"छान्दोग्योपनिषद्/अध्यायः ४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (१ अवतरण: from old wikisource)
::::::॥ छान्दोग्योपनिषद् ॥ सप्तमोऽध्यायः, अष्टमोऽध्यायः
{{Upanishad}}
 
 
::::॥ सप्तमोऽध्यायः ॥
::::॥ प्रथमः खण्डः ॥
 
::::अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥
 
 
::::ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥
 
 
::::सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तँ होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥
 
 
::::नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥
 
 
::::स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ५ ॥
 
 
::::॥ द्वितीयः खण्डः ॥
 
::::वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥
 
 
::::स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ तृतीयः खण्डः ॥
 
::::मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राँश्च पशूँश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥
 
 
::::स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ चतुर्थः खण्डः ॥
 
::::सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
 
 
::::तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाँ सङ्कॢप्त्यै वर्षँ सङ्कल्पते वर्षस्य सङ्कॢप्त्या अन्नँ सङ्कल्पतेऽन्नस्य सङ्कॢप्त्यै प्राणाः सङ्कल्पन्ते प्राणानाँ सङ्कॢप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाँ सङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्कॢप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कॢप्त्यै सर्वँ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥
 
 
::::स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
 
 
::::॥ पञ्चमः खण्डः ॥
 
::::चित्तं वाव सङ्कल्पाद्भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥
 
 
::::तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्तँह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥
 
 
::::स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
 
 
::::॥ षष्ठः खण्डः ॥
 
::::ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाँशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥
 
 
::::स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ सप्तमः खण्डः ॥
 
::::विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥
 
 
::::स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ अष्टमः खण्डः ॥
 
::::बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते । स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥
 
 
::::स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ नवमः खण्डः ॥
 
::::अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश रात्रीर्नाश्नीयाद्यद्यु ह जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥
 
 
::::स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ दशमः खण्डः ॥
 
::::आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥
 
 
::::स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाँस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति । योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ एकादशः खण्डः ॥
 
::::तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥
 
 
::::स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ द्वादशः खण्डः ॥
 
::::आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥
 
 
::::स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ त्रयोदशः खण्डः ॥
 
::::स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ १ ॥
 
 
::::स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ चतुर्दशः खण्डः ॥
 
::::आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राँश्च पशूँश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥
 
 
::::स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
 
 
::::॥ पञ्चदशः खण्डः ॥
 
::::प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वँ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥
 
 
::::स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥
 
 
::::अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ३ ॥
 
 
::::प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ४ ॥
 
 
::::॥ षोडशः खण्डः ॥
 
::::एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ सप्तदशः खण्डः ॥
 
::::यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ अष्टादशः खण्डः ॥
 
::::यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति । मतिं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ एकोनविंशतितमः खण्डः ॥
 
::::यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ विंशतितमः खण्डः ॥
 
::::यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ एकविंशः खण्डः ॥
 
::::यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति । कृतिं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ द्वाविंशः खण्डः ॥
 
::::यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति । सुखं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ त्रयोविंशः खण्डः ॥
 
::::यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ॥
 
 
::::॥ चतुर्विंशः खण्डः ॥
 
::::यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ँ स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा न महिम्नीति ॥ १ ॥
 
 
::::गो-अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ २ ॥
 
 
::::॥ पञ्चविंशः खण्डः ॥
 
::::स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदँ सर्वमित्यथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदँ सर्वमिति ॥ १ ॥
 
 
::::अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदँ सर्वमिति । स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति । अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषाँ सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥
 
 
::::॥ षड्विंशः खण्डः ॥
 
::::तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदँसर्वमिति ॥ १ ॥
 
 
::::तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताँ सर्वँ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति । स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विँशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनत्कुमारस्तँ स्कन्द इत्याचक्षते तँ स्कन्द इत्याचक्षते ॥ २ ॥
 
 
::::॥ अष्टमोऽध्यायः ॥
::::॥ प्रथमः खण्डः ॥
 
 
::::अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
 
 
::::तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥
 
 
::::यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ ३ ॥
 
 
::::तं चेद्ब्रूयुरस्मिँश्चेदिदं ब्रह्मपुरे सर्वँ समाहितँ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरामाप्नोति प्रध्वँसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
 
