Content deleted Content added
|
|
== ==
{{टिप्पणी|
अस्य सूक्तस्य ऋषि रेभः काश्यपः एवं छन्दं बृहती अस्ति। गवामयनसंवत्सरसत्रे मध्यममहस्यमध्यमाह्नस्य संज्ञा विषुवत् अह भवति। पृथिव्योपरि या विषुवत् रेखा अस्ति, तस्मिन् भूभागे सूर्यस्य रश्मीनां पतनं ऋजुतमः भवति। अस्य तथ्यस्य विनियोजनं अध्यात्मक्षेत्रे अपि यथावत् अस्ति। विषुवत् अहस्यअह्नस्य कृत्येषु बृहती छन्दः भवति। प्रस्तुते सूक्ते अपि बृहती छन्दः अस्ति, किं अयं संकेतं यत् अयं सूक्तमपि विषुवान् अहस्य भागमस्ति। किन्तु नायं सत्यं। कारणं। उपनिषदेषु चेतनायाः द्विभागौ स्तः - प्राण एवं रयि (आदित्यो ह वै प्राणो रयिरेव चन्द्रमा -प्रश्नोपनिषत् [[प्रश्नोपनिषत्/प्रथमः प्रश्नः|१.५]])। अयं सूक्तं रयितः, चन्द्रमातः सम्बद्धमस्ति। शिवपुराणे [[शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३६|५.३६.२४]] रैभ्य एवं रैवत शब्दयोः एक्यस्य कथनमस्ति। इतेभ्यः परि, तमिन्द्रं जोहवीमि (ऋचा ८.९७.१३) सामवेदे ४६० सामरूपेण प्रकटयति, यस्य ऋषिः प्राकृतगाने रेवत्प्रजापतिः अस्ति। रेवत् अर्थात् रयिवत्। अध्यात्मसाधने चन्द्रमसः मार्गं मंदगत्या आरोहणस्य मार्गमस्ति। अस्य संकेतं सूक्तस्य प्रथमऋचातः अपि प्राप्तं भवति - या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः। हे स्वर्वान् इन्द्र, त्वं असुरेभ्यः सकाशात् यं भोजनं प्राप्तवानसि - -। भोजनस्य यः भागः असुरेषु प्राप्तो भवति, तस्य भोजनस्य प्राप्तिः देवेभ्यः कर्तुं अपेक्षा अस्ति।
ऋषि रूपेण रेभ शब्दस्य उल्लेखतः किमन्यत् ग्रहणं कर्तुं शक्यमस्ति। अथर्ववेदे [[अथर्ववेदः/काण्डं २०/सूक्तम् १२७|२०.१२७.४]] कथनमस्ति - वच्यस्य रेभ वच्यस्व वृक्षे न पक्वे शकुनः । अयं संकेतं यत् रेभस्य स्थित्यां व्यावहारिके जीवने शकुनानां अनुभूतिः भविष्यति।
|