"जाबालोपनिषत् (सामवेदः)" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{Upanishad}}
.. जाबालोपनिषत् ..▼
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् .▼
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ..▼
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते .▼
<div class="verse">
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..▼
<pre>
ॐ शान्तिः शान्तिः शान्तिः ..▼
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम्
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम्
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
आत्मा तं कथमहं विजानीयामिति
स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति
वरणायां नाश्यां च मध्ये प्रतिष्ठित इति
का वै वरणा का च नाशीति
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति
कतमं चास्य स्थानं भवतीति
भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति
सोऽविमुक्त उपास्य इति . सोऽविमुक्तं ज्ञानमाचष्टे
यो वैतदेवं वेदेति अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति
स होवाच याज्ञवल्क्यः
शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि
एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः
अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवन्संन्यासं ब्रूहीति
स होवाच याज्ञवल्क्यः ब्रह्मचर्यं परिसमाप्य गृही भवेत्
गृही भूत्वा वनी भवेत्
वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्
तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति
तदु तथा न कुर्यादाग्नेयीमेव कुर्यात्
अग्निर्ह वै प्राणः प्राणमेव तथा करोति
त्रैधातवीयामेव कुर्यात्
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति
अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः
तं प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम्
इत्यनेन मन्त्रेणाग्निमाजिघ्रेत्
एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
स्वाहेत्येवमेवैतदाह
ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत्
यद्यग्निं न विन्देदप्सु जुहुयात्
आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
वदेत्
एतद्ब्रह्मैतदुपासितव्यम् एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति
स होवाच याज्ञवल्क्यः
इदमेवास्य तद्यज्ञोपवीतं य आत्मापः प्राश्याचम्यायं विधिः परिव्राजकानाम्
वीराध्वाने वा अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
. अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षणो ब्रह्मभूयाय भवतीति
यद्यातुरः स्यान्मनसा वाचा संन्यसेत्
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य
तत्र
Line ७६ ⟶ १०३:
उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत्
यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं
Line ८६ ⟶ ११३:
शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
नाम परमहंसो नामेति
ॐ पूर्णमद इति शातिः
इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता
</pre>
</div>
|