 
::::स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
 
 
::::तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताँश्च सत्यान्कामाँस्तेषाँ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतँश्च सत्यान्कामाँस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥
 
 
::::॥ द्वितीयः खण्डः ॥
 
::::स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥
 
 
::::अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
 
 
::::अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
 
 
::::अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
 
 
::::अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
 
 
::::अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
 
 
::::अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
 
 
::::अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
 
 
::::अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
 
 
::::यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥
 
 
::::॥ तृतीयः खण्डः ॥
 
::::त इमे सत्याः कामा अनृतापिधानास्तेषाँ सत्यानाँ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
 
 
::::अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥
 
 
::::स वा एष आत्मा हृदि तस्यैतदेव निरुक्तँ हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥
 
 
::::अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥
 
 
::::तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ५ ॥
 
 
::::॥ चतुर्थः खण्डः ॥
 
::::अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसम्भेदाय नैतँ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतँ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
 
 
::::तस्माद्वा एतँ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतँ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥
 
 
::::तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥
 
 
::::॥ पञ्चमः खण्डः ॥
 
::::अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ १ ॥
 
 
::::अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥
 
 
::::अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयँ सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम् ॥ ३ ॥
 
 
::::तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
 
 
::::॥ षष्ठः खण्डः ॥
 
::::अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥
 
 
::::तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
 
 
::::तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥
 
 
::::अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
 
 
::::अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
 
 
::::तदेष श्लोकः। शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ६ ॥
 
 
::::॥ सप्तमः खण्डः ॥
 
::::य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥
 
 
::::तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥
 
 
::::तौ ह द्वात्रिँशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्तावास्तमिति । तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥
 
 
::::तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥
 
 
::::॥ अष्टमः खण्डः ॥
 
::::उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आनखेभ्यः प्रतिरूपमिति ॥ १ ॥
 
 
::::तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
 
 
::::तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
 
 
::::तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमनुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥
 
 
::::तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाँ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सँस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥
 
 
::::॥ नवमः खण्डः ॥
 
::::अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
 
 
::::स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
 
 
::::एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति स हापराणि द्वात्रिँशतं वर्षाण्युवास तस्मै होवाच ॥ ३ ॥
 
 
::::॥ दशमः खण्डः ॥
 
::::य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदँ शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
 
 
::::न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
 
 
::::स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥
 
 
::::न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति स हापराणि द्वात्रिँशतं वर्षाण्युवास तस्मै होवाच ॥ ४ ॥
 
 
::::॥ एकादशः खण्डः ॥
 
::::तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवँ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ १ ॥
 
 
::::स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवँ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
 
 
::::एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतँ संपेदुरेतत्तद्यदाहुरेकशतँ ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ३ ॥
 
 
::::॥ द्वादशः खण्डः ॥
 
::::मघवन्मर्त्यं वा इदँ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
 
 
::::अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
 
 
::::एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनँ स्मरन्निदँ शरीरँ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
 
 
::::अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदँ शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
 
 
::::अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ५ ॥
 
 
::::तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाँ सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥
 
::::॥ त्रयोदशः खण्डः ॥
 
::::श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ १ ॥
 
 
::::॥ चतुर्दशः खण्डः ॥
 
::::आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतँ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्येतमदत्कमदत्कँ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ १ ॥
 
 
::::॥ पञ्चदशः खण्डः ॥
 
::::तधैतद्ब्रह्मा प्रजापतये उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि संप्रतिष्ठाप्याहिँसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
 
 
::::ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
:::: ॐ शान्तिः शान्तिः शान्तिः ॥
 
