"तर्कसङ्ग्रहः/कर्मादिलक्षणप्रकरणम्" इत्यस्य संस्करणे भेदः

==॥अथ कर्मादिलक्षणप्रकरणम्॥== <b>॥चलनात्मकं कर्म... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ३२:
 
अन्योन्याभावं लक्षयति <b>तादात्म्येति</b>। प्रतियोगितावच्छेदकारोप्यसंसर्गभेदादेकप्रतियोगिकयोरत्यन्तान्योन्याभावयोर्भिन्नत्वम्। केवलदेवदत्ताभावादण्ड्यभावप्रतीत्या विशिष्टाभावः, ’एकसत्वेऽपि द्वौ न स्तः’ इति प्रतीत्या द्वित्वावच्छिन्नाभावः, संयोगेन घटवति समवायेन घताभावः, तत्तद्घटाभावाद्घटत्त्वावच्छिन्नप्रतियोगिताकसामान्याभावातिरिक्तः। एवमन्योन्याभावोऽपि। घटत्वेन पटो नास्तीति प्रतीत्या व्यधिकरणधर्मावच्छिनाभावो नाङ्गीक्रियते। पटे घटत्वं नास्तीति तदर्थः। अतिरिक्तत्वे स केवलान्वयी। सामयिकाभावोऽप्यत्यन्ताभाव एव समयविशेषे प्रतीयमानः। घटाभाववति घटानयने अत्यन्ताभावस्य अन्यत्र गमनाभावेऽपि अप्रतीतेः, घटापसरणे सति प्रतीतेः, भूतलघटसंयोगप्रागभावध्वंसयोर्घटात्यन्ताभावप्रतीतिनियामकत्वं कल्प्यते। घतवति तत्संयोगप्रागभावध्वंसयोरसत्त्वादेवात्यन्ताभावस्याप्रतीतिः। घटापसरणे तु संयोगध्वंसस्य सत्त्वात्प्रतीतिरिति। केवलाधिकरणेनैव नास्तीति व्यवहारोपपत्तौ अभावो न पदार्थान्तरमिति गुरुः। तत् न। अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वत्। अभावाभावो भाव एव। नातिरिक्त, अनवस्थाप्रसङ्गात्। ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येवेति प्राञ्चः। अभावाभावोऽतिरिक्त एव तृतीयाभावस्य प्रथमाभावरूपत्वान्नावस्थेति नवीनाः।
[[वर्गः:तर्कसङ्ग्रहः]]