"ऋग्वेदः सूक्तं १.१७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
</span></poem>
{{सायणभाष्यम्|
‘गायत्साम' इति त्रयोदशर्चं नवमं सूक्तमागस्त्यं त्रैष्टुभमैन्द्रम् । ‘गायत्सप्तोना' इत्यनुक्रान्तम् । समूळ्हे दशरात्रे तृतीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम् । विश्वजितोऽग्निं नरः' इति खण्डे सूत्रितं ’तृतीयस्येन्द्रः स्वाहा गायत्साम' (आश्व. श्रौ. ८.७ ) इति ।।
 
 
गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
 
गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
 
गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वःऽवत् ।।
 
गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान् ॥ १ ॥
 
हे इन्द्र “नभन्यं नभस्यं नभसि भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य । नभतिर्वधकर्मा, ‘नभति अर्दति ' ( नि. २. १९. १० ) इति वधकर्मसु गणनात् । तादृशं “साम हे इन्द्र “यथा “वेः येन प्रकारेण वेत्सि तथा “गायत् गायत्युद्गाता । “तत् तस्मात् यतः स्तौति ततः कारणात् “ववृधानं वर्धमान “स्वर्वत् फलभूतेन स्वर्गेण तद्वच्छस्त्रं यथा वेः तथा “अर्चाम पूजयाम शंसामेत्यर्थः । स्तुतमनु शंसतीति न्यायात् । यद्वा। तदुक्तलक्षणं साम ववृधानं सर्वत्र यथा भवति तथा अर्चाम। किंच “धेनवः दोग्ध्र्यः “अदब्धाः अहिंसिताः “गावः “यत् “बर्हिषि “सद्मानं सीदन्तं “दिव्यं दिवि भवमिन्द्रं त्वाम् “आ “विवासान् । विवासतिः परिचरणकर्मा । आगत्य परिचरन्ति क्षीरं दुहन्ति तथा अर्चाम॥
 
 
अर्च॒द्वृषा॒ वृष॑भि॒ः स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।
 
प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥
 
अर्चत् । वृषा । वृषऽभिः । स्वऽइदुहव्यैः । मृगः । न । अश्नः । अति । यत् । जुगुर्यात् ।
 
प्र। मन्दयुः । मनाम् । गूर्त । होता । भरते। मर्यः । मिथुना । यजत्रः ॥ २ ॥
 
“वृषा हविषां वर्षिता अयं यजमानः “स्वेदुहव्यैः स्वायत्तेद्धहविष्कैः । यद्वा । स्वयंप्राप्तेन्धकं हव्यं येषां तादृशैः । “वृषभिः वर्षकैर्हविष्प्रदातृभिः अध्वर्य्वादिभिर्विशिष्टः सन् "अर्चत् अर्चयतीन्द्रम् । यद्वा । वृषा फलस्य वर्षितायमिन्द्रः उक्तलक्षणैरध्वर्य्वादिभिरर्च्यते । “यत् यस्मात् "अश्नः व्यापकः पानाद्यर्थं धावन् “मृगो न हरिणादिरिवायमिन्द्रः अश्नोऽशनशीलः सन् "अति "जुगुर्यात् अत्यर्थमुद्युङ्क्ते हविर्भक्षणाय । यथा मृगः क्षुत्पिपासादितः शीघ्रमुद्युङ्क्ते तथायमिन्द्रोऽपि । यस्मादेवं तस्मादर्चति । यद्वा । अयमिन्द्रो यत् यथा अश्नो मृग इव अति जुगुर्यात भक्षयेत् तथा अर्चतीत्यर्थः । किंच हे “गूर्त उद्गूर्णेन्द्र “मनां मननं स्तोत्रमिच्छतां देवानां “मन्दयुः स्तुतियुक्तः “मर्यः “होता मानुषः एतन्नामकः ऋत्विक् “यजत्रः यागनिष्पादकः सन् “मिथुना मिथुनानि युग्मरूपाणि याज्यापुरोनुवाक्यादीनि मिथुनौ वा जायापतिरूपः सन् “प्र “भरते प्रकर्षेण संपादयति तस्मादर्चतीत्यर्थः ।
 
 
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रद॑ः पृथि॒व्याः ।
 
क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
 
नक्षत् । होता । परि । सद्म । मिता। यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः ।
 
क्रन्दत्। अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत्। वाक् ॥३॥
 
“होता होमनिष्पादकोऽयमग्निः “मिता परिमिता “सद्म सदनानि गार्हपत्यादिस्थानानि “परि “यन् परितो गच्छन् “नक्षत् व्याप्नोति । व्याप्य च “शरदः संवत्सरसंबन्धिनं “पृथिव्याः भूम्याश्च संबन्धिनं “गर्भं गर्भस्थानीयमन्नं हविर्लक्षणम् “आ “भरत् आहरति स्वीकरोति । संभरति वा । संवत्सरपर्यन्तं वर्धितं भूम्यामुत्पन्नमित्यर्थः । यद्वा । संवत्सरसंबन्धिनं वसन्तादिकाले ज्योतिष्टोमादिषु दीयमानं पार्थिवं हविर्भरत् । वसन्ते वसन्ते ज्योतिषा यजेत' इति श्रुतेः । तथा कृत्वा “क्रन्ददश्वः । लुप्तोपममेतत् । अश्व इव क्रन्दति हर्षातिशयात् । किं कुर्वन् । “नयमानः नयन्निन्द्राय हविर्भारम् । किंच "गौः गन्ता उद्वृत्तो वृष इव "रुवत् रौति शब्दायते । किं कुर्वन् । “दूतो “न वार्ताहरो दूत इव “रोदसी रोदस्योर्द्यवापृथिव्योः “अन्तः मध्ये रोदस्योरन्तरा "वाक् स्तूयमानः स्तुवन् वा देवान् “चरत् चरति गच्छति । हविःस्वीकाराय पृथिवीं तत्प्रापणाय द्युलोकं च परिभ्रमतीत्यर्थः ॥ वक्तेः कर्तरि कर्मणि वा ' क्विब्वचि० ' इत्यादिना क्विब्दीर्घौ संप्रसारणाभावश्च ।।
 
 
ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते ।
 
जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥
 
ता। कर्म । अषऽतरा । अस्मै । प्र । च्यौत्नानि । देवऽयन्तः । भरन्ते ।
 
जुजोषत् । इन्द्रः। दस्मऽवर्चाः । नासत्याऽइव । सुग्म्यः । रथेऽस्थाः ॥ ४ ॥
 
“ता तानि "अषतरा अर्षतराणि व्याप्ततराणि वा हवींषि "अस्मै इन्द्राय तदर्थं "कर्म कुर्मः संपादयामः ॥ कृञ्श्छान्दसे वर्तमानार्थे लुङि ‘मन्त्रे घस ' इति च्लेर्लुक् । छन्दस्युभयथा ' इति अर्धधातुकत्वेन ङित्त्वाभावाद्गुणः ॥ “च्यौत्नानि च्यावयितॄणि दृढानि स्तोत्राणि कर्माणि स्वकीयानि सामर्थ्यानि वा “देवयन्तः देवानात्मन इच्छन्तो यजमानाः “प्र “भरन्ते प्रकर्षेण संपादयन्ति । तद्वद्वयमपि संपादयाम इत्यर्थः । "दस्मवर्चाः दर्शनीयतेजाः शत्रूपक्षयणबलो वा “नासत्येव नासत्याविव
 
 
तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७३" इत्यस्माद् प्रतिप्राप्तम्