"वामनपुराणम्/त्रिंशत्तमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{वामनपुराणम्}}
<poem><span style="font-size: 14pt; line-height:200%">लोमहर्षण उवाच
इति दैत्यपतिः श्रुत्वा वचनं रौद्र मप्रियम्
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः १
बलिरुवाच
प्रसीद तात मा कोपं कुरु मोहहते मयि
बलावलेपमूढेन मयैतद्वाक्यमीरितम् २
मोहापहतविज्ञानः पपोऽहं दितिजोत्तम
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ३
राज्यभ्रंशं यशोभ्रंशं प्राप्स्यामीति ततस्त्वहम्
विषण्णोऽसि यथा तात तथैवाविनये कृते ४
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५
प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप
त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ६
प्रह्लाद उवाच
वत्स कोपेन मे मोहो जनितस्तेन ते मया
शापो दत्तो विवेकश्च मोहेनापहृतो मम ७
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर
तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ८
यो यः शापो मया दत्तो भवतोऽसुरपुङ्गव
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ९
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ
भवेथा भक्तिमानीशे स ते त्राता भविष्यति १०
शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया
तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ११
लोमहर्षण उवाच
अदितिर्वरमासाद्य सर्वकामसमृद्धिदम्
क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः १२
ततो मासेऽथ दशमे काले प्रसव आगते
अजायत स गोविन्दो भगवान् वामनाकृतिः १३
अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे
देवाश्च मुमुचुर्दुःखं देवमातादितिस्तथा १४
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः
धर्मे च सर्वभूतानां तदा मतिरजायत १५
नोद्वेगश्चाप्यभूद् देहे मनुजानां द्विजोत्तमाः
तदा हि सर्वभूतानां धर्मे मतिरजायत १६
तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः
जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् १७
ब्रह्मोवाच
जयाधीश जयाजेय जय विश्वगुरो हरे
जन्ममृत्युजरातीत जयानन्त जयाच्युत १८
जयाजित जयाशेष जयाव्यक्तस्थिते जय
परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत १९
जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो
जगतोऽजगदन्तेश स्थितौ पालयते जय २०
जयाखिल जयाशेष जय सर्वहृदिस्थित
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम २१
मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर
योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण २२
जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय
जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रि य सेन्द्रि य २३
जय स्वमायायोगस्थ शेषभोग जयाक्षर
जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुंधर २४
नृकेसरिन् सुरारातिवक्षःस्थलविदारण
साम्प्रतं जय विश्वात्मन् मायावामन केशव २५
निजमायापरिच्छिन्न जगद्धातर्जनार्दन
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो २६
वर्द्धस्व वर्धितानेकविकारप्रकृते हरे
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः २७
न त्वामहं न चेशानो नेन्द्रा द्यास्त्रिदशा हरे
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः २८
त्वं मायापटसंवीतो जगत्यत्र जगत्पते
कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः २९
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो
स एव केवलं देवं वेत्ति त्वां नेतरो जनः ३०
तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन
प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ३१
लोमहर्षण उवाच
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः
प्रहस्य भावगम्भीरमुवाचारूढसंपदम् ३२
स्तुतोऽहं भवता पूर्वमिन्द्रा द्यैः कश्यपेन च
