"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१२:
स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥
 
“मे मम "अत्र अस्मिन् स्तोत्रे "उक्तं मया कथितं "सत्यमित् यथाभूतमेव "मंससे त्वं जानीहि । अर्थवादरूपेण नैतदध्यारोपितगुणमित्यर्थः। “उ इति पूरणः । किंच "द्विपाच्च मनुष्यादिकं च “चतुष्पात् च पश्वादिकं च "यत् स्थावरजङ्गमात्मकं जगत् "संसृजानि अहमुत्पादयनीति त्वं जानीहि । “अत्र अस्मिञ्जगति "स्त्रीभिः स्त्रीसदृशैः बलादिहीनैः पुरुषैः सह "यः शूरंमन्यो जनः "वृषणम् अभिलषितस्य वर्षितारं माम् । परित्यज्येति शेषः । "पृतन्यात् युद्धं कर्तुमिच्छति अहम् "अस्य ईदृशस्य स्वभूतं "वेदः धनम् "अयुद्धः तेन पुरुषेणायोद्धा सन् बलादपहृत्य "वि "भजानि स्तोतृभ्यो यष्टृभ्यश्च ददामीत्यर्थः ॥ ॥ १६ ॥
 
 
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।
Line २२६ ⟶ २२७:
कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥
 
“यस्य इन्द्रस्य मम कारणरूपेणावस्थितस्य "अनक्षा अक्षिवर्जिता दर्शनहीना । अचेतनेत्यर्थः। “दुहिता प्रकृत्याख्या "जातु कदाचित् "आस । असतेर्गत्यर्थस्य लिटि रूपम् । सामर्थ्यात् महाप्रलये मय्येव लीना सती सर्वत्र वर्तते “तां प्रकृतिं "विद्वान् मय्येव लीनां जानन् मत्तोऽन्यो देवः "कः भवति । न कोऽपीत्यर्थः । अपि च “अन्धा दर्शनहीनामचेतनां ताम् "अभि “मन्याते आत्मन्याश्रयप्रदानेन को देवोऽभिपूजयति । यद्वा । क्षीरोदकवत् घटाकाशवच्च मया सहैकीभूतां तामाभिमुख्येन को जानाति । अहमेव सर्वज्ञः स्वात्मन्याश्रयप्रदानेनाभिपूजयामि । मया सहैकीभूतां तां तत्त्वतोऽहमेव जानामि नान्य इति । किंच "कतरः देवः “मेनिं वज्रं "तं प्रसिद्धं वृत्रादिशत्रुं "प्रति “मुचाते मुञ्चति । स्वयमेव प्रश्नमुत्थाप्येदानीं प्रतिब्रूते । "यः देवः "ईम एनं शत्रुं "वहाते वहति । अपि "वा यः “ईम् एनं “वरेयात् वरयितुमिच्छति । स चाहमेव नान्यो मत्सदृशोऽस्तीत्यर्थः ॥
 
 
Line २४० ⟶ २४२:
भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥
 
“कियती किंपरिमाणा “योषा स्त्रीजातिः "मर्यतः मनुष्यसंबन्धिनो भोगानाचरतः "वधूयोः स्त्रीकामस्य सर्वात्मकस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य “परिप्रीता अनुरक्ता। वशवर्तिनीत्यर्थः । कीदृशस्य । “वार्येण वरणीयेन "पन्यसा स्तोत्रेण स्तुतस्य सत इति शेषः । अपि च "यत् या "वधूः "भद्रा कल्याणी "सुपेशाः शोभनरूपा च "भवति “सा द्रौपदीदमयन्त्यादिका वधूः "स्वयम् आत्मनैव “जने "चित् जनमध्येऽवस्थितमिति “मित्रं प्रियमर्जुननलादिकं पतिं "वनुते याचते । स्वयंवरधर्मेण प्रार्थयते । स च प्रीयमाणो वरजनोऽहमेवेत्यभिप्रायः । ‘रूपंरूपं प्रतिरूपो बभूव' ( ऋ. सं. ६. ४७. १८) इति मन्त्रलिङ्गात्सर्वात्मकत्वादिति ॥
 
