"वास्तुसूत्रोपनिषत्/षष्ठः प्रपाठकः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ४:
191
षष्ठ: प्रपाठक:
अथाथर्वणाङ्गिरसशिल्पकाश्यपादय उपेत्य पिप्पलादमाश्रमे पप्रच्छुः, भगवन्तः कुतो ह वा रूपे भेदः सञ्जायत इति श्रोष्यामः श्रेयः । तान्। ह स पिप्पलादो होवाच, इयं
सा धारणा सृष्टिः । सौम्यपिप्पलादः सुप्रसन्नं इदं वव्रे , यथा प्रजाकामो वै प्रजापतिः स तपोऽतप्यत, स तपस्तप्त्वा मिथुनमुदपादयत्,' रयिञ्च प्राणञ्चेति, एतौ मे बहुधा प्रजाः करिष्यत इति पूर्वे प्रश्ने मयोक्तम् । तथा कामचारिणः सुखं कामयन्ते । सुखमसीमं तत् सुखचक्रे
स हि द्विधा, तद्भेदात्’ प्रतिरूपाणि कल्पयन्तीति वादः । अथ हैनमाथर्वणाङ्गिरसादयस्त्रयःः श्रोतारः पप्रच्छुः, भगवन्त: रूपाकले केनोपायेन ब्राह्मणा दैवेऽन्यसन्धामारोपयन्ति । कथं न्यसन्ति । ततः षोडशकलपिप्पलादपुरुषो होवाच शृणुतामृतस्य पुत्राः । -
न्यासोऽलङ्कारमुद्राऽऽयुधबाध्रकक्ष वाहनोपदेवारिस्तुवक क्रमेण रूपनवाङ्गमिति ध्येयम् ।।६.४।।
--------------------------------
पङ्क्तिः ३३:
उष्णीषमस्तकाः कारुकाराः शैलक्षेत्रे दैवभावे रेखाः वज्रचूर्णेन लिखन्ति ।
ऊर्ध्वरेखा अग्निरेखा: यथा शिखा उत्थिता प्रज्वलति । पार्श्वगा रेखा अपछेदा यथा नदीनां प्रवाहः । कर्णक्षेत्रगा भेनकारेखा मारुतच्छेदा मारुतस्य तिर्यग्गतिरिव , उदाहृतरेखया शैलक्षेत्रे पञ्जराख्यं कोष्ठककर्माऽऽचरेत् । एष कोष्ठकः: अग्न्यम्मारुतरेखासमष्ट्या संयोगेन सम्भवति ।
शैलगुहायां भित्तैौ सूक्ष्मकोष्ठकरचने आकलान्युपलभ्यन्ते सुखेन । यथा षोडशकलो1 वै पुरुषः षोडशांशैः पूर्णो भवति तथा –
वज्रचूर्णेन सह तत्क्षेत्रे शलघूर्णिकया वृत्तमेकं रचय मर्मलाभार्थम् । स नेमिः ब्रह्माभास इति । रूपे तद् विलं प्राणविलम् ।
तन्मर्मणाऽङ्गभावः प्रसरति ।
[[सञ्चिका:कोष्ठक.jpg|लघुत्तम|कोष्ठकः]]
कोणचतुष्टयावलम्बनेन नेम्या सह कोणवर्गं कर्तय। कर्तितकोष्ठके ऊर्ध्वदेशस्य क्षेत्रद्वये यज्ञगन्धर्वानप्सरसादीन् खोदय। अधःस्थं तदनुपातय। क्षेत्रद्वयं स्तुवकक्षेत्रम्। उभयकोणे मानवोपसकं रचय। अधोमध्यस्थले
पङ्क्तिः ६१:
०पार्श्वे, ग ।
---------------------------------------
कोष्ठकौ द्वौ जीवक्षेत्रं दैववाहनार्थम् । मध्यस्थाश्चत्वारः कोष्ठकाः ब्रह्मक्षेत्रम् ।
तत्रार्चारूपस्याङ्गनिर्णयः । अधोर्ध्वावधि तुङ्गाङ्गपर्यन्तमापादशीर्षमाचर | ब्रह्मक्षेत्रस्य वामदक्षिणस्थं क्षेत्रचतुष्टयं जायाक्षेत्रम्।