मया च वः प्रतिज्ञातमिन्द्र स्य भुवनत्रयम् ३३
भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि मयाश्रुतम्
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ३४
सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः
भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ३५
ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्
यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ३६
आषाढमददाद् दण्डं मरीचिर्ब्रह्मणः सुतः
कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः
आसनं चैव पुलहः पुलस्त्यः पीतवाससी ३७
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः
शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ३८
स वामनो जटी दण्डी छत्री धृतकमण्डलुः
सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ३९
यत्र यत्र पदं विप्रा भूभागे वामनो ददौ
ददाति भूमिर्विवरं तत्र तत्राभिपीडिता ४०
स वामनो जडगतिर्मृदु गच्छन् सपर्वताम्
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ४१
बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम्
तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ४२
ततः शेषो महानागो निःसृत्यासौ रसातलात्
साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ४३
तदद्यापि च विख्यातमहेर्विलमनुत्तमम्
तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ४४
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रिंशत्तमोऽध्यायः
 
</span></poem>
श्रीवामनपुराणम् - ३०
 
पुलस्त्य उवाच।।
चण्डमुण्डौ च निहतौ दृष्ट्वा सैन्यं च विद्रुतम्।
समादिदेशातिबलं रक्तबीजं महासुरम्।
अक्षौहिणीनां त्रिंशद्भिः कोटिभिः परिवारितम्।। ३०.१
तमापतन्तं दैत्यानां बलं दृष्ट्वैव चण्डिका।
मुमोच सिंहनादं वै ताभ्यां सह महेश्वरी।। ३०.२
निनदन्त्यास्ततो देव्या ब्रह्माणी मुखतोऽभवत्।
हंसयुक्तविमानस्था साक्षसूत्रकमण्डलुः।। ३०.३
माहेश्वरी त्रिनेत्रा च वृषारूढा त्रिशूलिनी।
महाहिवलया रौद्रा जाता कुण्डलिनी क्षणात्।। ३०.४
कण्ठादथ च कौमारी बर्हिपत्रा च शक्तिनी।
समुद्भूता च देवर्षे मयूरवरवाहना।। ३०.५
बाहुभ्यां गरुडारूढा शङ्खचक्रगदासिनी।
शार्ङ्गबाणधरा जाता वैष्णवी रूपशालिनी।। ३०.६
महोग्रमुशला रौद्रा दंष्ट्रोल्लिखितभूतला।
वाराही पृष्ठतो जाता शेषनागोपरि श्थिता।। ३०.७
वज्राङ्कुशोद्यतकरा नानालंकारभूषिता।
जाता गजेन्द्रपृष्ठस्था माहेन्द्री स्तनमण्डलात्।। ३०.८
विक्षिपन्ती सटाक्षेपैर्ग्रहनक्षत्रतारकाः।
नखिनी हृदयाज्जाता नारसिंही सुदारुणा।। ३०.९
ताभिर्निपात्यमानं तु निरीक्ष्य बलमासुरम्।
ननाद भूयो नादान् वै चण्डिका निर्भया रिपून्।
तन्निनादं महच्छ्रुत्वा त्रैलोक्यप्रतिपूरकम्।। ३०.१०
समाजगाम देवेशः शूलपाणिस्त्रिलोचनः।
अभ्येत्य वन्द्य चैवैनां प्राह वाक्यं तदाऽम्बिकं।। ३०.११
समायातोऽस्मि वै दुर्गे देह्याज्ञां किं करोमि ते।
तद्वाक्यसमकालं च देव्या देहोद्भवा शिवा।। ३०.१२
जाता सा चाह देवेशं गच्छ दैत्येन शंकर।
ब्रूहि शुम्भं निशुम्भं च यदि जीवितुमिच्छथ।। ३०.१३
तद् गच्छध्वं दुराचाराः सप्तमं हि रसातलम्।
वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथा।। ३०.१४
यजन्तु ब्राह्मणाद्यामी वर्णा यज्ञांश्च साम्प्रतम्।
नोचेद् बलावलेपेन भवन्तो योद्‌धुमिच्छथ।। ३०.१५
तदागच्छध्वमव्यग्रा एषाऽहं विनिषूदये।
यतस्तु सा शिवं दैत्ये न्ययोजयत नारद।। ३०.१६
ततो नाम महादेव्याः शिवदूतीत्यजायत।
ते चापि शंकरवचः श्रुत्वा गर्वसमन्वितम्।।
हुंकृत्वाऽभ्यद्रवन् सर्वे यत्र कात्यायनी स्थिता।। ३०.१७
ततः शरैः शक्तिभिरङ्कुशैर्वरैः परश्वधैः शूलभुशुण्डिपट्टिशैः।
प्रासैः सुनीक्ष्णैः परिघैश्च विस्तृतैर्ववर्षतुदैत्यवरौ सुरेश्वरीम्।। ३०.१८
सा चापि बाणैर्वरकामुकच्युतैश्चिच्छेद शस्त्राण्यथ बाहुभिः सह।
जघान चान्यान् रणचण्डविक्रमा महासुरान् बाणशतैर्महेश्वरी।। ३०.१९