 
::::॥ इति छान्दोग्योऽपनिषत्समाप्ता ॥
 
 
॥छान्दोग्योपनिषद्॥ सप्तमोऽध्यायः, अष्टमोऽध्यायः<br>
<br>
==॥सप्तमोऽध्यायः॥==
<br>
॥प्रथमः खण्डः॥<br>
<br>
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ<br>
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति<br>
स होवाच॥७.१.१॥<br>
<br>
ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं<br>
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं<br>
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां<br>
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ<br>
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि॥७.१.२॥<br>
<br>
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे<br>
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः<br>
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति<br>
तँ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत्॥७.१.३॥<br>
<br>
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ<br>
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो<br>
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या<br>
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या<br>
नामैवैतन्नामोपास्स्वेति॥७.१.४॥<br>
<br>
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य<br>
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति<br>
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.१.५॥<br>
<br>
॥इति प्रथमः खण्डः॥<br>
<br>
॥द्वितीयः खण्डः॥<br>
<br>
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ<br>
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं<br>
पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां<br>
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याँ सर्पदेवजनविद्यां<br>
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च<br>
देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च<br>
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं<br>
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च<br>
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो<br>
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु<br>
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति<br>
वाचमुपास्स्वेति॥७.२.१॥<br>
<br>
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य<br>
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति<br>
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.२.२॥<br>
<br>
॥इति द्वितीयः खण्डः॥<br>
<br>
॥तृतीयः खण्डः॥<br>
<br>
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले<br>
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च<br>
मनोऽनुभवति स यदा मनसा मनस्यति<br>
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते<br>
पुत्राँश्च पशूँश्चेच्छेयेत्यथेच्छत इमं च<br>
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको<br>
मनो हि ब्रह्म मन उपास्स्वेति॥७.३.१॥<br>
<br>
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य<br>
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति<br>
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति<br>
तन्मे भगवान्ब्रवीत्विति॥७.३.२॥<br>
<br>
॥इति तृतीयः खण्डः॥<br>
<br>
॥चतुर्थः खण्डः॥<br>
<br>
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ<br>
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि<br>
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि॥७.४.१॥<br>
<br>
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि<br>
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी<br>
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च<br>
तेजश्च तेषाँ सं कॢप्त्यै वर्षँ संकल्पते<br>
वर्षस्य संकॢप्त्या अन्नँ संकल्पतेऽन्नस्य सं कॢप्त्यै<br>
प्राणाः संकल्पन्ते प्राणानाँ सं कॢप्त्यै मन्त्राः संकल्पन्ते<br>
मन्त्राणाँ सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां<br>
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वँ<br>
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति॥७.४.२॥<br>
<br>
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः<br>
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति<br>
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः<br>
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति<br>
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति॥७.४.३॥<br>
<br>
॥इति चतुर्थः खण्डः॥<br>
<br>
॥पञ्चमः खण्डः॥<br>
<br>
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ<br>
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति<br>
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि॥७.५.१॥<br>
<br>
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते<br>
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति<br>
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं<br>
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति<br>
तस्मा एवोत शुश्रूषन्ते चित्तँह्येवैषामेकायनं<br>
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति॥७.५.२॥<br>
<br>
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः<br>
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति<br>
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं<br>
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव<br>
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति॥७.५.३॥<br>
<br>
॥इति पञ्चमः खण्डः॥<br>
<br>
॥षष्ठः खण्डः॥<br>
<br>
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी<br>
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो<br>
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां<br>
महत्तां प्राप्नुवन्ति ध्यानापादाँशा इवैव ते भवन्त्यथ<br>
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो<br>
