"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९५:
 
हे “दिवः दुहितः द्युदेवतायाः पुत्रि उषो देवि “त्येभिः “वाजेभिः तैरन्नैः सह “त्वम् “आ “गहि अत्रागच्छ । “अस्मे अस्मासु “रयिं धनं “नि “धारय नितरां स्थापय ॥ त्येभिः । 'बहुलं छन्दसि' इति त्यशब्दात् भिस ऐसादेशाभावः । गहि । असकृदुक्तम् । दुहितर्दिवः । परस्यापि दिव इत्यस्य दिवः दुहितः इत्यन्वये सति पूर्वत्वात् ‘सुबामन्त्रिते' इति पराङ्गवद्भावेन षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम् । यद्वा । ‘कार्यकालं हि संज्ञापरिभाषम् ' ( परिभा. ३ ) इति न्यायेन ‘सुबामन्त्रिते॰ ' इत्यस्य ‘आमन्त्रिस्य च ' इति आष्टमिकेन योगेनैकवाक्यत्वे सति परत्वात् पराङ्गवद्भावे सति सर्वानुदात्तत्वम्। कृतस्वरयोः षष्ठ्यामन्त्रितयोः पश्चात् ‘व्यत्ययो बहुलम्' इति व्यत्यस्तप्रयोगः । अस्मे । “ सुपां सुलुक् ' इति सप्तम्याः शेआदेशः ॥ ३१ ॥ ॥ ६ ॥
}}
 
== ==
{{टिप्पणी|
१. आ वः इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम्। मंहिष्ठं सिञ्च इन्दुभिः।। क्रिविः इति कूपनाम। यथा क्रिविं उदकेन सिञ्च्यते, एवं शतक्रतुं इन्द्रं इन्दुभिः सिच्यते। केन प्रकारेण। वाजयन्तः। वाजसंज्ञकं बलं प्रापयित्वा। क्रिविः। कॄ - विक्षेपे। विक्षेपाणां, पापानां, दोषाणां द्विप्रकाराः भवितुं शक्यते। दोषाः येषां अपनयनं संभवमस्ति एवं दोषाः येषां अपनयनं संभवं नास्ति। यदि कोपि व्याधिः जन्मजाता अस्ति, तस्याः अपनयनं केन प्रकारेण भवेत्, अयं प्रश्नः। ऋग्वेद [[ऋग्वेदः सूक्तं ८.५१|८.५१.८]] मध्ये क्रिवेः सेचनं ओजसा कर्तुं निर्देशः अस्ति (प्र यो ननक्षे अभ्योजसा क्रिविम् इति)। ऋग्वेद [[ऋग्वेदः सूक्तं ८.२०|८.२०.२४]] मध्ये दक्षता द्वारा क्रिवेः पूरणस्य निर्देशमस्ति ( याभिर्दशस्यथा क्रिविम्)।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्