"ऋग्वेदः सूक्तं १०.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः। त्रिष्टुप्, ११-१४ अनुष्टुप्
}}
{{ऋग्वेदः मण्डल १०}}
 
<poem><span style="font-size: 14pt; line-height: 200%">मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
 
<div class="verse">
<pre>
मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥१॥
शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः ।
Line ४१ ⟶ ३९:
मण्डूक्या सु सं गम इमं स्वग्निं हर्षय ॥१४॥
 
</prespan></poem>
 
</div>
{{सायणभाष्यम्|
{{ऋग्वेदः मण्डल १०}}
' मैनम् ' इति चतुर्दशचं षोडशं सूक्तं यमपुत्रस्य दमनस्यार्षम् । आदितो दश त्रिष्टुभः ततश्चतस्रोऽनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं-' मैनं दमन आग्नेयं चतुरनुष्टुबन्तम् ' इति । दीक्षितमरण आद्याः षडृचः शंसनीयाः । सूत्रितं च--' मैनमग्ने वि दहो माभि शोच इति षट् पूषा त्वेतश्च्यावयतु प्र विद्वान् ' ( आश्व. श्रौ. ६ १०) इति । दह्यमानस्य प्रेतस्योपस्थानेऽप्येता शंसनीयाः ।।
 
मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् ।
 
य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥
 
मा । एनम् । अग्ने । वि । दहः । मा । अभि । शोचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम्
 
यदा । शृतम् । कृणवः । जातवेदः । अथ । ईम् । एनम् । प्र । हिणुतात् । पितृऽभ्यः । । १ ।।
 
हे अग्ने एनं प्रेतं मा वि दह । विशेषेण दग्धं मषीभूतं मा कुरु । माभि शोचः अभितः शोकेन संतापेन युक्तं मा कुरु । अस्य त्वचं मा चिक्षिपः इतस्ततो विक्षिप्तां मा कुरु । शरीरम् अपि विक्षिप्तं मा कुरु । हे जातवेदः अग्ने यदा त्वं श्रृतं पक्वं सुदग्धं कृणवः करिष्यसि अथ तदानीम् ईमेनं प्रेतं पितृभ्यः प्र हिणुतात् पितृसमीपे प्रेरय ।।
 
 
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ ।
 
य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
 
हे जातवेदः यदा प्रेतशरीरं शृतं पक्वं करसि करिष्यसि अथ ईम् तदानीमेव एनं प्रेतं
पितृभ्यः परि दत्तात् प्रयच्छ । यदा अयं प्रेतः एताम् अग्निना कृताम् असुनीतिं प्राणस्य नयनं प्राणप्रेरणं गच्छाति प्राप्नोति अथ तदानीमेव देवानां वशनीः देवानां वशं प्रापितो भवति ।।
 
 
सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।
 
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
 
हे प्रेत त्वदीयं चक्षुः इन्द्रियं सूर्यं गच्छतु प्राप्नोतु । आत्मा प्राणः वातं बाह्यं वायुं गच्छतु । अपि च त्वमपि धर्मणा सुकृतेन तत्फलं भोक्तुं द्या च । अत्र चशब्दो विकल्पार्थे । द्युलोकं वा पृथिवीं च पृथिवीं वा गच्छ प्राप्नुहि । अपो वा अन्तरिक्षलोकं गच्छ प्राप्नुहि । तत्र अन्तरिक्षे हितं स्थापितं ते तव कर्मफलम् । ओषधीषु शरीरैः शरीरावयवैः प्रति तिष्ठ ।।
 
 
अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
 
यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
 
अजः जननरहितः शरीरेन्द्रियादिभागव्यतिरिक्तोऽन्तरपुरुषलक्षणो यः भागः अस्ति हे अग्ने ते त्वदीयेन तपसा तापनेन तं तादृशं भागं तपस्व तप्तं कुरु । तथा ते तव शोचिः शोकहेतुः ज्वालाविशेषः तं भागं तपतु संस्करोतु । अपि च ते तव अर्चिः भासको ज्वालाविशेषः तं भागं तपतु संस्करोतु । तपःशोचिरर्चिःशब्दानां संतापतारतम्येन भेदः । हे जातवेदः ते तव याः तन्वः मूर्तयः शिवाः सुखहेतवो न तु तापप्रदाः ताभिः एनं तनूभिः प्रेतं सुकृतां शोभनकर्मकारिणां लोकं स्थानं वह प्रापय । उशब्दः पूरणः ।।
 
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।
 
आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेष॒ः सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥
 
