"ऋग्वेदः सूक्तं १.२८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
नि धेहि गोरधि त्वचि ॥९॥
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘यत्र ग्रावा' इति पञ्चमं सूक्तं नवर्चम् । आदितः षडनुष्टुभः । ' आयजी' इत्याद्यास्तिस्रो गायत्र्यः । आदितश्चतसृणाम् इन्द्रो देवता । ततो द्वे उलूखलदेवत्ये । तदनन्तरभाविन्यौ उलूखलमुसलोभयदेवताके । अन्त्यायाः “ उच्छिष्टम्' इत्यस्याः हरिश्चन्द्राधिषवणचर्मसोमानामन्यतमो देवता । तथा च बृहद्देवतायामुक्तम्-' चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति'( बृहद्दे. ३. १०१ ) इति । तदुक्तमनुक्रमण्याम्-' यत्र ग्रावा नव षळनुष्टुबादि यच्चिद्ध्यौलूखल्यौ परे मौसल्यौ च प्रजापतेर्हरिश्चन्द्रस्यान्त्या चर्मप्रशंसा वा' इति । आद्याश्चतस्रः अञ्जःसवे होमे विनियुक्ताः । पञ्चम्याद्याश्चतस्रः अभिषवे। अन्त्या द्रोणकलशे सोमावनयने । तथा च ब्राह्मणम्-' अथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इत्यथैनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवांचकार' (ऐ. बा. ७. १७) इति ।
 
 
यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र । ग्रावा । पृथुऽबुध्नः । ऊर्ध्वः । भवति । सोतवे ।
 
उलूखलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥ १ ॥
 
हे "इन्द्र "यत्र यस्मिन् अञ्जःसवे कर्मणि "सोतवे अभिषवार्थं "ग्रावा पाषाणः "पृथुबुध्नः स्थूलमूलः “ऊर्ध्वः उन्नतः "भवति तस्मिन् कर्मणि "उलूखलसुतानाम् उलूखलेनाभिषुतानां रसम् “अवेत् स्वकीयत्वेनावगत्यैव "जल्गुलः भक्षय ॥ पृथुबुध्नः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भवति । ‘निपातैर्यद्यदिहन्त ' इति निघातप्रतिषेधः । सोतवे । ' षुञ् अभिषवे'। “ तुमर्थे सेसेन्” ' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । उलूखलसुतानाम् उलूखलेन सुतानाम् । ‘तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । जल्गुलः । ‘गल अदने '। अस्मात् यङो लुकि लोण्मध्यमैकवचने लेटोऽडाटौ ' इति अडागमः । ‘इतश्च लोपः' इति इकारलोपः । उपधाया उत्वं च हलादिशेषाभावश्च पृषोदरादित्वात् ॥
 
 
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र । द्वौऽइव । जघना । अधिऽसवन्या । कृता ।
 
उलूखलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥ २ ॥
 
"यत्र यस्मिन् कर्मणि "अधिषवण्या उभे अधिषवणफलके "द्वाविव "जघना द्वौ जघनप्रदेशाविव । ‘जघनं जङ्घन्यतेः ' (निरु. ९. २०) इति यास्कः । "कृता विस्तीर्णे कृते संपादिते । अन्यत् पूर्ववत् ॥ जघना ।' हन्तेः शरीरावयवे द्वे च' (उ. सु. ५, ७१०) इति हन्धातोः अच् । द्वित्वम् । कर्दमादित्वात् मध्योदात्तः (फि. सू. ५९ )। ' सुपां सुलुक्° ' इति आकारः । अधिषवण्या । ‘षुञ् अभिषवे'। ल्युट् । भवे छन्दसि ' इति यत् ।' उपसर्गात्सुनोति' इति षत्वम् । 'तिस्वरितम्' इति स्वरितः । न च ' यतोऽनावः' इस्याद्युदात्तत्वम् । तत्र हि ‘निष्ठा च द्व्यजनात् ' (पा. सू. ६. १.२०५) इत्यस्य अनुवृत्तेः द्व्यच्कस्यैव तदिति । कृता । पूर्ववत् आकारः ।।
 
 
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र । नारी । अपऽच्यवम् । उपऽच्यवम् । च । शिक्षते ।
 
उलूखलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥ ३ ॥
 
"यत्र यस्मिन् कर्मणि "नारी पत्नी "अपच्यवं शालायाः निर्गमनम् "उपच्यवं "च शालाप्राप्तिं च "शिक्षते अभ्यासं करोति । अन्यत्पूर्ववेत् ॥ अपच्यम् । ‘च्युङ गतौ ।' ऋदोरप्' इति अप् । गुणावादेशौ । थाथादिना (पा. सू. ६. २. १४४ ) उत्तरपदान्तोदात्तस्वम् । एवम् उपच्यवम् । शिक्षते । 'शिक्ष विद्योपादाने' । अदुपदेशात् लसार्वधातुकोनुदात्तत्वे धातुस्वरः। 'निपातैर्यद्यादिहन्त'' इति निघातप्रतिषेधः ॥
 
