विचख्नुगीता
विचख्नुगीता ..
अत्राप्युदाहरन्तीममितिहासं पुरातनम् .
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना .. १..
छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम् .
गोग्रहे यज्ञवातस्य प्रेक्षमाणः स पार्थिवः .. २..
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् .
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता .. ३..
अव्यवस्थित मर्यादैर्विमूढैर्नास्तिकैर्नरैः .
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता .. ४..
सर्वकर्म स्वहिंसा हि धर्मात्मा मनुरब्रवीत् .
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः .. ५..
तस्मात्प्रमानतः कार्यो धर्मः सूक्ष्मो विजानता .
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता .. ६..
उपोष्य संशितो भूत्वा हित्वा वेद कृताः श्रुतीः .
आचार इत्यनाचाराः कृपणाः फलहेतवः .. ७..
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्धिश्य मानवाः .
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते .. ८..
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् .
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् .. ९..
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् .
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः .
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् .. १०..
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः .
यच्चापि किं चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् .
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् .. ११..
शरीरमापदश्चापि विवदन्त्यविहिंसतः .
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ..१२
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा .
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् .. १३
इति विचख्नुगीता समाप्ता .