विज्ञानभैरवम्
[[लेखकः :|]]


श्री देव्युवाच ।

श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् ।
त्रिकभेदमशेषेण सारात्सारविभागशः ॥ १ ॥

अद्यापि न निवृत्तो मे संशयः परमेश्वर ।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥ २ ॥

किं वा नवात्मभेदेन भैरवे भैरवाकृतौ ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥ ३ ॥

नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः ।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् ॥ ४ ॥

परापरायाः सकलमपरायाश्च वा पुनः ।
पराया यदि तद्वत्स्यात्परत्वं तद्विरुध्यते ॥ ५ ॥

न हि वर्णविभेदेन देहभेदेन वा भवेत् ।
परत्वं निष्कलत्वेन सकलत्वे न तद्भवेत् ॥ ६ ॥

प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् ।

भैरव उवाच ।

साधु साधु त्वया पृष्टं तन्त्रसारमिदं प्रिये ॥ ७ ॥

गूहनीयतमं भद्रे तथापि कथयामि ते ।
यत्किंचित्सकलं रूपं भैरवस्य प्रकीर्तितम् ॥ ८ ॥

तदसारतया देवि विज्ञेयं शक्रजालवत् ।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥ ९ ॥

ध्यानार्थं भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् ।
केवलं वर्णितं पुंसां विकल्पनिहतात्मनाम् ॥ १० ॥

तत्त्वतो न नवात्मासौ शब्दराशिर्न भैरवः ।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः ॥ ११ ॥

नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः ।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः ॥ १२ ॥

अप्रबुद्धमतीनां हि एता बलविभीषिकाः ।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् ॥ १३ ॥

दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी ।
व्यपदेष्टुमशक्यासावकथ्या परमार्थतः ॥ १४ ॥

अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा ।
यावस्था भरिताकारा भैरवी भैरवात्मनः ॥ १५ ॥

तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् ।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति ॥ १६ ॥

एवंविधा भैरवस्य यावस्था परिगीयते ।
सा परा पररूपेण परा देवी प्रकीर्तिता ॥ १७ ॥

शक्तिशक्तिमतोर्यद्वदभेदः सर्वदा स्थितः ।
अतस्तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः ॥ १८ ॥

न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते ।
केवलं ज्ञानसत्तायां प्रारम्भोऽयं प्रवेशने ॥ १९ ॥

शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना ।
तदासौ शिवरूपी स्यात्शैवी मुखमिहोच्यते ॥ २० ॥

यथालोकेन दीपस्य किरणैर्भास्करस्य च ।
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥ २१ ॥

श्री देव्युवाच ।

देवदेव त्रिशूलाङ्क कपालकृतभूषण ।
दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥ २२ ॥

यावस्था भरिताकारा भैरवस्योपलभ्यते ।
कैरुपायैर्मुखं तस्य परा देवि कथं भवेत् ।
यथा सम्यगहं वेद्मि तथा मे ब्रूहि भैरव ॥ २३ ॥

भैरव उवाच ।

ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् ।
उत्पत्तिद्वितयस्थाने भरणाद्भरिता स्थितिः ॥ २४ ॥

मरुतोऽन्तर्बहिर्वापि वियद्युग्मानिवर्तनात् ।
भैरव्या भैरवस्येत्थं भैरवि व्यज्यते वपुः ॥ २५ ॥

न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते ।
निर्विकल्पतया मध्ये तया भैरवरूपता ॥ २६ ॥

कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् ।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥ २७ ॥

आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम् ।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीं भैरवोदयः ॥ २८ ॥

उद्गच्छन्तीं तडित्रूपां प्रतिचक्रं क्रमात्क्रमम् ।
ऊर्ध्वं मुष्टित्रयं यावत्तावदन्ते महोदयः ॥ २९ ॥

क्रमद्वादशकं सम्यग्द्वादशाक्षरभेदितम् ।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥ ३० ॥

तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना ।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः ॥ ३१ ॥

शिखिपक्षैश्चित्ररूपैर्म.ङ्दलैः शून्यपञ्चकम् ।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥ ३२ ॥

ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना ।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥ ३३ ॥

कपालान्तर्मनो न्यस्य तिष्ठन्मीलितलोचनः ।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यमुत्तमम् ॥ ३४ ॥

मध्यनाडी मध्यसंस्था बिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥ ३५ ॥

कररुद्धदृगस्त्रेण भ्रूभेदाद्द्वाररोधनात् ।
दृष्टे बिन्दौ क्रमाल्लीने तन्मध्ये परमा स्थितिः ॥ ३६ ॥

धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् ।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः ॥ ३७ ॥

अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ३८ ॥

प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात् ।
शून्यया परया शक्त्या शून्यतामेति भैरवि ॥ ३९ ॥

यस्य कस्यापि वर्णस्य पूर्वान्तावनुभावयेत् ।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत् ॥ ४० ॥

तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः ।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर्भवेत् ॥ ४१ ॥

पि.ङ्दमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु ।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद्भवेच्छिवः ॥ ४२ ॥

निजदेहे सर्वदिक्कं युगपद्भावयेद्वियत् ।
निर्विकल्पमनास्तस्य वियत्सर्वं प्रवर्तते ॥ ४३ ॥

पृष्टशून्यं मूलशून्यं युगपद्भावयेच्च यः ।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् ॥ ४४ ॥

पृष्टशून्यं मूलशून्यं हृच्छून्यं भावयेत्स्थिरम् ।
युगपन्निर्विकल्पत्वान्निर्विकल्पोदयस्ततः ॥ ४५ ॥

तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् ।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक् ॥ ४६ ॥

सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे ।
विभावयेत्ततस्तस्य भावना सा स्थिरा भवेत् ॥ ४७ ॥

देहान्तरे त्वग्विभागं भित्तिभूतं विचिन्तयेत् ।
न किंचिदन्तरे तस्य ध्यायन्नध्येयभाग्भवेत् ॥ ४८ ॥

हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ॥ ४९ ॥

सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् ।
दृढबुद्धेर्दृढीभूतं तत्त्वलक्ष्यं प्रवर्तते ॥ ५० ॥

यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ॥
प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् ॥ ५१ ॥

कालाग्निना कालपदादुत्थितेन स्वकं पुरम् ।
प्लुष्टं विचिन्तयेदन्ते शान्ताभासस्तदा भवेत् ॥ ५२ ॥

एवमेव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः ।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् ॥ ५३ ॥

स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च ।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ॥ ५४ ॥

पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे ।
प्रविश्य हृदये ध्यायन्मुक्तः स्वातन्त्र्यमाप्नुयात् ॥ ५५ ॥

भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः ॥ ५६ ॥

अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः ।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः ॥ ५७ ॥

विश्वमेतन्महादेवि शून्यभूतं विचिन्तयेत् ।
तत्रैव च मनो लीनं ततस्तल्लयभाजनम् ॥ ५८ ॥

घतादिभाजने दृष्टिं भित्तिस्त्यक्त्वा विनिक्षिपेत् ।
तल्लयं तत्क्षणाद्गत्वा तल्लयात्तन्मयो भवेत् ॥ ५९ ॥

निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् ।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते ॥ ६० ॥

उभयोर्भावयोर्ज्ञाने ध्यात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥ ६१ ॥

भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥ ६२ ॥

सर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् ।
युगपन्निर्विकल्पेन मनसा परमोदयः ॥ ६३ ॥

वायुद्वयस्य संघट्टादन्तर्वा बहिरन्ततः ।
योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥ ६४ ॥

सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् ।
युगपत्स्वामृतेनैव परानन्दमयो भवेत् ॥ ६५ ॥

कुहनेन प्रयोगेण सद्य एव मृगेक्षणे ।
समुदेति महानन्दो येन तत्त्वं प्रकाशते ॥ ६६ ॥

सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः ।
पिपीलस्पर्शवेलायां प्रथते परमं सुखम् ॥ ६७ ॥

वह्नेर्विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥ ६८ ॥

शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् ।
यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ॥ ६९ ॥

लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेदानन्दसम्प्लवः ॥ ७० ॥

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दमुद्गतं ध्यात्वा तल्लयस्तन्मना भवेत् ॥ ७१ ॥

जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद्भरितावस्थां महानन्दस्ततो भवेत् ॥ ७२ ॥

गितादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥ ७३ ॥

यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् ।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते ॥ ७४ ॥

अनागतायां निद्रायां प्रणष्टे बाह्यगोचरे ।
सावस्था मनसा गम्या परा देवी प्रकाशते ॥ ७५ ॥

तेजसा सूर्यदीपादेराकाशे शबलीकृते ।
दृष्टिर्निवेश्या तत्रैव स्वात्मरूपं प्रकाशते ॥ ७६ ॥

करङ्किण्या क्रोधनया भैरव्या लेलिहानया ।
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते ॥ ७७ ॥

मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् ।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् ॥ ७८ ॥

उपविश्यासने सम्यग्बाहू कृत्वार्धकुञ्चितौ ।
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात् ॥ ७९ ॥

स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च ।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् ॥ ८० ॥

मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् ।
होच्चारं मनसा कुर्वंस्ततः शान्ते प्रलीयते ॥ ८१ ॥

आसने शयने स्थित्वा निराधारं विभावयन् ।
स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत् ॥ ८२ ॥

चलासने स्थितस्याथ शनैर्वा देहचालनात् ।
प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् ॥ ८३ ॥

आकाशं विमलं पश्यन् कृत्वा दृष्टिं निरन्तराम् ।
स्तब्धात्मा तत्क्षणाद्देवि भैरवं वपुराप्नुयात् ॥ ८४ ॥

लीनं मूर्ध्नि वियत्सर्वं भैरवत्वेन भावयेत् ।
तत्सर्वं भैरवाकारतेजस्तत्त्वं समाविशेत् ॥ ८५ ॥

किञ्चिज्ज्ञातं द्वैतदायि बाह्यालोकस्तमः पुनः ।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत् ॥ ८६ ॥

एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् ।
तैमिरं भावयन् रूपं भैरवं रूपमेष्यति ॥ ८७ ॥

एवमेव निमील्यादौ नेत्रे कृष्णाभमग्रतः ।
प्रसार्य भैरवं रूपं भावयंस्तन्मयो भवेत् ॥ ८८ ॥

यस्य कस्येन्द्रियस्यापि व्याघाताच्च निरोधतः ।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते ॥ ८९ ॥

अबिन्दुमविसर्गं च अकारं जपतो महान् ।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥ ९० ॥

वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु ।
निराधारेण चित्तेन स्पृशेद्ब्रह्म सनातनम् ॥ ९१ ॥

व्योमाकारं स्वमात्मानं ध्यायेद्दिग्भिरनावृतम् ।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा ॥ ९२ ॥

किंचिदङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः ।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥ ९३ ॥

चित्ताद्यन्तःकृतिर्नास्ति ममान्तर्भावयेदिति ।
विकल्पानामभावेन विकल्पैरुज्झितो भवेत् ॥ ९४ ॥

माया विमोहिनी नाम कलायाः कलनं स्थितम् ।
इत्यादिधर्मं तत्त्वानां कलयन्न पृथग्भवेत् ॥ ९५ ॥

झगितीच्छां समुत्पन्नामवलोक्य शमं नयेत् ।
यत एव समुद्भूता ततस्तत्रैव लीयते ॥ ९६ ॥

यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस्तदास्मि वै ।
तत्त्वतो =ब्९ अं तथाभूतस्तल्लीनस्तन्मना भवेत् ॥ ९७ ॥

इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् ।
आत्मबुद्ध्यानन्यचेतास्ततस्तत्त्वार्थदर्शनम् ॥ ९८ ॥

निर्निमित्तं भवेज्ज्ञानं निराधारं भ्रमात्मकम् ।
तत्त्वतः कस्यचिन्नैतदेवम्भावी शिवः प्रिये ॥ ९९ ॥

चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् ।
अतश्च तन्मयं सर्वं भावयन् भवजिज्जनः ॥ १०० ॥

कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते ॥ १०१ ॥

इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् ।
भ्रमद्वा ध्यायतः सर्वं पश्यतश्च सुखोद्गमः ॥ १०२ ॥

न चित्तं निक्षिपेद्दुःखे न सुखे वा परिक्षिपेत् ।
भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते ॥ १०३ ॥

विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् ।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् ॥ १०४ ॥

घटादौ यच्च विज्ञानमिच्छाद्यं वा ममान्तरे ।
नैव सर्वगतं जातं भावयनिति सर्वगः ॥ १०५ ॥

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषो =ब्९ ति सम्बन्धे सावधानता ॥ १०६ ॥

स्ववदन्यशरीरे =ब्९ इ संवित्तिमनुभावयेत् ।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर्भवेत् ॥ १०७ ॥

निराधारं मनः कृत्वा विकल्पान्न विकल्पयेत् ।
तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥ १०८ ॥

सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् ॥ १०९ ॥

जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥ ११० ॥

भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितं भुवि पातनात् ।
क्षोभशक्तिविरामेण परा संजायते दशा ॥ १११ ॥

आधारेष्वथवाऽशक्त्याऽज्ञानाच्चित्तलयेन वा ।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥ ११२ ॥

सम्प्रदायमिमं देवि शृणु सम्यग्वदाम्यहम् ।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥ ११३ ॥

संकोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च ।
अनच्कमहलं ध्यायन् विशेद्ब्रह्म सनातनम् ॥ ११४ ॥

कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् ।
अविकल्पमतेः सम्यक्सद्यस्चित्तलयः स्फुटम् ॥ ११५ ॥

यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा ।
तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति ॥ ११६ ॥

यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः ।
तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता ॥ ११७ ॥

क्षुताद्यन्ते भये शोके गह्वरे वा रणाद्द्रुते ।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा ॥ ११८ ॥

वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस्त्यजेत् ।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः ॥ ११९ ॥

क्वचिद्वस्तुनि विन्यस्य शनैर्दृष्टिं निवर्तयेत् ।
तज्ज्ञानं चित्तसहितं देवि शून्यालायो भवेत् ॥१२० ॥

भक्त्युद्रेकाद्विरक्तस्य यादृशी जायते मतिः ।
सा शक्तिः शाङ्करी नित्यं भवयेत्तां ततः शिवः ॥ १२१ ॥

वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता ।
तामेव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति ॥ १२२ ॥

किंचिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने ।
न शुचिर्ह्यशुचिस्तस्मान्निर्विकल्पः सुखी भवेत् ॥ १२३ ॥

सर्वत्र भैरवो भावः सामान्येष्वपि गोचरः ।
न च तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गतिः ॥ १२४ ॥

समः शत्रौ च मित्रे च समो मानावमानयोः ॥
ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत् ॥ १२५ ॥

न द्वेषं भावयेत्क्वापि न रागं भावयेत्क्वचित् ।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति ॥ १२६ ॥

यदवेद्यं यदग्राह्यं यच्छून्यं यदभावगम् ।
तत्सर्वं भैरवं भाव्यं तदन्ते बोधसम्भवः ॥ १२७ ॥

नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते ।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् ॥ १२८ ॥

यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् ।
परित्यज्यानवस्थित्या निस्तरङ्गस्ततो भवेत् ॥ १२९ ॥

भया सर्वं रवयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः ॥ १३० ॥

अहं ममेदमित्यादि प्रतिपत्तिप्रसङ्गतः ।
निराधारे मनो याति तद्ध्यानप्रेरणाच्छमी ॥ १३१ ॥

नित्यो विभुर्निराधारो व्यापकश्चाखिलाधिपः ।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः ॥ १३२ ॥

अतत्त्वमिन्द्रजालाभमिदं सर्वमवस्थितम् ।
किं तत्त्वमिन्द्रजालस्य इति दार्ढ्याच्छमं व्रजेत् ॥ १३३ ॥

आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया ।
ज्ञानायत्ता बहिर्भावा अतः शून्यमिदं जगत् ॥ १३४ ॥