पार्थिवाङ्गं जैवाङ्गं प्राणाङ्गं देवताङ्गमिति । पादान्ताद् गुल्फपर्यन्तं पार्थिवाङ्गम्२ गुल्फान्नाभिपर्यन्तं जैवाङ्गम्३ नाभेः कण्ठावधि प्राणाङ्गम्४, कण्ठाद् ब्रह्मरन्धपर्यन्तं द्योतङ्गम्५ । तन्मूर्तितारकममूर्तितारकमिव६ । यथापूर्वं वेदेनोक्तम ।
पङ्क्तिः ७२:
वरदव्याख्यानकरसंयुतः स्वस्तिमुच्चार्य्य, सौम्यः पिप्पलादो होवाच । आशृणुत शिल्पर्षयो बिन्दुसन्धामादौ ।
रूपकोष्ठकान्तराले बिन्दुर्द्विधा । ब्रह्मबिन्दुर्मध्यबिन्दुर्ब्रह्मेव । ऊर्ध्वमध्यग: सत्याख्यबिन्दु: दौ विशिष्टौ ।
यथाऽऽदिपुरुषस्य नाभेः प्रजापतिः स्रष्टा सृजति प्रजाः । ब्रह्मजज्ञानं प्रथमं पुरस्तात् यथा जनन्या नाभितन्तोनालतन्त्ववधारणे मातृकोषे भ्रूण उपजायते लोकसृष्टौ, तथा रूपे ।
पङ्क्तिः ९२:
194
तस्योर्ध्वबिन्दुः सत्यबिन्दुः । भ्रुवोर्मध्ये हिरण्मयेन पात्रेण ब्रह्मरसो विद्यते । तद्रसाद् ज्ञानं प्रसरति जीवे । तथा रूपाकले तद् बिन्द्ववलम्बनेन रूपाङ्गवैभवं कल्पयन्ति स्थापका इति । पुरुषी रूपार्थं ब्रह्मकीलस्य त्रिभागानां मध्ये मर्मार्थं बिन्दुं चिन्तयेत्, येनोपायेन रूपाणि सुभागानि भवन्ति, सिद्धिं प्रददति । लोकाः प्रहृष्टा भवन्तीति ।
अथ शृणुत श्रोतारः अलङ्करणन्यासम् ।
तद्भूषणात् प्रेक्षाभावः प्रसरति, याजका प्रहसन्ति । बहुधा भूषणं ग्राह्यम् । उष्णीषम्, राज्ञां त्रिवलिकिरीटम केशग्रन्थिम् ऋषीणां जटाम्, कर्णे नागकडारम्, लोलम्, प्रवर्तम्, वलयम, पैण्डं कुम्भं च रचय । कण्ठार्थं कुशच्छन्दः, स्वर्णनिस्पम्, रज्जुयुगलमिति, कट्यां मेखलाग्रन्थिम्, वस्त्रमाजानुलुलितम् । ऋषीणां कृष्णसारचर्मसूत्रम्, नारीणामङ्घ्रौ पञ्चवलयम, करे व्यालच्छदः, करतले रेखादीन्, दैवपक्षे शङ्खपद्मादिनिधिलक्षणं निधेहि । इन्द्रार्थं वपूष्णीषम््, पशुपत्यर्थं विष्कचर्म, व्यालोत्तरीयादि दैवभूषणं रचयेति । अलङ्कारदर्शनान्मानुषाः सर्वे प्रमुदिता भवन्ति ।
रत्यास्तद्दर्शनं भवति । स एष रूपप्रज्ञया9 ब्रह्मसाक्षात्कार10 आनन्दमिति एवं वेदे।
शृणु रूपबोधे मुद्राङ्गसन्धाः । यज्ञकर्मणि दैवाङ्गे च यथा यज्ञकृत्ये’ होद्गीथाः करान् गाथाभिः सह प्रदर्शयन्ति प्रसारयन्ति सा मुद्रा । यज्ञस्य साधनमिति ।
पङ्क्तिः १२६:
अथ श्रुणुत शिल्पाध्येतारः शिल्पे११ बाध्रसन्धाम् ।
बाध्रमित्यायुधम्१२ । सर्वं तनुवत् । कौणपान प्रति देवाः क्षिपन्ति । तदाऽऽयुधस्थ मन्त्रबीजानि१३ ध्येयानि । मन्त्रहीनायुधं लोष्ट्रं भवति । तथा खोदनेऽपि मन्त्रम्14 उच्चारयन्ति स्थापकाः । तथाऽऽयुधस्य द्वादश बीजानि जानन्ति मन्त्रिणः । मन्त्रस्य सूक्ष्मनादो बीजमिति । तद्योगेन मन्त्रक्रिया प्रकटी भवति ।
