"ऋग्वेदः सूक्तं १.१८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥१॥
Line ३२ ⟶ ३१:
 
{{सायणभाष्यम्|
' अग्ने नय' इति दशमं सूक्तम् अष्टर्चमागस्त्यं त्रैष्टुभमाग्नेयम् । अग्ने नयाष्टावाग्नेयम्' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभच्छन्दसि विनियोगः । अथैतस्याः' इत्यत्र अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत् ' ( आश्व. श्रौ. ४. १३) इति सूत्रितत्वात् । अत्र शौनकः-’उत्पथप्रतिपन्नो यो भ्रष्टो वापि पथः क्वचित् । पन्थानं प्रतिपद्येत कृत्वा वा कर्म गर्हितम् ॥ अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद्घृतम् । जपेच्च प्रयतो नित्यमुपतिष्ठेत वानलम् ' (ऋग्वि. १. १५१-१५३) इति ॥ आद्याश्चतस्रः श्रवणाकर्मणि विनियुक्ताः । ‘श्रावण्यां पौर्णमास्याम् ।
इत्यत्र सूत्रितम्-- अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यर्चं हुत्वा' (आश्व. गृ. २.१.४ ) इति । आग्नेये पशौ वपापुरोडाशयोराद्ये द्वे अनुवाक्ये । तथा च सूत्रितम्-’अग्ने नय सुपथा राये अस्मान् पाहि नो अग्ने पायुभिरजस्रैः ' ( आश्व. श्रौ. ३. ७ ) इति । आद्या प्रायणीयेष्टौ आग्नेयस्यानुवाक्या । सैव उदयनीये याज्या । तदहः प्रायणीयेष्टिः' इत्यत्र सूत्रितम्-’अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' ( आश्व. श्रौ. ४. ३ ) इति । विपरीताश्च याज्यानुवाक्या इति च ।।
 
 
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
 
यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥
 
अग्ने । नय । सुऽपथा । राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् ।
 
युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमःऽउक्तिम् । विधेम ॥ १ ॥
 
हे “अग्ने अङ्गनादिगुणविशिष्ट “देव द्योतमान “विश्वानि “वयुनानि सर्वाणि प्रज्ञानानि । अनेन एतदनुष्ठितमिदं प्रायणीयमिति यदेतज्ज्ञानमस्ति तद्विद्वानित्यर्थः । यतः “विद्वान् अतस्त्वम् “अस्मान् “सुपथा शोभनेन मार्गेण "राये गन्तव्याय स्वर्गादिधनाय । द्वितीयार्थे वा चतुर्थी । प्रापणीयं रयिं प्रति “नय । तदर्थं “जुहुराणं कुटिलकारि “एनः पापं फलप्रतिबन्धरूपम् “अस्मत् अस्मत्तः “युयोधि पृथक्कुरु । "ते तव वयं भूयिष्ठाम् अतिप्रवृद्धां “नमउक्तिं नमस्कारोक्तिं स्तुतिं “विधेम परिचरेम कुर्मः ॥
 
 
आयुष्कामेष्ट्याम् ‘अग्ने त्वं पारय' इति द्वे स्विष्टकृतो याज्ये ‘याहि नः' इति चतुर्थ्यनुवाक्या । ‘पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारया नव्यो अस्मानिति संयाज्ये' ( आश्व. श्रौ. २. १० ) इति सूत्रितम् । एते एव स्वस्त्ययन्यामपि संयाज्ये इति सूत्रितत्वात् ॥
 
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
 
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
 
अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।
 
पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥ २ ॥
 
हे अग्ने “त्वं नव्यः नवतरः स्तुत्यो वा त्वम् अस्मान् यागानुष्ठातॄन् “अति पारय कर्म समापय्य अतिपारय अतिक्रामय । केन साधनेन । स्वस्तिभिः। अस्तिरभिपूजितः । सुशब्दः शोभनवचनः । अत्यन्तं पूजितैर्यज्ञादिसाधनैः। कानि । “दुर्गाणि दुर्गमनानि पापानि । अनतिक्रमणीयानि दुरिताख्यानि अतिपारय । किंच “नः अस्माकं “पृथ्वी पृथुतरा “पूश्च पुरी अपि भवत्विति शेषः । चशब्दो वक्ष्यमाणेन सह समुच्चयार्थः । पूरिति जात्येकवचनम् । पुराण्यपि भवन्त्वित्यर्थः । तथा नः अस्माकम् “उर्वी पृथ्वी अपि बहुतरा भवतु । त्वं तु “तोकाय अपत्याय “तनयाय पुत्राय । तोकशब्दोऽपत्यसामान्यवचनः । तनयशब्दः पुत्रवचनः। “शं सुखं “योः मिश्रयिता “भव । यद्वा । रोगाणां शमनं भयानां यावनं च भव कुर्वित्यर्थः ॥
 
