षेण हि तावद्यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५ ॥

यदि प्रत्यक्षतः सर्वभावानुपलभ्य भवान्निवर्तयति शून्याः सर्वभावा इति । तदनुपपन्नम् । कस्मात्प्रत्यक्षमपि हि प्रमाणं स्वभावान्तर्गतत्वात्शून्यम् । योऽपि सर्वभावानुपलभते सोऽपि शून्यस्तस्मात्प्रत्यक्षेण प्रमाणेन नोपलम्भभावो अनुपलब्धस्य च प्रतिषेधानुपपत्तिः शून्यः सर्वभावा इति । तदनुपपन्नं

(व्व्२३०)
स्यात्ते बुद्धिः । अनुमानेनागमेनोपानेन वा सर्वभावानुपलभ्य सर्वभावव्यावर्तनं क्रियत इति ॥

अत्र ब्रूमः ।

अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ ६ ॥

अनुमानमप्युपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यं सर्वभावानां शून्यत्वात् । एवमनुमानमोपमागमापि शून्याः । सर्वभावानां शून्यत्वात् । येऽप्यनुमानसाध्यार्था आगमसाध्या उपमानसाध्याश्च । तेऽपि शून्याः सर्वभावानां शून्यत्वात्* अनुमानोपमानागमैश्च योऽपि भावानुपलभते सोऽपि शून्यः तस्मात्ब्बावानामुपलम्भाभावोऽनुपलब्धानाञ्च स्वभावप्रतिषेधानुपपत्तिः । तत्र यदुक्तं शून्याः सर्वभावा इति । तन्न ॥

(व्व्२३२)
किञ्चान्यत् ।

कुशलानां धर्माणां धर्मावस्थविदश्च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ ७ ॥

इह धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणामेकोनविंशं शतम् । तद्यथा एकदेशो विज्ञानस्य वेदनायाः । संज्ञायाश्चेतनायाः । स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तोऽध्याशयस्य प्रतिविरतेः व्यवसाया औत्सुक्यस्य । उन्मूर्धे उत्साहस्य अव्यार्त्यस्य वसितायाः प्रतिपत्तेरविप्रतीसारस्य धृतेरध्यवसायस्य । अनौक्षेकस्य अननुमूढ्यनुत्सारस्य । प्रापणायाः प्रणिधेः मदस्य विषयानां विप्रयोगस्य । अनिर्याणिकताया उत्सादस्य । स्थितेरनित्यतायाः समर्थागतस्य जरायाः परिद्रास्यतारतेः । वितर्कानां प्रीतेः प्रमादस्य अप्रस्रब्धेः । व्यवहारतायाः । प्रेक्षुप्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य (व्व्२३४) भक्तेरभक्तेः सुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः । हासस्य वाचः विष्पन्दनायाः सिद्धस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायः । दाक्ष्यस्य सौरत्यस्य विप्रतिसारस्य शोकस्य । उपायासायस्वीतस्य । अप्रदक्षिणग्राहस्य संेपस्य संवराणां परिशुद्धेरध्याशयस्य रूपस्येति । श्रद्धा ह्रीरार्जवमवञ्चनम् । उपसम अचामल सप्रसादमार्दवं प्रतिसंख्यानं निर्वेदऽपरिदाहः । अमद अलोभ अदोष अमोह असर्वत्* अप्रतिनिःसर्गः विभव अपत्रया अपरिशुच्छदनं माननं कारुण्यं मैत्री अदीनतादरितमरि.(द्)ह + + नुपनाहः अली चेतसो पर्यादानं क्षान्तिः । व्यवसदु आसौरक्यमिति भागान्वयम् । पुण्यम् । असंज्ञिसमापत्तिः । नैर्याणिकतासर्वज्ञतासंस्कृता धर्माः इत्येकोनविंशं शतं कुशलानां कुशलः स्वभावः ॥

(व्व्२३६)
तथाकुशलानामकुशलः स्वभावः । निवृत्ताव्याकृतः । प्रकृताव्याकृतानां प्रकृताव्याकृतः । कामोक्तानां कामोक्तः । रूपोक्तानां रूपोक्तः । आरूप्योक्तानामारूप्योक्तः । अनाश्रवाणामनाश्रवः । दुःखोक्तानां दुःखोक्तः । समुदयोक्तानां समुदयोक्तः । निरोधोक्तानां निरोधोक्तः । मार्गोक्तानां मार्गोक्तः । भावनाप्रहातव्यानां भावनाप्रहातव्यः । अप्रहातव्यानामप्रहातव्यः । प्रहातव्यानां प्रहातव्यः । यस्मादेवमनेकप्रकारो धर्मस्वभावो दृष्टः । तस्मादिह यदुक्तम् । निःस्वभावाः सर्वभावाः निःस्वभावत्वात्शून्य इति तन्न ।

(व्व्२३८)
किञ्चान्यत् ।

नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषां ।
धर्मावस्थोक्तानामेव च नैर्याणिकादीनां ॥ ८ ॥

इह च धर्मोऽवस्थोक्तानां नैर्याणिकानां धर्माणां निर्याणिकः स्वभावः । अनैर्याणिकानामनैर्याणिकः । बोध्यङ्गिकानां बोध्यङ्गिकः । अबोध्यङ्गिकानामबोध्यङ्गिकः । बोधिपाक्षिकाणां बोधिपाक्षिकः । अबोधिपाक्षिकाणामबोधिपाक्षिकः । एवं शेषाणां तद्यस्मादेवमनेकप्रकारो धर्माणां स्वभावो दृष्टः । यस्माद्यदुक्तं निःस्वभावाः सर्वभावाः । निःस्वभावत्वात्शून्या इति न ॥

किञ्चान्यत् ।

यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येवं ।
नामापि भवेत्नैवं नामापि निर्वस्तुकन्नास्ति ॥ ९ ॥

यदि च धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच्चाशून्यः सर्वभावाः । तत्र यदुक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वात्शून्या इति तन्न ॥

(व्व्२४०)
किञ्चान्यत् ।

अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर्विना स्वभावः स यस्यास्ति तद्युक्तमुपदेष्टुम् ॥ १० ॥

अथ मन्यसे मा भूदवस्तुकं नामेति कृत्वास्ति स्वभावः । स पुनर्धर्माणां न संभवति । एवं धर्मशून्यता च निःस्वभावत्वाद्धर्माणां सिद्धा भविष्यति । न च निर्वस्तुकन्नामेति ।

अत्र वयं ब्रूमः । एवं कस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य तद्युक्तमुपदेष्टुमर्थः । स च नोपदिष्टस्तस्माद्या कल्पनास्ति स्वभावो न पुनर्धर्माणामिति सा हीना ॥

किञ्चान्यत् ।

सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधो यं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥

इह च सतोऽर्थस्य प्रतिषेधः क्रियते नामतः । तद्यथा नास्ति घटो गेह इति । सतो घटस्य प्रतिषेधः क्रियते । नासतः । एवमेव नस्ति स्वभावो धर्माणामिति । सतः स्वभावस्य प्रतिषेधः प्राप्नोति नामतः । तत्र यदुक्तम् । निःस्वभावाः सर्वभावाः निःस्वभावत्वात्शून्या इति तन्न ॥ प्रतिषेधसंभवादेव हि सर्वभावस्वभावस्वभावोऽप्रतिषिद्धः ॥

