1960, 1999, 2002 तमवर्षेषु सरोवरस्य स्थितिः


अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।

मानव: निसर्गजीवी । निसर्ग: समृद्धियुक्त: । यदि स: सम्यक् पोष्येत तर्हि सा च समृद्धि: मानवस्य उपयोगाय एव स्यात् । किन्तु मानव: अत्याशाग्रस्त: । स्वहितैकासक्त: । स: चिन्तयति यत् निसर्ग: मम उपभोगाय एव अस्ति इति । अत: स: निसर्गस्य अत्युपयोगं कुर्वन् अपि न लज्जते । तावदेव न, निसर्गविषये दौर्जन्यम् अनुष्ठाय अपि स्वस्य अविवेकितां स: न अवगच्छति । सामान्यस्तरे मानवेन क्रियमाणानां दौर्जन्यानां फलं सामान्यम् एव भवेत् कदाचित् । किन्तु महता प्रमाणेन क्रियमाणस्य दौर्जन्यस्य फलं भवेत् ‘सुमहत्’ एव ।

Arala8.jpg


एतत् एव तत्त्वं स्मारयति अरालसरोवर: । एष: ‘आसीत्’ 6,800 कि.मी.विस्तृत: । जगति वैशाल्येन चतुर्थं स्थानम् आसीत् एतस्य । किन्तु अद्य तस्य दशमांशमात्रम् अपि न अवशिष्टम् । अचिरात् एव स: नामावशेषतां यदि गच्छेत् तर्हि अपि न आश्चर्यम् !!

अयं सरोवर: अस्ति कजकस्थाने । आकारेण सुविशाल: अयं समुद्रत्वेन एव निर्दिश्यते स्म । तथा निर्देश: तस्य युज्यते स्म अपि । ‘अराल’पदस्य अर्थ: तु ‘द्वीपमय: समुद्र:’ इति । एतस्य सरोवरस्य अन्त: सार्धैकसहस्रं द्वीपा: आसन् । अत: ‘अराल’पदेन तस्य निर्देश: सर्वथा युज्यते स्म एव । (संस्कृतभाषायाम् ‘अराल’पदस्य अर्थ: तु - ‘अराल: कुटिले सर्जरसे समददन्तिनि’ (मेदिनी) इति ।)

सिकताराशौ अनाथतया स्थिताः नौकाः


शुष्कताकारणत: अद्य स च सरोवर: त्रिधा विभक्त: अस्ति । ते च भागा: - उत्तरीय: अरालसरोवर:, दक्षिणीयस्य अरालसरोवरस्य पूर्व-पश्चिमभागौ चेति । 1960 तमात् वर्षात् पूर्वं तस्य विशालता समृद्धि: च अक्षता एव आसीत् । तदा अमुदर्या सिर्दर्या चेति नद्यौ प्राधान्येन तं सरोवरं जलं प्रापयत: स्म । किन्तु सेतुबन्धेन तयो: नद्यो: जलस्य उपयोग: कृष्यर्थं यदा महता प्रमाणेन आरब्ध: तदा ह्रासपरम्परा अपि आरब्धा । 2004 तमे वर्षे तस्य सरोवरस्य 24% भाग: शुष्कतां गत: । सरोवरस्थं जीवजगत् लुप्तप्रायं जातम् । 2007 तमे वर्षे तस्य सरोवरस्य दशप्रतिशतभागमात्रम् अवशिष्टम् । त्रिधा विभाग: अपि तदैव जात: ।

1960 - 1970 तमवर्षयो: अभ्यन्तरे सरोवरस्य स्तर: (समुद्रस्तरात्) 25 सेण्टीमीटर्परिमितं ह्रस्वतां गत: आसीत् । अनन्तरकाले प्रतिवर्षं ह्रासपरिमाणम् आसीत् 50 - 60 से.मी. मितम् । 1980 तमस्य वर्षस्य अनन्तरं तत् परिमाणं 80-90 से.मी.मितं जातम् ।

एतस्य परिणामत: त्रिधा विभक्तस्य तस्य सरोवरस्य भागद्वयं मत्स्यवृद्ध्यर्थम् अनर्हं जातं लवणपरिमाणाधिक्यात् । तमेव सरोवरम् अवलम्ब्य महता प्रमाणेन मत्स्योद्यम: य: प्रचलति स्म स: पूर्णत: क्षतिग्रस्त: जात: । तस्मात् निरुद्योगसमस्या, देशस्य आर्थिकस्थितौ विपरिणामा: च उद्भूता: ।

