"रामायणम्/अरण्यकाण्डम्/सर्गः २५" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥'''
<div class="verse">
<pre>
अवष्टब्ध धनुम् रामम् क्रुद्धम् च रिपु घातिनम् ।
ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः ॥३-२५-१॥
तम् दृष्ट्वा सगुणम् चापम् उद्यम्य खर निःस्वनम् ।
रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत् ॥३-२५-२॥
स खरस्य आज्ञया सूतः तुरगान् समचोदयत् ।
यत्र रामो महाबाहुः एको धुन्वन् धनुः स्थितः ॥३-२५-३॥
तम् तु निष्पतितम् दृष्ट्वा सर्वे ते रजनी चराः ।
मुंचमाना महानादम् सचिवाः पर्यवारयन् ॥३-२५-४॥
स तेषाम् यातुधानानाम् मध्ये रथः गतः खरः ।
बभूव मध्ये ताराणाम् लोहितांग इव उदितः ॥३-२५-५॥
ततः शर सहस्रेन रामम् अप्रतिम ओजसम् ।
अर्दयित्वाअ महानादम् ननाद समरे खरः ॥३-२५-६॥
ततः तम् भीम धन्वानम् क्रुद्धाः सर्वे निशाचराः ।
रामम् नाना विधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥
मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः ।
राक्षसाः समरे रामम् निजघ्नू रोष तत्पराः ॥३-२५-८॥
ते वलाहक संकाशा महाकाया महाबलाः ।
अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च ॥३-२५-९॥
गजैः पर्वत कूट अभैः रामम् युद्धे जिंघासवः ।
ते रामे शर वर्षाणि व्यसृजन् रक्षसाम् गणाः ॥३-२५-१०॥
शैलेन्द्रम् इव धाराभिर् वर्षमाणा महाधनाः ।
सर्वैः परिवृतो रामो राक्षसैः कॄरदर्शिनैः ॥३-२५-११॥
तिथिषु इव महादेवो वृतः पारिषदाम् गणैः ।
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥
प्रतिजग्राह विशिखैः नदि ओघान् इव सागरः ।
स तैः प्रहरणैः घोरैः भिन्न गात्रो न विव्यथे ॥३-२५-१३॥
रामः प्रदीप्तैर् बहुभिर् वज्रैर् इव महा अचलः ।
स विद्धः क्षतज दिग्धः सर्व गात्रेषु राघवः ॥३-२५-१४॥
बभूव रामः सन्ध्य अभ्रैः दिवाकर इव आवृतः ।
विषेदुर् देव गन्धर्वाः सिद्धाः च परम ऋषयः ॥३-२५-१५॥
एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् ।
ततो रामः तु सुसंक्रुद्धो मण्डली कृत कार्मुकः ॥३-२५-१६॥
ससर्ज निशितान् बाणान् शतशः अथ सहस्रशः ।
दुरवारान् दुर्विषहान् कालपाश उपमान् रणे ॥३-२५-१७॥
मुमोच लीलया रामः कंकपत्रान् कांचन भूषणान् ।
ते शराः शत्रु सैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥
आददू रक्षसाम् प्राणान् पाशाः कालकृता इव ।
भित्त्वा राक्षस देहान् ताम् ते शरा रुधिर आप्लुताः ॥३-२५-१९॥
अंतरिक्ष गता रेजुः दीप्त अग्नि सम तेजसः ।
असंख्येयाः तु रामस्य सायकाः चाप मण्डलात् ॥३-२५-२०॥
विनिष्पेतुः अतीव उग्रा रक्षः प्राण अपहारिणः ।
तैः धनूंषि ध्वज अग्राणि चर्माणि च शिरांसि च ॥३-२५-२१॥
बहून् स हस्त आभरणान् ऊरून् करि कर उपमान् ।
चिछेद रामः समरे शतशः अथ सहस्रशः ॥३-२५-२२॥
हयान् कांचन सन्नाहान् रथ युक्तान् स सारथीन् ।
गजाम् च स गज आरोहान् स हयान् सारधिनः तदा ॥३-२५-२३॥
चिछिदुः बिभिदुः च एव राम बाणा गुण च्युताः ।