(व्व्२४२)

अथ नास्ति स स्वभावः किन्न प्रतिषिध्यते त्वयानेन ।
वचनेन र्ते वचनात्प्रतिषेधः सिध्यते ह्यसतः ॥ १२ ॥

नास्त्येव स्वभावा इत्यनेन वचनेन निःस्वभावा भावा इति किं भवता प्रतिषिध्यते । असतो हि वचाद्विना सिद्धः प्रतिषेधः । तद्यथाग्नेः शैत्यस्य । अयं स्थैर्यस्य ।

किञ्चान्यत् ।

बालानामिव मिथ्या मृगतृष्णायां यथाजलग्राहः ।
एवं मिथ्याः ग्राहः स्यात्ते प्रतिषिध्यते ह्यसतः ॥ १३ ॥

स्यात्ते बुद्धिः यथा बालानां मृगतृष्णायां मिथ्याजलमिति ग्राहो भवति । ननु निर्जला सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते । तस्य मिथ्याग्राहस्य विनिवर्तनार्थमेवन्निःस्वभावेषु यः स्वभावो ग्राहः सत्वानां तस्य व्यावर्तनार्थन्निःस्वभावाः सर्वभावा इत्युच्यत इति ॥

अत्र ब्रूमः ।

(व्व्२४४)

नन्वेवं सत्यस्ति ग्राहो ग्राह्यञ्च तद्ग्रहीता च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधा चेति षट्कं तत् ॥ १४ ॥

यद्येवं नन्वेवं सत्यस्ति तावत्सत्वानां मिथ्याग्राहः । अस्ति ग्राह्यं सन्ति सत्वा ग्रहीतारः । अस्ति प्रतिषेधः तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यदिदं मिथ्याग्राह्यं नाम । सन्ति प्रतिषेधारो युष्मदादयोऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् । षट्कस्यास्य प्रसिद्धत्वात् । यदुक्तं शून्याः सर्वभावा इति तन्न ॥

अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेधारोऽप्यत न सन्ति ॥ १५ ॥

अथ मा भूदेष दोष इति कृत्वा नैव ग्राहोऽस्ति नैव ग्राह्यं न च ग्रहीतार इति । एवं सति योऽसौ ग्राहस्य प्रतिषेधः निःस्वह्हावाः सर्वभावा इति । सोऽपि नास्ति प्रतिषेध्यमपि नास्ति प्रतिषेधारोऽपि न सन्ति ।

(व्व्२४६)

प्रतिषेधः प्रतिषेध्यं प्रतिषेधाराअश्च यद्युत न सन्ति ।
सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ १६ ॥

यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्यप्रतिसिद्धाः सर्वभावा अस्ति च सर्वभावानां स्वभावः ॥

किञ्चान्यत् ।

हेतोः स्वतो न सिद्धिः नैःस्वाभाव्यात्कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥ १७ ॥

निःस्वभावाः सर्वभावा इत्येतस्मिनर्थे ते हेतोरसिद्धिः । किं कारणं निःस्वभावत्वाद्धि सर्वभावानां शून्यत्वान्न ततो हेतुः । असति हेतौ निर्हेतुकस्यार्थस्य शून्याः सर्वभावा इति कुत एव प्रसिद्धिः ॥ तत्र यदुक्तं शून्याः सर्वभावा इति तन्न ॥

किञ्चान्यत् ।

यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धं ॥ १८ ॥

अथ मन्यसे नैर्हेतुकी सिद्धिः निःस्वभावत्वस्य भावानामिति । यथा तव स्वभावनिर्वर्तनं निर्हेतुकं सिद्धम् । तथा ममापि स्वभावसत्भावोऽपि निर्हेतुकः सिद्धः ॥

(व्व्२४८)

अथ हेतोरस्तित्वं भावानैःस्वाभाव्यमित्यनुपपन्नम् ।
लोको नैःस्वभाव्यान्न हि कश्चन विद्यते भावः ॥ १९ ॥

इह यदि हेतोरस्तित्वं मन्यसे । निःस्वभावाः सर्वभावा इति तदनुपपन्नम् ॥ किं करणम् । न हि लोके निःस्वभावः कश्चिद्भावोऽस्ति ॥

किञ्चान्यत् ।

पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमिति न चोपपन्नम् ।
यश्चानुपपन्नो युगपच्च यतः स्वभावोऽसन् ॥ २० ॥

इह पूर्वं चेत्प्रतिषेधः पश्चाच्च प्रतिषेध्यम् । निःस्वभाव्यं नोपपन्नम् । असति हि प्रतिषेध्ये कस्य प्रतिषेधः ॥ अथ पश्चात्प्रतिषेधः पूर्वं प्रतिषेध्यमिति च नोपपन्नम् । सिद्धे हि प्रतिषेध्ये किं प्रतिषेधः करोति । अथ युगपत्प्रतिषेधः प्रतिषेध्ये तथापि न प्रतिषेध्यः प्रतिषेध्यस्यार्थस्य कारणं प्रति न प्रतिषेध्यः । न प्रतिषेधस्य च । यथा युगपदुत्पन्नयोर्गोविषाणयोः नैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य गारणं भवतीति । तत्र यदुक्तं निःस्वभावाः सर्वभावा इति तन्न ।

(व्व्२५०)
अत्रोच्यते । यत्तावद्भवतोक्तं

सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलमिति । [१]

अत्र ब्रूमः ।

हेतुप्रत्ययसामग्रां पृथग्भावेऽपि मद्वचो न यदि ।
ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥ २१ ॥

यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्थोजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु य + + सामग्र्यामस्ति हेंप्रत्ययसामग्रीं विनिर्मुक्तं पृथग्वास्ति । तस्मान्निःस्वभावा निःस्वभावत्वाच्छून्यम् । एवम् । ननु शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतन्मद्वचं निःस्वभावत्वाच्छून्यम् । तथा सर्वभावा निःस्वभावत्वाच्छून्या इति । यद्भवतोक्तं त्वदीयवचसः शून्यत्वात्शून्यता सर्वभावानां नोपपद्यत इति तन्न ॥

(व्व्२५२)
किञ्चान्यत् ।

यश्च प्रतीत्य भावानां शून्यतेति तं ब्रू + + ।
यस्तु प्रतीत्यभावो भवति हि तस्यास्वभावत्वं ॥ २२ ॥

शून्यतार्थञ्च भवान् भावानामनवसम्य शून्यतार्थमज्ञात्वा प्रवृत्ति उपालम्भं वक्तुं त्वद्वचनस्य शून्यत्वात्त्वद्वचनस्य निःस्वभावत्वादेवं त्वद्वचनेन निःस्वभावेन भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्य भवानां भावः सा शून्यता । कस्मान्निःस्वभावत्वात् । ये हि प्रतीत्यसमुत्पान्ना भावास्ते स सस्वभावा भवन्ति । स्वभावाभावात् । तस्माद्धेतुप्रत्ययापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयुः । प्रत्याख्यायापि हेतुप्रत्ययांश्च भवेयुः । न चेवं भवन्ति । तस्मान्निःस्वभावाः निःस्वभावत्वाच्छून्या इत्यभिधीयन्ते । एवं मदीयमपि वचनम् । प्रतीत्यसमुत्पन्नत्वान्निःस्वभावं निःस्वभावत्वात्शून्यमित्युपपन्नम् ।

