"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
== ==
{{सायणभाष्यम्|
' आ व इन्द्रम् ' इति द्वाविंशत्यृचं सप्तमं सूक्तं शुनःशेपस्यार्षं गायत्रम् । ' अस्माकम् ' इत्येषा पादनिचृद्गायत्री । ' त्रयः सप्तकाः पादनिचृत्। ' ( अनु. ४.४) इति उक्तत्वात्। । ' शश्वदिन्द्रः ' इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः । ' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पादनिचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ' इति ।।
इत्येषा त्रिष्टुप् । आदितः षोडशर्च ऐन्द्र्यः । ' आश्विनावश्वावत्या ' इत्याद्यास्तिस्र आश्विन्यः । ' कस्त उषः ' इत्याद्यास्तिस्र उषोदेवताकाः । तथा च अनुक्रमणिका- आ वो द्व्यधिकास्माकं पाद-
निचृच्छश्वत्त्रिष्टुप्पपरौ तृचावाश्विनोषस्यौ ' इति ।।
 
आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑ः श॒तक्र॑तुम् ।
Line ७४ ⟶ ७२:
 
मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥
 
“वाजयन्तः अन्नमिच्छन्तो वयं शुनःशेपाः हे ऋत्विग्यजमानाः “वः युष्माकं संबन्धिनमिमम् “इन्द्रम् “इन्दुभिः सोमैः “आ “सिञ्चे सर्वतः सिञ्चामहे तर्पयामः । कीदृशम् । "शतक्रतुं शतसंख्याककर्मोपेतं “मंहिष्ठम् अतिशयेन प्रवृद्धम् । सेचने दृष्टान्तः । “यथा येन प्रकारेण “क्रिविम् अवटं जलेन पूरयन्ति तद्वत् । क्रिविशब्दः ‘वव्रिः काटुः' इत्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूदः' (नि. ३. २३. ८ ) इति पठितम् ॥ क्रिविम् । ‘कृती छेदने । कृत्यते इति क्रित्विः । ‘क्रिविघृष्विच्छविस्थवि ' ( उ. सू. ४. ४९६ ) इत्यादौ किन्प्रत्ययान्तो निपातितः । अत एव तशब्दलोपः । नित्त्वादाद्युदात्तत्वम् । यथा । ‘यथेति पादान्ते' इति सर्वानुदात्तत्वम् । वाजयन्तः । वाजमात्मन इच्छन्तः । ‘सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घत्वयोर्निषेधः, ‘अश्वाघस्यात्' इति पुनदीर्घविधानात् ज्ञापकात् । मंहिष्ठम् । “महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । ‘तुश्छन्दसि' (पा. सू. ५, ३. ५९ ) इति तृजन्तात् इष्ठन्प्रत्ययः । “तुरिष्ठेमेयःसु ' (पा. सू. ६. ४. १५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिञ्चे । ' षिचिर् क्षरणे'। व्यत्ययेन एकवचनम् । ‘शे मुचादीनाम्' इति नुमागमः ॥
 
 
पङ्क्तिः ८७:
 
आ । इत् । ऊं इति । निम्नम् । न । रीयते ॥
 
"यः इन्द्रः “शुचीनां शुद्धानां सोमानां “शतं “वा शतसंख्याकं समूह वा "समाशिरां समीचीनेन आशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां “सहस्रं “वा सहस्रसंख्याकं समूहं वा "एदु “रीयते आगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टान्तः । निम्नं “न । यथा निन्नप्रदेशम् आपः आप्नुवन्ति तद्वत् ॥ समाशिराम् । ‘श्रीञ् पाके' इत्यस्य समाङ्पूर्वस्य क्विपि 'अपस्पृधेथाम् । इत्यादौ आशीरादेशो' निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । ‘रीङ् श्रवणे'। दिवादिभ्यः श्यन्' ।
 
 
Line १०० ⟶ १०२:
 