 
Line २५४ ⟶ २५७:
आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥
 
अत्रादित्यात्मनेन्द्रः स्तूयते तदंशत्वात् । आदित्यरूपीन्द्रः “पत्तः रश्म्याख्यैः पादैः "जगार वृष्टिलक्षणमुदकं गिरति गृह्णाति वा । गृहीत्वा च "प्रत्यञ्चम् आत्मानं प्रतिगतमुदकम् "अत्ति भक्षयति । मण्डलेऽवस्थापयतीत्यर्थः । तदनन्तरं "वरूथं वरणीयं वृष्टिलक्षणमुदकं “शीर्ष्णा शिरःस्थानीयेन रश्मिजालेन “शिरः सर्वस्य लोकस्य मस्तकं “प्रति “दधौ दधाति । प्रतिक्षिपतीत्यर्थः । किंच “उपसि उपस्थे स्वसमीपस्थाने मण्डले “आसीनः उपविष्टः सन् “ऊर्ध्वाम् उद्गतां स्वदीप्तिं “क्षिणाति हिनस्ति । आलोककरणाय प्रक्षिपतीत्यर्थः । "न्यङ् रश्मिसमूहरूपेण नीचैरञ्चिता गन्ता सन् “उत्तानां विस्तृतां "भूमिम् "अन्वेति अनुगच्छति ।।
 
 
Line २६८ ⟶ २७२:
अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥
 
वसुक्रोऽनयादित्यात्मानमिन्द्रं स्तौति। "बृहन् महानादित्यः "अच्छायः छायावर्जितः । तमोरहित इत्यर्थः। “अपलाशः पर्णरहितः पराशदनवर्जितः । विनाशरहित इत्यर्थः । "अर्वा सततगामी “तस्थौ तिष्ठति । किंच “माता वृष्टिप्रदानद्वारेण सर्वस्य जगतो निर्माता "विषितः विमुक्तः । निलम्बन इत्यर्थः । “गर्भः त्रैलोक्यस्य गर्भभूत आदित्यात्मेन्द्रः “अत्ति हवींषि भक्षयति । यद्वा । अनेन विनाशनं लक्ष्यते । पापानि नाशयति । किंच अन्यस्याः अदित्याख्याया देवमातुः "वत्सम् अपत्यभूतमादित्यं “रिहती आस्वादयन्ती उपजीवन्ती वर्धयन्ती “मिमाय निर्मिमीते । पूर्वस्यां दिश्यहन्यहन्युत्पादयन्तीत्यर्थः। "कया “भुवा केन भावेनाभिप्रायेण । भक्त्या भयेन वेत्यर्थः। “धेनुः द्यौरुदकस्याधारत्वात् क्षरितृत्वाच्च ऊधःस्थानीयमादित्यं "नि “दधे स्थापयति । यद्वा । धेनुर्गौरूधो यथा तद्वदादित्यं द्यौर्धारयति ।।
 
 
Line २८२ ⟶ २८७:
नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥
 
अनयेन्द्रः प्रजापतिरूपेण स्तूयते । "सप्त सप्तसंख्याकाः "वीरासः प्रजापतेः पुत्रा विश्वामित्रादयः "अधरात् प्रजापतेरधःकायात् "उदायन् उत्पन्ना बभूवुः । "अष्ट अष्टसंख्याकाः "ते प्रसिद्धा वालखिल्यादयः "उत्तरात्तात् उत्तरात्कायप्रदेशात् "समजग्मिरन् संजज्ञिरे । "स्थिविमन्तः स्थानवन्तः “नव नवसंख्याका भृगवः "पश्चातात् पृष्ठतः “आयन् आगताः। उत्पन्ना इत्यर्थः। तथा "दश दशसंख्याका अङ्गिरसः "प्राक् अग्रत उत्पन्नाः सन्तः "अश्नः अशनवतो द्युलोकस्य “सानु उन्नतप्रदेशं “वि “तिरन्ति वर्धयन्ति । अपर आह । सप्तसंख्योपेता वीरा मरुतोऽधरादिन्द्रस्य दक्षिणभागादुदगमन् । अष्टसंख्याकास्ते मरुत उत्तरभागात् संगच्छन्ते । स्थानवन्तो नवसंख्याकास्ते मरुतः पृष्ठभागादागच्छन्ति । दशसंख्याकास्तेऽश्नोऽशनवत इन्द्रस्य प्राक्प्रदेशे स्थिताः समुच्छ्रितमुदकं तेजो वा “वि “तिरन्ति । मरुतः प्रतिदिशमवस्थायेन्द्रस्य साहाय्यं कुर्वन्तीत्यर्थः ॥ ॥ १७ ॥
 
