"अध्यात्मोपनिषत्" इत्यस्य संस्करणे भेदः
Content deleted Content added
अध्यात्मोपनिषत् ::ॐ पूर्णमदः पूर्णमिदं पूर्णा... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
०६:१८, ३० जून् २०११ इत्यस्य संस्करणं
अध्यात्मोपनिषत्
- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
- पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
- अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद । यस्यापःशरीरं यॊऽपोऽन्तरे सञ्चरन्यमापो न विदुः । यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन्यं तेजो न वेद । यस्य वायुः शरीरं यो वायुमन्तरे सञ्चरन्यं वायुर्न वेद । यस्याकाशः शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद । यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन्यं मनो न वेद । यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे सञ्चरन्यं बुद्धिर्न वेद । यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे सञ्चरन्यं अहङ्कारो न वेद । यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन्यं चित्तं न वेद । यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन्यम् अव्यक्तं न वेद । यस्याक्षरं शरीरं योऽक्षरमन्तरे सञ्चरन्यम् अक्षरं न वेद । यस्य मृयुः शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युर्न वेद । स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । अहं ममेति यो भावो देहाक्षादावनात्मनि । अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ॥ १ ॥
- ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् ।
- सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्ममतिं त्यजेत् ॥ २ ॥
- लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
- शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ३ ॥
- स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः ।
- युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः ॥ ४ ॥
- निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः ।
- क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि ॥ ५ ॥
- मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः ।
- त्यक्त्वा चण्डालवद्दूरं ब्रह्मीभूय कृती भव ॥ ६ ॥
- घटाकाशं महाकाश इवात्मानं परात्मनि ।
- विलाप्याखण्डभावेन तूष्णीं भव सदा मुने ॥ ७ ॥
- स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना ।
- ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ॥ ८ ॥
- चिदात्मनि सदानन्दे देहरूढामहंधियम् ।
- निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ॥ ९ ॥
- यत्रैष जगदाभासो दर्पणान्तःपुरं यथा ।
- तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ ॥ १० ॥
- अहङ्कारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
- चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयम्प्रभः ॥ १२ ॥
- क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः ।
- वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ॥
- सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् ।
- सद्भावभावानादाढ्याद्वासनालयमश्नुते ॥ १४ ॥
- प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन ।
- प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः ॥ १५ ॥
- यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति ।
- आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ॥ १५ ॥
- जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः ।
- समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ ॥ १६ ॥
- अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा ।
- समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् ॥ १७ ॥
- अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् ।
- उदासीनतया तेषु तिष्ठेद्घटपटादिवत् ॥ १८ ॥
- ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः ।
- ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ १९ ॥
- स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
- स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥ २० ॥
- स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।
- स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् ॥ २१ ॥
- असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।
- निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ २२ ॥
- द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये ।
- कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि ॥ २३ ॥
- तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
- अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ २४ ॥
- एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् ।
- सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥ २५ ॥
- चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
- अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि ॥ २६ ॥
- अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।
- बहिरन्तः सदानन्दरसास्वादनमात्मनि ॥ २७ ॥
- वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् ।
- स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् ॥ २८ ॥
- यद्युत्तरोत्तराभावे पूर्वपूर्वं तु निष्फलम् ।
- निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ॥ २९ ॥
- मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
- पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ३० ॥
- आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
- अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ३१ ॥
- मायाविद्ये विहायैव उपाधी परजीवयोः ।
- अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते ॥ ३२ ॥
- इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।
- युक्त्या संभावितत्वानुसन्धानं मननं तु तत् ॥ ३३ ॥
- ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् ।
- एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ३४ ॥
- ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।
- निवातदीपवच्चित्तं समाधिरभिधीयते ॥ ३५ ॥
- वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः ।
- स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः ॥ ३६ ॥
- अनादाविह संसारे सञ्चिताः कर्मकोटयः ।
- अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ३७ ॥
- धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः ।
- वर्षत्येष यथा धर्मामृतधाराः सहस्रशः ॥ ३८ ॥
- अमुना वासनाजाले निःशेषं प्रविलापिते ।
- समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये ॥ ३९ ॥
- वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।
- करामलकमवद्बोधमपरोक्षं प्रसूयते ॥ ४० ॥
- वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
- अहंभावोदयाभावो बोधस्य परमावधिः ॥ ४१ ॥
- लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ।
- स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते ॥ ४२ ॥
- ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ।
- ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि ॥ ४३ ॥
- निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
- सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४४ ॥
- देहेन्द्रियेष्वहंभाव इदम्भावस्तदन्यके ।
- यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥ ४५ ॥
- न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।
- प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥ ४७ ॥
- साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः ।
- समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥ ४७ ॥
- विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
- अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥ ४८ ॥
- सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।
- फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥ ४९ ॥
- अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् ।
- सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥ ५० ॥
- स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।
- न श्लिष्यते यतिः किञ्चित्कदाचिद्भाविकर्मभिः ॥ ५१ ॥
- न नभो घटयोगेन सुरागन्धेन लिप्यते ।
- तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥ ५२ ॥
- ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति ।
- अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ५३ ॥
- व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
- न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् ॥ ५४ ॥
- अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते ।
- तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥ ५५ ॥
- प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
- देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ॥ ५६ ॥
- प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि ॥ ५७ ॥
- अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः ।
- अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥ ५८ ॥
- ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
- तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ॥ 59॥
- समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ।
- न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ॥ ६० ॥
- परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् ।
- सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् ॥ ६२ ॥
- प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।
- अहेयमनुपादेयमनाधेयमनाश्रयम् ॥ ६२ ॥
- निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।
- अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् ॥ ६३ ॥
- सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् ।
- एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ६४ ॥
- स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।
- ससिद्धः सुसुखं तिष्ठन् निर्विकल्पात्मनात्मनि ॥ ६५ ॥
- क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् ।
- अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥ ६६ ॥
- किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् ।
- अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे ॥ ६७ ॥
- न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
- स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः ॥ ६८ ॥
- असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः ।
- प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः ॥ ६९ ॥
- अकर्ताहमभोक्ताहमविकारोऽहमव्ययः ।
- शुद्धो बोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥ ७० ॥
- अकर्ताहमभोक्ताहमविकारोऽहमव्ययः ।
- एतां विद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रैत्नाय ददौ । रैत्नो रामाय ददौ । रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् |
- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
- पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
- ॥ इति अध्यात्मोपनिषत्समाप्ता ॥