"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

()
()
- - - - -
 
हेत्वन्तरमाह-
 
' अभिधाने च कर्मवत् ' इति । यया प्रधानकर्म ' अग्निहोत्रं जुहोति ' इति द्वितीयासंयोगे-
नाभिहितं, तया बं प्रनृगं शंसति ' इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह--
, फलनिर्वृत्तिश्च ' इति । ' स्तुतस्य स्तुतमसि ' ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रण-
माम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-' इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ' ( तै. सं.
३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति
स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं
तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं-
' ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ' ( जै. सू. १०. ४. ४९) इति । अत्र
संग्रहश्लोकौ-
 
प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।
 
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।
 
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।
 
तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।
 
अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे
प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ' ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् ।
तस्मिंश्च प्रातरनुवाके ' अग्निमीळे ' इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेव-
ग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ' वायवा याहि ' इत्यादिसप्ततृचात्मकम् । एतच्च
ब्राह्मणे ' ग्रहोक्थम् ' ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ' स्तोत्रमग्रे
शस्त्रात् ' ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यै-
न्द्रवायवमैत्रावरुणास्तृचा अश्विनी द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः '
इति । अस्यायमर्थः । ' वायवा याहि ' इत्यादिकं नवर्च सूक्तम् । ' अग्नि नव ' इत्यतो
नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुण-
देवताकः । ' अश्विना ' इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो
वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य
देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा
ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्र-
वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता
इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।
 
 
२८,४४०

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/137208" इत्यस्माद् पुनः प्राप्तिः