"ऋग्वेदः सूक्तं १०.१७२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥१॥
आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥२॥
Line १७ ⟶ १६:
उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥४॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
 
{{सायणभाष्यम्|
* आ याहि' इति चतुर्ऋचमेकविंशं सूक्तमाङ्गिरसस्य संवर्तस्यार्षमुषोदेवताकम् । चतस्रोऽपि विंशतिका द्विपदा विराजः । तथा चानुकान्तम्---* आ याहि संवर्त उषस्यं द्वैपदम्' इति । प्रथमे छन्दोमे वैश्वदेवसूक्तात्पूर्वमिदं सूक्तम् । सूत्रित च--* आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि (आश्व. श्रौ. ८. ७) इति । महाव्रतेऽपि निष्केवल्य एतत् । तथैव पञ्चमारण्यके सूत्रितम्-- आ याहि वनसा सहेति नव समाम्नाताः' (ऐ. आ. ५. २. २) इति ।।
 
 
आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ॥
 
आ। याहि । वनसा । सह । गावः । सचन्त । वर्तनिम् । यत् । ऊधऽभिः ।। १ ।।
 
हे उषः "वनसा वननीयेन तेजसा धनेन वा सार्धम् vआ vयाहि आगच्छ । vगावः उषसो वाहनभूताः vवर्तनिं रथं सचन्त सेवन्ते । अतस्तेन रथेनायाहीत्यर्थः । vयत् या गावः ऊधभिः उपलक्षिताः प्रभूताः । पीना इत्यर्थः । ता गाव इति संबन्धः ॥
 
 
आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥
 
आ। याहि । वस्व्या । धिया । मंहिष्ठः । जारयत्ऽमखः । सुदानुऽभिः ।। २ ।।
 
हे उषः "वस्व्या प्रशस्तया धिया अनुग्रहबुद्ध्या कर्मणा स्तुत्या वा सार्धम् vआ vयाहि आगच्छ । स चोषःकालः सुदानुभिः शोभनदानैर्यातृभिः पुरुषैः vमंहिष्ठः धनानां दातृतमः अत एव जारयन्मखः समापयद्यज्ञश्च भवति ॥
 
 
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒ः प्रति॑ दध्मो॒ यजा॑मसि ॥
 
पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ।। ३ ।।
 
vपितुभृतो न अन्नस्य भर्तार इव "सुदानवः शोभनदाना वयं तन्तुमित् तन्तुं विस्तीर्णमेव vप्रति दध्मः। उषसं प्रत्युपायनरूपेण धारयामः । तेन च यज्ञेन तमुषसं यजामसि ।
 
 
दशमेऽहनि प्रातरनुवाक उषस्ये क्रतौ * उषो भद्रेभिः' इत्यस्याः स्थाने ' उषा अप स्वसुः । इत्येषा। सूत्रितं च-* उषा अप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ' ( आश्व. श्रौ. ८. १२) इति ॥
 
उ॒षा अप॒ स्वसु॒स्तम॒ः सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥
 
उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम्। सुऽजातता ।। ४ ।।
 
इयम् "उषाः स्वसुः भगिन्या रात्रेः संबन्धि तमः अन्धकारम् अप vसं वर्तयति । आत्मीयेन तेजसापगमयति । "सुजातता सुजातत्वमात्मनः सुप्रजातत्वं च "वर्तनिं रथं प्रापयति॥॥३०॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७२" इत्यस्माद् प्रतिप्राप्तम्