सरोवरं प्रति जलं प्रापयन्त्यो: अमुदर्या-सिर्दर्यानद्यो: जलं प्राधान्येन कार्पासादिवाणिज्यकृषिनिमित्तम् उपयुक्तम् । सा च कृषि: बहुजलापेक्षिणी, रासायनिकौषधावलम्बिनी च । अत: सरोवरपरिसर: विशेषत: कालुष्यं गत: ।

सरोवरदिक्त: आगत: लवणमय: वायु: अन्यकृषीणां सस्यानां च हानये जात: । पानजलं कलुषितम् अभवत् । धूलिमिश्रित: वायु: अस्वास्थ्यसमस्याम् अवर्धयत् । ग्रीष्मकाले औष्ण्याधिक्यं, शैत्यकाले शैत्याधिक्यं च जनान् अपीडयत् । कर्करोग: श्वासकासरोगा: च महता प्रमाणेन प्रवृद्धा: दृश्यन्ते इदानीम् । उजबेकिस्थानस्थं मौनाक्नामकं नगरं पूर्वं मत्स्योद्यमम् एव अवलम्बमानं सत् 60,000 जनेभ्य: उद्योगावसरं कल्पयति स्म । किन्तु इदानीं तत् नगरं सरोवरात् सुदूरे स्थितम् अस्ति । मत्स्योद्यमनौका: सिकताप्रदेशे स्थिता: दृश्यन्ते अनाथतया ।

जलप्रसारे सङ्कोचः
भूमेः दुर्दशा


सरोवरस्य ह्रास: सम्भाव्येत इति 1968 तमे वर्षे एव सोवियत्विज्ञानिन: सर्वकारप्रमुखान् स्मारितवन्त: आसन् । ‘महा-योजनानां स्वीकारात् पूर्वं सरोवरस्य अपायसम्भावना अपि मनसि स्थापनीया’ इति ज्ञापितवन्त: आसन् ते । किन्तु सर्वकारेण तेषां कथनम् उपेक्षया दृष्टम् । अरालसरोवरस्य हानिं या: जनयेयु: तादृश्य: महायोजना: महता उत्साहेन अनुष्ठानपथम् आनीता: । तत: विंशतिवर्षाभ्यन्तरे तै: आत्मन: कृत्यस्य अयुक्तता अवगता आसीत् । किन्तु तावता एव महती हानि: जाता आसीत् एव ।

सरोवरस्य आकार: दशप्रतिशतमितमात्रम् अवशिष्ट: इति तु एक: अंश: । अपर: आघातकार: अंश: नाम जलस्य लवणमयत्वे वृद्धि: !! सामान्यं समुद्रजलं 35 g/L परिमाणेन लवणांशयुक्तं भवति । मृतसमुद्रस्य जलं तु 350 g/Lपरिमाणेन लवणांशयुक्तम् अस्ति । तस्यैव अनुसरणं कुर्वन् अस्ति इति भासते अयं सरोवर: । इदानीं तत्र लवणांशपरिमाणम् अस्ति 100 g/L परिमितम् ।


सोवियत्सङ्घस्य पतनस्य अनन्तरम् अरालसरोवरपरिसर: खजक-स्थान-उजबेकिस्थान-तुर्कमेनिस्थान-तजकिस्थान-कैरगज्स्थानप्रभृतीनां देशानाम् अधीन: जात: अस्ति । ते देशा: अर्थसामर्थ्यदृष्ट्या न प्रबला: । अत: स्वदेशे स्थिता: अर्थमूला: योजना: परित्यक्तुं, परिष्कर्तुम्, अरालसरोवरस्य रक्षणाय त्रैविक्रमं पदं निधातुं वा ते असमर्था: । तावदेव न, या: कुल्या: महता प्रमाणेन जलं व्यर्थीकुर्वन्ति तासां परिष्करणे अपि ते देशा: न समर्था:, अनिच्छावन्त: वा । (व्ययबाहुल्यभीतिकारणत:)