(व्व्२५४)
यथा च प्रतीत्यसमुत्पन्नत्वात्स्वभावशून्याः । रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठाहणमृत्तिकहरणमधूदकपयसां धारणा शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते । एवमिदं मदीयवचनं प्रत्ययसमुत्पन्नत्वान्निःस्वभावं निःस्वभावत्वप्रसाधनं प्रत्ययभावानां वर्तते । त्र यदुक्तम् । निःस्वभवत्वात्त्वदीयवचनस्य शून्यत्वं शून्यत्वात्तस्य च तेन सर्वभावस्वभावप्रतिषेध उपपन्नमिति तन्न ॥

(व्व्२५६)
किञ्चान्यत् ।

निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् ।
प्रतिषेधयति यद्वत्प्रतिषेधो यं तथैव स्यात् ॥ २३ ॥

यथा निर्मितकः पुरुषमभ्यापतं तु कश्चिदर्थेन वर्तमानं प्रतिषेधयेत् । मायाकारेण वा सृष्टो मायापुर्न्षोऽन्यं मायापुरुष समभ्यव तन्न कस्मिन्श्चिदर्थे वर्तमानं प्रतिषेधयेत् । तत्र यो निर्मितकः पुरुषः प्रतिषेध्यते स शून्यः यः प्रतिषेधयति सोऽपि मायापुरुषः शून्य एवमेव मद्वचनेन शून्येन सर्वभावानां स्वभावप्रतिषेध उपपन्नः ॥ तत्र यद्भवतोक्तम् । शून्यत्वात्त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्नमिति न तन्न । षट्कोटिको वाद उक्तः स एवं प्रतिसिद्धः नैव ह्येवं सति न सर्वभावान्तर्गतं मद्वचनं नाप्यशून्यं नापि सर्वभावाशून्याः ।

(व्व्२५८)
यत्पुनर्भवतोक्तम्

अथ सस्वभावमेतद्वाक्यं पूर्वा हता प्रतिज्ञा ते
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्य इत्य्[२]

अत्रापि ब्रूमः ।

न स्वाभाविकमेतद्वाक्यं तस्मान्न वादहानिर्मे ।
नास्ति च वैषमिकत्वं विशेसहेतुश्च न निगद्यः ॥ २४ ॥

न तावदेतन्मम वचनं प्रतीत्यसमुत्पन्नत्वात्स्वभावोपपन्नं यथा पूर्वमुक्तम् । स्वभावानुपपन्नत्वात्शून्यम् । यस्माच्च इदमपि मद्वचनं शून्यं शेषापि सर्वभावाः शून्यास्तस्मान्नास्ति वैषमिकत्वम् । यदि हि वयं ब्रूमः । इदं वचनमशून्यं शेषाः सर्वभावाः शून्या इति ततो वैषमिकत्वम् । स्यान्न चैतदेवं तस्मान्न वैषमिकत्वम् । यस्माच्च वैषमिकत्वं न संभवति इदं वचनमशून्यं शेषाः पुनः सर्वभावाः शून्या इति । तस्मादस्माभिर्विशेषहेतुरपि न वक्तव्यः अनेन इदं वचनमशून्यं सर्वभावाः पुनः शून्या इति । तत्र यद्भवतोक्तं वादहानिस्ते वैषमिकत्वं च विशेषहेतुश्च त्वया वक्तव्य इति तन्न ।

(व्व्२६०)
यत्पुनर्भवतोक्तम् ।

मा शब्दवदित्येतदस्मात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देन ह्यत्र सता भविष्यतो वारणं तस्येति । [३]

अत्र ब्रूमः ।

मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारह्धः ।
शब्देन हि तच्च शब्दस्य वारणं नैदमेव चः ॥ २५ ॥

नाप्ययमस्माकं दृष्टान्तः । यथा कश्चिन्मा शब्दं कर्षीरिति ब्रुवं शब्दमेव करोति शब्दञ्च प्रतिषेधयति । यद्वत्शून्येन वचनेन शून्यतां प्रतिषेधयति । किं कारणम् । अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतदेवं वयं ब्रूमः । निःस्वभावाः सर्वभावाः निःस्वभावत्वात्तदशून्यामिति ।

(व्व्२६२)
किं करणं

नैःस्वभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि ।
नैःस्वभाव्यनिर्वृत्तौ स्वभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥

यथा मा शब्दमिति शब्देन शब्दस्य व्यावर्तनं क्रियते । एवं यदि नैःस्वभाव्येन वचनेन नैःस्वभाव्यानां व्यावर्तनं क्रियते ततोऽयं दृष्टान्तोपपन्नः स्यात् । इह तु नैःस्वभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते । एवं यदि नैःस्वभाव्येन वचनेन निःस्वभावानां नैःस्वभाव्यप्रतिषेधः क्रियते । नैःस्वभव्यप्रतिषेधादेव सस्वभावा भवेयुः । सस्वभावत्वादशून्याः स्युः । शून्यताञ्च वयं भावानामाचक्ष्महे नाशून्यतामित्यदृष्टान्त एवायमिति ।

(व्व्२६४)

अथ वा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसत्ग्राहम् ।
निर्मितकः प्रतिहन्यात्कस्यचिदेवं भवेदेत्तत ॥ २७ ॥

अथ वा कस्यचित्पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतः स्त्रियमित्यसद्ग्राहः । स्यादेव तस्यां तेनासद्ग्राहेण रागमुत्पादयेत् । तद्यथा तथागतेन वा तच्छ्रावकेण वा निर्मितको निर्मितः स्यात् । तथागताधिष्ठानेन वा तथागतस्रावकाधिष्ठानेन वा तस्य तमसद्ग्राहं विनिवर्तयेत् । एवमेव निर्मितकोपमेन शून्येन वचनेन निर्मितकस्त्रीसदृश्येषु निःस्वभावेषु योऽयं स्वब्बावग्राहः स निवर्त्यते स प्रतिषिध्यते । तस्मादयमत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः ।

(व्व्२६६)

अथ वा साध्यसमो यं हेतुर्न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारञ्च वयं नानभ्युपगम्य कथयामः ॥ २८ ॥

मा शब्दवदिति साध्यसम एवायं हेतुः । कस्मात्सर्वभावानां नैःस्वभाव्येनाविशिष्टत्वात् । न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् । स्वभवं सत्ताः विद्यते । तस्याः स्वभावसत्तायाः अविद्यमानत्वात् ।

यदुक्तं

शब्देन ह्यत्र सत्ता भविष्यतो वारणं तस्येति ।

तत्व्याहन्यते ।

अपि च न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यमनभ्युपगम्य कथयामः । शून्याः सर्वभावा इति । न हि व्यवहारसत्यमनागम्य शक्या धर्मदेशना कर्तुम् ।