मारी त्रिशूलेन जघान चान्यान् खट्वाङ्गपातैरपरांश्च कौशिकी।
महाजलक्षेपहतप्रभावान् ब्राह्मी तथान्यानसुरांश्चकार।। ३०.२०
माहेश्वरी शूलविदारितोरसश्चकार दग्धानपरांश्च वैष्णवी।
शक्त्या कुमारी कुलिशेन चैन्द्री तुण्डेन चक्रेण वराहरूपिणी।। ३०.२१
नखैर्विभिन्नानपि नालसिंही अट्टाट्टहासैरपि रुद्रदूती।
रुद्रस्त्रिशूलेन तथैव चान्यान् विनायकश्चापि परश्वधेन।। ३०.२२
एवं हि देव्या विविधैस्तु रूपैर्निपात्यमाना दनुपुंगवास्ते।
पेतुः पृथिव्यां भुवि चापि भूतैस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः।। ३०.२३
ते वध्यमानास्त्वथ देवताभिर्महासुरा मातृभिराकुलाश्च।
विमुक्तकेशास्तरलेक्षणा भयात् ते रक्तबीजं शरणं हि जग्मुः।। ३०.२४
स रक्तबीजः सहसाभ्युपेत्य वरास्त्रमादाय च मातृमण्डलम्।
विद्रावयन् भूतगणान् समन्ताद् विवेश कोपात् स्फुरिताधरश्च।। ३०.२५
तमापतन्तं प्रसमीक्ष्य मातरः शस्त्रैः शिताग्रैर्दितजं ववर्षुः।
यो रक्तबिन्दुर्न्यपतत् पृथिव्यां स तत्प्रमाणस्त्वसुरोऽपि जज्ञे।। ३०.२६
ततस्तदाश्चर्यमयं निरीक्ष्य सा कौशिकी केशिनिमभ्युवाच।
पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम्।। ३०.२७
सा त्वेवमुक्ता वरदाऽम्बिका हि वितत्य वक्त्रं विकरालमुग्रम्।
ओष्ठं नभस्पृक् पृथिवीं स्पृशन्तं कृत्वाऽधरं तिष्ठति चर्ममुण्डा।। ३०.२८
ततोऽम्बिका केशविकर्षणाकुलं कृत्वा रिपुं प्राक्षिपत स्ववक्त्रे।
बिभेद शूलेन तथाऽप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे।। ३०.२९
ततस्तु शोषं प्रजगाम रक्तं रक्तक्षये हीनबलो बभूव।
तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन।। ३०.३०
तस्मिन् विशस्ते दनुसैन्यनाते ते दानवा दीनतरं विनेदुः।
हा तात ह भ्रातरिति ब्रुवन्तः क्व यासि तिष्ठस्व मुहूर्त्तमेहि।। ३०.३१
तथाऽपरे विलुलितकेशपाशा विशीर्णवर्माभरणा दिगम्बराः।
निपातिता धरणितले मृङान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः।। ३०.३२
विशीर्णवर्मायुधभूषणं तत् बलं निरीक्ष्यैव हि दानवेन्द्रः।
विशीर्णचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम।। ३०.३३
खड्गं समादाय च चर्म भास्वरं धुन्वन् शिरः प्रेक्ष्य च रूपमस्याः।
संस्तम्भमोहज्वरपीडितेऽथ चित्रे यथाऽसौ लिखितो बभूव।। ३०.३४
तं स्तम्भितं वीक्ष्य सुरारिमग्रे प्रोवाच देवी वचनं विहस्य।
अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन।। ३०.३५
श्रुत्वा तु वाक्यं कौशिक्या दानवः सुचिरादिव।
प्रोवाच चिन्तयित्वाऽथ वचनं वदतां वरः।। ३०.३६
सुकुमारशरीरोऽथं मच्छस्त्रपतनादपि।
शतधा यास्यते भीरु आमपात्रमिवाम्भसि।। ३०.३७
एतद् विचिन्तयन्नर्थं त्वां प्रहर्त्तुं न सुन्दरि।
करोमि बुद्धि तस्मात् त्वं मां भजस्वायतेक्षणे।। ३०.३८
मम खङ्गनिपातं हि नेन्द्रो धारयितुं क्षमः।
निवर्त्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम्।। ३०.३९
इत्थं निशुम्भवचनं श्रुत्वा योगीश्वरी मुने।
विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत्।। ३०.४०
नाजिताऽहं रणे वीर भवे भार्या हि कस्यचित्।
भवान् यदिह भार्यार्थी ततो मां जय संयुगे।। ३०.४१
इत्येवमुक्ते वचने खङ्गमुद्यम्य दानवः।
प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद।। ३०.४२
तमापतन्तं निस्त्रिंशं षड्भिर्बर्हिणराजितैः।
चिच्छेद चर्मणा सार्द्धं तदद्भुतमिवाभवत्।। ३०.४३
खड्गे सचर्मणि छिन्ने गदां गृह्य महासुरः।
समाद्रवत् कोशभवां वायुवेगसमो जवे।। ३०.४४
तस्यापतत एवाशु करौ श्लिष्टौ समौ दृढौ।
गदया सह चिच्छेद क्षुरप्रेण रणेऽम्बिका।। ३०.४५
तस्मिन्नपतिते रौद्रे सुरशत्रौ भयंकरे।
चण्डाद्य मातरो हृष्टाश्चक्रुः किलकिलाध्वनिम्।। ३०.४६
गगनस्थास्ततो देवाः शतक्रतुपुरोगमाः।
जयस्व विजयेत्यूचुर्हृष्टाः शत्रौ निपातिते।। ३०.४७
ततस्तूर्याण्यवाद्यन्त भूतसंघैः समन्ततः।
पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति।। ३०.४८
निशुम्भं पतितं दृष्ट्वा शुम्भः क्रोधान्महामुने।