इन्द्रस्यायुध वज्रः । ॐ वं वज्राय, वं बीजेन प्रोक्षन्ति सा संहारशक्तिरिति१५ । मरुतस्यायुधं ध्वजः । ॐ ध ध्वजाय, धंबीजेन प्रोक्षन्ति ।
------------------------------------------------------------------------------------
११.कौषीतकिब्राह्मणे कलाविद्येत्युक्तम् ।
१२.अथर्ववेदे ( ६. १३३.२) मेखलाबन्धनप्रसङ्गे उक्तम आहुतास्यभिहुते ऋषीणामस्यायुधम् इति । परामित्रान्दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन्ये संग्रामस्येशते । अथर्व ०५. २१. ७ ( ग)
१३.आथर्वणीये आसुरकल्पे बीजमन्त्रस्य प्रयोग उक्तः ।
पङ्क्तिः १४७:
अथ वास्तूद्गीथान् प्रति कक्षासन्धां सौम्याननो वव्रे ( पिप्पलादः) ।
आसन रूपस्य कृत्यं प्रकाशयति देहस्याकृतिः प्रकेतनमिति । उत्सर्गा चासीनः चेति भेदेन द्वे मुख्य इति । रूपाकले या उत्थितास्ता१८ उत्सर्गाः । रूपभेदे या आसीनास्ता आसिका इति ज्ञेयम् । यथा यज्ञे यज्ञकर्मणि तथा रूपप्रयोगे ग्रावणि च ।
पङ्क्तिः १६६:
शृणुत प्रियङ्करश्रोतारः, रूपाकले दैववाहनस्य१९ सन्धाः । वाहनानि रूपस्य गुणान् प्रकाशयन्ति विज्ञापयन्ति ।
सत्त्वात् सात्त्विकानि रजसो राजसानि तमसस्तामसानीति भेदाः । यानि रूपाणि सायुज्यं प्रददति तानि सात्त्विकरूपाणि । यानि कायसुखप्रदायकानि तानि राजसानि । यानि रूपाण्यरिं प्रति मृत्युप्रदानि तानि तामसानि२० । गुणानुक्रमेण वास्तुवेदस्य रूपविद्या इति व्याख्यानम् । य एनां वेद । शृणु वाहनस्वरूपम्-
यथा इन्द्रो२१ दिग्गजानाकर्षति । पर्जन्यं वर्षयति । तथाऽऽकर्षणात्मकम् ऐरावतमारोहति । यथा यमो जीवस्य प्राणानाकर्षति, तथा घोरमहिषम्२२ आरोहति । यथा वैश्वानरो याज्ञिकैर्दीप्तो भवति, तथा मेषम्२३ आरोहति । यथा एकायने सविता भ्रमति सप्ततन्तुस्तथैकरथाङ्गाढ्यरथम्२४ आरोहति ।
पङ्क्तिः १९१:
वाहनानि षोडशकोष्ठके जैवक्षेत्रे ध्येयानि । रूपे ब्रह्मक्षेत्रस्य निम्ने. अधोऽन्यच्च श्रेयः । आशृणु उपदैवतस्य२९ सन्धाः । सौम्य पिप्पलादो वव्रे ।
प्रजापतेरेते सर्वे देवा इमानि पञ्च महाभूतानि तद्गुणा पृथिवीवाय्वाकाशाब्ज्योतिरित्येतानि जायन्त इति । तद्भूत ज्ञानात् स्वस्वगुणभावरूप इव प्रचक्षते । तद्भूतज्ञानादुपदैवतभावाः सन्ति ।
पङ्क्तिः १९९:
२६. हंसेति शब्दार्थः सर्वेषु देहेषु व्याप्तो वर्तते इति हंसोपनिषदि उक्तम् ।
२७.द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते इति । ऋ०. १. १६४.२० अथर्व० ९.९.२० ।
२८.एना व्याघ्र परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय इति । अथर्व० ४. ८.७ ।