यथोक्तं

व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यत इति । [= म्म्क्२४.१८]

तस्मान्मद्वचनवत्शून्याः सर्वभावाः सर्वभावानाञ्च निःस्वभावत्वमुभयथोपपद्यमानमिति ॥

(व्व्२६८)
यत्पुनर्भवतोक्तम् ।

प्रतिषेधः प्रतिषेध्योऽप्येवमिति मतं भवेत्तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्येत न ममेति । [४]

अत्र ब्रूमः ।

यदि काचन प्रतिज्ञा तत्र स्यान्न मे तत्* एष मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥ २९ ॥

यदि च काचिन्मम प्रतिज्ञा स्यात्ततो मम प्रतिज्ञालक्षणप्राप्तत्वात्स पूर्वको दोषः । यथा त्वयोक्तं भावाः तथा मम स्यान्न च मम काचिदस्ति प्रतिज्ञा । तस्मात्सर्वह्हावेषु शून्येष्वत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञालक्षणप्राप्तिः कुतः प्रतिज्ञालक्षणताप्राप्तिकृतो दोषः । तत्र यत्भवतोक्तं प्रतिज्ञालक्षणप्राप्तत्वात्तवैव दोष इति तन्नास्ति ।

(व्व्२७०)
यत्पुनर्भवतोक्तं

प्रत्यक्षेण हि तावद्यद्युपलभ्य निवर्तयसि भावान्
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यंत । [५]

अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने
चानुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्चेति । [६]

अत्र वयं ब्रूमः ।

यदि किञ्चिदुपलभेयं प्रवर्तेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥

यद्यहं किञ्चिदर्थमुपलभेयं प्रत्यक्षानुमानोप + + + + हेतुभिः प्रमाणैः । चतुर्णां वा प्रमाणानाम् । अन्यतमान्यतमेन । अत एवं प्रवर्तयेयं वार्थमेवाहं किञ्चिन्नोपलभते तस्मान्न प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यौ भवतोपालम्भोक्तः । यदि प्रत्यक्षादीनां प्रमाणानामन्यतमेन उपलभ्य भावान् विनिवर्तयसीति । ननु भवतोक्तानि प्रमाणानि न सन्ति तैश्च प्रमाणैरपि गम्यार्था इति स मे भवत्येवानुपालम्भ इति ।

(व्व्२७२)
+ + + + ।

यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् ।
तेषां पुनः प्रसिद्धिं ब्रूहि कथं तेषां प्रमाणानां ॥ ३१ ॥

प्रसिद्धिरिति

यदि च प्रमाणतस्तेषां तेषामर्थानां प्रमेयानां सिद्धिं मन्यसे यथा मानैर्मेयानाम् । तथा तेषामिदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः । यदि तावन्निःप्रमाणानां प्रमाणं स्यान्नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य । यदि पुनः मन्यसे प्रमाणैः प्रसिद्धिः प्रमाणतोऽर्थानां प्रसिद्धिरिति । हीयते प्रतिज्ञा ।

(व्व्२७४)
तथापि

अन्यैः यदि प्रमाणैः प्रमाणसिधिर्भवत्यनवस्था स्यान् ।
नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ॥ ३२ ॥

यदि पुनर्मन्यसे । प्रमाणैः प्रमेयाणां प्रसिद्धिस्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिरनवस्थाप्रसङ्गः । अनवस्थाप्रसङ्गे को दोषः ।

नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ।

अस्यानवस्थाप्रसङ्गे आदेः सिद्धिर्नास्ति । किं कारणं तेषमपि हि प्रमाणानामन्यैः प्रमाणैः सिद्धिस्तेषामन्यैरिति नास्त्यादिः । आदेरसद्भावात्कुतो मध्यं कुतो अन्तः । तस्मात्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिः नोपपद्यतेति ।

(व्व्२७६)

तेषामथ प्रमाणैर्विना प्रसिद्धिः विहीयते वादः ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ ३३ ॥

अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः प्रमेयानां पुनरर्थानां प्रमाणैः प्रसिद्धिरिति । एवं सति यस्ते वादः प्रमाणैः प्रसिद्धिरर्थानामिति हीयते वैषमिकत्वञ्च भवति । केषाञ्चित् । अर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन्नेति विशेषहेतुश्च वक्तव्यः । येन हेतुना केषांचिदर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन्नेति । सा च नोपदिष्टः तस्मादियमपि कल्पना नोपपन्नेति ।

अत्राह । प्रमाणान्येव मम स्वात्मानं परात्मानञ्च प्रसाधयन्ति । यथोक्तम् ।


द्योतयति स्वात्मानं यथा हुतासः तथा परात्मानम् ।
स्वपरात्मानावेषां प्रसाधयन्ति प्रमाणानि ।

परमिव स्वात्मानं परात्मानञ्चेति ॥

(व्व्२७८)
अत्रोच्यते ।

विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः ।
न हि तस्यानुपलब्धिः दृष्टा तमसीव कुम्भस्य ॥ ३४ ॥

विषम एवायमुपन्यासः । अग्निवत्प्रमाणानि स्वात्मानञ्च प्रसाधयन्ति परात्मानञ्च प्रसाधयन्तीति । न ह्यग्निरात्मानं प्रकाशयति । यदि हि यथा प्रागेवाग्निना अप्रकाशितस्तमसि कुम्भो नोपलभ्यते । अथोत्तरकालमुपलभ्यतेऽग्निना प्रकाशितः सनेवमेव यद्यग्निना न प्रकाशितः प्रागग्निः स्यादुत्तरकालमग्नेः प्रकाशनं स्यात् । अतः स्वात्मानं प्रकाशयेन्नैतदेवम् । तस्मादियमपि कल्पना नोपपद्यन्तेति ।

(व्व्२८०)

किञ्चान्यत् ।

यदि च स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः ।
परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ ३५ ॥

यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्यग्निः एवमेव स्वात्मानमपि प्रकाशयत्यग्निरिति । ननु यथा परात्मानं दहति । एवमेव स्वात्मानमपि धक्ष्यतीति । न चैतदेवम् । तत्र यदुक्तं परात्मानमिव स्वात्मानं प्रकाशयत्यग्निरिति तन्न ॥

किञ्चान्यत् ।

यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः ।
प्रछादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ ३६ ॥

यदि च भवतो भवतो मतेन स्वात्मापरात्मानौ प्रकाशयत्यग्निः । नन्विदानीं प्रतिपक्षभूततमोऽपि स्वपरात्मानौ छादयेत् । नैतदिष्टम् । तत्र यदुक्तं स्वपरात्मानौ प्रकाशयत्यग्निरिति तन्न ॥

(व्व्२८२)
किञ्चान्यत् ।

नास्ति तमश्च ज्वलने यत्र च तिष्ठते परात्मनि ज्वलनः ।
कुरुते कथं प्रकाशं स हि प्रकाशो अन्धकारवधः ॥ ३७ ॥

इह चाग्नौ नास्ति तमः । नापि च यत्राग्निस्तत्रास्ति तमः । प्रकाशश्च नाम तमसः प्रतिघातस्तत्र कथमस्य तमसः । प्रतिघातमग्निः करोति । यस्य प्रतिघातत्स्वपरात्मानौ प्रकाशयतीति ॥