 
यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व ।
 
उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
 
यत्र । मन्थाम् । विऽबध्नते। रश्मीन् । यमितवैऽइव ।
 
उलूखलऽसुतानाम् । अव । इत् । ऊँ इति । इन्द्र । जल्गुलः ॥ ४ ॥
 
"यत्र यस्मिन् कर्मणि "मन्थाम् आशिरमथनहेतुं मन्थानं विबध्नन्ति । तत्र दृष्टान्तः । "रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् “यमितवाइव नियन्तुमिव । अन्यत् पूर्ववत् ॥ मन्थाम् । 'पथिमथ्यृभुक्षामात्' (पा. सू. ७. १.८५) इति द्वितीयायामपि व्यत्ययेन आत्वम् । प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते ‘पथिमथोः सर्वनामस्थाने ' ( पा. सू. ६. १. १९९) इत्याद्युदात्तत्वम् । यद्वा । मथ्यतेऽनयेति मन्था । मिथि विलोडने ' इत्यस्मात् 'हलश्च' इति करणे घन् । ततः टाप् । ञित्त्वदाद्युदात्तत्वम् । विबध्नते । बन्ध बन्धने' । क्र्यादिभ्यः श्ना'।' अनिदिताम्' इति नलोपे ' आभ्यस्तयोरातः ' इति आकारलोपः । प्रत्ययस्वरः । ‘तिङि चोदात्तवति' इति गतेर्निघातः । यमितवै। ‘यम उपरमे। ‘तुमर्थे सेसेन् ' इति तवैप्रत्ययः । इडागमश्छान्दसः । यद्वा । ण्यन्तात् तवैप्रत्ययस्य इडागमे सति णिलोपश्छान्दसः ।' अन्तश्च तवै युगपत् ' (पा. सू. ६. १. २०० ) इत्याद्यन्तयोरुदात्तत्वम् ॥
 
 
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ ।
 
इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥
 
यत् । चित् । हि । त्वम् । गृहेऽगृहे । उलूखलक । युज्यसे ।
 
इह । द्युमत्तमम् । वद । जयताम्ऽइव । दुन्दुभिः ॥ ५॥
 
हे "उलूखलक "यच्चिद्धि यद्यपि त्वमवघातार्थं "गृहेगृहे "युज्यसे तथापि "इह वैदिके कर्मणि तीवमुसलप्रहारेण "द्युमत्तमम् अतिशयेन दीप्तं प्रभूतध्वनियुक्तं शब्दं "वद । तत्र दृष्टान्तः । "जयतामिव "दुन्दुभिः । यथा युद्धे जयं प्राप्नुवतां राज्ञां दुन्दुभिः महान्तं ध्वनिं करोति तद्वत् । उलूखलशब्दं यास्क एवं व्याख्यातवान्-' उलूखलमुरुकरं वोर्ध्वखं वोर्क्करं वोरु मे कुर्वित्यब्रवीत्तदुलूखलमभवदुरुकरं वै तत्तदुलूखलमित्याचक्षते परोक्षेणेति च ब्राह्मणम् ' ( निरु. ९ २० ) इति ।। उलूखलक। ‘°अपादादौ' इति पर्युदासात् आष्टमिकनिघाताभावे पाष्ठिकमाद्युदात्तत्वम् । युज्यसे । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक्स्वरः शिष्यते । न च ' तिङ्ङतिङः' इति निघातः । ‘निपातैर्यद्यदिहन्त' इति प्रतिषेधात्। द्युमत्तमम् । दीव्यतेर्दीप्त्यर्थस्य संपदादिलक्षणः क्विप् । ‘दिव उत्' ( पा. सू. ६. १. १३१) इति उत्वम् । यणादेशे ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । ननु ‘दिव उत्' इत्यत्र प्रातिपदिकं गृह्यते न धातुरित्युक्तत्वात् अक्षद्यूः इत्यादाविव अत्रापि ऊठा भवितव्यम् ( पा. सू. ६. ४. १९)। एवं तर्हि दीप्तिमत्स्वर्गवाचकेन दिव्प्रातिपदिकेन दीप्तिर्लक्ष्यते इत्युत्वं भविष्यति ॥ ॥ २५ ॥
 
 
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् ।
 
अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
 
उत । स्म । ते । वनस्पते । वातः । वि । वाति । अग्रम् । इत् ।
अथो इति । इन्द्राय । पातवे । सुनु । सोमम् । उलूखल ।। ६ ।।
 
“उत अपि च हे “वनस्पते उलूखलरूप वृक्ष "ते अग्रमित् तव पुरत एवं “वातो “वि “वाति स्म । त्वरोपेतमुसलप्रहारैर्वायुर्विशेषेण प्रसरति खलु । अथो अनन्तरं हे "उलूखल "इन्द्राय इन्द्रोपकारार्थं "पातवे पातुं "सोमं "सुनु सोमाभिषवं कुरु ॥ वनस्पते । पारस्करादित्वात् सुट् । कार्ये कारणशब्दः । पातवे । 'पा पाने '। तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः । ‘ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । सुनु । ' उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्लक्। विकरणस्वरेणान्तोदात्तत्वम् । पादादिवादनिघातः । उलूखल । उर्ध्वं खम् अस्य इति उलूखलः । पृषोदरादिः ॥
 