न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः ।
प्रतिबिम्बमिदं बुद्धेर्जलेष्विव विवस्वतः ॥ १३५ ॥

इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् ।
इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते ॥ १३६ ॥

ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः ।
एकमेकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते ॥ १३७ ॥

मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् ।
यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः ॥ १३८ ॥

निस्तरङ्गोपदेशानां शतमुक्तं समासतः ।
द्वादशाभ्यधिकं देवि यज्ज्ञात्वा ज्ञानविज्जनः ॥ १३९ ॥

अत्र चैकतमे युक्तो जायते भैरवः स्वयम् ।
वाचा करोति कर्माणि शापानुग्रहकारकः ॥ १४० ॥

अजरामरतामेति सोऽणिमादिगुणान्वितः ।
योगिनीनां प्रियो देवि सर्वमेलापकाधिपः ॥ १४१ ॥

जीवन्नपि विमुक्तोऽसौ कुर्वन्नपि न लिप्यते ।

श्री देवी उवाच ।

इदं यदि वपुर्देव परायाश्च महेश्वर ॥ १४२ ॥

एवमुक्तव्यवस्थायां जप्यते को जपश्च कः ।
ध्यायते को महानाथ पूज्यते कश्च तृप्यति ॥ १४३ ॥

हूयते कस्य वा होमो यागः कस्य च किं कथम् ।

श्री भैरव उवाच ।

एषात्र प्रक्रिया बाह्या स्थूलेष्वेव मृगेक्षणे ॥ १४४ ॥

भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ १४५ ॥

ध्यानं हि निश्चला बुद्धिर्निराकारा निराश्रया ।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना ॥ १४६ ॥

पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः ॥ १४७ ॥

अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद्दिनम् ।
भरिताकारता सात्र तृप्तिरत्यन्तपूर्णता ॥ १४८ ॥

महाशून्यालये वह्नौ भूताक्षविषयादिकम् ।
हूयते मनसा सार्धं स होमश्चेतनास्रुचा ॥ १४९ ॥

यागोऽत्र परमेशानि तुष्टिरानन्दलक्षणा ।
क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति ॥ १५० ॥

रुद्रशक्तिसमावेशस्तत्क्षेत्रं भावना परा ।
अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति ॥ १५१ ॥

स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः ।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानमीरितम् ॥ १५२ ॥

यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परापरः ।
यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् ॥ १५३ ॥

व्रजेत्प्राणो विशेज्जीव इच्छया कुटिलाकृतिः ।
दीर्घात्मा सा महादेवी परक्षेत्रं परापरा ॥ १५४ ॥

अस्यामनुचरन् तिष्ठन्महानन्दमयेऽध्वरे ।
तया देव्या समाविष्टः परं भैरवमाप्नुयात् ॥ १५५ ॥

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ १५६ ॥

इत्येतत्कथितं देवि परमामृतमुत्तमम् ।
एतच्च नैव कस्यापि प्रकाश्यं तु कदाचन ॥ १५७ ॥

परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः ।
निर्विकल्पमतीनां तु वीराणामुन्नतात्मनाम् ॥ १५८ ॥

भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया ।
ग्रामो राज्यं पुरं देशः पुत्रदारकुटुम्बकम् ॥ १५९ ॥

सर्वमेतत्परित्यज्य ग्राह्यमेतन्मृगेक्षणे ।
किमेभिरस्थिरैर्देवि स्थिरं परमिदं धनम् ।
प्राणा अपि प्रदातव्या न देयं परमामृतम् ॥ १६० ॥


श्री देवी उवाच ।

देवदेव माहदेव परितृप्तास्मि शङ्कर ।
रुद्रयामलतन्त्रस्य सारमद्यावधारितम् ॥ १६१ ॥


सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च ।
इत्युक्त्वानन्दिता देवि क.ङ्थे लग्ना शिवस्य तु ॥ १६२ ॥


"https://sa.wikisource.org/w/index.php?title=विज्ञानभैरवम्&oldid=332693" इत्यस्माद् प्रतिप्राप्तम्