आह । यद्यस्मादेवं नाग्नौ तमोऽस्ति । नापि यत्राग्निस्तत्र तमोऽस्ति । यस्मादेवं स्वपरात्मानौ न प्रकाशयत्यग्निः । तेन ह्युत्पद्यमानेनैवाग्निना तमसः प्रतिघतः कुतः तस्मान्नाग्नौ तमोऽस्ति । नापि यत्राग्निः तत्र तमोऽस्ति । यस्मादुत्पद्यमान एवोभयं प्रकाशयत्यग्निः स्वात्मानं परात्मानञ्चेति ।

(व्व्२८४)
अत्रोच्यते

उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः ।
उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ ३८ ॥

अयमग्निरुत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानञ्चेति । नायमुपपद्यते वादः । कस्मान्न ह्युत्पद्यमान एवाग्निः तमः प्राप्नोति । अप्राप्तत्वान्नैवोपहन्ति । तमसश्चानुपघातान्नास्ति प्रकाशः ।

अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् ।
सर्वेषु लोकधातुषु तमोऽयमिह संस्थित उपहन्यात् ॥ ३९ ॥

अथापि मन्यसे अप्राप्तोऽप्यग्निरन्धकारमुपहन्तीति । नन्विदानीमिह संस्थितो अग्निः सर्वलोकधातुस्थमुपहनिष्यति तमः तुल्यायामप्राप्तो न चैतदेवं दृष्टम् । तस्मादप्राप्यैवाग्निरन्धकारमुपहन्तीति यदिष्टम् । तन्न ।

(व्व्२८६)

यदि च स्वतः प्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि ।
भवति प्रमाणसिद्धिः नापरापेक्षा हि सिद्धिरिति ॥ ४० ॥

यदि चाग्निवत्स्वतः प्रमाणसिद्धिरिति मन्यसे । अनपेक्षापि प्रमेयाणि प्रमाणानां सिद्धिः भविष्यतीति किं कारणम् । न हि स्वतः परमपेक्षते । अथापेक्ष्यते न स्वतः प्रसिद्धिः ।

अत्राह । यदि नापेक्ष्यन्ते प्रमेयानर्थानप्रमाणानि को दोषो भविष्यतीति । अत्रोच्यते ।

अनापेक्सा हि प्रमेयानर्थान् यदि ते प्रमाणसंसिद्धिः ।
भवति न भवन्ति कस्यचिदेवमिमानि प्रमाणानि ॥ ४१ ॥

यदि प्रमेयानर्थाननपेक्ष्य सिद्धिर्भवति प्रमाणानामिति । तानीमानि प्रमाणानि न कस्यचित्प्रमाणानि भवन्ति । एवं दोषः ॥ अथ कस्यचित्भवन्ति प्रामाणानि । नैवेदानीमनपेक्ष्य प्रमेयानर्थान् प्रमाणानि भवन्ति ॥

(व्व्२८८)

अथ मतमपेक्ष सिद्धिस्तेषामिति अत्र भवति को दोषः ।
सिद्धस्य न साधनं स्यान्नासिद्धो पेक्षते ह्यन्यत् ॥ ४२ ॥

अथापि मतमपेक्ष्य प्रमेयानर्थान् प्रमाणानां सिद्धिर्भवतीति । एवं ते सति सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवतीति । किं कारणम् । न ह्यसिद्धस्यार्थस्यापेक्षणं भवति । न ह्यसिद्धो देवदत्तः कञ्चिदर्थमपेक्षते न च सिद्धस्य साधनमिष्टं कृतस्य कारणमनुपपत्तेरिति ॥

किञ्चान्यत् ।

सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ।
भवन्ति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ ४३ ॥

यदि प्रमेयाण्यपेक्ष्य प्रमाणानि सिध्यन्ति । नेदानीं प्रमाणान्यपेक्ष्य प्रमेयाणि सिध्यन्ति । किं कारणं न हि साध्यं साधनं साधनं साधयति । साधनानि च । किल प्रमेयाणां प्रमाणानि ॥

(व्व्२९०)
किञ्चान्यत् ।

यदि च प्रमेयसिद्धिरनपेक्षैव भवति प्रमाणानि ।
किन् ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत ॥ ४४ ॥

यदि च मन्यसेऽनपेक्ष्यैव प्रमाणानि प्रमेयानां प्रसिद्धिर्भवति । किमिदानीं ते प्रमाणसिद्ध्या पर्यन्विष्टया किं कारणम् । यदर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् । ते प्रमेयार्था विना प्रमाणैः सिद्धाः तत्र किं प्रमाणैः कृत्यम् ।

अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि ।
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणां ॥ ४५ ॥

अथापि मन्यसेऽपेक्ष्यैव प्रमेयानर्थान प्रमाणनि भवन्ति । एवं ते सति मा भूत्पूर्वोक्तदोष इति कृत्वा । एवं ते सति व्यत्ययः + + + + + याणां भवति । प्रमाणानि ते प्रमेयाणि भवन्ति । प्रमेयैः साधितत्वत् । प्रमाणानि च प्रमेयाणि भवन्ति । प्रमाणानां साधकत्वात् ।

(व्व्२९२)

अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च ।
भवति प्रमाणसिद्धिः नास्त्युभयस्यापि ते सिद्धिः ॥ ४६ ॥

अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर्भवति प्रमाणापेक्षत्वात् । प्रमेयसिद्ध्या च प्रमाणसिद्धिर्भवति प्रमेयापेक्षत्वादिति ॥ एवं सत्युभयस्यापि सिद्धिर्न .य्. + + + + णं

सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेवा ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४७ ॥

यदि हि प्रमाणैः प्रमयाणि सिध्यन्ति तानि प्रमाणानि तैरेव प्रमेयैः साधयितव्यानि । नन्वसिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिस्यन्ति प्रमेयाणीति ।

(व्व्२९४)

सिध्यन्ति च प्रमेयैः यदि प्रमाणानि तानि तैरेव ।
साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ ४८ ॥

यदि प्रमेयैः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैरेव प्रमाणैः साधयितव्यानीति । नन्वसिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमाणानि ।

पित्र यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ।
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कं ॥ ४९ ॥

तद्यथापि नाम कश्चित्ब्रूयात् । पित्रा पुत्र उत्पादनीयः स च पिता पुत्रेणोत्पादनीय इति । तत्रेदानीं ब्रूहि केन क उत्पादयितव्यः । तथैव खलु भवान् ब्रवीति । प्रमाणैः प्रमेयानि साधयितव्यानि तान्येव च पुनः प्रमाणानि तैः प्रमेयैः तत्रेदानीं तु कतमैः कतमानि साधयितव्यानि ।

(व्व्२९६)

कश्च पिता कः पुत्रः तत्र त्वं ब्रूहि कथं तावुभावपि च ।
पित्रेपुत्रलक्षणधरौ यतो नस्तत्र संदेहः ॥ ५० ॥