समुद्रः । न । व्यचः । दधे ॥
 
“यत् पूर्वोक्तं शतं सहस्रं वा “शुष्मिणे बलवत इन्द्रस्य मदाय मदार्थं संगतं भवति । “एना “हि अनेनैव शतेन सहस्रेण च "अस्य इन्द्रस्य “उदरे “व्यचः व्याप्तिः “दधे धृता भवति । तत्र दृष्टान्तः । “समुद्रो “न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । ‘सुपां सुलुक्' इति तृतीयायाः डादेशः । व्यचः । व्यचेः कुटादित्वमनसि ' ( का. १. २. १. १ ) इति ङिद्वद्भावस्य प्रतिषिद्धत्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणं न भवति । असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मणि अभ्यासह्रस्वजश्त्वेषु कृतेषु ' आतो लोप इटि च' इति आकारलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । ' हि च' इति प्रतिषेधात् निघाताभावः ॥
 
 
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिं ।
Line ११२ ⟶ ११७:
 
वचः । तत् । चित् । नः । ओहसे ॥
 
हे इन्द्र "अयमु अयमपि दृश्यमानः सोमः "ते त्वदर्थं संपादितः । यं सोमं “समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टान्तः । “कपोतइव। यथा कपोताख्यः पक्षी "गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । “तच्चित् तस्मादेव कारणात् “नः अस्मदीयं “वचः "ओहसे प्राप्नोषि ॥ अतसि। ‘अत सातत्यगमने '। कपोतइव । 'कबेरोतच् पश्च' ( उ. सू. १. ६२ ) इति ओतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयते इति गर्भधिः । 'कर्मण्यधिकरणे च' (पा. सू. ३. ३. ३९ ) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । ‘तुहिर् दुहिर् उहिर् अर्दने' । व्यत्ययेन आत्मनेपदम् ॥
 
 
Line १२५ ⟶ १३२:
 
विऽभूतिः । अस्तु । सूनृता ॥
 
हे इन्द्र "राधानां “पते धनानां पालक “गिर्वाहः गीर्भिरुह्यमान "वीर शौर्योपेत “यस्य “ते तव “स्तोत्रम् ईदृशं भवति तस्य तव “विभूतिः लक्ष्मीः "सूनृता प्रियसत्यरूपा "अस्तु ॥ स्तोत्रम् । दाम्नीशस ' ( पा. सू. ३. २. १८२ ) इति ष्ट्रन् । पश्चात् अर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थे अण् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न । राधानां पते । राध्नुवन्ति एभिरिति राधानि धनानि । ‘सुबामन्त्रिते' ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे'। ‘वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वस्यापि वहतेः असुन्प्रत्ययः, ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं' च इति उक्तत्वात् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । पूर्वपदस्य • र्वोरुपधायाः' (पा. सू. ८. २. ७६ ) इति दीर्घस्याभावश्छान्दसः । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । विभूतिः । ‘तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २८ ॥
 
 
Line १३९ ⟶ १४८:
सम् । अन्येषु । ब्रवावहै ॥
 
हे “शतक्रतो शतसंख्याककर्मोपेत “अस्मिन् प्रसक्ते "वाजे संग्रामे “नः अस्माकम् “ऊतये रक्षणाय “ऊर्ध्वः उन्नतः उत्सुकः “तिष्ठ भव । त्वं च अहं च मिलित्वा “अन्येषु कार्यान्तरेषु "सं “ब्रवावहै। सम्यक् विचारयावः ॥ तिष्ठ । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। ऊतये । ‘ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । अस्मिन् ।' उडिदम्' इत्यादिना सप्तम्या उदात्तत्वम् ॥
 
 
Line १५२ ⟶ १६२:
 
सखायः । इन्द्रम् । ऊतये ॥
 
“योगेयोगे प्रवेशेप्रवेशे तत्तत्कर्मोपक्रमे “वाजेवाजे कर्मविघातिनि तस्मिंस्तस्मिन् संग्रामे “तवस्तरम् अतिशयेन बलिनम् “इन्द्रमूतये रक्षार्थं "सखायः सखिवत् प्रिया वयं “हवामहे आह्वयामः ॥ योगेयोगे ।' युजिर् योगे'। हलश्च ' इति घञ् । 'चजोः कु घिण्ण्यतोः ( पा. सू. ७. ३.५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावे सति आम्रेडितानुदात्तत्वम् । तवस्तरम्। तवसः शब्दात् ‘ अस्मायामेधा° ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य च्छान्दसो लोपः ॥
 
 
Line १६५ ⟶ १७७:
 
