"ऋग्वेदः सूक्तं १.१४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
{{सायणभाष्यम्|
एकविंशेऽनुवाके सप्तदश सूक्तानि । तत्र ‘वेदिषदे' इति प्रथमं सूक्तं त्रयोदशर्चम् । उचथ्यपुत्रस्य दीर्घतमस आर्षम् आग्नेयम् । अन्त्ये त्रिष्टुभौ । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । दशमी त्रिष्टुब्जगती वा । अत्यष्टिपरिभाषा निवृत्ता । अत्रानुक्रमणिका-' वेदिषदे सप्तोना दीर्घतमा औचथ्य आग्नेयं तु द्वित्रिष्टुबन्तं तु त्रिष्टुब्दशमी वा ' इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दसि इदमादीनि तृतीयवर्जितानि षट् सूक्तानि विनियुक्तानि । तथाश्विनशस्त्रे षण्णां तृतीयवर्जितानां सूक्तानां विनियोगः ॥ सूत्रितं च- वेदिषद इति षण्णां तृतीयमुद्धरेत् ' ( आश्व. श्रौ. ४. १३ ) इति ॥
 
 
वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
 
वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हन॑म् ॥
 
वेदिऽसदे । प्रियऽधामाय । सुऽद्युते । धासिम्ऽइव । प्र। भर । योनिम् । अग्नये ।
 
वस्त्रेणऽइव । वासय । मन्मना । शुचिम् । ज्योतिःऽरथम् । शुक्रऽवर्णम् । तमःऽहनम् ॥१॥
 
हे अध्वर्यो "वेदिषदे वेद्यां सीदते नित्यं “प्रियधामाय प्रियधाम्ने प्रियस्थानाय उत्तरवेदिलक्षणप्रियाय “सुद्युते शोभनद्योतनाय "अग्नये अग्रनयनादिगुणविशिष्टाय "योनिं स्थानं वेद्याख्यं “धासिमिव हवीरूपमन्नमिव “प्र “भर प्रहर प्रकर्षेण संपादयेत्यर्थः। तच्च स्थानं “वस्त्रेणेव तेन यथा मार्दवाय आस्तृणाति तद्वत् "मन्मना मननीयेन संभारेण बर्हिषा वा वेदिस्थान “वासय आच्छादय । कीदृशं तत्स्थानमिति तदुच्यते। “शुचिम् उत्पवनप्रोक्षणादिना अमेध्यासुरादीनाम् अपगतत्वात् शुद्धं “ज्योतीरथं ज्योतिषः आज्यादेरग्नेर्वा रथस्थानीयम् आधारभूतत्वात् “शुक्रवर्णम् अग्न्युपेतत्वाद्दीप्तवर्णम् अत एव “तमोहनं तमसोऽन्धकारस्य हन्तारमज्ञानस्य वा । अग्निसाध्ययज्ञादिद्वारा ज्ञानविचारकत्वादिति भावः । यद्वा । तस्यां योनौ स्थाने वस्त्रेण यथा गोपनीयं वस्तु गोपयन्ति तद्वत्तमग्निं वासय निवासय स्थापय । मन्मना मननीयेन हृद्येन वस्त्रसदृशेन मृदुकाष्ठादिना आच्छादय वा । कीदृशम्। ज्योतीरथं दीप्तिरथोपेतम् । शेषं पूर्ववत् ॥
 
 
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुन॑ः ।
 
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥
 
अभि । द्विऽजन्मा । त्रिऽवृत् । अन्नम्। ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईमिति । पुनरिति ।
 
अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥२॥
 
"द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः । यद्वा । मथनेन आधानसंस्कारेण च उत्पन्नत्वात् द्विजन्मत्वम् ॥ ‘अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । अयमग्निः "त्रिवृदन्नम् आज्यपुरोडाशसोमरूपेण त्रिप्रकारमन्नमदनीयम् "अभि “ऋज्यते प्राप्नोति अभितः आभिमुख्येन नयति भक्षयति ॥ ‘ऋज गतिस्थानार्जनोपार्जनेषु'। व्यत्ययेन श्यन् ॥ यद्वा । भृज्यते ॥ ‘भ्रस्जो पाके' । पक्वं करोति वा । किंच “ईं इदम् ॥ ईमित्यत्र सांहितिको मलोपश्छान्दसः ॥ "जग्धं भक्षितं “संवत्सरे पूर्णे “पुनः "ववृधे अग्निर्वर्धयति । जीर्णस्य पुनर्वृद्ध्यभावात् यजमानं हविर्वृद्धया प्रतिसंवत्सरं यागसमर्थं करोतीत्यर्थः । यद्वा । एकवारं भक्षितं हविः पुनः संवत्सरे पूर्णे संवत्सरे उदरस्थं वर्धते वर्धयति वा भक्षितारम् । किंचायमग्निः "वृषा वर्षकः सन् "अन्यस्य हविषः “आसा आस्येन "जिह्वया "जेन्यः प्रभूतो भवतीति शेषः । यद्वा । वर्षिता सन् एकेन रूपेणान्यस्य यज्ञे होत्रादेर्जिह्वया तदुपलक्षितया सुचा जेन्यः प्रवृद्धो भवति । तथा "अन्येन दावाग्निरूपेण “वारणः सर्वेषां वारकः सन् "वनिनः वनसंबन्धिनो वृक्षान् "नि "मृष्ट निमार्ष्टि दहतीत्यर्थः ॥ मृजेश्छन्दसे लङि व्यत्ययेन आत्मनेपदम् ॥
 
 
कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् ।
 
प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥
 
कृष्णऽप्रुतौ । वेविजे इति । अस्य । सऽक्षितौ । उभा । तरेते इति । अभि। मातरं । शिशुम् ।
 
प्राचाऽजिह्वम्। ध्वसयन्तम् । तृषुऽच्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः ॥३॥
 
“अस्य अग्नेः "मातरा मातृस्थानीये उत्पादयित्र्यौ “उभा उभे अरण्याख्ये मातरौ “वेविजे चलतः ॥ ‘ओविजी भयचलनयोः । अस्मात् यङ्लुगन्तात् व्यत्ययेन आत्मनेपदमेकवचनं च । ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘चादिलोपे विभाषा' इति निघाताभावः ॥ मथनोपक्रमे "कृष्णप्रुतौ अग्निसंपर्कात् कृष्णवर्णतां प्राप्नुवत्यौ प्रापयन्त्यौ वा भूमिं तथा “सक्षितौ समानकार्यमग्न्युत्पादनं गच्छन्त्यौ एवंभूते मातरौ “शिशुं शिशुवदुत्पत्तिसमये अत्यल्पमग्निम् "अभि "तरेते आभिमुख्येन प्राप्नुतश्च । कीदृशं शिशुम् । प्राचाजिह्वं प्राग्देशस्थितजिह्वास्थानीयज्वालं “ध्वसयन्तं तमो नाशयन्तं “तृषुच्युतम् अरणीभ्यां क्षिप्रं निर्गच्छन्तम् अक्लेशेन योनेः सकाशात् शीघ्रमुत्पद्यमानम्। "आ ईषत् "साच्यं समवेतव्यं मृदुकाष्ठचूर्णादिना “कुपयं गोपनीयं "पितुः पालकस्य यजमानस्य “वर्धनं प्रवर्धनं प्रवर्धयितारम् । उक्तप्रकारैः लौकिकशिशुसाधारणैः उपेतं शिशुमग्निं मातरावुत्पादयतः इत्यर्थः ॥
 
 
मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुव॑ः कृ॒ष्णसी॑तास ऊ॒ जुव॑ः ।
 
अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शव॑ः ॥
 
मुमुक्ष्वः । मनवे । मानवस्यते । रघुऽद्रुवः । कृष्णऽसीतासः । ॐ इति । जुवः ।
 
असमनाः । अजिरासः । रघुऽस्यदः । वातऽजूताः । उप । युज्यन्ते । आशवः ॥ ४ ॥
 
“मनवे मननवते “मानवस्यते मानवान् ऋत्विजः कर्मार्थमिच्छते यजमानाय तदर्थमध्वर्य्वादिभिः अग्नेर्ज्वालाः “उप "युज्यन्ते यज्ञेषु। सूक्तस्याग्नेयत्वात् औचित्यात् ज्वाला इति गम्यते । कीदृश्यस्ताः । “मुमुक्ष्वः मुमुक्षव आहुतिद्वारा यजमानं मोक्तुमिच्छन्त्यः ब्रह्मलोकं प्रापयन्त्यः ॥ 'जसादिषु च्छन्दसि वावचनम्' इति गुणाभावः। ज्वालानामाहुतिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वं काली कराली' इत्युपक्रम्य श्रूयते-’एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ' (मु. उ. १. २. ४-५) इति । "रघुद्रुवः क्षिप्रं गच्छन्त्यः "कृष्णसीतासः कृष्णमार्गाः । उकारः समुच्चयार्थः। “जुवः जवनशीलाः शीघ्रकारिण्यः स्वव्यापारेषु “असमनाः असमानमनस्काः । काश्चन प्राङ्मुख्यो गच्छन्ति काश्चन प्रत्यङमुख्यः इति विविधमनस्काः॥ व्यत्ययेनैकवचनम् ॥ यद्वा । असमना भिन्नवर्णाः । भिन्नवर्णत्वं च तत्रैव श्रूयते-’काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वभुवी च देवी लेलायमान इति सप्त जिह्वाः' इति । “अजिरासः गमनशीलाः "रघुस्यदः शीघ् स्यन्दमानाः "वातजूताः वातप्रेरिताः । ‘तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । "आशवः व्यापनशीलाः ॥
 
 
आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒ः करि॑क्रतः ।
 
यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्स्त॒नय॒न्नेति॒ नान॑दत् ॥
 
आत् । अस्य । ते । ध्वसयन्तः । वृथा। ईरते । कृष्णम् । अभ्वम् ।
 
महि। वर्पः। करिक्रतः ।। यत् । सीम्। महीम् । अवनिम्। प्र। अभि । मर्मृशत् ।। अभिऽश्वसन् । स्तनयन् । एति । नानदत् ॥ ५ ॥
 
“आत् अनन्तरम् अस्य स्तूयमानस्याग्ने "ते प्रसिद्धा विस्फुलिङ्गाः "वृथा सहैव "ईरते सर्वतो गच्छन्ति । कीदृशास्ते । “ध्वसयन्तः तमांसि ध्वंसयन्तः तथा "कृष्णवर्णम् "अभ्वं महान्तमभिभवद्गमनमार्गं “महि महत् "वर्पः रूपं प्रकाशं "करिक्रतः अत्यर्थं कुर्वन्तः। कस्मिन् काले इति तदुच्यते । “यत् यदा “महीं महतीम् "अवनिं भूमिं “सीं सर्वतः “मर्मृशत् पुनःपुनरामृशत् ॥ मृशेर्यङलुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ "अभिश्वसन सर्वतश्चेष्टमानः स्तनयन् शब्दं कुर्वन् “नानदत् अत्यर्थं शब्दयन् ॥ पूर्ववत् प्रत्ययस्वरौ ॥ अभितः प्रकर्षेण “एति गच्छति । यदा इतस्ततो जिह्वाभिर्लेलिहानो भुगुभुगुध्वनिं कुर्वन् ज्वलति तदैव विस्फुलिङ्गा उद्भवन्तीत्यर्थः ॥ ॥ ५ ॥
 
 
भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
 
ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभि॑ः ॥
 
भूषन् । न । यः। अधि । बभ्रूषु । नम्नते। वृषाऽइव । पत्नीः । अभि । एति । रोरुवत् ।
 
ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाय । दुःऽगृभिः ॥६॥
 
“यः अग्निः "बभ्रूषु बभ्रुवर्णास्वोषधीषु भरणकुशलासु वा जगताम् "अधि अधिकं "नम्नते नमति काष्ठानि प्रविशति । नमतेर्लेटि अडागमः । व्यत्ययेन श्ना । यद्वा । लटि छान्दसः शपः श्लुः । व्यत्ययेन हलादिशेषाभावः।। "भूषन्न भूतान्येव स्वतेजसा भूषयन्निव। किंचायं प्रविशन् "वृषेव सेक्ता वृषभ इव "पत्नीः तमेव पालयित्रीः समर्धयित्रीः ओषधीः "रोरुवत् । रौतेर्यङ्लुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ अत्यर्थं शब्दयन् "अभ्येति अभितो गच्छति । प्रथमम् ओषधीः प्रविश्य पश्चात् प्रबुद्धः सन् ता एव दहतीत्यर्थः । किंचैवं कृत्वा “ओजायमानः । ओज इति बलनाम । स्वयं बलमिवाचरन् ॥ ‘कर्तुः क्यङ् सलोपश्च' इति क्यङ्सलोपौ ॥ धूमादिभिर्विना केवलं तेजोरूप एव सन् “तन्वश्च “शुम्भते स्वशरीरभूता ज्वाला अपि दीपयति पोषयतीत्यर्थः । किंच प्रवृद्धज्वालः "दुर्गृभिः केनचिदपि ग्रहीतुमशक्यः सन् “भीमो "न भयंकरो मृग इव स यथा दुर्ग्रहः सन् शृङ्गं चालयति तद्वदयमपि शृङ्गाणि' शृङ्गवदुन्नता ज्वालाः "दविधाव अत्यर्थं चालयति ।। धुनोतेर्यङ्लुगन्तात् लिटि रूपम् । अस्य च दाधर्त्यादौ इति शब्देन संग्रहो द्रष्टव्यः ॥
 
