"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
{{ऋग्वेदः मण्डल १}}
{{सायणभाष्यम्|
‘पूर्वीरहम्' इति षडृचं पञ्चदशं सूक्तं त्रैष्टुभम् । उपान्त्या बृहती । अत्र त्रयाणां द्वृचानां लोपामुद्रागस्त्यतच्छिष्यैर्दृष्टत्वात्त एवर्षयः । सूक्तप्रतिपाद्योऽर्थों रतिर्देवता । अत्रानुक्रमणिका- पूर्वीः षड्जायापत्योर्लोपामुद्राया अगस्त्यस्य च द्वृचाभ्यां रत्यर्थं संवादं श्रुत्वान्तेवासी ब्रह्मचार्यन्त्ये बृहत्यादी अपश्यत्' इति । विशेषविनियोगो लैङ्गिकः ॥
 
 
पू॒र्वीर॒हं श॒रद॑ः शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः ।
 
मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
 
पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः ।
 
मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊँ इतिं । नु । पत्नीः । वृषणः । जगम्युः ॥१॥
 
हे अगस्त्य "अहं लोपामुद्रा “पूर्वीः “शरदः पुरातनानसंख्यातान् संवत्सरान् "दोषाः रात्रीः “वस्तोः अहानि तथा देहं "जरयन्तीः “उष सः उषःकालांश्च ॥ सर्वत्र अत्यन्तकालसंयोगे' द्वितीया ॥ अद्यतनकालपर्यन्तं बहुसंवत्सरं कार्त्स्न्येन त्वच्छुश्रूषया “शश्रमाणा श्रान्ताभूवम् । इदानीं तु "जरि मा जरा “तनूनाम् अङ्गानां "श्रियं सौन्दर्यं “मिनाति हिनस्ति । एवमपि नानुगृह्णासीत्यर्थः । "अप्यू “नु । अपिः संभावनायाम् । उ इत्यवधारणे । नु इति वितर्के । इदानीमपि किं संभावनीयम् । लोके हि पत्नीः स्त्रियः "वृषणः सेक्तारः पुरुषाः "जगम्युः गच्छेयुः संभोगं कुर्युः । अतो मां किमित्यवमन्यसे । इदानीमपि वा संभावयेत्यर्थः ॥
सा तमेव आह –
 
 
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
 
ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
 
ये। चित् । हि । पूर्वे । ऋतऽसापः। आसन् । साकम् । देवेभिः । अवदन् । ऋतानि ।
 
ते। चित् । अव । असुः। नहि। अन्तम् । आपुः। सम् । ॐ इति । नु । पत्नीः। वृषऽभिः। जगम्युः॥२॥
 
हे पते अगस्त्य "ये “चिद्धि येऽपि तु "पूर्वे पुरातनाः "ऋतसापः सत्यस्य आपयितारो व्याप्नुवाना महर्षयः "आसन ते “देवेभिः देवैः "साकं सह “ऋतानि सत्यवाक्यानि "अवदन् वदन्ति । ये महत्तपो यज्ञं वा अनुतिष्ठन्ति ये च देववाक्यानि देवस्मृतिरूपाणि वदन्ति "ते "चित् । चिदप्यर्थे । ते चित् “अवासुः अवक्षिपन्ति रेतः ॥ स्यतिरुपसृष्टो विमोचने वर्तते ॥ ते "नह्यन्तमापुः नहि ब्रह्मचर्यादेरन्तं प्राप्नुवन् । ब्रह्मचर्यमनिषिद्धर्तुकालगमनमपि कुर्वन्तीत्यर्थः । तथा “पत्नीः पत्न्यश्च तपस्यमानाः “वृषभिः
 
 
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७९" इत्यस्माद् प्रतिप्राप्तम्