२९.वास्तुवेदे इदमुपदैवतं प्रतिरूपमित्यर्थः । प्रतिरूपं शतपथब्राह्मणे एकादशकाण्डे उक्तम्। तेषां चर्य्या जैमिनयिब्राह्मणे-प्रत्यङ्गं ह्येष सर्वाणि रूपाणि य आदित्यः स प्रतिरूपमित्युक्तः ३०.वैश्वानरो वै सर्वेऽग्नय इति शतपथे उक्तम् । ३१. असौ वैश्वानरो योऽ सौ तपति ( पचति) इति शतपथे ।
३२.पुरुषे येनेदमन्नं पच्यते इति शतपथे उक्तम् ।
Line २१८ ⟶ २२०:
------------------------------------------------
199
साऽ ऽ वेशिनी शक्तिरुषा३९ । विष्णोर्मुक्तिप्रदा श्रीशक्तिः४० हिरण्यवर्णा हरिणी धारिणी शक्तिः पृथिवी४१ । शेषस्य सहना शक्तिः शक्तिः धृतिर्व्यापिनी विधृतिः यथा क्षमाऽन्नधृतिरिति । विधृतिः सौख्यमिति। हिरण्यगर्भस्य कालात्मिका० शक्तिः । गायत्री ज्ञानरूपा, सावित्री४३ मेधारूपा. सरस्वती४४ प्रज्ञारूपा देवी विशिष्टा त्रिकालरूपा च । राष्ट्रया४५ रुद्रेति० । तस्य प्रजननशक्तिरम्बा४६▼
▲विष्णोर्मुक्तिप्रदा श्रीशक्तिः४० हिरण्यवर्णा हरिणी धारिणी शक्तिः पृथिवी४१ । शेषस्य सहना शक्तिः शक्तिः धृतिर्व्यापिनी विधृतिः यथा क्षमाऽन्नधृतिरिति । विधृतिः सौख्यमिति। हिरण्यगर्भस्य कालात्मिका० शक्तिः । गायत्री ज्ञानरूपा, सावित्री४३ मेधारूपा. सरस्वती४४ प्रज्ञारूपा देवी विशिष्टा त्रिकालरूपा च ।
▲राष्ट्रया४५ रुद्रेति० । तस्य प्रजननशक्तिरम्बा४६ऽम्बालिका४७ चेति द्वे । दुर्गाया रक्षणशक्तिः सुन्दरी मोहिनी चेति द्वे आकर्षणरूपे । एतत्क्रमे दैवगुणस्यानुकमे उपदैवतानि जायाभावेन जायन्ते । तदेतल्लक्षणानि ।
अथ प्रतिकीर्णमाथर्वणाङ्गिरसशिल्पकाश्यप कुवित्स - कोशलादयः प्रणम्य पप्रच्छुः भगवन्तः पिप्पलादा दिव्यपुरुषाः कथं का हेतय इत्यबोध्यमिति विशदेन ब्रुवन्तु सौम्याः । दिव्यपुरुषपिप्पलादो वव्रे । शिल्पोद्गीथाः शृणुत वक्ष्यामो विस्तरेण अपसार्थममुथ उपरूपाकलस्यानुशासनं पूर्वं वेदेन यथोक्तम ।
प्रजापतिरसृजत् कालम । दक्षिणोत्तरौ द्वौ । उत्तराद्देवा दक्षिणात् पितरः । उत्तरात्सविता दक्षिणाच्चन्द्रमाः । प्रतिकाममृषयो दक्षिणं प्रतिपादयन्ति । तत् पितृयानं रात्रिरिति । ब्रह्मचारिणो मोक्षकामा उत्तर प्रतिपादयन्ति । तद्धि देवयानं दिवम । दक्षिणादर्यमलोकाः पञ्चपादपितरः४८ । उत्तराद्द्वादशाकृतिदिवमाहुः । एतन्न्याये गुणेनैकं ब्रह्म द्वादशधा भवति । तथा हि सूर्यो ज्योतिषां पतिरिति गुणानुसूतेर्देवस्तल्लक्षणानुसूते रूपाणि, ततः प्रतिरूपाणि जायन्ते । एतत्सत्यम् ।
Line २४८ ⟶ २४९:
यथा श्रुतिरिति महती । सा मेधारूपेण भारती सम्भवति । मेधाया यथा वाणी प्रभवति तथा श्रुतेर्महती महीयसी सरस्वती५२ जायते पराविद्याया रूपा । तत्तदाकारात्मिकाः पुष्टिभावेन लक्ष्मीदेवहूत्यादयः । एताः सर्वाः षोडशक्षेत्रस्थ द्विपार्श्वे दैवक्षेत्रे तत्तद्रूपस्य जायाभावेनोपदेवतानीति सत्यं ध्येयम् - रूपकारा वास्तूद्गीथाः ।
सपर्यया भूतविद्याः५३ प्रशम्यन्ति ।
अथ रूपधारायाः शृणु वृत्तिभेदान् । यथा वृत्त्याः परिणामः । प्राजापत्य प्रथम - वृत्तिर्मनः५४ । मनसो वृत्तिः प्राणः५५ । प्राणस्य वृत्तिः क्रिया । क्रिया० हि विद्या५६ । सा द्विविधा कथयन्ति ऋषयः । सदसद्विद्येयम । या ऋतस्य धारा सा दैवक्रिया । सा परा विद्या । या अनृता सा अक्रिया । सा अदैवा अपरेति । तदपराज्ञानादसुराः । अहर्देवा आश्रयन्ते रात्रिमसुराः५७ ।
Line २७३ ⟶ २७४:
येषां भयशोकाः सन्ति, यथा निकन्दिनः०, कण्वजम्भाः, यातुधानाः, पृश्निपर्ण्यादयोऽवयोनयो गुणानुभेदेनैते सर्वेऽन्यार्थघातकाः सर्वेऽ रिणो देवे च लोके यज्ञं घातयन्ति । एते सर्वे शलभक्षका बीभत्सरूपाः कोकमुखा रुक्षग्रीवाः शिमिजाः५८ । सर्वे वैराज्यकिम्पुरुषाः क्रुधा दैवघातकाः । एतानरीन् षोडशकोष्ठकरूपक्षेत्रे मर्दितरूपेण जैवक्षेत्रे आचरन्ति प्रतिरूपचर्यायाम । एते शलभक्षिणो देवानां भयदा भवन्ति । एतैस्तेषां दुःखम । यज्ञात् तरन्ति । एतदर्थं केचिद्वा ऋषीन् ध्यायन्ति देवाः । देवयजनान्मुनयो मनस्विनो भवन्ति । दैवभावेन देवार्थं होतारोऽन्नसमिधः क्षिपन्ति वैश्वानरे । ऋषयः स्तोतारो भवन्ति ।
गाथाः६० पठन्ति । जना यजन्ति बहुधा रूपं सर्वक्रियाधारः मनुष्यलोके रूपविद्या । नादः सत्यमिति ध्येयम । रूपं चरन्ति वास्तुवेदिनः स्थापका वास्तूद्गीथाः । स्तोतॄणां बहुधा पैलो नालन्दिनोऽप्सरसो देवान् मोदयन्ति मोदकाः ।
Line २७९ ⟶ २८०:
ये नरा दैवभावपरायणास्ते याजका । ध्याने तेषां सत्ता दिव्येव विभाति । तान् जैवक्षेत्रस्य पार्श्वगतक्षेत्रे अधः क्षेत्रद्वये न्यसेत् । एवं दैवरूपं षोडशकोष्ठके ध्येयम् । ते तु धन्या ये क्रतूँश्च यज्ञानाचरन्ति उपासन्ते रूपाणि । रूपज्ञानाद् प्रज्ञा० प्रभवति लोके ।
एतदर्थं प्रज्ञां व्याख्यापयाम इति । वास्तुसूत्रोपनिषद् भगवतः पिप्पलादस्य भव्यं व्याख्यानम । यो जानाति स रूपाचार्यो भवतीति वास्तूद्गाता इति ध्येयम् । ये ध्यायन्ति ते मुक्ताः । परमऋषिभ्यो नमः ।
Line ३१२ ⟶ ३१३:
</span></poem>
इदम् आथर्वणीय वास्तुसूत्रोपनिषद् अथर्वणाचार्यसोमभट्टेन कृत विषयबोधिनिटिप्पणी समेत लिखितं मया बांकी कुरुमचइनि ग्रामवासिना वास्तुशास्त्रि कामदेव उद्गाथा श्री रामचन्द्रदेव भूपालस्य पञ्चदशाङ्के राजा हरिचन्दन नृपार्थ । ॐ नमो महादेव्यै । ।
|