ध्यानापादाँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति॥७.६.१॥<br>
<br>
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य<br>
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति<br>
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति<br>
तन्मे भगवान्ब्रवीत्विति॥७.६.२॥<br>
<br>
॥इति षष्ठः खण्डः॥<br>
<br>
॥सप्तमः खण्डः॥<br>
<br>
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति<br>
यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं<br>
पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं<br>
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां<br>
क्षत्रविद्यां नक्षत्रविद्याँसर्पदेवजनविद्यां दिवं च<br>
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च<br>
मनुष्याँश्च पशूँश्च वयाँसि च<br>
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं<br>
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च<br>
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं<br>
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति॥७.७.१॥<br>
<br>
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स<br>
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य<br>
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो<br>
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.७.२॥<br>
<br>
॥इति सप्तमः खण्डः॥<br>
<br>
॥अष्टमः खण्डः॥<br>
<br>
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको<br>
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता<br>
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता<br>
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति<br>
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी<br>
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन<br>
देवमनुष्या बलेन पशवश्च वयाँसि च तृणवनस्पतयः<br>
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति<br>
बलमुपास्स्वेति॥७.८.१॥<br>
<br>
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य<br>
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो<br>
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.८.२॥<br>
<br>
॥इति अष्टमः खण्डः॥<br>
<br>
॥नवमः खण्डः॥<br>
<br>
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश<br>
रात्रीर्नाश्नीयाद्यद्यु ह<br>
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता<br>
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता<br>
भवति बोद्धा भवति कर्ता भवति विज्ञाता<br>
भवत्यन्नमुपास्स्वेति॥७.९.१॥<br>
<br>
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स<br>
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य<br>
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति<br>
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.९.२॥<br>
<br>
॥इति नवमः खण्डः॥<br>
<br>
॥दशमः खण्डः॥<br>
<br>
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति<br>
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा<br>
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु<br>
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं<br>
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयाँसि च<br>
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप<br>
एवेमा मूर्ता अप उपास्स्वेति॥७.१०.१॥<br>
<br>
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाँस्तृप्तिमान्भवति<br>
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो<br>
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव<br>
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति॥७.१०.२॥<br>
<br>
॥इति दशमः खण्डः॥<br>
<br>
॥एकादशः खण्डः॥<br>
<br>
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति<br>
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव<br>
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च<br>
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते<br>
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः<br>
सृजते तेज उपास्स्वेति॥७.११.१॥<br>
<br>
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो<br>
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं<br>
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति<br>
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.११.२॥<br>
<br>
॥इति एकादशः खण्डः॥<br>
<br>
॥द्वादशः खण्डः॥<br>
<br>
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ<br>
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन<br>
शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत<br>
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति<br>
॥७.१२.१॥<br>
<br>
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स<br>
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति<br>
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति<br>
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति<br>
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति<br>
॥७.१२.२॥<br>
<br>
॥इति द्वादशः खण्डः॥<br>
<br>
॥त्रयोदशः खण्डः॥<br>
<br>
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न<br>
स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा<br>
वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण<br>
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति॥७.१३.१॥<br>
<br>
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य<br>
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः<br>
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे<br>
भगवान्ब्रवीत्विति॥७.१३.२॥<br>
<br>
॥इति त्रयोदशः खण्डः॥<br>
<br>
॥चतुर्दशः खण्डः॥<br>
<br>
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते<br>
कर्माणि कुरुते पुत्राँश्च पशूँश्चेच्छत इमं च<br>
