"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः १" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%"> तैत्तिरीयारण्यकम् भद्रं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १२५:
 
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उद तिष्ठन्उदतिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति ।
अन्तरतः कृर्मंकूर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । 1.२३ ।।