"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९३:
यम् । ते । पूर्वम् । पिता । हुवे ॥
 
"प्रत्नस्य पुरातनस्य “ओकसः स्थानस्य स्वर्गरूपस्य सकाशात् "तुविप्रतिं बहून् यजमानान् प्रतिगन्तारं |"नरं पुरुषम् इन्द्रम् |"अनु हुवे अनुक्रमेण कर्मसु आह्वयामि । |"यं |"ते त्वाम् इन्द्रं "पिता अस्मदीयो जनकः |"पूर्वं पुरा स्वकीयानुष्ठानकाले |"हुवे आहूतवान् । तम् आह्वयामीति पूर्वत्रान्वयः॥ ओकसः । ‘नब्विषयस्य' इत्याद्युदात्तत्वम् । हुवे । “ह्वेञ् स्पर्धायां शब्दे च'। इटि ‘बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वम् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगन्तारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् प्रतिगन्तृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः ‘प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इतिवत् सत्ववचनत्वेन अनिपातत्वात् अनन्ययत्वे ‘पूरणगुण' (पा. सू. २. २. ११) इत्यादिना न षष्ठीसमासनिषेधः । हुवे । ह्वेञो लिटि ‘बहुलं छन्दसि' इति पूर्ववत् संप्रसारणपरपूर्वत्वे। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( पा. सू. ६. १. ८. २ ) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्