लोकममुं चेच्छत आशामुपास्स्वेति॥७.१४.१॥<br>
<br>
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः<br>
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया<br>
गतं तत्रास्य यथाकामचारो भवति य आशां<br>
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव<br>
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति॥७.१४.२॥<br>
<br>
॥इति चतुर्दशः खण्डः॥<br>
<br>
॥पञ्चदशः खण्डः॥<br>
<br>
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता<br>
एवमस्मिन्प्राणे सर्वँसमर्पितं प्राणः प्राणेन याति<br>
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो<br>
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः<br>
प्राणो ब्राह्मणः॥७.१५.१॥<br>
<br>
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं<br>
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह<br>
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै<br>
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा<br>
वै त्वमसि ब्राह्मणहा वै त्वमसीति॥७.१५.२॥<br>
<br>
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं<br>
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति<br>
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति<br>
न ब्राह्मणहासीति॥७.१५.३॥<br>
<br>
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं<br>
मन्वान एवं विजानन्नतिवादी भवति तं<br>
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत<br>
॥७.१५.४॥<br>
<br>
॥इति पञ्चदशः खण्डः॥<br>
<br>
॥षोडशः खण्डः॥<br>
<br>
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः<br>
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं<br>
भगवो विजिज्ञास इति॥७.१६.१॥<br>
<br>
॥इति षोडशः खण्डः॥<br>
<br>
॥सप्तदशः खण्डः॥<br>
<br>
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति<br>
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति<br>
विज्ञानं भगवो विजिज्ञास इति॥७.१७.१॥<br>
<br>
॥इति सप्तदशः खण्डः॥<br>
<br>
॥अष्टादशः खण्डः॥<br>
<br>
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव<br>
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो<br>
विजिज्ञास इति॥७.१८.१॥<br>
<br>
॥इति अष्टादशः खण्डः॥<br>
<br>
॥एकोनविंशतितमः खण्डः॥<br>
<br>
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते<br>
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति<br>
श्रद्धां भगवो विजिज्ञास इति॥७.१९.१॥<br>
<br>
॥इति एकोनविंशतितमः खण्डः॥<br>
<br>
॥विंशतितमः खण्डः॥<br>
<br>
यदा वै निस्तिष्ठत्यथ श्रद्दधाति<br>
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति<br>
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो<br>
विजिज्ञास इति॥७.२०.१॥<br>
<br>
॥इति विंशतितमः खण्डः॥<br>
<br>
॥एकविंशः खण्डः॥<br>
<br>
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति<br>
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति<br>
कृतिं भगवो विजिज्ञास इति॥७.२१.१॥<br>
<br>
॥इति एकविंशः खण्डः॥<br>
<br>
॥द्वाविंशः खण्डः॥<br>
<br>
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति<br>
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति<br>
सुखं भगवो विजिज्ञास इति॥७.२२.१॥<br>
<br>
॥इति द्वाविंशः खण्डः॥<br>
<br>
॥त्रयोविंशः खण्डः॥<br>
<br>
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं<br>
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो<br>
विजिज्ञास इति॥७.२३.१॥<br>
<br>
॥इति त्रयोविंशः खण्डः॥<br>
<br>
॥चतुर्विंशः खण्डः॥<br>
<br>
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स<br>
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति<br>
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ँ स<br>
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा<br>
न महिम्नीति॥७.२४.१॥<br>
<br>
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं<br>
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति<br>
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति॥७.२४.२॥<br>
<br>
॥इति चतुर्विंशः खण्डः॥<br>
<br>
॥पञ्चविंशः खण्डः॥<br>
<br>
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स<br>
दक्षिणतः स उत्तरतः स एवेदँ सर्वमित्यथातोऽहंकारादेश<br>
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं<br>
दक्षिणतोऽहमुत्तरतोऽहमेवेदँ सर्वमिति॥७.२५.१॥<br>
<br>
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा<br>
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत<br>
आत्मैवेदँ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं<br>
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स<br>
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति<br>
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति<br>
तेषाँ सर्वेषु लोकेष्वकामचारो भवति॥७.२५.२॥<br>
<br>
॥इति पञ्चविंशः खण्डः॥<br>
<br>
॥षड्विंशः खण्डः॥<br>
<br>
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत<br>
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश<br>
आत्मतस्तेज आत्मत आप आत्मत<br>
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो<br>
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः<br>
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा<br>
आत्मतः कर्माण्यात्मत एवेदँसर्वमिति॥७.२६.१॥<br>
<br>
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताँ<br>
सर्वँ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति<br>
स एकधा भवति त्रिधा भवति पञ्चधा<br>
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः<br>
शतं च दश चैकश्च सहस्राणि च<br>
विँशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः<br>
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै<br>
मृदितकषायाय तमसस्पारं दर्शयति<br>
भगवान्सनत्कुमारस्तँ स्कन्द इत्याचक्षते<br>
तँ स्कन्द इत्याचक्षते॥७.२६.२॥<br>
