"रामायणम्/बालकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''<BR><BR>
 
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६३०६४.००१
लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६३०६४.००१
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता १.०६३०६४.००२
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् १.०६३०६४.००२
अयं सुरपते घोरो विश्वामित्रो महामुनिः १.०६३०६४.००३
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः १.०६३०६४.००३
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि १.०६३०६४.००३
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् १.०६३०६४.००४
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् १.०६३०६४.००४
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे १.०६३०६४.००५
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः १.०६३०६४.००५
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् १.०६३०६४.००६
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् १.०६३०६४.००६
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् १.०६३०६४.००७
लोभयामास ललिता विश्वामित्रं शुचिस्मिता १.०६३०६४.००७
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् १.०६३०६४.००८
संप्रहृष्टेन मनसा तत एनामुदैक्षत १.०६३०६४.००८
अथ तस्य च शब्देन गीतेनाप्रतिमेन च १.०६३०६४.००९
दर्शनेन च रम्भाया मुनिः संदेहमागतः १.०६३०६४.००९
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः १.०६३०६४.०१०
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः १.०६३०६४.०१०
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् १.०६३०६४.०११
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे १.०६३०६४.०११
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः १.०६३०६४.०१२
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् १.०६३०६४.०१२
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः १.०६३०६४.०१३
अशक्नुवन् धारयितुं कोपं संतापमागतः १.०६३०६४.०१३
तस्य शापेन महता रम्भा शैली तदाभवत् १.०६३०६४.०१४
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः १.०६३०६४.०१४
कोपेन स महातेजास्तपोऽपहरणे कृते १.०६३०६४.०१५
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६३०६४.०१५
 
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।<BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६४" इत्यस्माद् प्रतिप्राप्तम्