अरालसरोवरस्य नाशदशाप्राप्ति: जगत: सर्वेषाम् अपि देशानाम् अवधानम् आकृष्टवती अस्ति अद्यत्वे । स च सरोवर: कथमपि संरक्षणीय: इति विश्वसंस्थादय: सङ्कल्पं कृतवन्त: सन्ति । जन-जागरणाय सरोवरस्य करुणकथाम् अधिकृत्य चलनचित्रं निर्मितम् अस्ति । बि.बि.सि.प्रभृतय: प्रसारसंस्था: सरोवरस्य दु:स्थितिं जगत: पुरत: यथावत् उपस्थापयन्त्य: सन्ति । सरोवरस्य स्थिते: परिष्कारार्थं परिणामकरा: केचन उपाया: आश्रीयमाणा: सन्ति अपि । ते च केचन यथा – • कृष्यर्थं निर्मितानां कुल्यानां गुणस्तरस्य परिष्कार: ।

शुष्येत् बल्काशसरोवरः अपि !सम्पाद्यताम्

आरालसरोवरस्य या दशा सा एव भवेत् बल्काशसरोवरस्यापि इति वदन्ति तज्ज्ञा: । बल्काशसरोवर: कजकस्थाने समस्ति । मध्यैशियाप्रदेशे स्थितेषु विशालतमेषु सरोवरेषु एतस्य द्वितीयं स्थानम् । स: अपि अद्य शुष्कताभीतिग्रस्त: अस्ति ।

‘एतं सरोवरं प्रति आगच्छत: जलस्य परिमाणे विशेषह्रास: दृश्यते एषु दिनेषु’ इत्येष: अंश: विशेषत: परिलक्षित: परिसरप्रियै: । कजकस्थनीया काचित् पत्रिका गते वर्षे प्राप्तान् विवरणांशान् अवलम्ब्य वृत्तं प्राकाशयत् यत् सरोवरस्य ह्रास: 2000 चतुरस्रकिलोमीटरात्मक: (770 चतुरस्र-मैल्मित:) जात: अस्ति एतावता एव इति ।

एतं सरोवरं प्रति प्राधान्येन जलम् आगच्छति ‘इलि’नामिकाया: नदीत: । तस्या: नद्या: भूयान् भाग: चीनादेशे अस्ति । चीनादेश: स्वस्य आर्थिकाभिवृद्धि-योजनानां निमित्तम् एतस्या: नद्या: जलम् उपयुङ्क्ते आधिक्येन । अत: सूक्ष्म: राजनीतिसम्बन्ध: अपि बाधते सरोवरस्यास्य संरक्षणविषये । संयुक्तराष्ट्र-सङ्घीयानां विकासयोजनानां प्रमुख: झरस्तकानोव: वदति - ‘बहव: देशा: उपयोगं कुर्वन्ति इत्ययम् अंश: एव अरालसरोवरस्य शुष्कताया: प्रमुखं कारणम् । सा एव समस्या अस्ति बल्काशसरोवरविषये अपि । जनसङ्ख्यावृद्धि:, जलाधिक्यापेक्षिणी कृषि:, यन्त्रोद्यमवृद्धि:, नगरविस्तार: इत्यादीनां कारणत: चीनादेशे इलिनद्या: जलस्य उपयोग: कालुष्यं च प्रवृद्ध: अस्ति । कजकस्थाने अपि जलस्य उपयोगे विवेचनशक्ते: उपयोग: क्रियमाण: नास्ति । जलस्य उपयोगस्य विषये अन्ताराष्ट्रियस्तर: य: निश्चित: अस्ति, ततोऽपि अधिकतया जलस्य उपयोग: क्रियमाण: अस्ति कजकस्थाने । जलमालिन्यवृद्धि: अत्रत्या अपरा मुख्या समस्या । शुद्धस्य पानजलस्य उपलब्धे: प्रमाणे अतिन्यूनता दृश्यते कजकस्थाने पार्श्वस्थेषु देशेषु च ।

अत: बल्काशसरोवर: अपि अरालसरोवरस्य मार्गम् एव अनुसरन् अस्ति । महासरोवराणाम् एव एषा अपायस्थिति: !! एवं स्थिते लघुसरोवराणां नदीनां च विषये किम् अधिकम् उच्येत ?



आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - अगस्ट् २००९
लेखकः - श्रवणकुमारः
"https://sa.wikisource.org/w/index.php?title=विनाशः_अरालसरोवरस्य&oldid=41177" इत्यस्माद् पुनः प्राप्तिः