 
स सं॒स्तिरो॑ वि॒ष्टिर॒ः सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
 
पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्प॑ः पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥
 
सः । सम्ऽस्तिरः । विऽस्तिरः । सम् । गृभायति । जानन्। एव । जानतीः । नित्यः । आ । शये ।
 
पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा ॥ ७॥
 
“सः अग्निः "संस्तिरः आच्छन्नः ॥ संपूर्वात् स्तृणातेर्मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५. २.)। ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ॥ तथा "विस्तिरः कदाचित् विस्तीर्णः सन् "सं "गृभायति संगृह्णात्योषधीः । किंचायं "जानन्नेव यजमानार्थं प्रवृद्धेन भवितव्यम् अतो ज्वालाभिः संयोज्यः इत्यधिगच्छन्नेव “जानतीः यजमानार्थं प्रवृद्धाभिर्भवितव्यम् इत्यवगच्छन्तीर्ज्वालाः “नित्यः अविच्छिन्नः सन् "आ “शये आशेते आश्रयतीत्यर्थः ॥ ‘लोपस्त आत्मनेपदेषु' इति तलोपः । एवंभूतज्वालाः "पुनः पूर्वं प्रवृद्धा एव पुनरपि यागयोग्या यथा भवन्ति तथा “वर्धन्ते । “देव्यं यागादिव्यवहारयोग्यं स्तुत्यं वा अग्निम् "अपि "यन्ति प्राप्नुवन्ति । यद्यप्यग्निज्वालयोरेकत्वं तथापि ‘राहोः शिरः' इतिवदौपचारिको गन्तृगन्तव्यभावः । किचैवं प्रवृद्धा ज्वाला ओषधयो वा “सचा अग्निना सह "पित्रोः जगत्पालयित्रोस्ताभ्यां संभूय द्यावापृथिव्योः "अन्यत् पूर्वमविद्यमानं तेजोमयं "वर्पः रूपं "कृण्वते कुर्वन्ति लोकद्वयं स्पृशन्तीत्यर्थः ।।
 
 
तम॒ग्रुव॑ः के॒शिनी॒ः सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒ः प्रायवे॒ पुन॑ः ।
 
तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥
 
तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे। ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र। आयवे । पुनरिति ।
 
तासाम् । जराम् । प्रऽमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन्। जीवम् । अस्तृतम् ॥८॥
 
"तम् अग्निम् "अग्रुवः अग्रतः स्थिताः । यद्वा । अङ्गुलिनामैतत् । अङ्गुलय इव अकुटिलाः । “केशिनीः केशस्थानीयोर्ध्वभाविकार्ष्ण्योपेता: ज्वालाः “सं “रेभिरे “हि परिरम्भं कुर्वन्ति खलु आलिङ्गन्ति । किंचैवं कुर्वत्यः “मम्रुषीः मृता अङ्गारभावापन्ना अपि ॥ म्रियतेः क्वसुप्रत्ययान्तात्
ङीपि रूपम् ॥ “आयवे आगच्छतेऽग्नये भर्त्रे “पुनः स्वोपद्रवमजानत्यः “ऊर्ध्वाः “प्र “तस्थुः ऊर्ध्वमुखा उन्नताः प्रतस्थिरे मृतप्राया अपि प्रत्युत्थानं कृतवत्य इत्यर्थः । एवं कृतवतीषु सतीषु स भर्ताग्निः “तासां
 
 
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभि॒ः सत्व॑भिर्याति॒ वि ज्रय॑ः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४०" इत्यस्माद् प्रतिप्राप्तम्