 
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः ।
 
पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥
 
अग्ने । त्वम् । अस्मत् । युयोधि । अमीवाः । अनग्निऽत्राः । अभि । अमन्त । कृष्टीः ।
 
पुनः । अस्मभ्यम् । सुविताय । देव । क्षाम् । विश्वेभिः । अमृतेभिः । यजत्र ॥ ३ ॥
 
हे “अग्ने “त्वम् "अमीवाः रोगान् “अस्मत् अस्मत्तः "युयोधि व्यावर्तय । याः “अनग्नित्राः अग्निना अपालिताः "कृष्टीः प्रजाः “अभ्यमन्त अभिमिमतेऽस्मान् ॥ यच्छब्दाध्याहारादनिघातः । ताः युयोधि । यद्वा । ता अनग्नित्राः पापिन्यः कृष्टयः प्रजा अभ्यमन्त । त्वया अभ्यमितुमभितो रोगैः प्रापयितुमर्हन्ति । वयं तु न तादृशाः । अतोऽस्मत्तो वियोजयेत्यर्थः । न केवलं वियोगमात्रं अपि तु पुनः पुनरिदं कर्तव्यम् । “अस्मभ्यम् अस्मदर्थं "सुविताय शोभनफलाय हे “यजत्र यष्टव्य “देव द्योतमानाग्ने “विश्वेभिरमृतेभिः सर्वैरमरणधर्मभिः अन्यैर्यष्टव्यैर्देवैः सह “क्षां पृथिवीं देवयजनलक्षणाम् आगच्छेति शेषः ॥
 
 
‘पाहि नः' इत्यस्या विनियोगद्वयम् ‘अग्ने त्वं पारय' इत्यत्रोक्तम् । तथाग्नेयपशावेषैव हविषोऽनुवाक्या । तथा च सूत्रितं -- पाहि नो अग्ने पायुभिरस्रैः प्र वः शुक्राय भानवे भरध्वम् ' (आश्व. श्रौ. ३. ७ ) इति ॥
 
पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।
 
मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥
 
पाहि । नः । अग्ने । पायुऽभिः । अजस्रैः । उत । प्रिये । सदने । आ । शुशुक्वान् ।
 
मा। ते। भयम् । जरितारम् । यविष्ठ । नूनम् । विदत् । मा । अपरम् । सहस्वः ॥ ४ ॥
 
हे "अग्ने "नः अस्मान् "अजस्रैः अनवरतैरविच्छिन्नैः "पायुभिः पालनप्रकारैः "पाहि पालय । “उत अपि च "प्रिये "सदने तव प्रियभूते यागगृहे “आ सर्वतः “शुशुक्वान् दीप्यमानो भवेति शेषः । किंच हे "यविष्ठ युवतम “ते तव "जरितारं गरितारं स्तोतारं मां "नूनम् अद्य "भयं “मा "विदत् मा लभतां मा आप्नोतु । हे "सहस्वः बलवन्नग्ने "अपरम् अपरस्मिन्काले भयं “मा विदत् । अपरं मदन्यं वा मा विदत् ॥
अच्युताय भौमाय एककपालपुरोडशहोमे ‘मा नो अग्ने' इत्यनया आशयमभिजुहोति । तथा च सूत्रितं-' मा नो अग्नेऽव सृजो अघायेत्येनमाशयेनाभिजुहोति' ( आश्व. गृ. २. १. ६) इति ॥
 
