"ऋग्वेदः सूक्तं १.१६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥ २ ॥
 
ते मरुतः “अवोभिः रक्षणैः सहिताः “नः अस्मान “अच्छ अभिमुख्येन “आ “यान्तु आगच्छन्तु । “सुमायाः । मायेति प्रज्ञानाम । शोभनप्रज्ञा एव मरुतः “ज्येष्ठेभिः “बृहद्दिवैः “वा ज्येष्ठैः प्रशस्यतमैः मणिमुक्तादिधनैश्च सहिता आ यान्तु । वाशब्दः समुच्चये। आगमने कथमेषां सामर्थ्यमिति अत आह । “अध अथ “एषां मरुतां यत् यस्मात् “नियुतः एतन्नामकाः परमाः उत्कृष्टा अश्वाः “समुद्रस्य “चित् । चिच्छब्दोऽप्यर्थे । समुद्रस्यापि “पारे परस्मिंस्तीरे “धनयन्त धनधारणं वहनं कुर्वन्ति । तस्मात् रक्षणैर्धनैश्चायान्त्वित्यर्थः ॥
 
 
Line ६४ ⟶ ६६:
 
गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
 
मिम्यक्ष । येषु । सुऽधिता। घृताची । हिरण्यऽनिर्निक् । उपरा । न । ऋष्टिः ।
 
गुहा । चरन्ती । मनुषः । न । योषा । सभाऽवती । विदथ्याऽइव । सम् । वाक् ॥ ३ ॥
 
“सुधिता सुष्ठु निहिता सुष्ठु हिता वा लोके "घृताची घृतं क्षरणशीलमुदकमञ्चन्ती “हिरण्यनिर्णिक् हितरमणीयरूपा । निर्णिगिति रूपनाम । एवंरूपा “ऋष्टिः विद्युदाख्यायुधविशेषो वा “उपरा “न मेघमालेव “येषु मरुत्सु “सं “मिम्यक्ष। म्यक्षतिर्गतिकर्मा। संगताभूत् । मेघपङ्क्तिविद्युतौ इमे अपि संगते इत्यर्थः । मेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते । "गुहा निगूढा गुहायां वा अन्तरिक्षे “चरन्ती। तत्र दृष्टान्तः । “मनुषो “न “योषा मनुष्यस्य परिवृढादेर्महिषीवत् । सा यथा सुवेषा अन्तःपुरे एव मध्ये चरति तद्वत् । किं सर्वदैवमिति नेत्याह । “सभावती । सभा जनसंघः। तद्वती। वर्षकाले आविर्भवन्तीत्यर्थः । तत्र दृष्टान्तः। “विदथ्या “वाक् इव । विदथो यज्ञ: । तदर्हतीति विदथ्यो प्रैषस्तोत्रादिरूपा वाक् । सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत् । यद्वा । विदथ्या वेदनार्हा विवदमानयोर्वाक् । सा यथा सभावती तद्वत् । सैवंरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वियर्थः ।
 
 
परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
 
न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥
 
परा । शुभ्राः । अयासः । यव्या । साधारण्याऽइव । मरुतः । मिमिक्षुः ।।
 
न । रोदसी इति । अप। नुदन्त । घोराः । जुषन्त । वृधम् । सख्याय । देवाः ॥ ४ ॥
 
“शुभ्राः शोभनालंकाराः “अयासः अभिगन्तारः “मरुतः "यव्या मिश्रणशीलया विद्युता "परा “मिमिक्षुः । प्रकर्षेण सिञ्चन्त्युदकसंस्त्यायम् । "साधारण्येव । यथा लोके साधारण्या स्त्रिया संगता युवानो रेतो मुञ्चन्ति तद्वत् । एवं कुर्वन्तः “घोराः अतिवृष्टिप्रदानेन भयंकरास्ते "रोदसी द्यावापृथिव्यौ “न "अप “नुदन्त । अपनोदनं वर्षणरूपं तिरस्कारं न कुर्वन्ति । द्यावापृथिवीवचनो रोदसीशब्दः
सर्वत्राद्युदात्तः । अत्र तु व्यत्ययेनान्तोदात्तत्वमिति द्रष्टव्यम् । यद्वा । रोदसा शब्देन रोदनस्वभावो रुद्रः । तस्य स्त्री रोदसीति केचिदाहुः । अपरे तु मरुतां स्त्रियो रोदसीति नामधेयमित्याहुः । अयमेव पक्षो युक्त उत्तरत्रैवं व्यवहारात् । तत्पक्षे रोदसी रोदस्याम् ॥ ङीषन्तात् सप्तम्या ईंकारो लुक् वा । ‘ईदूतौ च सप्तम्यर्थे ' इति प्रगृह्यसंज्ञा । तस्यां प्रियं धनं मुञ्चन्ति। किंतु “देवाः मोदयितारो मादयितारो बा मरुतः “सख्याय “वृधं वृद्धिं “जुषन्त सेवन्ते । द्यावापृथिवीपक्षे सख्याय जगतां सखिभावाय तयोर्वृद्धिं कुर्वन्तीत्यर्थः ॥
 