हे अग्ने यः प्रेतः पुमान् आहुतः चितौ मन्त्रेण समर्पितः सन् स्वधाभिः स्वधाकारसमर्पितैः उदकादिभिः सह चरति तं प्रेतं पितृभ्यः पितृप्राप्त्यर्थं पुनः अव सृज भूयः प्रेरय । अयं प्रेतः आयुः जीवनं वसानः आच्छादयन् । आयुषा युक्त इत्यर्थः । शेषः शिष्यमाणमस्थिलक्षणं यजनीयं शरीरम् उप वेतु उपगच्छतु । हे जातवेदः तव प्रसादात् तन्वा शरीरेण सं गच्छतां संगतो भवतु ।। ।। २० ।।
 
यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
 
अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
 
हे मृतशरीर ते तव संबन्धि यत् अङ्गं कृष्णः शकुनः काकाख्यः आतुतोद । आङ्
ईषदर्थे । ईषत्तुन्नवान् । तथा पिपीलः पिपीलिका वा सर्पः वा उत वा अपि वा श्वापदः श्व शृगालादिः । एतेषामन्यतमो यदि तुन्नवानित्यर्थः । विश्वात् सर्वस्यात्ता अग्निः तत् तादृशमङ्गम् अगदं कृणोतु दोषरहितं करोतु । संस्करोत्वित्यर्थः । तथा सोमश्च देवतारूप ओषधिरूपो वा संस्करोतु । यः सोमः ब्राह्मणान् ऋत्विगादीन् आविवेश प्रविष्टवान् ।।
 
अनुस्तरण्या वपया प्रेतस्य मुखम् ' अग्नेर्वर्म ' इत्यनया प्रोर्णुयात् । सूत्रितं च-अनुस्तरण्या वपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्म परि गोभिर्व्ययस्वेति ' ( आश्व. गृ. ४. ३. १९) इति ।।
 
अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।
 
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्य॒ङ्खया॑ते ॥
 
हे प्रेत अग्नेः स्वभूतं वर्म ज्वालालक्षणं कवचं गोभिः अनुस्तरणीगोचर्मणा परि व्ययस्व परितः संवृणु । किंच पीवसा स्थूलेन मेदसा च सं सम्यक् प्रोर्णुष्व आच्छादय । एवं कृते सति हरसा तेजसा धृष्णुः धर्षणशीलः जर्हृषाणः अत्यर्थं हृष्यन् दधृक् धृष्टः प्रगल्भः । ' ऋत्विक् इत्यादिना दधृक्शब्दो निपातितः । विधक्ष्यन् विविधं भस्मीकरिष्यन् एवंभूतोऽग्निः त्वा त्वां नेत् पर्यङ्खयाते नैव सर्वतो विस्तारयति । अखेर्गत्यर्थाल्लेट्याडागमः ।।
 
' इममग्ने चमसम् ' इत्यनया प्रणीताप्रणयनमनुमन्त्रयते । सूत्रितं च-' इममग्ने चमसं वा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते ' ( आश्व. गृ. ४.३.२४) इति ।।
 
इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
 
ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ते ॥
 
हे अग्ने इमं चमसं प्रणीताप्रणयनं मा वि जिह्वरः मा विचालीः । यश्चमसः देवानाम् इन्द्रादीनां प्रियः उत अपि च सोम्यानां सोमार्हाणां पितॄणां प्रियः । किंच यः एषः चमसः देवपानः । देवाः पिबन्त्यस्मिन्निति । देवपानस्थानीयो भवति तस्मिन् चमसे अमृताः मरणवर्जिताः देवाः पितरश्च मादयन्ते हव्यैः कव्यैश्च हृष्टा भवन्ति ।।
 
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।
 
इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
 
आहिताग्निमरण एतदादिके द्वे ऋचावौपासनोद्वासने विनियुक्ते । तत्र प्रथमायाः पूर्वार्धेन दक्षिणस्यां दिशि चतुष्पथादावौपासनाग्निं निरस्यति । उत्तरेण शान्तिकर्मार्थमादत्ते (आश्व. गृ ४ .६)। क्रव्यादम् । क्रव्यमामिषम् । तस्यात्तारं तीव्रम् अग्निं दूरं विप्रकृष्टदेशे प्र प्रहिणोमि प्रगमयामि । ' हि गतौ ' स्वादिः । रिप्रवाहः । रिप्रं पापम् । तस्य वोढा सोऽग्निः यमराज्ञः यमो राजा येषां तान् यमराजकान् अन्यप्रदेशान् गच्छतु प्राप्नोतु । अयं शान्तिकर्मार्थमुपादत्तः इतरः क्रव्यादादन्यः जातवेदाः जातानां वेदिता जातधनो वा प्रजानन् सवैर्विज्ञायमानोऽग्निः इहैव देशे देवेभ्यः देवार्थं हव्यं हवनयोग्यं हविः वहतु प्रापयतु ।।
 