 
मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।
 
मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥
 
मा । नः । अग्ने । अव । सृजः । अघाय । अविष्यवे। रिपवे । दुच्छुनायै ।
 
मा । दत्वते । दशते । मा । अदते । नः । मा । रिषते । सहसाऽवन् । परा । दाः ॥ ५ ॥
 
हे "अग्ने "नः अस्मान् "अघाय हिंसकाय “अविष्यवे। अविष्यतिरत्तिकर्मा । अन्नेच्छवे “दुच्छुनायै । शुनं सुखम् । दुष्टसुखकारिणे । दुःखकारिणे इत्यर्थः । तस्मै “रिपवे “मा अव "सृजः मा त्याक्षीः तदधीनं मा कुवित्यर्थः । तथा नः अस्मान् दत्वते दन्तवते "दशते खादते सर्पादये "मा अव सृजः । तथा “नः अस्मान् "अदते अदन्तकाय शृङ्गादिभिर्घातिने "मा अव सृजः । तथा “रिषते हिंसकाय तस्करराक्षसादये हे "सहसावन् सहस्विन "मा “परा "दाः पराभूतं मा देहि सर्वथा न देहीत्यर्थः ॥ ॥१०॥
 
 
वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम् ।
 
विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
 
वि । घ । त्वाऽवान् । ऋतऽजात । यंसत् । गृणानः । अग्ने । तन्वे । वरूथम् ।
 
विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुताम् । असि । हि। देव। विष्पट् ॥६॥
 
हे "ऋतजात यज्ञार्थमुत्पन्न “अग्ने "वरूथं वरणीयं त्वां “तन्वे शरीरपोषाय "गृणानः स्तुवन् “त्वावान् त्वया देवतया तद्वान् जनः “वि ”घ “यंसत् विमुञ्चति खलु आत्मानम् । कस्मात्सकाशात् । “रिरिक्षोः हिंसितुमिच्छोश्चोरादेः सकाशात् । "उत "वा अथवा “निनित्सोः निन्दितुमिच्छतः । हे “देव "अभिह्रुताम् आभिमुख्येन कुटिलं कुर्वतां द्विषां विष्पट् विशेषेण बाधकः "असि “हि । अतः त्वदनुग्रहात् अयं जनो वि यंसत् ॥
 
 
त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।
 
अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥
 
त्वम् । तान् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रऽपित्वे । मनुषः । यजत्र ।
 
अभिऽपित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्ऽभिः । न । अक्रः ॥ ७ ॥
 
हे "यजत्र यष्टव्य “अग्ने “त्वं “तान् यष्टॄनयष्टॄंश्च "उभयान् "मनुषः मनुष्यान् विविच्य "विद्वान् जानन् "प्रपित्वे संनिहिते एव काले "वेषि कामयसे यष्टॄन् । तथा कुर्वन् "अक्रः आक्रमिता त्वं “मनवे । षष्ट्यर्थे चतुर्थी । मनुष्यस्य यजमानस्य "अभिपित्वे अभिप्राप्तकालेऽभिगमनवति यज्ञे वा “शास्यः "भूः शिक्षणीयो भव । इदं कुरु इदं कुरु इति विधेयो भव । "मर्मृजेन्यः शोधयिता यजमानः “उशिग्भिः कामयमानैर्ऋत्विग्भिरिव ॥
 
 
अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।
 
व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
अवोचाम । निऽवचनानि । अस्मिन् । मानस्य । सूनुः । सहसाने । अग्नौ ।
 
वयम् । सहस्रम् । ऋषिऽभिः । सनेम । विद्याम् । इषम् । वृजनम् । जीरऽदानुम् ॥ ८ ॥
 
वयम् "अस्मिन् अग्नौ "निवचनानि नियमपूर्वकाणि वचांसि स्तोत्ररूपाणि "अवोचाम ब्रूमः । अग्निर्विशेष्यते । "मानस्य "सूनुः । मीयत इति मानो मन्त्रः । तस्य सूनुरग्निः मन्त्रेण उत्पद्यमानत्वात् । सप्तम्यर्थे प्रथमा । मानस्य सूनौ "सहसाने शत्रूणामभिभवितरि "अग्नौ अवोचाम । “वयम् एभिः “ऋषिभिः अतीन्द्रियार्थप्रकाशकैर्मन्त्रैः साधनैः "सहस्रम् अपरिमितं धनं “सनेम संभजेमहि । विद्याम इति गतम् ॥ ॥ ११ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८९" इत्यस्माद् प्रतिप्राप्तम्