तयोश्च पूर्वोपदिष्टयोः पितापुत्रयोः वद कतरः पुत्रः कतरः पिता उभावपि तावुत्पादकत्वात्पितृलक्षणधरौ । उत्पाद्यत्वाच्च पुत्रलक्षणधरावत्र नः सन्देहो भवति । कतरस्तत्र पिता कतरस्तत्र पुत्र इति । एवमेव यान्येतानि भवति । प्रमाणप्रमेयणि । तत्र कतराणि प्रमाणानि कतराणि प्रमेयाणि । उभयान्यपि ह्येतानि प्रमाणानि तानि प्रमेयाणि साध्यत्वात्प्रमेयाणीति । अत्र नः सन्देहो भवति । कतराण्यत्र प्रमाणानि कतराणि प्रमेयाणीति ।

(व्व्२९८)

नैव स्वतः प्रसिद्धिर्न परस्परतः प्रमाणैर्वा ।
भवति न च प्रमेयैः न चाप्यकस्मात्प्रमाणानां ॥ ५१ ॥

न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेणानुमानस्य तेनैवानुमाने । उपमानस्य तेनैवोपमानेन । आगमस्य तेनैवागमेन ॥ नापि परस्यात्प्रत्यक्षस्यानुमानोपमानागमैरनुमानस्य प्रत्यक्षोपमानागमैरुपमानस्य प्रत्यक्षानुमानागमैः । आगमस्य प्रत्यक्षानुमानोपमानैः । नापि प्रत्यक्षानुमानोपमानागमादन्यैः प्रत्यक्षानुमानोपमानागमैर्यथास्वं नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषतागृहीतैः नाप्यकस्मान्नास्ति समुच्चयेन । एतेषां कारणानां पूर्वोद्दिष्टानां विंशस्त्रिंशच्चत्वारिशत्षट्विंशतिर्वा तत्र यदुक्तम् । प्रमाणाधिगम्यत्वात्प्रमेयाणां भावानां सन्ति तु प्रमेया भावास्तानि च प्रमाणानि यैस्तु प्रमाणैः प्रमेया भावाः सन्तश्च भावाः समाधिगता इति तन्न ॥

(व्व्३००)
यत्पुनर्भवतोक्तम् ।

कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ।
कुशलं जनस्वभावं मन्यन्ते शेषेष्वप्येष विनियोगः । [७]

अत्र ब्रूमः ।

कुशलानां धर्माणां धर्मावस्थविदो ब्रूवते यत् ।
कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात् ॥ ५२ ॥

कुशलानां धर्माणां धर्मावस्थविदः कुशलं जनस्वभावं मन्यन्ते । स च भवता प्रविभागेनोपदेष्टव्यः । स्यादयं स कुशलः स्वभावः इमे ते कुशला धर्मा इति । इदं तत्कुशलविज्ञानमयं कुशलविज्ञानस्वभाव एवं सर्वेषां न चैतदेवं दृष्टम् । तस्माद्यदुक्तमुपदिष्टः स्वभावो धर्माणामिति तन्न ॥

(व्व्३०२)
किञ्चान्यत् ।

यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणां परभावः स्वभाव एव कथं भवति ॥ ५३ ॥

यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते । परभावादुत्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति । एवमेवाकुशलप्रभृतीनाम् । तत्र यदुक्तम् । कुशलाव्याकृतानां ना .य्. + + + धर्माणां कुशलः स्वभावोपदिष्टः । एवमकुशलानामकुशलादिरिति । तन्न ॥

किञ्चान्यत् ।

अथ न प्रतीत्य किञ्चित्स्वभाव उत्पद्यते स कुशलानाम् ।
धर्माणामेवं स्याद्वासो न ब्रह्मचर्यस्य ॥ ५४ ॥

अथ मन्यसे । न किञ्चित्प्रतीत्य कुशलानां धर्माणां कुशलस्वभाव उत्पद्यते । एवमकुशलानां धर्माणामकुशलः अव्याकृतानामव्याकृत इति । एवं सत्यब्रह्मचर्यवासो भवति किं कारणम् । प्रतीत्यसमुत्पादस्य हि एवं सति प्रत्याख्यानं भवति । प्रतीत्यसमुत्पादस्य प्रत्याख्यानात्प्रतीत्यसमुत्पाददर्शणं प्रत्याख्यानं भवति । न ह्यविद्यमानस्य प्रतीत्यसमुत्पादस्य दर्शनमुत्पद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शनं न भवति । उक्तं हि । भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति । धर्मदर्शनाभावाद्ब्रह्मचर्यवासाभावः ॥

(व्व्३०४)
अथवा प्रतीत्यसमुत्पादप्रत्याख्यानात् । दुःखसमुदायप्रत्याख्यानं भवति । प्रतीत्यसमुत्पादो हि दुःखस्य समुदयः । दुःखसमुदयस्य प्रत्याख्यानाद्दुःखप्रत्याख्यानं भवति । असति हि समुदये तत्कुतो दुःखं समुदेष्यति । दुःखसमुदयप्रत्याख्यानाच्च दुःखनिरोधस्य प्रत्याख्यानम् । असति हि दुःखसमुदये कस्य प्रहाणान्निरोधो भविष्यति । असति हि दुःखनिरोधे कस्य प्राप्तये मार्गो भविष्यति । दुःखनिरोधगामी । एवं चतुर्णामार्यसत्यानामभावाच्छ्रामण्यफलाभावः । सत्यदर्शनादिश्रमण्यफलानि समाधिगम्यन्ते । श्रामण्यफलानामभावादब्रह्मचर्यवास इति ॥

किञ्चान्यत् ।

नाधर्मो धर्मो वा सत्यव्यवहाराश्च लोकिका नि स्युः ।
नित्याश्च सर्वभावाः स्युः नित्यत्वादहेतुमतः ॥ ५५ ॥

(व्व्३०६)
एवं सति प्रतीत्यसमुत्पादं प्रत्याचक्षणस्य भवतः को दोष प्रसज्यते । धर्मो न भवति अधर्मो न भवति । संव्यवहाराश्च लौकिका न सम्भवन्ति । किं कारणं प्रतीत्यसमुत्पन्नं ह्येतत्सर्वमसति प्रतीत्यसमुत्पादे कुतो भविष्यति । अपि च सस्वभावोऽप्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् । किं कारणं निर्हेतुका हि भावा नित्यास्तत्र स एव चाब्रह्मचर्यवासः प्रसज्येत्स्वसिद्धान्तविरोधश्च । किं कारणमनित्या हि भगवता सर्वे संस्कारा निर्देष्टास्ते स्वभावनित्यत्वान्नित्या हि भवन्ति ।

एष चाकुशलेष्वव्याकृतेषु नैर्याणादिषु च दोषस् ।
तस्मात्सर्वं संस्कृतमसंस्कृतं ते भवत्येवं ॥ ५६ ॥

यश्चैष कुशलेषु निर्देष्टः कल्पः स एवाकुशलेषु स एवाव्याकृतेषु स एवानैर्याणिकप्रभृतिषु दोषस्तस्मात्सर्वमिदं संस्कृतमसंस्कृतं संपद्यते ॥ किंकारणं हेतो ह्यसत्युत्पादस्थितिभङ्गा न भवन्ति । उत्पादस्थितिभङ्गेष्वसत्सु संस्कृतलक्षणाभावात् । सर्वं संस्कृतमसंस्कृतं संपद्यते । तत्र यदुक्तं कुशलादीनां भावानां स्वभावसद्भावादशून्याः सर्वभावा इति तन्न ॥