<br>
॥इति षड्विंशः खण्डः॥<br>
<br>
॥इति सप्तमोऽध्यायः॥<br>
==॥अष्टमोऽध्यायः॥==
<br>
॥प्रथमः खण्डः॥<br>
<br>
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म<br>
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं<br>
तद्वाव विजिज्ञासितव्यमिति॥८.१.१॥<br>
<br>
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म<br>
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं<br>
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात्॥८.१.२॥<br>
<br>
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश<br>
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते<br>
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ<br>
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं<br>
तदस्मिन्समाहितमिति॥८.१.३॥<br>
<br>
तं चेद्ब्रूयुरस्मिँश्चेदिदं ब्रह्मपुरे सर्वँ समाहितँ<br>
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति<br>
प्रध्वँसते वा किं ततोऽतिशिष्यत इति॥८.१.४॥<br>
<br>
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत<br>
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष<br>
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको<br>
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह<br>
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा<br>
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति<br>
॥८.१.५॥<br>
<br>
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो<br>
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताँश्च<br>
सत्यान्कामाँस्तेषाँ सर्वेषु लोकेष्वकामचारो<br>
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतँश्च<br>
सत्यान्कामाँस्तेषाँ सर्वेषु लोकेषु कामचारो भवति<br>
॥८.१.६॥<br>
<br>
॥इति प्रथमः खण्डः॥<br>
<br>
॥द्वितीयः खण्डः॥<br>
<br>
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः<br>
समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते॥८.२.१॥<br>
<br>
अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः<br>
समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते॥८.२.२॥<br>
<br>
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः<br>
समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते॥८.२.३॥॥<br>
<br>
अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः<br>
समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते॥८.२.४॥<br>
<br>
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः<br>
समुत्तिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते॥८.२.५॥<br>
<br>
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य<br>
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो<br>
महीयते॥८.२.६॥<br>
<br>
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने<br>
समुत्तिष्ठतस्तेनान्नपानलोकेन संपन्नो महीयते॥८.२.७॥<br>
<br>
अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य<br>
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन संपन्नो<br>
महीयते॥८.२.८॥<br>
<br>
अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः<br>
समुत्तिष्ठन्ति तेन स्त्रीलोकेन संपन्नो महीयते॥८.२.९॥<br>
<br>
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य<br>
संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते॥८.२.१०॥<br>
<br>
॥इति द्वितीयः खण्डः॥<br>
<br>
॥तृतीयः खण्डः॥<br>
<br>
त इमे सत्याः कामा अनृतापिधानास्तेषाँ सत्यानाँ<br>
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह<br>
दर्शनाय लभते॥८.३.१॥<br>
<br>
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न<br>
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः<br>
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा<br>
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा<br>
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि<br>
प्रत्यूढाः॥८.३.२॥<br>
<br>
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तँ हृद्ययमिति<br>
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति॥८.३.३॥<br>
<br>
अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं<br>
ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति<br>
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य<br>
ब्रह्मणो नाम सत्यमिति॥८.३.४॥<br>
<br>
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति<br>
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे<br>
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा<br>
एवंवित्स्वर्गं लोकमेति॥८.३.५॥<br>
<br>
॥इति तृतीयः खण्डः॥<br>
<br>
॥चतुर्थः खण्डः॥<br>
<br>
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय<br>
नैतँ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न<br>
सुकृतं न दुष्कृतँ सर्वे पाप्मानोऽतो<br>
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः॥८.४.१॥<br>
<br>
तस्माद्वा एतँ सेतुं तीर्त्वान्धः सन्ननन्धो भवति<br>
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति<br>
तस्माद्वा एतँ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते<br>
सकृद्विभातो ह्येवैष ब्रह्मलोकः॥८.४.२॥<br>
<br>
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति<br>
तेषामेवैष ब्रह्मलोकस्तेषाँ सर्वेषु लोकेषु कामचारो<br>
भवति॥८.४.३॥<br>
<br>
॥इति चतुर्थः खण्डः॥<br>
<br>
॥पञ्चमः खण्डः॥<br>
<br>
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण<br>
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते<br>
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते<br>
॥८.५.१॥<br>
<br>
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण<br>
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते<br>
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते '॥८.५.२॥<br>
<br>
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष<br>
