प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
{{अग्निपुराणम्}}
 
<poem><span style="font-size: 14pt; line-height: 200%">भगवानुवाच
<poem>
वक्षे चावभृतस्नानं विष्णोर्नत्वेति(१) होमयेत् ।६१.००१
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥६१.००१
पूजयेद्गन्धपुष्पाद्यैर्बलिं दत्वा गुरुं यजेत् ।६१.००२
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥६१.००२
अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ।६१.००३
गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः ॥६१.००३
कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ।६१.००४
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥६१.००४
शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ।६१.००५
ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥६१.००५
न्यस्याभ्यर्च्य(३) यथान्यायं श्रीसूक्तेन चतुर्मुखं ।६१.००६
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥६१.००६
प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ।६१.००७
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः
२ समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः
३ अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥६१.००७
समाप्तौ शुकनाशाया(१) वेद्याः प्राग्दर्भमस्तके ।६१.००८
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(२) ॥६१.००८
अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ।६१.००९
सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥६१.००९
सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ।६१.०१०
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥६१.०१०
वैराजभूतान्तं(३) ध्यायेत्प्रासादस्य सुरेश्वर ।६१.०११
ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद्बुधः ॥६१.०११
अधो दत्वा सुवर्णं तु तद्ववद्भूतं(४) घटं न्यसेत् ।६१.०१२
गुर्वादौ दक्षिणां दद्याद्ब्राह्मणादेश्च भोजनं ॥६१.०१२
ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ।६१.०१३
कण्ठोपरिष्टात्कर्तव्यं विमलामलसारकं ॥६१.०१३
तदूर्ध्वं वृकलं(५) कुर्याच्चक्रञ्चाद्यं सुदर्शनं ।६१.०१४
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥६१.०१४
कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ।६१.०१५
वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(६) ॥६१.०१५
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ वनमालायामिति ङ, चिह्नितपुस्तकपाठः
२ शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति ङ, चिह्नितपुस्तकपाठः
३ वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः
४ तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः
५ तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः
६ अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ।६१.०१६
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥६१.०१६
प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ।६१.०१७
तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥६१.०१७
कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ।६१.०१८
कण्ठस्यावेष्टनाज्ज्ञेयं फलं कोटिगुणं ध्वजात् ॥६१.०१८
पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ।६१.०१९
प्रासादं वासुदेवस्य मूर्तिभेदं(१) निबोध मे ॥६१.०१९
धारणाद्धरणीं(२) विद्धि आकाशं शुषिरात्मकं ।६१.०२०
तेजस्तत्पावकं विद्धि वायुं स्पर्शगतं तथा ॥६१.०२०
पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं(३) ।६१.०२१
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात्कर्कशादिकं ॥६१.०२१
शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(४) ।६१.०२२
धूपादिगन्धं गन्धन्तु वाग्भेर्यादिषु संस्थिता ॥६१.०२२
शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ।६१.०२३
शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥६१.०२३
कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ।६१.०२४
पायूपस्थे प्रणाले तु त्वक्सुधा परिकीर्तिता ॥६१.०२४
मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ।६१.०२५
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥६१.०२५
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः
२ धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः
३ पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः
४ रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुअतकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ।६१.०२६
एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥६१.०२६
जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ।६१.०२७
ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥६१.०२७
प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ।६१.०२८
ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितं(१) ॥६१.०२८
अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ।६१.०२९
विम्बार्धमानं दण्डस्य(२) त्रिभागेनाथ कारयेत् ॥६१.०२९
अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ।६१.०३०
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥६१.०३०
प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ।६१.०३१
शिखरार्धेन वा कुर्यात्तृतीयार्धेन वा पुनः ॥६१.०३१
द्वारस्य दैर्घ्याद्द्विगुणं दण्डं वा परिकल्पयेत् ।६१.०३२
ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥६१.०३२
क्षौमाद्यैश्च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(३) ।६१.०३३
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥६१.०३३
दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ।६१.०३४
महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥६१.०३४
ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ।६१.०३५
विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥६१.०३५
अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ।६१.०३६
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः
२ विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः
३ विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
देववत्सकलं कृत्वा मण्डपस्नपनादिकं ॥६१.०३६
नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ।६१.०३७
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥६१.०३७
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः ।६१.०३८
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥६१.०३८
मनोरूपेण तस्यैव सजीवकरणं स्मृतं ।६१.०३९
अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥६१.०३९
नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।६१.०४०
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥६१.०४०
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ।६१.०४१
निष्कलं परमात्मानं ध्वजे ध्यायन्न्यसेद्धरिं ॥६१.०४१
तच्छक्तिं व्यापिनीं ध्यायेद्ध्वजरूपां बलाबलां(१) ।६१.०४२
मण्डपे(२) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥६१.०४२
कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ।६१.०४३
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(३) ॥६१.०४३
पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(४) ।६१.०४४
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥६१.०४४
ओं क्षों नृसिंहाय(५) नमः पूजयेत्स्थापयेद्धरिं ।६१.०४५
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥६१.०४५
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः
२ मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
३ स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः
४ नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः
५ ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ।६१.०४६
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥६१.०४६
शिरस्याधाय तत्पात्रं नारायनमनुस्मरन् ।६१.०४७
प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥६१.०४७
ततो निवेशयेत्दण्डं मन्त्रेणाष्टाक्षरेण तु ।६१.०४८
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥६१.०४८
पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ।६१.०४९
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥६१.०४९
यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ।६१.०५०
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥६१.०५०
इत्यादिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमोऽध्यायः
 
</span></poem>
 
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
२६,४०५

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/103629" इत्यस्माद् पुनः प्राप्तिः