वाजेभिः । उप । नः । हवम् ॥
 
"यदि “श्रवत् यद्ययम् इन्द्रः “नः अस्मदीयं “हवम् आह्वानं शृणुयात् तदानीं स्वयमेव “सहस्रिणीभिरूतिभिः बहुभिः पालनैः “वाजेभिः अन्नैश्च सह “उप समीपे “आ “घ अवश्यम् आगमत आगच्छेत् ॥ घ।' ऋचि तुनुघ' ' इत्यादिना संहितायां दीर्घः । गमत् । ‘लिङर्थे लेट् । 'लेटोऽडाटौ' इतिअडागमः। इतश्च लोपः०' इति इकारलोपः। यद्वा । छान्दसे लुङि • पुषादिद्युताद्यलृदितः परस्मैपदेषु (पा. सू. ३. १. ५५) इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । श्रवत् । ‘श्रु श्रवणे' । पूर्ववत् लेटि अडागमः। वाजेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । हवम् । ‘भावेऽनुपसर्गस्य' इति हृयतेः अप् संप्रसारणं च । अपः पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
 
 
Line १७८ ⟶ १९२:
 
यम् । ते । पूर्वम् । पिता । हुवे ॥
 
"प्रत्नस्य पुरातनस्य “ओकसः स्थानस्य स्वर्गरूपस्य सकाशात् "तुविप्रतिं बहून् यजमानान् प्रतिगन्तारं |नरं पुरुषम् इन्द्रम् |अनु हुवे अनुक्रमेण कर्मसु आह्वयामि । |यं |ते त्वाम् इन्द्रं "पिता अस्मदीयो जनकः |पूर्वं पुरा स्वकीयानुष्ठानकाले |हुवे आहूतवान् । तम् आह्वयामीति पूर्वत्रान्वयः॥ ओकसः । ‘नब्विषयस्य' इत्याद्युदात्तत्वम् । हुवे । “ह्वेञ् स्पर्धायां शब्दे च'। इटि ‘बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वम् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगन्तारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् प्रतिगन्तृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः ‘प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इतिवत् सत्ववचनत्वेन अनिपातत्वात् अनन्ययत्वे ‘पूरणगुण' (पा. सू. २. २. ११) इत्यादिना न षष्ठीसमासनिषेधः । हुवे । ह्वेञो लिटि ‘बहुलं छन्दसि' इति पूर्ववत् संप्रसारणपरपूर्वत्वे। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( पा. सू. ६. १. ८. २ ) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥
 
 
Line १९१ ⟶ २०७:
 
सखे । वसो इति । जरितृऽभ्यः ॥
 
हे "विश्ववार सर्वैर्वरणीय "पुरुहूत बहुभिः स्वस्वकर्मण्याहूत "सखे सखिवत् प्रिय "वसो निवासहेतो इन्द्र "तं पूर्वोक्तगुणयुक्तं त्वां "जरितृभ्यः स्तोतॄणामनुग्रहार्थम् "आ “शास्महे प्रार्थयामहे ॥ आ शास्महे । ‘आङः शासु इच्छायाम्'। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । वसो । ‘नामन्त्रिते समानाधिकरणे ' इति पूर्वस्य अविद्यमानवत्त्वनिषेधात् पराङ्गवद्भावे सति शेषनिघातेन वा आमन्त्रितस्य च ' इति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादन्तोदात्तत्वम् ॥ ॥ २९ ॥
 
 
Line २०४ ⟶ २२२:
 
सखे । वज्रिन् । सखीनाम् ॥
 
हे "सोमपाः सोमस्य पातः "सखे सखिवत् प्रिय "वज्रिन् वज्रयुक्तेन्द्र "सखीनां सखिवत् प्रियाणां "सोमपाव्नां सोमस्य पातॄणाम् अस्माकं "शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहः स्वरप्रसादादस्त्विति शेषः ॥ शिप्रिणीनाम् ।' ऋन्नेभ्यो ङीप्' इति ङीप् । तस्य पित्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः। आमन्त्रितस्य सतिशिष्टत्वात् आमन्त्रिताद्युदात्तत्वम्। सोमपाव्नाम् । ‘आतो मनिन् ' इत्यादिना वनिप् ।' अल्लोपोऽनः ' ( पा. सू. ६. ४. १३४ ) इति अनः अकारस्य लोपः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्