वृन्दारकं समारुह्य पाशपाणिः समभ्यगात्।। ३०.४९
तमापतन्तं दृष्ट्वाऽथ सगजं दानवेश्वरम्।
जग्रा ह चतुरो बाणांश्चन्द्रार्धाकरवर्चसः।। ३०.५०
क्षुरप्राभ्यां समं पादौ द्वौ चिच्छेद द्विपस्य सा।
द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाऽम्बिका।। ३०.५१
निकृत्ताभ्यां गजः पद्म्यां निपपात तथेच्छया।
शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा।। ३०.५२
तस्यावर्जितनागस्य शुम्भस्याप्युत्पतिष्यतः।
शिरश्चिच्छेद बाणेन कुण्डलालंकृतं शिवा।। ३०.५३
छिन्ने शिरसि दैत्येन्द्रो निपपात सकुञ्जरः।
यथा समहिषः क्रौञ्चो महासेनसमाहतः।। ३०.५४
श्रुत्वा सुराः सुररिपु निहतौ मृडान्या सेन्द्राः ससूर्यमरुदश्विवसुप्रधानाः।
आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः।। ३०.५५
देवा ऊचुः।।
नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि।
नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि।। ३०.५६
नमोऽस्तु ते त्रिदशरिपुक्षयंकरि नमोऽस्तु ते शतमखपादपूजिते।
नमोऽस्तु ते महिषविनाशकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते।। ३०.५७
नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि।
नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि।। ३०.५८
नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽस्तु ते।
नमोऽस्तु नारसिंहि प्रणता नमोऽस्तु ते।
नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽस्तु कौमारि मयूरवाहिनि।। ३०.५९
नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि।
नमौऽस्तु मालाविकटे सुकेशिनि।
नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्त्तिहरे जगन्मये।। ३०.६०
नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम्।
नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद।। ३०.६१
ब्रह्माणी त्वं मृडानी वरशिखिगमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्‌त्रा खगपतिगमना वैष्णवी त्वं सशार्ङ्गी।
दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डाशवगमनरता योगिनी योगसिद्धा।। ३०.६२
नमस्ते त्रिनेत्रे भगवति तवचरणानुषिता ये अहरहर्विनतशिरसोऽवनताः।
नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये।। ३०.६३
एवं स्तुता सुरवरैः सुरशत्रुनाशिनी प्राह प्रहस्य सुरसिद्धमहर्षिवर्यान्।
प्राप्तो मयाऽद्भुततमो भवतां प्रसादात् संग्राममूर्ध्नि सुरशत्रुजयः प्रमर्दात्।। ३०.६४
इमां स्तुतिं भक्तिपरा नरोत्तमा भवद्भिरुक्तामनुकीर्त्तयन्ति।
दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः।। ३०.६५
देवा ऊचुः।।
यदि वरदा भवती त्रिदशानां द्विजशिशुगोषु यतस्व हिताय।
पुनरपि देवरिपूनपरांस्त्वं प्रदह हुताशनतुल्यशरीरे।। ३०.६६
देव्युवाच।।
भूयो भविष्याम्यसृगुक्षितानना हराननस्वेदजलोद्भवा सुराः।
अन्धासुरस्याप्रतिपोषणे रता नाम्ना प्रसिद्धा भुवनेषु चर्चिका।। ३०.६७
भूयो वधिष्यामि सुरारिमुत्तमं संभूय नन्दस्य गृहे यशोदया।
तं विप्रचित्तिं लवणं तथाऽपरौ शुम्भं निशुम्भं दशनप्रहारिणी।। ३०.६८
भूयः सुरास्तिष्ययुगे निराशिनी निरीक्ष्य मारी च गृहे शतक्रतोः ।
संभूय देव्याऽमितसत्यधामया सुरा भरिष्यामि च शाकम्भरी वै।। ३०.६९
भूयो विपक्षक्षपणाय देवा विन्ध्ये भविष्याम्यृषिरक्षणार्थम्।
दुर्वृत्तचेष्टान् विनिहत्य दैत्यान् भूयः समेष्यामि सुरालयं हि।। ३०.७०
यदाऽरुणाक्षो भविता महासुरः तदा भविष्यामि हिताय देवाताः।
महालिरूपेण विनष्टजीवितं कृत्वा समेष्यामि पुनस्त्रिविष्टपम्।। ३०.७१
पुलस्त्य उवाच।।
इत्येवमुक्त्वा वरदा सुराणां कृत्वा प्रणामं द्विजपुंगवानाम्।
विसृज्य भूतानि जगाम देवी खं सिद्धसंघैरनुगम्यमाना।। ३०.७२
इदं पुराणं परमं पवित्रं देव्या जयं मङ्गलदायि पुंसाम्।
श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच।। ३०.७३
इति श्रीवामनपुराणे त्रिंशोध्यायः ।। ३० ।।
 
</poem>
 
[[वर्गः:वामनपुराणम्]]