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ<br>
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै<br>
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं<br>
मदीयँ सरस्तदश्वत्थः सोमसवनस्तदपराजिता<br>
पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम्॥८.५.३॥<br>
<br>
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके<br>
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाँ<br>
सर्वेषु लोकेषु कामचारो भवति॥८.५.४॥<br>
<br>
॥इति पञ्चमः खण्डः॥<br>
<br>
॥षष्ठः खण्डः॥<br>
<br>
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति<br>
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः<br>
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः<br>
॥८.६.१॥<br>
<br>
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं<br>
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं<br>
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता<br>
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः<br>
॥८.६.२॥<br>
<br>
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्यासु<br>
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति<br>
तेजसा हि तदा संपन्नो भवति॥८.६.३॥<br>
<br>
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना<br>
आहुर्जानासि मां जानासि मामिति स<br>
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति<br>
॥८.६.४॥<br>
<br>
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव<br>
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते<br>
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु<br>
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम्॥८.६.५॥<br>
<br>
तदेष श्लोकः। शतं चैका च हृदयस्य नाड्यस्तासां<br>
मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति<br>
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति॥८.६.६॥<br>
<br>
॥इति षष्ठः खण्डः॥<br>
<br>
॥सप्तमः खण्डः॥<br>
<br>
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको<br>
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः<br>
स विजिज्ञासितव्यः स सर्वाँश्च लोकानाप्नोति<br>
सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह<br>
प्रजापतिरुवाच॥८.७.१॥<br>
<br>
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त<br>
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाँश्च<br>
लोकानाप्नोति सर्वाँश्च कामानितीन्द्रो हैव<br>
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ<br>
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः<br>
॥८.७.२॥<br>
<br>
तौ ह द्वात्रिँशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह<br>
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य<br>
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको<br>
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः<br>
स विजिज्ञासितव्यः स सर्वाँश्च लोकानाप्नोति सर्वाँश्च<br>
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो<br>
वेदयन्ते तमिच्छन्ताववास्तमिति॥८.७.३॥<br>
<br>
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत<br>
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं<br>
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष<br>
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच<br>
॥८.७.४॥<br>
<br>
॥इति सप्तमः खण्डः॥<br>
<br>
॥अष्टमः खण्डः॥<br>
<br>
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे<br>
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह<br>
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः<br>
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ<br>
नखेभ्यः प्रतिरूपमिति॥८.८.१॥<br>
<br>
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ<br>
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ<br>
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते<br>
तौ ह प्रजापतिरुवाच किं पश्यथ इति॥८.८.२॥<br>
<br>
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ<br>
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ<br>
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति<br>
तौ ह शान्तहृदयौ प्रवव्रजतुः॥८.८.३॥<br>
<br>
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य<br>
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते<br>
पराभविष्यन्तीति स ह शान्तहृदय एव<br>
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं<br>
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह<br>
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति<br>
॥८.८.४॥<br>
<br>
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो<br>
बतेत्यसुराणाँ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया<br>
वसनेनालंकारेणेति सँस्कुर्वन्त्येतेन ह्यमुं लोकं<br>
जेष्यन्तो मन्यन्ते॥८.८.५॥<br>
<br>
॥इति अष्टमः खण्डः॥<br>
<br>
॥नवमः खण्डः॥<br>
<br>
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव<br>
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति<br>
सुवसने सुवसनः परिष्कृते परिष्कृत<br>
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे<br>
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति<br>
नाहमत्र भोग्यं पश्यामीति॥८.९.१॥<br>
<br>
स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच<br>
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन<br>
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं<br>
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति<br>
सुवसने सुवसनः परिष्कृते परिष्कृत<br>
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः<br>
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष<br>
नश्यति नाहमत्र भोग्यं पश्यामीति ॥८.९.२॥<br>
<br>
एवमेवैष मघवन्निति होवाचैतं त्वेव ते<br>
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति<br>
