"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४०:
तत् । शुश्राव। बृहस्पतिः। कृण्वन् । अंहूरणात् । उरु। वित्तम् । मे। अस्य । रोदसी इति ॥१७॥
 
“कूपेऽवहितः पातितः “त्रितः एतत्संज्ञः ऋषिः “ऊतये रक्षणाय “देवान् “हवते स्तुतिभिराकारयति । यदेतत् त्रितस्याह्वानं बृहस्पतिः बृहतां महतां देवानां रक्षकः एतत्संज्ञो देवः एतत् आह्वानं “शुश्राव श्रुतवान् । किं कुर्वन् । “अंहूरणात् अंहसः पापरूपादस्मात् कूपपातादुन्नीय “उरु विस्तीर्णं शोभनं कृण्वन् कुर्वन् ॥ हवते । ह्वयतेर्लटि ‘ बहुलं छन्दसि' इति संप्रसारणम् । शब्गुणावादेशाः । ऊतये ।' ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । बृहस्पतिः । ‘ तदबृहतोः करपत्योः ' ( पा. सू. ६. १. १५७.ग. ) इति पारस्करादिषु पाठात् सुट्तलोपौ ।' उभे वनस्पत्यादिषु" ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । अंहूरणात् । “अहि गतौ । इदित्वात् नुम् । ‘ स्वर्जिपिञ्ज्यादिभ्य ऊरोलची ' (उ. सू. ४. ५३० ) इति भावे ऊरप्रत्ययः । दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः ( पा. सू. ५. २. १०० )। आङ्पूर्वात् हन्तेर्वा रूपमुन्नेयम् ॥
 
 
Line २४५ ⟶ २४६:
 
उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
 
अरुणः । मा । सकृत् । वृकः । पृथा । यन्तम् । ददर्श । हि ।
 
उत् । जिहीते। निऽचाय्य । तष्टाऽइव । पृष्टिऽआमयी। वित्तम् । मे। अस्य । रोदसी इति ॥ १८॥
 
अरुणवर्णः लोहितवर्णः ."वृकः अरण्यश्वा "सकृत् एकवारं “पथा “यन्तं मार्गेण गच्छन्तं मां “ददर्श “हि दृष्टवान् । हिः पादपूरणः। “निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते उद्गच्छति स्म। तत्र दृष्टान्तः । “तष्टेव “पृष्ट्यामयी। यथा तक्षणजनितपृष्ठक्लेशः तष्टा वर्धकिः तदपनोदनाय ऊर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्यौ मदीयमिदं दुःखं “वित्तं जानीतम् । यद्वा । वृक इति विवृतज्योतिष्कः चन्द्रमाः उच्यते । अरुणः आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन् कालविशेषान् कुर्वन् । तिथिविभागज्ञानस्य चन्द्रगत्यधीनत्वात् । स चन्द्रमाः आकाशमार्गे यन्तं गच्छन्तं नक्षत्रगणं ददर्श । हिरवधारणे। नक्षत्रगणमेव ददर्श न कूपपतितं मामित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत् कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत् पूर्ववत् । अत्र मासकृत् इति यास्कः एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेऽयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्याः अश्विन्याद्यास्तारकाः पुनःपुनर्ददर्श। मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते। ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तान्तं जानीतम् ॥ अत्र निरुक्तं-' वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रान्तज्योतिष्को वा । अरुण आरोचन: मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी' (निरु. ५. २०-२१) इति । सकृत् । एकस्य सकृञ्च' ( पा. सू. ५. ४.१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे'। सृवृभूशुचिमुषिभ्यः कित् ' ( उ. सू. ३. ३२१ ) इति कप्रत्ययः । जिहीते । “ओहाङ गतौ ' । जौहोत्यादिकः । ‘भृञामित्' इति अभ्यासस्य इत्वम् । निचाय्य । 'चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनम्पूर्वे क्त्वो ल्यप्'। पृष्टयामयी। ‘स्पृश संस्पर्शने। 'स्पृश्यतेऽनेनेति स्पृष्टिः । छान्दसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी।।
 
 
Line २५० ⟶ २५७:
 
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
 
एना । आङ्गूषेण । वयम् । इन्द्रऽवन्तः । अभि । स्याम । वृजने । सर्वऽवीराः ।
 
तत् । नः। मित्रः। वरुणः। ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१९॥
 
“एना अनेन “आङ्गूषेण आघोषणयोग्येन स्तोत्रेण हेतुभूतेन “इन्द्रवन्तः अनुग्राहकेणेन्द्रेण युक्ताः “सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सन्तः “वयं वृजने संग्रामे “अभि “ष्याम शत्रूनभिभवेम । “तत् इदमस्मदीयं वचनं मित्रादयः “ममहन्तां पूजयन्तु पालयन्त्वित्यर्थः । उतशब्दो देवतासमुच्चये। अत्र यास्कः-’ आङ्गूषः स्तोम आघोषः । अनेन स्तोमेन वयमिन्द्रवन्तः' (निरु. ५.११) इति । एना । ' द्वितीयाटौःस्वेनः '(पा. सू. २. ४. ३४) इति तृतीयायाम् इदम एनादेशः ।' सुपां सुलुक् ' इति विभक्तेः आजादेशः । चित्स्वरेणान्तोदात्तत्वम्। आङ्गूषेण । आङ्पूर्वात् घुषेः कर्मणि घञ् । आङो ङकारलोपाभावश्छान्दसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिना उत्तरपदान्तोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि' असोरल्लोपः' इति अकारलोपः । ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (पा. सू. ८. ३. ८७ ) इति षत्वम् ॥ ॥ २३ ॥ ॥ १५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्