"ऋग्वेदः सूक्तं ३.३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
}}
{{ऋग्वेदः मण्डल ३}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥१॥
Line ३५ ⟶ ३४:
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
 
</span></poem>
*[[ऋग्वेद:]]
 
</pre>
{{सायणभाष्यम्|
</div>
तिष्ठा हरी इत्येकादशर्चं षष्ठं सूक्तं वैश्वामित्रं त्रैष्टुभमैंद्रं । तिष्ठा हरी इत्यनुक्रमणिका ॥ अग्निष्टुति मरुत्वतीयशस्त्रे निविद्धानं सूक्तं । सूत्रितं च । तिष्ठा हरी यो जात एवेति मध्यंदिनः । आ° ९. ७.। इति ॥ इंद्राग्न्योः कुलायनाम्न्येकाहे ऽप्येतन्मरुत्वतीयनिविद्धानं । सूत्रितं च । तिष्ठा हरी तमु ष्टुहीति मध्यंदिनः । आ° ९. ७.। इति ॥ समूढे दशरात्रे तृतीये छंदोमे मरुत्वतीयशस्त्र एतत्सूक्तं । सूत्रितं च । तिष्ठा हरी प्र मंदिने इमा उ त्वेति मरुत्वतीयं । आ° ८. ७.। इति ॥ अतिरात्रे तृतीये पर्याये होतुः शस्त्रे परिहिते सत्याद्या तिष्ठा हरी इत्येषा शस्त्रयाज्या । सूत्रितं च । विश्वजिते तिष्ठा हरी रथ आ युज्यमानेति याज्या । आ° ६.४.। इति ॥
{{ऋग्वेदः मण्डल ३}}
 
 
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
 
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥
 
तिष्ठ। हरी इति। रथे। आ। युज्यमाना। याहि । वायुः। न। निऽयुतः। नः । अच्छ।
 
पिबासि । अंधः। अभिऽसृष्टः । अस्मे इति । इंद्र। स्वाहा। ररिम । ते। मदाय ॥१॥
 
विश्वामित्रः स्तौति । हे इंद्र रथे स्पंदने युज्यमाना संयुज्यमानौ हरी अश्वावभिलक्ष्य कंचित्कालमा तिष्ठ । तत्र दृष्टांतः । वायुर्नेति । यथा वायू रथे नियुज्यमाना नियुतो वडवा अभिलक्ष्य कंचित्कालं तिष्ठति तद्वत् । अथ रथारूढस्त्वं नोऽस्मानच्छाभिलक्ष्या याहि । शीघ्रमागच्छ। आगत्य चास्मे अस्माभिरभिसृष्टोऽनुज्ञातस्त्वमंधः सोमलक्षणमन्नं पिबासि । पिब । स्वाहा । दत्तश्चायं सोमः । वयं ते तव मदाय हर्षाय स्वाहाकृतमिमं सोमं ररिम । ददाम ॥ अत्र याहि वायुर्न नियुतो नो अच्छेत्यत्र रथेना याहीत्यर्थः । आपश्चित्पिप्युः स्तर्यो न गावः । ऋग्वे° ७. २३. ४.। इत्यत्र तन्न तथेति पदकाले नोत्सृज्यते ॥ तिष्ठ । तिष्ठतेर्लोटि रूपं । तिष्ठादेशस्याद्युदात्तः । याहि । यातेर्लोटि रूपं । हेर्ङित्वादंतोदात्तः । वायुः । वा गतिगंधनयोरित्यस्मात्कृवापेत्यादिना उण्। आतो युक् । प्रत्ययस्वरः । पिबासि । पतिर्लेट्याडागमः। आगमस्यानुदात्तत्वाद्धातुस्वरः । अंधः। अद भक्षणे । अदेर्नुम् धश्चेत्यसुन्नुमागमो धकारश्चांतादेशः । अद्यते प्राणिभिस्तद्वा स्वयमत्तीति । तथा च श्रुतिः । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते । तै° उ°२.२.। इति । नित्स्वरः । अस्मे । सुपां सुलुगिति तृतीयायाः शे इत्यादेशः । ररिम ! रातेर्लिटि रूपं । वाक्यभेदादनिघातः । प्रत्ययस्वरः ॥
 