 
जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑ः ।
 
आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
 
जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसितऽस्तुका । रोदसी । नृऽमनाः ।
 
आ। सूर्याऽइव । विधतः । रथम् । गात् । त्वेषऽप्रतीका। नभसः । न । इत्या ॥ ५
 
“रोदसी मरुत्पत्नी विद्युत् वा एतन्नामिकेयमपि “ईम् एनं मरुत्संघं “जोषत् सेवते ॥ जुषेर्लेटि अडागमः ।। किमर्थम् । “सचध्यै संगमनार्थम् । कीदृशी सा । “असुर्या । असुराः क्षेप्तारो मरुतः । तेषां स्वभूता “विषितस्तुका विशिष्टकेशसंघा विप्रकीर्णकेशसंघा वा संभोगवशेन तथा “नृमणाः नृषु नेतृषु मरुत्सु मननवती मनुष्येषु वा वृष्टिप्रदानमनोयुक्ता “त्वेषप्रतीका दीप्तोपक्रमा दीप्तावयवा । ईदृशी देवी “विधतः परिचरतो मरुत्संघस्य “रथम् “आ “गात् आगच्छति व्याप्नोति । यागदेशं गन्तुं रथमारुह्य वा यज्ञमागच्छति । केव । विधतः सूर्यस्य रथं त्वेषप्रतीका “सूर्येव सूर्यपत्नीव । यद्वा । सूर्यस्य दुहिता अश्विनोः रथमिव सा यथा आरोहति तद्वत् आगमने दृष्टान्तः। “नभसः “इत्या “न । अन्तरिक्षादित्ययोः साधारणोऽयं नभःशब्दः ‘नभ इति षट् साधारणानि ' ( नि. १. ४. ६ ) इत्युक्तत्वात् । अत्र आदित्यवचनः । तस्य गतिरिव । सा यथा शीघ्रा तद्वत् ॥ ॥ ४ ॥
 
 
आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् ।
 
अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
 
आ। अस्थापयन्त । युवतिम् । युवानः । शुभे । निऽमिश्लाम् । विदथेषु । पज्राम् ।
 
अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुतऽसोमः । दुवस्यन् ॥ ६ ॥
 
“युवानः मिश्रयन्तो नित्यतरुणा वा मरुतः “युवतिं मिश्रयन्तीं नित्यतरुणीं वा विद्युद्रूपां रोदस्यां स्त्रियम् “आस्थापयन्त आस्थापयन्ति । देवतात्वेन रथे धारयन्ति । कीदृशीं ताम् । “निमिश्लां नियमेन मिश्रयन्तीं “पज्राम् । पज्रो बलम् । तद्वतीम् । “शुभे । शोभते दीप्यते इति शुबुदकम् । वृष्ट्युदकार्थम् । शुभे रथ इति वा योज्यम् । किंनिमित्तम् । “विदथेषु यागेषु निमित्तभूतेषु । कदा । “यत् यदा हे “मरुतः “वः युष्मान् “अर्कः ॥ मत्वर्थों लुप्यते ॥ अर्चनसाधनमन्त्रोपेतः स्तोता वा “हविष्मान् प्रदेयाज्यादिहविर्युक्तः “सुतसोमः होमाय अभिषुतसोमोऽयं यजमानः “दुवस्यन् परिचरन् “गाथं गातव्यं स्तोत्रं “गायत् गायति । तदेत्यर्थः ।।
 
 
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।
 
सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
 
प्र। तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति ।।
 
सचा। यत्। ईम्। वृषऽमनाः। अहम्ऽयुः । स्थिरा । चित् । जनीः । वहते। सुऽभागाः ॥७॥
 
“एषां “मरुतां “यः “महिमा महत्त्वातिशयः “वक्म्यः सर्वैः स्तुत्यः “सत्यः अबाध्योऽमोघः “अस्ति “तं “प्र “विवक्मि प्रवच्मि वर्णयामि । कथमेषां महिमा प्राप्त इति उच्यते । “यत् यस्मात् “ईम् एतेषां संबन्धिनी रोदसी “वृषमणाः वृष्ट्यादिवर्षणमनस्का “अहंयुः अहंकारवती । जगदुपकारकर्त्री न कदाचिदस्तीत्यहंकारः । “स्थिरा “चित् । चिदिति पूजायाम् । अत्यन्तमविनश्वरा ईदृशी देवी “सुभागाः शोभनभाग्योपेताः “जनीः जननशीला: प्रजाः वृष्ट्युत्पत्तीर्वा “वहते धारयति । वृष्टौ सत्यां सर्वे प्राणिन उत्पद्यन्ते । यस्मादेवं तस्मात् महिमास्ति । तं महिमानं स्तौमीत्यर्थः ।।
 