 
Line २९६ ⟶ ३०२:
गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥
 
"दशानां दशसंख्याकानां पूर्वोक्तानामेवाङ्गिरसां मध्ये "एकं मुख्यं "कपिलम् एतन्नामानं "तं प्रसिद्धमृषिम् । कीदृशम् । "समानं सदृशम् । केन । सामर्थ्यात् प्रजापतिना। "हिन्वन्ति अवशिष्टा अङ्गिरसः प्रेरयन्ति । किमर्थम् । "क्रतवे यज्ञादिजगत्र्"वर्तनकर्मणे । यद्वा । सम्यग्ज्ञानलक्षणप्रज्ञानाय । कीदृशाय । "पार्याय परिसमापयितव्याय प्रणेतव्याय वा । यज्ञादिकर्मोपदेशनायेत्यर्थः । "माता प्रकृत्याख्या च "वक्षणासु। वक्षणा इति नद्य उच्यन्ते । ताभिश्चात्रापो लक्ष्यन्ते । प्रकृतिस्थासु सूक्ष्मास्वप्सु "सुधितं सुहितम् । प्रजापतिना स्थापितमित्यर्थः । "अवेनन्तम् । वेनतिः कान्तिकर्मा । तत्र निवासमकामयमानं तादृशं प्रजापतेः "गर्भं "तुषयन्ती तुष्यन्ती सम्यग्ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती “बिभर्ति प्रजापतेर्नियोगाद्धारयति ।।
 
 
Line ३१० ⟶ ३१७:
द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥
 
“वीराः प्रजापतेः पुत्रा अङ्गिरसः "पीवानं स्थूलम् । मेदोमांसादियुक्तमित्यर्थः। "मेषम् अजम् “अपचन्त प्रजापतिरूपस्येन्द्रस्यार्थाय पक्ववन्तोऽभवन् । पशुयागं कुर्वन्त इत्यर्थः । किंच। लुप्तोपममेतत् । यथा देवानाम् "अक्षाः “दीवे देवने रमणस्थाने “न्युप्ताः निक्षिप्ताः सन्तः "अनु “आसन् संक्रीडमानयोर्द्वयोरेकतरस्यानुगता भवन्ति तथा सर्वेऽङ्गिरसः प्रजापतेरनुगता भवन्ति। “द्वा अङ्गिरसां मध्ये द्वावङ्गिरसौ “धनुम् । धनुशब्दोऽत्र धनुःशब्दपर्यायो धनशब्दपर्यायो वा । धनुर्यथा वधसाधनं तथाज्ञानादिवधसाधनं धनवत्प्रीतिकरं वा। कपिलमित्यर्थः । "बृहतीं प्रजापतेराज्ञया वर्धयित्रीं प्रकृतिम् "अप्स्वन्तः प्रकृतिस्थानां सूक्ष्मणामुदकानां मध्ये "चरतः प्रजापत्यादेशादाराधयतः। कीदृशौ । "पवित्रवन्ता पवित्रवन्तौ । मन्त्रः पवित्रमुच्यते । ध्यानसाधनप्रणवमन्त्रवन्तौ "पुनन्ता शुद्धौ। प्रणवध्यानेनात्मानं संस्कुर्वन्तावित्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्