(व्व्३०८)
यत्पुनर्भवतोक्तम् ।

यदि च न भवेत्स्वभावो भावानां न स्वभाव इत्येवं
नामापि भवेदेवं नाम हि निर्वस्तुकं नास्ति । [९]

यः सद्भूतं नाम ब्रूयात्सस्वभाव इत्येवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश्च न वयं सत ॥ ५७ ॥

यो नाम सद्भूतं ब्रूयात्सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् । यस्य सद्भूतं नाम स्वभावस्य । तस्मात्तेनापि स्वभावेन सद्भूतेन भवितव्यम् । न ह्यसद्भूतस्य स्वभावस्य सद्भूतं नाम भवतीति । न पुनर्वयं नाम सद्भूतं ब्रूमस्तदपि हि स्वभावस्याभावान्नाम निःस्वभावत्वात्शून्यं शून्यत्वादसद्भूतम् । तत्र यद्भवतोक्तं नामसद्भावात्सद्भूतः स्वह्हावा इति । तन्न ॥

किञ्चान्यत् ।

(व्व्३१०)

नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः ।
यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ ५८ ॥

यच्चैतन्नामासदिति तत्किं सतः असतः । यदि हि सतस्तन्नाम यद्यसत उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत्सत । असदिति प्रतिज्ञा हीयते । न हीदनीं तदसदिदानीं सत्* अथासत । असदिति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति अस्तित्वस्वभाव इति नाम तस्मात्सद्भूतः स्वभाव इति । सा हीना ॥

किञ्चान्यत् ।

सर्वेषां भावानां शून्यत्वञ्चोपपादितं पूर्वम् ।
स उपालम्भः तस्माद्भवत्ययञ्चाप्रतिज्ञायाः ॥ ५९ ॥

इह चास्माभिः पूर्वमेव सर्वेषां भावानं विस्तरतः शून्यत्वमुपपादितम् । तत्र प्राग्नामनोऽपि शून्यत्वमुक्तं संभवा अशून्यत्वं परिगृह्य प्रवृत्तो वक्तुम् । यदि भावानां स्वाभावो न स्यादस्वभाव इति नामापीदन्न स्यादिति । तस्मादप्रतिज्ञोपालम्भो यं भवतः संपद्यते । न हि वयं नाम सद्भूतमिति ब्रूमः ॥

(व्व्३१२)
यत्पुनर्भवतोक्तम् ।

अथ विद्यते स्वभावस्स च धर्माणां न विद्यते स तस्मात्
धर्मैर्विना स्वभावः स यस्य तद्युक्तमुपदेष्टुम् । [१०]

अथ विद्यते स्वभावः स च धर्माणां न विद्यततिति इदम् ।
आशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ ६० ॥

न हि वयं धर्माणां स्वभावं प्रतिषेधयामः । धर्मविनिर्मुक्तस्य वा कस्यचिदर्थस्य स्वभावमभ्युपगच्छामः । नन्वेवं सति य उपालम्भो भवति । यदि धर्मा निःस्वभावाः कस्य खल्विदानीमन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति । स युक्तमेवोपदेष्टमिति । दूरापकृष्टमेवैतत्भवति ।

(व्व्३१४)
यत्पुनर्भवतोक्तम् ।

सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधोऽयं मतः स्वभावस्य ते तस्मात् । [११] इत्य्

अत्र ब्रूमः ।

सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिसिद्धमिदम् ।
प्रतिषेधयते हि ह्हवान् भावानां निःस्वभावत्वं ॥ ६१ ॥

यदि स्वत एव प्रतिषेधो भवति । नामतो भावानां निःस्वभावत्वं प्रतिषेधयति । ननु प्रतिसिधं सर्वभावानां निःस्वभावत्वं त्वद्वचनेन । प्रतिषेधयसि त्वं सद्भावात् । निःस्वभावत्वस्य च सर्वभावानां प्रतिसिधत्वात् । प्रतिसिद्धा शून्यतेति

प्रतिषेधयसे अथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्वेष विहीयते वादः ॥ ६२ ॥

अथ शून्यत्वं प्रतिषेधयसि त्वम् । सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच्च शून्यत्वम् । या तर्हि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा हीना ॥

(व्व्३१६)
किञ्चान्यत् ।

प्रतिषेधयामि नाहं किञ्चित्प्रतिषेध्यमस्ति न च किञ्चित् ।
तस्मात्प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ ६३ ॥

एवमपि तु कृत्वा यद्यहं किञ्चित्प्रतिषेधयामि ततो युक्तमेव वक्तुं स्यात् । न चैवहं किञ्चित्प्रतिषेधयामि तस्मान्न किञ्चित्<प्रति>षेधव्यमस्ति । तस्मात्शून्येषु सर्वभावेष्वविद्यमाने प्रतिषेध्ये प्रतिषेधयसीत्येष त्वयात्र सद्भूतोऽधिलयः क्रियत इति ॥

यत्पुनर्भवतोक्तम् ।

अथ नास्ति स स्वभावः किन्नु प्रतिषिध्यते त्वयानेन
वचनेन र्ते वचनात्प्रतिषेधः सिध्यते ह्यसतः ॥ [१२]

अत्र ब्रूमः ।

यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति ।
अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ ६४ ॥

(व्व्३१८)
य च भवान् ब्रवीति । सतेऽपि वचनादसतः प्रतिषेधः प्रतिसिद्धः तत्र किन्निःस्वभावाः सर्वभावाः इति । एतद्वचनं करोतीति ॥ अत्र ब्रूमः निःस्वभावा इति एतत्खलु वचनं न निःस्वभावान् सर्वभावान् करोति । किन्त्वसत स्वभाव भावानामसत स्वभावानामिति ज्ञापयति । तत्र कश्चित्ब्रूयादविद्यमाहगृहे देवदत्तस्तमस्ति गृहे देवदत्त इति । तत्रैनं कश्चित्प्रतिब्रूयान्नास्तीति । न तद्. + + + + + देवदत्तस्यासंभवां करोति । किन्तु ज्ञापयति केवलमसद्भावं गृहे देवदत्तस्येति ॥ तद्वा नास्ति स्वभावो भावानामित्येतद्वचनं न स्वभावानां निःस्वभावत्वं करोति । भावेषु स्वभावस्याभावं ज्ञापयति ॥ तत्र यद्भवतोक्तं किमसति स्वभावे नास्ति स्वभाव इत्येतद्वचनं करोति । ऋतेऽपि वचनात्प्रसिद्धिः स्वभावस्याभाव इति । तत्ते न युक्तं

(व्व्३२०)
यदुक्तं

बालानामिव मृगतृष्णायां स यथाजलग्राहः ।
एवं मिथ्याग्राहः स्यात्ते प्रसिध्यते ह्यसतः । [१३]

यत्पुनर्भवतो मृगातृष्णायामित्यत्र ब्रूमः ।

मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्चः ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ ६५ ॥