पदातीन् समरे हत्वा हि अनयत् यम सदनम् ॥३-२५-२४॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः विकर्णिभिः ।
भीमम् आर्त स्वरम् चक्रुः छिद्यमाना निशाचराः ॥३-२५-२५॥
तत् सैन्यम् निशितैः बाणैः अर्दितम् मर्म भेदिभिः ।
न रामेण सुखम् लेभे शुष्कम् वनम् इव अग्निना ॥३-२५-२६॥
केचिद् भीम बलाः शूराः प्रासान् शूलान् परश्वधान् ।
चिक्षिपुः परम क्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥
तेषाम् बाणैः महाबाहुः शस्त्राणि आवार्य वीर्यवान् ।
जहार समरे प्राणान् चिच्छेद च शिरो धरान् ॥३-२५-२८॥
ते छिन्न शिरसः पेतुः छिन्न चर्म शरासनाः ।
सुपर्ण वात विक्षिप्ता जगत्याम् पादपा यथा ॥३-२५-२९॥
अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः ।
खरम् एव अभ्यधावन्त शरणार्थम् शर आहताः ॥३-२५-३०॥
तान् सर्वान् धनुर् आदाय समाश्वास्य च दूषणः ।
अभ्यधावत सुसंक्रुद्धः क्रुद्धः [रुद्रम्] क्रुद्ध इव अन्तकः ॥३-२५-३१॥
निवृत्ताः तु पुनः सर्वे दूषण आश्रय निर्भयाः ।
रामम् एव अभ्यधावन्त साल ताल शिल आयुधाः ॥३-२५-३२॥
शूल मुद्गर हस्ताः च पाश हस्ता महाबलाः ।
सृजन्तः शर वर्षाणि शस्त्र वर्षाणि संयुगे॥३-२५-३३॥
द्रुम वर्षाणि मुंचन्तः शिला वर्षाणि राक्षसाः ।
तद् बभूव अद्भुतम् युद्धम् तुमुलम् रोम हर्षणम् ॥३-२५-३४॥
रामस्य अस्य महाघोरम् पुनः तेषाम् च रक्षसाम् ।
ते समन्तात् अभिक्रुद्धा राघवम् पुनर् आर्दयन् ॥३-२५-३५॥
ततः सर्वा दिशो दृष्ट्वा प्रदिशाः च समावृताः ।
राक्षसैः सर्वतः प्राप्तैः शर वर्षाभिः आवृतः ॥३-२५-३६॥
स कृत्वा भैरवम् नादम् अस्त्रम् परम भास्वरम्।
समयोजयत् गान्धर्वम् राक्षसेषु महाबलः ॥३-२५-३७॥
ततः शर सहस्राणि निर्ययुः चाप मण्डलात् ।
सर्वा दश दिशो बानैः आपूर्यन्त समागतैः ॥३-२५-३८॥
न आददानाम् शरान् घोरान् विमुंचंतम् शर उत्तमान् ।
विकर्षमाणम् पश्यन्ति राक्षसाः ते शर आर्दिताः ॥३-२५-३९॥
शर अन्धकारम् आकाशम् आवृणोत् स दिवाकरम् ।
बभूव अवस्थितो रामः प्रक्षिपन् इव तान् शरान् ॥३-२५-४०॥
युगपत् पतमानैः च युगपच्च हतैः भ्रिशम् ।
युगपत् पतितैः चैव विकीर्णा वसुधा अभवत् ॥३-२५-४१॥
निहताः पतिताः क्षीणा च्छिन्न भिन्न विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशः ॥३-२५-४२॥
स उष्णीषैः उत्तम अन्गैः च स अंगदैः बाहुभिः तथा ।
ऊरुभिः बाहुभिः च्छिन्नैः नाना रूपैः विभूषणैः ॥३-२५-४३॥
हयैः च द्विप मुख्यैः च रथैः भिन्नैः अनेकशः ।
चामर व्यजनैः छत्रैः ध्वजैः नाना विधैः अपि ॥३-२५-४४॥
रामेण बाण अभिहतैः विच्छिन्नैः शूल पट्टिशैः ।
खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च पश्वधैः ॥३-२५-४५॥
चूणिताभिः शिलाभिः च शरैः चित्रैः अनेकशः ।
विच्छिन्नैः समरे भूमिः विस्तीर्णा आभूत् भयंकरा ॥३-२५-४६॥
तान् दृष्ट्वा निहतान् सर्वे रक्षसाः परम आतुराः ।
न तत्र चलितुम् शक्ता रामम् पर पुरंजयम् ॥३-२५-४७॥
</pre>
</div>
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥'''
|