 
पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।
 
उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
 
पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्रऽशस्तान् ।
 
उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दातिऽवारः ॥ ८ ॥
 
हे मरुतः युष्मत्संबन्धिनो देवाः “मित्रावरुणौ अहोरात्र्यभिमानिदेवौ “अर्यमो । अर्यमा उ इति निपातसमुदायात्मकम् एकं पदम्। उ शब्दोऽपिशब्दार्थे । अर्यमापि । एते त्रयोऽपि “ईम् अमुं लोकं यज्ञं वा “अवद्यात् गर्ह्यात् अयथानुष्ठानात् जगत्पक्षे व्यवहारप्रतिबन्धरूपात् "पान्ति रक्षन्ति । तथा एतेषाम् “अप्रशस्तान् क्षीणानपि पदार्थान् “चयते चातयन्ति नाशयन्ति । “उत अपि च एतैः प्रेरितानि “अच्युता अच्युतान्यस्रावीणि अत एव “ध्रुवाणि अविचलानि मेघस्थोदकानि “च्यवन्ते च्यावयन्ति वा एते । “अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति ' इति श्रुतेः । यद्वा । अच्युतानि ध्रुवाणि धनानि च्यवन्ते । कदेति उच्यते । हे मरुतः युष्मदीयः “ईम् अयं कालः “दातिवारः प्रदेयजलः खण्डितमेघो वा यदा “ववृधे वर्धते । तदा मित्रादयो देवा युष्मदनुकूलव्यापारेण जगत् रक्षन्तीत्यर्थः । यद्वा । दातिवारो दत्तवरणीयहविर्लक्षणधनो यजमानः हे मरुतः ईम् एनान्युष्मान्ववृधे वर्धयति यदा तदेत्यर्थः ॥
 
 
न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः ।
 
ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
 
नहि। नु। वः। मरुतः। अन्ति। अस्मे इति । आरात्तात् । चित् । शवसः। अन्तम् । आपुः ।
 
ते । धृष्णुना । शव॑सा । शूशुऽवांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः ॥ ९ ॥
 
हे मरुतः “वः “शवसः युष्माकं संबन्धिनो बलस्य “अन्तम् अवसानम् “अन्ति अन्तिके “आरात्ताच्चित् दूरादपि । यद्वा । चिदिति कुत्सायाम् । अत्यन्तदूरात् । “अस्मे अस्मासु मध्ये एकेऽपि “नु क्षिप्रं “नहि “आपुः नैव खलु प्राप्नुवन्ति । संनिधावसंनिधौ च न प्राप्नुवन्तीत्यर्थः । अथ परोक्षे प्राप्तबलत्वमाह। “ते खलु मरुतः “धृष्णुना धर्षकेण “शवसा बलेन “शूशुवांसः वर्धमानाः अत एव “धृषता पराभिभावकेन सामर्थ्येन द्वेषः द्वेष्टृन् परि “ष्ठुः परिभवन्ति वशीकुर्वन्ति । तत्र दृष्टान्तः । “अर्णो “न उदकमिव । यथोदकं स्वविरोधि रजआदिकमभिभवति तद्वत् । यस्मादेवं तस्मात् शवसोऽन्तं नापुः ॥
 
 
‘वयमद्य ' इत्येतां दशमीमस्तमिते आदित्ये जपेत् । तथा च सूत्रं- वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये ' ( आश्व. गृ. २. ६. १४ ) इति ।।
 
व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।
 
व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
 
वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । सऽमर्ये ।
 
वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात् ॥१०॥
 
“अद्य अस्मिन् दिने “वयं यष्टारः “इन्द्रस्य देवस्य “प्रेष्ठाः प्रियतमा भवेम । यद्वा । प्रियतमा वयम् इन्द्रस्य महत्वं “वोचेमहि स्तोतुं समर्था भूयास्म । किंच “वयं “श्वः परस्मिन्नपि दिने “समर्ये । सह मर्याः मर्त्याः ऋत्विजो यस्मिन् स समर्यो यज्ञः तस्मिन् । संग्रामे वा । इन्द्रस्य महत्त्वं वोचेमहि । किंच “वयं “पुरा पूर्वस्मिन्नतीतेऽपि काले “महि महद्बलं “नः अस्मदर्थं वोचेमहि । तथा “द्यून् दिवसान “अनु प्रतिदिवसमित्यर्थः । अतीते आगामिनि च दिवसे सर्वदा वोचेमहि । “तत् तस्मात् “ऋभुक्षाः । महन्नामैतत् । ‘ऋभुक्षाः उक्षा' (नि. ३. ३. १०) इति तन्नामसु पाठात् । महानिन्द्रः “नरां मनुष्याणां मध्ये "नः अस्मान् “अनु “स्यात् अनु भवतु अनुकूलमभिमतप्रदो वा भवतु ॥
 
 
ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
 
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
 
एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।
 
आ। इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ११ ॥
 
‘एषः' इत्येकादशी व्याख्याता ॥ ॥ ५ ॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६७" इत्यस्माद् प्रतिप्राप्तम्