"जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">
<span style="font-size: 14pt; line-height: 200%">अथैत ऋतुष्टोमाः। ऋतवो वा अकामयन्त समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीमहि, पुनर्नवाः पुनर्नवा स्यामेति। त एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। स वसन्तः प्रथमो ऽयजत। स एतेनायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य। अथ शिशिर ऐक्षत - येनैवेमे पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। स एतेनैवायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य॥2.211॥
 
शश्वद् धैषाम् एष एवर्द्धतमः। एतं ह्य् एव प्राप्य गोर् अश्वस्य पुरुषस्यैतम् एव रूपम् अभ्यवैति। तद् एतद् अनन्तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवतां जयति। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीय पुनर्नवः पुनर्नव स्याम् इति स एतैर् यजेत। स वसन्ते प्रथमेन यजेत। स एताम् एवर्द्धिम् ऋध्नोति एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा वसन्तस्य। ग्रीष्मे द्वितीयेन यजेत। वर्षासु तृतीयेन यजेत। शरदि चतुर्थेन यजेत। हेमन् पञ्चमेन यजेत। शिशिरे षष्ठेन यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा शिशिरस्य॥2.212॥
Line १० ⟶ ११:
 
त उ वै पंच पंचविंशा भवन्ति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्र इमा एव ताश् चतस्रो दिशः। अथ या पञ्च पंचविंशीयम् एव सोर्ध्वा दिक्। दिशो ह वै दिवं दुह्रे, द्यौर् वा दिशो दुहे। प्र ह वै दिशां च दिवश् च दोहम् आप्नोति य एवं वेद। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयां प्रतितिष्ठेयम् अनन्तं स्वर्गं लोकं जयेयम् इति स एतैर् यजेत। स ह महद् एवाभि देवयजनं जोषयेत। तत् पंच शालाः कर्तवै ब्रूयाद् इहैकाम् इहैकाम् इहैकाम् इहैकां मध्य एकाम्। सो ऽनेन रथन्तरसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतां प्रतिष्ष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति। अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एताम प्रतिष्ठाम् एतम् अनन्तं स्वर्गं लोकं जयति एताम् एव दिशम् अप्येति। स ह दिशाम् एवैको भवति दिश एवाप्येति। तस्यैषो ऽनन्त स्वर्गो लोको जितो भवति । य एष दिशां तेषु यानि दिङ्निधनानि यानि विण्णिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै॥2.216॥
 
[[File:सप्तर्षि saptarshi.png|thumb|सप्तर्षि saptarshi]]
 
अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण. ते ऽकामयन्त - प्रजा अस्मिन् लोके विदाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत अग्र्या मे मुख्या प्रजा स्याद् इति। स एतं त्रिवृतं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। अग्रं वै मुखं त्रिवृत् स्तोमानाम्। ततो वै तस्याग्र्या मुख्या प्रजाभवत्। त एते अप्य् एतर्हि वसिष्ठाः कुरुष्व अग्र्याश् चैव मुख्याश् च मन्यन्ते। अग्र्यो मुख्यो भवति य एवं वेद। अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति। स एतं पञ्चदशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। ओजो वै बलं पञ्चदश स्तोमानाम्। ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत्। अपि ह स्म तेन पथा पुरा कुरवो न यन्ति येन भरद्वाजा ययुः। अथो ह स्मोत्क्रोशन्ति भारद्वाजबलम् इति। तस्माद् उ भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत्। ओजिष्ठो बलिष्ठो भवति य एवं वेद॥2.217॥
Line १९ ⟶ २०:
 
तद् उ वावागस्त्यः पश्चेवानुबुबुध - ऋषयो ह वा इमे प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अग्मन्न् इति। सो ऽकामयताहम् अपि प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छेयम् इति। स एतं षोडशं स्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। स्वर्गो लोकष् षोडश स्तोमानाम्। ततो वै स प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अन्वगच्छत्। प्रजाम् एवास्मिन् लोके विधाय स्वर्गं लोकम् अनुगच्छति य एवं वेद। तस्माद् यद् आगस्त्यो ब्राह्मणान् प्राप्नोत्य् अनुचर इवैव भवति। अनुचर इव ह्य् एष स्तोमानां यत् षोडशः। तस्माद् व् अगस्तयो बहिर्धेव कुरुपाञ्चालेभ्यः। बहिर्धेव ह्य् एष स्तोमेभ्यो यत् षोडशः॥2.220॥
 
 
</span>
[[File:सप्तर्षि saptarshi.png|thumb|सप्तर्षि saptarshi]]