स हापराणि द्वात्रिँशतं वर्षाण्युवास तस्मै होवाच<br>
॥८.९.३॥<br>
<br>
॥इति नवमः खण्डः॥<br>
<br>
॥दशमः खण्डः॥<br>
<br>
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति<br>
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः<br>
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श<br>
तद्यद्यपीदँ शरीरमन्धं भवत्यनन्धः स भवति यदि<br>
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति॥८.१०.१॥<br>
<br>
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं<br>
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र<br>
भोग्यं पश्यामीति॥८.१०.२॥<br>
<br>
स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच<br>
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम<br>
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः<br>
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति<br>
॥८.१०.३॥<br>
<br>
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं<br>
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र<br>
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते<br>
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति<br>
स हापराणि द्वात्रिँशतं वर्षाण्युवास तस्मै होवाच<br>
॥८.१०.४॥<br>
<br>
॥इति दशमः खण्डः॥<br>
<br>
॥एकादशः खण्डः॥<br>
<br>
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष<br>
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः<br>
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह<br>
खल्वयमेवँ संप्रत्यात्मानं जानात्ययमहमस्मीति<br>
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र<br>
भोग्यं पश्यामीति॥८.११.१॥<br>
<br>
स समित्पाणिः पुनरेयाय तँ ह प्रजापतिरुवाच<br>
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति<br>
स होवाच नाह खल्वयं भगव एवँ संप्रत्यात्मानं<br>
जानात्ययमहमस्मीति नो एवेमानि भूतानि<br>
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति<br>
॥८.११.२॥<br>
<br>
एवमेवैष मघवन्निति होवाचैतं त्वेव ते<br>
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि<br>
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास<br>
तान्येकशतँ संपेदुरेतत्तद्यदाहुरेकशतँ ह वै वर्षाणि<br>
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच॥८.११.३॥<br>
<br>
॥इति एकादशः खण्डः॥<br>
<br>
॥द्वादशः खण्डः॥<br>
<br>
मघवन्मर्त्यं वा इदँ शरीरमात्तं मृत्युना<br>
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै<br>
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः<br>
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न<br>
प्रियाप्रिये स्पृशतः॥८.१२.१॥<br>
<br>
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि<br>
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य<br>
स्वेन रूपेणाभिनिष्पद्यन्ते॥८.१२.२॥।<br>
<br>
एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं<br>
ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः<br>
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा<br>
ज्ञातिभिर्वा नोपजनँ स्मरन्निदँ शरीरँ स यथा<br>
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे<br>
प्राणो युक्तः॥८.१२.३॥<br>
<br>
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः<br>
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा<br>
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स<br>
आत्माभिव्याहाराय वागथ यो वेदेदँ शृणवानीति<br>
स आत्मा श्रवणाय श्रोत्रम्॥८.१२.४॥<br>
<br>
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः<br>
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते<br>
य एते ब्रह्मलोके॥८.१२.५॥<br>
<br>
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाँ सर्वे च<br>
लोका आत्ताः सर्वे च कामाः स सर्वाँश्च लोकानाप्नोति<br>
सर्वाँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह<br>
प्र्जापतिरुवाच प्रजापतिरुवाच॥८.१२.६॥<br>
<br>
॥इति द्वादशः खण्डः॥<br>
<br>
॥त्रयोदशः खण्डः॥<br>
<br>
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व<br>
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य<br>
धूत्वा शरीरमकृतं कृतात्मा<br>
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति॥८.१३.१॥<br>
<br>
॥इति त्रयोदशः खण्डः॥<br>
<br>
॥चतुर्दशः खण्डः॥<br>
<br>
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा<br>
तद्ब्रह्म तदमृतँ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये<br>
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां<br>
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः<br>
श्येतमदत्कमदत्कँ श्येतं लिन्दु माभिगां लिन्दु<br>
माभिगाम्॥८.१४.१॥<br>
<br>
॥इति चतुर्दशः खण्डः॥<br>
<br>
॥पञ्चदशः खण्डः॥<br>
<br>
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः<br>
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः<br>
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे<br>
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि<br>
संप्रतिष्ठाप्याहिँसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः<br>
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते<br>
न च पुनरावर्तते न च पुनरावर्तते॥८.१५.१॥<br>
<br>
॥इति पञ्चदशः खण्डः॥<br>
<br>
॥इति अष्टमोऽध्यायः॥<br>
<br>
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः<br>
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।<br>
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म<br>
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु।<br>
तदात्मनि निरते य उपनिषत्सु धर्मास्ते<br>
मयि सन्तु ते मयि सन्तु॥<br>
<br>
॥ॐ शान्तिः शान्तिः शान्तिः॥<br>
<br>
॥इति छान्दोग्योऽपनिषद्॥<br>
==संबंधित कड़ियाँ==
#[[उपनिषद्]]
४५

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/13151" इत्यस्माद् पुनः प्राप्तिः