"ऋग्वेदः सूक्तं ८.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२९:
== ==
{{टिप्पणी|
अस्य सूक्तस्य ऋषि रेभः काश्यपः एवं छन्दं बृहती अस्ति। गवामयनसंवत्सरसत्रे मध्यमाह्नस्य संज्ञा विषुवत् अह भवति। पृथिव्योपरि या विषुवत् रेखा अस्ति, तस्मिन् भूभागे सूर्यस्य रश्मीनां पतनं ऋजुतमः भवति। अस्य तथ्यस्य विनियोजनं अध्यात्मक्षेत्रे अपि यथावत् अस्ति। विषुवत् अह्नस्य कृत्येषु बृहती छन्दः भवति। प्रस्तुते सूक्ते अपि बृहती छन्दः अस्ति, किं अयं संकेतं यत् अयं सूक्तमपि विषुवान् अहस्य भागमस्ति। किन्तु नायं सत्यं। कारणं। उपनिषदेषु चेतनायाः द्विभागौ स्तः - प्राणप्राणः एवं रयि (आदित्यो ह वै प्राणो रयिरेव चन्द्रमा -प्रश्नोपनिषत् [[प्रश्नोपनिषत्/प्रथमः प्रश्नः|१.५]])। अयं सूक्तं रयितः, चन्द्रमातः सम्बद्धमस्ति। शिवपुराणे [[शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३६|५.३६.२४]] रैभ्य एवं- रैवत शब्दयोः एक्यस्य कथनमस्ति। इतेभ्यः परि, तमिन्द्रं जोहवीमि (ऋचा ८.९७.१३) सामवेदे ४६० सामरूपेण प्रकटयति, यस्य ऋषिः प्राकृतगाने रेवत्प्रजापतिः अस्ति। रेवत् अर्थात् रयिवत्। अध्यात्मसाधने चन्द्रमसः मार्गं मंदगत्या आरोहणस्य मार्गमस्ति। अस्य संकेतं सूक्तस्य प्रथमऋचातः अपि प्राप्तं भवति - या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः। हे स्वर्वान् इन्द्र, त्वं असुरेभ्यः सकाशात् यं भोजनं प्राप्तवानसि - -। भोजनस्य यः भागः असुरेषु प्राप्तो भवति, तस्य भोजनस्य प्राप्तिः देवेभ्यः कर्तुं अपेक्षा अस्ति।
 
ऋषिऋषिरूपेण रूपेणरेभः रेभ शब्दस्यकाश्यपस्य उल्लेखतः किमन्यत् ग्रहणं कर्तुं शक्यमस्ति। अथर्ववेदे [[अथर्ववेदः/काण्डं २०/सूक्तम् १२७|२०.१२७.४]] कथनमस्ति - वच्यस्य रेभ वच्यस्व वृक्षे न पक्वे शकुनः । अयं संकेतं यत् रेभस्य स्थित्यां व्यावहारिके जीवने शकुनानां अनुभूतिः भविष्यति।भवति। रेभस्य जनने का प्रक्रिया अस्ति। भागवतपुराणे [[श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः ६|६.६.४]] उल्लेखमस्ति यत् धर्मस्य एका भार्या लम्बा अस्ति यस्य पुत्रः विद्योतः एवं पौत्रः स्तनयित्नुरस्ति। एवं प्रकारेण, यदा रेभस्य, शकुनस्य जननं भवति, तत् मेघेषु स्तनयित्नोः रूपमस्ति। ब्रह्माण्डपुराणे [[ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४२|२.३.४२.३४]] लम्बोदरशब्दस्य निरुक्तिः उपलब्धा अस्ति। अनेनानुसारेण, यः भूतं, भविष्यं, वर्तमानं आत्मसात् करोति, सः लम्बोदरः। एवंप्रकारेण, केवलं रेभः, शकुनः पर्याप्तं न भवति, अपितु यदा रेभस्य व्याप्तिः भूते, भविष्ये एवं वर्तमाने भवति, तत् संतोषजनकः अस्ति।
 
चतुर्थ्यां ऋचि उल्लेखमस्ति - यच्छक्रासि परावति यदर्वावति वृत्रहन्। पुराणेषु रैभ्य ऋषेः उल्लेखाः सन्ति ( द्र. [http://vedastudy.tripod.com/pur_index25/pva15.htm पुराणेषु रैभ्यस्य संदर्भाः] )। रैभ्य अर्थात् रेभस्य जननाय उपयुक्तं तन्त्रम्, चेतना। स्कन्द पुराणे ३.१.३३.२५ कथा अस्ति यत् रैभ्यस्य ज्येष्ठः - कनिष्ठः पुत्रौ कस्यचित् राज्ञस्य यज्ञस्य निष्पन्ने रतौ स्तः। केनापि कारणेन ज्येष्ठः पुत्रः परावसुः स्वपितुः रैभ्यस्य हननं करोति। तदा परावसुः स्वं अनुजं अर्वावसुं निर्देशं ददाति यत् त्वं पितुः हननस्य प्रायश्चित्तं कुरु। राज्ञः यज्ञस्य निष्पादनं सः स्वयं करिष्यति। अनुजस्य सामर्थ्यं यज्ञनिष्पादनस्य नास्ति। अयं कथनं चक्षुरुन्मीलकः अस्ति। यथा श्रौतयज्ञे संवत्सरसत्रे अभिजित् - विश्वजितौ अयनौ भवतः, एवंप्रकारेण स्मृतौ परावसु - अर्वावसुः भवतः। जैमिनीये ब्राह्मणे गवामयनसत्रस्य आरम्भे कथनमस्ति यत् यदा सूर्यस्य तेजः अत्यन्तं प्रखरमभवत्, तदा तस्य ये रश्मयः पराः आसन्, तासां शान्त्यै आदित्यस्योपरि सोमस्य स्थापनं क्रियमाणमस्ति। ये अर्वाञ्चः रश्मयः आसन्, तासां शान्त्यर्थं अन्तरिक्षे वायोः प्रवाहं क्रियमाणमस्ति।
द्र. [http://vedastudy.tripod.com/pur_index25/pva15.htm पुराणेषु रैभ्यस्य संदर्भाः]
 
पुराणेषु रैभ्यः गयातीर्थे गत्वा पितॄणां तर्पणादिकं करोति (वराहपुराणम् [[वराहपुराणम्/अध्यायः ००७|७]], लक्ष्मीनारायणसंहिता १.५२७)। तेन सः स्मृतिसर्गस्य, सनकादेः मार्गस्य प्राप्तिं करोति।
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९७" इत्यस्माद् प्रतिप्राप्तम्