"जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
अथैत ऋतुष्टोमाः। ऋतवो वा अकामयन्त समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीमहि, पुनर्नवाः पुनर्नवा स्यामेति। त एतान् यज्ञान् अपश्यन्। तान् आहरन्त। तैर् अयजन्त। स वसन्तः प्रथमो ऽयजत। स एतेनायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य। अथ शिशिर ऐक्षत - येनैवेमे पूर्वा इष्ट्वारात्सुस् तेनो एवाहं यजा इति। स एतेनैवायजत। स एताम् एवर्द्धिम् आर्ध्नोद् एतद् अन्नाद्यम् अवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य॥2.211॥
 
शश्वद् धैषाम् एष एवर्द्धतमः। एतं ह्य् एव प्राप्य गोर् अश्वस्य पुरुषस्यैतम् एव रूपम् अभ्यवैति। तद् एतद् अनन्तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवतां जयति। स यः कामयेत समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयामावान्नाद्यं रुन्धीय पुनर्नवः पुनर्नव स्याम् इति स एतैर् यजेत। स वसन्ते प्रथमेन यजेत। स एताम् एवर्द्धिम् ऋध्नोति एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा वसन्तस्य। ग्रीष्मे द्वितीयेन यजेत। वर्षासु तृतीयेन यजेत। शरदि चतुर्थेन यजेत। हेमन् पञ्चमेन यजेत। शिशिरे षष्ठेन यजेत। स एताम् एवर्द्धिम् ऋध्नोत्य् एतद् अन्नाद्यम् अवरुन्द्ध एतां पुनर्नवतां यैषा शिशिरस्य॥2.212॥
 
स हर्तूनाम् एवैको भवति। ऋतून् एवाप्येत्य् अक्षय्यं हास्याव्यवच्छिन्नं सुकृतं भवति। पुनर्नवो हैव सुकृतेनाप्यायमान एति। ते पञ्च स्तोत्र्या भवन्ति। यः पांक्तो यज्ञो, ये पांक्ताः पशवो, यत् पांक्तम् अन्नाद्यं, ये पंचर्तवो, यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। तेषाम् उ एकैकस्य षष्टि षष्टि स्तोत्र्या भवन्ति। तावतीर् ऋतो रात्रयः। तेनर्तून् नातिष्टुवन्ति। तेषाम् उ सर्वेषां त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति। तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुः - पृष्ठान्य् एवोपेत्यानीति। पृष्ठाद् वाव पृष्ठम् उपेयात्। पृष्ठानि ह्य् ऋतव इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामाथ रेवतीसामोत्तम स्याद् इति। तद् उ वा आहुर् दीक्षोपसद्भिस्सुत्यायै पृष्ठानि व्यवच्छिद्येरन्। यद् एवं कुर्युर् दूरे दूर इव वै पृष्ठान्य् उपयन्ति। पृष्ठं वाव पृष्ठम् अभिवोढुम् अर्हति। उपजो वा एषा बृहद्रथन्तरयोर् यद् एतानि सामानि। बृहद्रथन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ। तस्माद् बृहद्रथन्तराभ्याम् एव स्युर् इति। स रथन्तरसामैव प्रथम स्याद् अथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामोत्तम स्याद् इति। तेषु यान्य् ऋतुनिधनानि यान्य् ऋतुनिधनानि सामानि तान्य् अवकल्पयन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै॥2.213॥