 
उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
 
द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥
 
उप । अजिरा। पुरुहूताय। सप्ती इति । हरी इति । रथस्य। धूःऽसु। आ। युनज्मि।
 
द्रवत् । यथा । संऽभृतं । विश्वतः। चित् । उप। इमं यज्ञं। आ। वहातः । इंद्रं ॥२॥
 
हे इंद्र पुरुहूताय पुरुभिर्बहुभिर्यजमानैर्यज्ञार्थमाहूताय तुभ्यमजिरा शीघ्रगमनशीलौ सप्ती सर्पणशीलौ हरी हरिनामकावश्वौ रथस्य धूर्षु युगप्रांतेषूपा युनज्मि । अहं तथा योजयामि । द्रवत् स रथो यथा गच्छेत्तथेति शेषः । विश्वतश्चित् सर्वतः संभृतं अग्निर्यजुर्भिः सविता स्तोमैरित्यादियज्ञसंभारैः संपूर्णमिमं यज्ञं प्रतींद्रं त्वामुपा वहातः । तावश्वौ सम्यगावहतां ॥ धूर्षु । धुर्वी हिंसार्थः । क्विप्। राल्लोप इति वकारलोपः ।। र्वोरुपधाया इति दीर्घः। सावेकाच इति विभक्तेरुदात्तता। युनज्मि । युजिर् योगे । रुधादिः । लटि रूपं । निघातः । द्रवत् । द्रु गतावित्यस्य छांदसे लङि रूपं । व्यत्ययेनांतोदात्तत्वं । वहातः । वहेर्लेट्याडागमे रूपं ॥
 
 
उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।
 
ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥
 
उपो इति। नयस्व । वृषणा। तपुःऽपा । उत। ईं। अव । त्वं । वृषभ। स्वधाऽवः।
 
ग्रसेतां। अश्वा । वि। मुच। इह। शोणा। दिवेऽदिवे। सऽदृशीः। अद्धि। धानाः ॥३॥
 
वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इंद्र वृषणा सेचनसमर्थौ तपुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय। शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच। विमुक्तौ तावश्वौ ग्रसेतां । विघसं भक्षयतां । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय ॥ नयस्व । नयतेर्लोटि रूपं । तपुष्पा । पा रक्षणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः सामर्थ्य इति संहितायां विसर्जनीयस्य षत्वं । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपं । स्वधावः । मतुवसोरिति नकारस्य रुत्वं । निघातः । ग्रसेतां । ग्रसु अदन इत्यस्य लोट्यातामि रूपं । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुंचतेर्लोटि रूपं । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समानशब्द उपपदे दृशिर् प्रेक्षण इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ळाणञ् इत्यादिना ङीप् । तस्य पित्वादनुदात्तत्वे धातुस्वरः । अद्धि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छ्पो लुक् । हुझल्भ्यो हेर्धिरिति ध्यादेशः । निघातः । धानाः । डुधाञ् धारणपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥
 
 
चातुर्विंशिकेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा त इत्यारंभणीया। सूत्रितं च । ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनु नेषि विद्वान् । आ° ७. ४.। इति ॥
 
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
 
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥
 
ब्रह्मणा। ते। ब्रह्मऽयुजा। युनज्मि। हरी इति । सखाया। सधऽमादे । आशू इति।
 
स्थिरं। रथं। सुऽखं। इंद्र।अधिऽतिष्ठन्। प्रऽजानन्। विद्वान्।उप। याहि। सोमं ॥४॥
 
हे इंद्र ब्रह्मयुजा ब्रह्मणा मंत्रेण योक्तव्यौ सधमादे । माद्यंति योद्धारोऽत्रेति मादो युद्धं । सहमादः सधमादः । तस्मिन्युद्धे सखाया समान प्रसिद्धी अत एवाशू क्षिप्रगमनोपेतौ ते तव हरी अश्वौ ब्रह्मणा स्तोत्रेण युनज्मि । रथे संयोजयामि । स्थिरं सुदृढं सुखं सुष्ठुद्वारं तादृशं रथमधितिष्ठन् आरूढस्त्वं सोमपानार्थमायाहि । प्रजानन्नित्याद्यगमत् ॥ ब्रह्मयुजा । युजेरौणादिकः कर्मणि क्विप् । युनज्मि । युजेर्लटि रूपं । निघातः । सधमादे। मदी हर्षे । अधिकरणे घञ्। सध मादस्थयोश्छंदसीति सहस्य सधादेशः । कृदुत्तरपदप्रकृतिस्वरः। रथं । अधिशीङ्स्थासां कर्मति कर्मसंज्ञा। सुखं । खनु विदारणे । अन्येभ्योऽपि दृश्यत इति डः । कृदुत्तरस्वरः ॥
 
 
मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ।
 
अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑ ॥
 
मा। ते। हरी इति । वृषणा। वीतऽपृष्ठा । नि। रीरमन्। यज॑मानासः । अन्ये ।
 
अति ऽआयाहि । शश्वतः । वयं । ते। अरं । सुतेभिः । कृणवाम । सोमैः ॥५॥
 
 
तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्छ॑श्वत्त॒मं सु॒मना॑ अ॒स्य पा॑हि ।
 
अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ॥
 
स्ती॒र्णं ते॑ ब॒र्हिः सु॒त इ॑न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् ।
 
तदो॑कसे पुरु॒शाका॑य॒ वृष्णे॑ म॒रुत्व॑ते॒ तुभ्यं॑ रा॒ता ह॒वींषि॑ ॥
 
इ॒मं नर॒ः पर्व॑ता॒स्तुभ्य॒माप॒ः समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
 
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
 
याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
 
तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥
 
इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
 
अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥
 
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
 
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३५" इत्यस्माद् प्रतिप्राप्तम्