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम् ।
 
तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥
 
यः क्रव्यादः अग्निः देवो युष्माकं गृहिणां गृहं प्रविवेश प्रविष्टवान् तं क्रव्यादं
देवं हरामि । गृहाद्बहिर्निष्क्रामयामीत्यर्थः । किमर्थम् । पितृयज्ञाय तदर्थम् । किं कुर्वन् । इमम् इतरं तस्मादन्यं हव्यवाहं जातवेदसं पश्यन् पर्यालोचयन् । तथा सति क्रव्यादात्परोऽग्निः परमे उत्कृष्टे सधस्थे सहस्थाने घर्मं यज्ञम् इन्वात् प्राप्नोतु । पितृभिर्घर्मपैः सहेति शेषः ।। ।। २१ ।।
 
महापितृयज्ञे वषट्कारक्रियायां ' यो अग्निः कव्यवाहनः ' इत्येषा स्विष्टकृतो याज्या । सूत्रितं च-' यो अग्निः कव्यवाहनस्त्वमग्न ईळितो जातवेद इति संयाज्ये ' ( आश्व. श्रौ. २.. १९) इति ।।
 
यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।
 
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥
 
कव्यवाहनः कव्यस्य हविषो वोढा योऽग्निः पितॄन् ऋतावृधः ऋतस्य यज्ञस्योदकस्य वा वर्धयितॄन् सत्येन वृद्धान् वा देवान् । एतत्पितृविशेषणं वास्तु । तान् यक्षत् यजति । यजेर्लेटि सिबडागमः । सोऽग्निः हव्यानि हवींषि प्र वोचतु पितृयज्ञे प्रब्रवीतु । युष्मदर्थं मयानीतानीति । इद् पूरणौ । केभ्यः । देवेभ्यश्च पितृभ्यः च । आकारः समुच्चये ।।
 
महापितृयज्ञे ' उशन्तस्त्वा ' इत्येषा सामिधेनी । सूत्र्यते हि-' उशन्तस्त्वा नि धीमहीत्येता त्रिरनवानं ताः सामिधेन्यः ' ( आश्व. श्रौ. २. १९) इति ।।
 
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒ः समि॑धीमहि ।
 
उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥
 
हे अग्ने उशन्तः कामयमाना वयं त्वा त्वां नि धीमहि कर्मार्थं स्थापितवन्तः । उशन्तः वयं समिधीमहि संदीपयामः । त्वमपि उशन् कामयमानः हविरादिकम् उशतः आगन्तुकामान् पितॄन् अस्मिन् यज्ञे आ वह । किमर्थम् । हविषे अस्माभिः प्रत्तं हविः अत्तवे अत्तुम् । अदेस्तुमर्थे तवेन्प्रत्ययः । ' क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानसंज्ञा ।
 
यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।
 
कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥
 
हे अग्ने त्वं पितृदहनकाले यं देशं समदहः पुरा सम्यग्दग्धवानसि । ' तिङि चोदात्तवति ' इलि समो निघातः । तमु तमेव पुनः निर्वापय । अत्र अस्मिन् देशे कियाम्बु कियत्प्रमाणमुदकं यस्मिन् तत् पुष्करिण्यादिकं रोहतु उत्पद्यताम् । किंच व्यल्कशा विविधशाखा पाकदूर्वा परिपक्वदूर्वा चोत्पद्यताम् ।।
 
अस्थिसंचयने क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं श्मशानायतनं प्रोक्षति ' शीतिके शीतिकावति ' इत्यनया । सूत्रितं च--' क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ' (आ. गृ. ४.५.३) इति ।।
 
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।
 
म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥
 
हे शीतिके शैत्ययुक्ते हे शीतिकावति । शीतिकाः 'शैत्ययुक्ता ओषधयः । ताभिस्तद्वति हे ह्लादिके आह्लादयित्रि हे ह्लादिकावति आह्लादकफलयुक्तैर्वृक्षैस्तद्वति हे पृथिवि मण्डूक्या मण्डूकस्त्रिया वृष्टिप्रियया सु सुष्ठु सं गमः संगच्छस्व । गमेर्लुङि व्यत्ययेन परस्मैपदम् । ततः इमम् अग्निं सु सुष्ठु हर्षय ।। ।। २२ ।। ।। १ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६" इत्यस्माद् प्रतिप्राप्तम्