य एव त्वया मृगतृष्णादृष्टान्ते महांश्चर्च उक्तः । तत्रापि तया निर्णयः स श्रूयतामुपपन्न एव दृष्टान्तो भवति ।

स यदि स्वभावतः स्याद्भावो न स्यात्प्रतीत्य समुद्भूतः ।
यश्च प्रतीत्य ह्हवति ग्राहो ननु शून्यता सैव ॥ ६६ ॥

यदि च मृगतृष्णायां स यथाजलग्राहः स्वभावतः स्यात् । न स्यात्प्रतीत्यसमुत्पन्नो । यतो मृगतृष्णाञ्च प्रतीत्य विपरीतञ्च दर्शनं प्रतीत्य योनिशोमनस्कारञ्च प्रतीत्य प्रादुर्भूतो अतः प्रतीत्यसमुत्पन्नः यतश्च प्रतीत्यसमुत्पन्नोऽतः स्वभावतः शून्य एव । यथा पूर्वमुक्तं तथा

(व्व्३२२)
किञ्चान्यत् ।

यदि च स्वभावतः स्याद्ग्राहः कस्तं विनिवर्तयेद्ग्राहम् ।
शेषेष्वप्येष विधिः तस्मादेषोऽनुपालम्भः ॥ ६७ ॥

यदि च मृगतृष्णायां जलग्राहः स्वभावतः स्यात् । क एव तं विनिवर्तयेता । न हि स्वभावः शक्यो निवर्तयितुम् । तथाग्नेरुष्णत्वमपां द्रवत्वमाकाशस्य निरववरणत्वम् । दृष्टं चास्य विनिवर्तनम् । तस्माच्छून्यस्वभावः ग्राहः । यदा चैतदेवं शेषेष्वपि धर्मेष्वेष क्रमः प्रत्यवगन्तव्यः ग्राह्यप्रवृत्तिषु पञ्चसु । तत्र यद्भवतो + + + + पादशून्याः सर्वभावा इति तन्न ॥

(व्व्३२४)
यत्पुनर्भवतोक्तम् ।

हेतोश्च ते न सिद्धिर्नैःस्वब्बाव्यात्कुतो हि ते हेतुः
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य [ल्७] इति ॥

अत्र ब्रूमः ।

एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात् ।
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राग् ॥ ६८ ॥

एतेनैव चेदानीं चर्चेन पूर्वोक्तेन हेत्वभावोऽपि प्रत्यवगन्तव्यः । य एव हि चर्चः पूर्वस्मिन् हेतावुक्तः षट्कप्रतिषे + + + + + + हापि चर्चयितव्यः ।

(व्व्३२६)
यत्पुनर्भवतोक्तम् ।

पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमिल्यनुपपन्नम् ।
पश्चाच्चानुपपन्नो युगपच्च यतः स्वभावोऽसन ॥ [२०]

अत्र ब्रूमः ।

यत्त्रैकाल्ये हेतुः प्रत्युक्तं पूर्वमेव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश्च शून्यभावादिना प्राप्तः ॥ ६९ ॥

स एष हेतुः त्रैकाल्ये प्रतिषेधवाची स तूक्तोत्तरः प्रत्यवमन्तः । कस्मात्साध्यसमत्वात् । यथा हि प्रतिषेधस्त्रैकाल्ये नोपपद्य्.ए + + + + + + प्रतिषेधप्रतिषेधेऽपि । तस्मात्प्रतिषेधप्रतिषेध्येऽसति भवान्मन्यते प्रतिषेधः प्रतिसिद्ध इति तन्न । यतश्चैष त्रिकालप्रतिषेधवाची हेतुरेष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधकत्वान्न भवतः ।

अथ वा कथमेतदुक्तोत्तरम् ।

प्रतिषेधयामि नाहं किञ्चित्प्रतिषेध्यमस्ति न च किञ्चित्
तस्मात्प्रतिषेधयसीत्यधिलय एष त्वया क्रियत [६३] इति ॥

(व्व्३२८)
अथ मन्यसे त्रिष्वपि कालेषु + + + + + + + दृष्टः पूर्वकालीनोऽपि हेतुः उत्तरकालीनोऽपि । युगपत्कालीनोऽपि हेतुः । कथं पूर्वकलीनः । यथा पिता पुत्रस्य त्वद्वचनेन पश्चात्कालीनः । यथा शिष्याचार्यस्य युगपत्कालीनः यथा प्रदीपः प्रकाशस्येति ॥ अत्र ब्रूमः । न चैतदेव युक्ता ह्येतस्मिं त्रये पूर्वदोषः ॥ अपि च पुनः यद्येवं कमः । प्रतिषेधसद्भावस्त्वयाभ्युपगम्यते । प्रतिज्ञाहानिश्च ते भवति । ए + + + + + + + स्वभा + + + .एधोऽपि सि + + भवतीति ।

(व्व्३३०)

प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः ।
प्रभवति न तस्य किन्न प्रभवति शून्यता यस्येति ॥ ७० ॥

यस्य शून्यतेयं प्रभवति तस्य सर्वार्था लौकिकलोकोत्तराः प्रभवन्ति । किं कारणम् । यस्य हि शून्यता प्रभवति तस्य प्रतीत्यसमुत्पादः प्रभवति । यस्य प्रतीत्यसमुत्पादः प्रभवति तस्य चत्वार्यार्यसत्यानि प्रभवन्ति । यस्य चत्वार्यार्यसत्यानि + + + + + + + मण्यफलानि भवन्ति । सर्वविशेषाधिगमः भवन्ति । यस्य सर्वविशेषाधिगमाः प्रभवन्ति । तस्य त्रीणि रंाणि बुद्धधर्मसंघाः प्रभवन्ति । यस्य प्रतीत्यसमुत्पादः प्रभवन्ति तस्य धर्मो धर्महेतुर्धर्मफलञ्च प्रभवन्ति । तस्याधर्मोऽधर्महेतुश्चाधर्मफलञ्च प्रभवति । तस्य क्लेशः क्लेशसमुदयः क्लेशवस्तूनि च प्रभवन्ति । यस्यैतत्सर्वं भवति पूर्वोक्तं तस्य सुगतिं दुर्गतिं व्यवस्था + + + + + + + गतिदुर्गतिगमनम् । सुगतिदुर्गतिगामी मार्गः । सुगतिदुर्गतिगमनव्यतिक्रमणं सुगतिदुर्गतिव्यतिक्रमोपायः सर्वसंव्यवहाराश्च लोकिकाः स्वयमधिगन्तव्याः । अनया दिशा किञ्चित्शक्यं वचनोपदेष्टमिति ।

(व्व्३३२)
भवति चात्र

यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदम्
अनेकार्थां निजगाद प्रणमामि तमप्रतिमं तु बुद्धिमिति ॥

कृतिरियमाचार्यनागार्जुनपादाना + + + + + एकत्र श्लोकशत ४५० ॥

॥ लिखितमिदं श्रीध्रमकिर्तिना सर्वसत्वहेतोः यथालब्धमिति ॥

॥ विग्रहव्यावर्तिणी ॥