 
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः ।
 
हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
 
आयजी इत्याऽयजी । वाजऽसातमा । ता । हि । उच्चा । विऽजर्भृतः ।
हरी इवेति हरीऽइव । अन्धांसि । बप्सता ॥ ७ ॥
 
ये उलूखलमुसले "आयजी सर्वतो यज्ञसाधने "वाजसातमा अतिशयेन अन्नप्रदे “ता “हि ते खलु "उच्चा प्रौढध्वनिर्यथा भवति तथा “विजर्भृतः विशेषेण पुनःपुनर्विहारं कुरुतः । तत्र दृष्टान्तः । "अन्धांसि अन्नानि चणकादीनि खाद्यानि “बप्सता भक्षयन्तौ "हरीइव इन्द्रस्याश्वाविव । अत्र यास्क एवं व्याचख्यौ-आयजी आयष्टव्ये अन्नानां संभक्तृतमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुञ्जाने' (निरु. ९. ३६) इति ॥ आयजी। यजेः औणादिकः करणे इप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजसातमा । वाजं सनोतीति वाजसाः ।' षणु दाने '। जनसन' इत्यादिना विट्प्रत्ययः । ‘विड्वनोरनुनासिक
स्यात्' इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः । विजर्भृतः । “हृञ् हरणे' । अस्मात् यङ्लुकि अभ्यासहलादिशेषोरत्जश्त्वेषु कृतेषु ‘रुग्रिकौ च लुकि' ( पा. सू. ७. ४. ९१ ) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिटि द्विवचनं तस् ।' अदादिवच्च' इति वचनात् शपो लुक् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । प्रत्ययस्वरः । ‘हि च ' इति निघातप्रतिषेधः । बप्सता । ‘भस भक्षणदीप्त्योः '। लटः शतृ । ‘जुहोत्यादिभ्यः श्लुः ' । 'घसिभसोर्हलि च' (पा. सू. ६. ४. १००) इति उपधालोपः । नाभ्यस्ताच्छतुः ' ( पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः ।“ अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।
 
 
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑ः सो॒तृभि॑ः ।
 
इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
 
ता। नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृऽभिः ।
 
इन्द्राय । मधुऽमत् । सुतम् ॥८॥
 
"अद्य अस्मिन् कर्मणि हे "वनस्पती उलूखलमुसलरूपौ तौ युवाम् 'ऋष्वेभिः दर्शनीयैः "सोतृभिः अभिषवहेतुभिः सह “ऋष्वौ दर्शनीयौ भूत्वा "इन्द्राय इन्द्रार्थं "मधुमत् माधुर्योपेतं सोमद्रव्यं "नः अस्मदीयं "सुतं अभिषुणुतम् ॥ ता । ‘सुपां सुलुक्' इति आकारः । नो अद्य । ' प्रकृत्यान्तःपादम्” ' इति प्रकृतिभावः । वनस्पती । उभयपदप्रकृतिस्वरे प्राप्ते आमन्त्रितस्य ' इति सर्वानुदात्तत्वम् । ‘प्लुतप्रगृह्या अचि'' (पा. सू. ६. १. १२५) इति प्रकृतिभावः । सुतम् । ' षुञ् अभिषवे'। ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥ ।
 
 
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
 
नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
 
उत्। शिष्टम् । चम्वोः । भर। सोमम् । पवित्रे। आ । सृज ।
 
नि। धेहि। गोः । अधि। त्वचि ॥९॥
 
हे ऋत्विग्विशेष हरिश्चन्द्रदेवतापक्षे हे हरिश्चन्द्र इति वा "चम्वोः सोमस्य भक्षत्वसंपादकयोः अधिषवणफलकयोः "शिष्टम् अभिषवराहित्येन अवशिष्टं सोमम् "उत् "भर शकटस्योपरि हर । "सोमम् अभिषुतं सोमं "पवित्रे दशापवित्रे आ "सृज आनीय प्रक्षिप। प्रक्षेपे सति अवशिष्टं सोमं "गोः "त्वचि आनडुहे चर्मणि "अधि “नि “धेहि अध्यारोप्य स्थापय ॥ चम्वोः । ‘चमु अदने' । चम्यते भक्ष्यतेऽत्रेति चमूः । ‘कृपिचमि' ( उ. सू. १.८१ ) इत्यादिना औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्य ‘उदात्तस्वरितयोर्यणः स्वरितः' इति स्वरितत्वम् । ‘उदात्तयणो हल्पूर्वात्' इति व्यत्ययेन न भवति । भर । ' हृग्रहोर्भः' । धेहि । ध्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९ ) इति एत्वाभ्यासलोपौ । निघातः । त्वचि । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥ ॥ २६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२८" इत्यस्माद् प्रतिप्राप्तम्