"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
</span></poem>
{{ऋग्वेदः मण्डल १०}}
 
== ==
{{सायणभाष्यम्|
‘असत्सु मे ' इति चतुर्विंशत्यृचमेकादशं सूक्तमिन्द्रपुत्रस्य वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम्-- असत्सु चतुर्विंशतिरैन्द्रो वसुक्रः' इति । महाव्रते मरुत्वतीयशस्र एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च--- असत्सु मे जरितः साभिवेगः पिबा सोममभि यमुग्र तर्दः' (ऐ. आ. ५. १, १) इति ॥
पङ्क्तिः ३३२:
अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥
 
“वि “क्रोशनासः विविधं प्रजापतिं पितरमाह्वयन्तः “विष्वञ्चः नानागतयो नानापूजना वा सर्वेऽङ्गिरसः "आयन् आगच्छन् । प्रजापतेः सकाशादुत्पन्ना इत्यर्थः । उत्पद्यमानः “नेमः अर्धोऽङ्गिरसां मध्य एको भागः "पचाति प्रजापत्यर्थं हवींषि पचति । “अर्धः अपरो भागः “नहि "पक्षत् नहि पचति । एतत्सर्वं कथमज्ञायि उच्यते । “अयम् ईदृशः “देवः द्योतमानः “सविता सर्वस्य प्रेरक आदित्यो वा प्रजापतिर्वा “मे मह्यं “तत् सर्वं यथोक्तम् “आह । किंच “सर्पिरन्नः घृतौदनः “द्रन्न “इत् दार्वोदनः अग्निरपि “वनवत् हविर्द्वारेण प्रजापतिं वनति संभजते ॥
 
 
Line ३४६ ⟶ ३४७:
सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥
 
“अपश्यं वसुक्रोऽहं प्रजापतिरूपमिन्द्रं सम्यग्ज्ञानेन दृष्टवानस्मि । कीदृशम् । “ग्रामं भूतसंघं “वहमानं वाहयन्तम् । सृजन्तमित्यर्थः । कुतः । “आरात् दूरात् । उपादानकारणात्प्रकृतित इत्यर्थः ।। “अचक्रया चक्रवर्जितया रथहीनया “स्वधया स्वयमात्मानं धारयन्त्या सेनया “वर्तमानम् आगच्छन्तम् । एवंभूतमपश्यमित्यर्थः । किंच “अर्यः सर्वस्य स्वामीन्द्रः "जनानां यजमानानां कार्यत्वेन संबन्धिनः "युगा युगानि यज्ञकालविशेषान् “प्र “सिषक्ति प्रकर्षेण सेवते । कीदृशः । “सद्यः तदानीमैव “शिश्ना शिश्नानि । ‘शिश्नं श्नथतेः ' ( निरु. ४. १९) इति निर्वचनात् श्नथितॄणि ताडयितॄणि राक्षसादिवृन्दानि “प्रमिनानः प्रकर्षेण हिंसन् "नवीयान् शरीरेण च बलपौरुषनयनादिभिश्च नवतरः ॥
 
 
Line ३६० ⟶ ३६२:
आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥
 
कार्यकारणयोरभेदोपचारात् ‘आत्मा वै पुत्रनामासि' ( आश्व. गृ. १.१५.११) इति वचनाच्चेन्द्ररूपेणावस्थितस्य “प्रमरस्य प्रकर्षेण शत्रूणां मारयितुः “मे मम स्वभूतौ “एतौ एतादृशौ "युक्तौ रथे नियुक्तौ "सु सुष्ठु पूजितौ “गावौ शत्रून् यज्ञांश्च प्रति गन्तारौ हरी "मो “प्र “सेधीः । स्तुत्युपसंहारकरणेनास्मद्यज्ञान्मापगमय । किं तर्हि “मुहुरित् मुहुर्मुहुः “ममन्धि पुनःपुनः स्तुहि ममात्मन्नित्यर्थः । “आपश्चित् वृष्टिलक्षणान्युदकान्यपि “अस्य इन्द्रस्य “अर्थं गतिं “वि “नशन्ति । विनशतिर्व्याप्तिकर्मा । व्याप्नुवन्ति । तथा “सूरश्च सूर्यश्च व्याप्नोति । कीदृशः । “मर्कः मार्जयिता सर्वस्य शोधयिता “उपरः मेघसदृशः “बभूवान् भवन् । मेघवच्छीघ्रगतिः सन्नित्यर्थः ॥ ॥ १८ ॥
 
 
Line ३७४ ⟶ ३७७:
श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥
 
“यः "अयं “वज्रः इन्द्रस्य स्वभूतः “सूर्यस्य आदित्यस्य "बृहतः महतः “पुरीषात् पूरकात् मण्डलात् “अवः अवस्तादधोभागे स्थितेषु “विवृत्तः वृष्ट्यर्थं प्रवृत्तः पतितः । इच्छब्दोऽप्यर्थे । तच्छब्दश्रुतेर्यच्छब्दोऽध्याहार्यः । "परः परस्तादन्तरिक्षलोकस्योपरि स्थिते सूर्यमण्डले स्थितम् “एना एनत्। “श्रवः इत्यन्ननाम । तद्धेतुत्वादुदकं श्रव इत्युच्यते । यदप्युदके मेघोदरगतादुदकात् “अन्यत् अपि “अस्ति “अव्यथी व्यथारहिताः “जरिमाणः स्तोतारो मरुदादयः “तत् तादृशमुदकं “तरन्ति अन्तरिक्षलोकं प्रत्यवतारयन्ति ।
 
 
Line ३८८ ⟶ ३९२:
अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥
 
“वृक्षेवृक्षे सर्वस्मिन् वृक्षमये धनुषि “नियता संबद्धा "गौः गोसंबन्धिनी स्नायुमती “मौर्वी “मीमयत् । मीमयतिः शब्दकर्मा। आकृष्यमाणा सती शब्दं करोति । “ततः तस्माद्धनुषः “पुरुषादः शत्रुजनानामत्तारः। मारयितार इत्यर्थः । “वयः पक्षिसदृशा गन्तारो बाणाः “प्र “पतान् शत्रून् प्रति प्रपतन्ति। “अथ तदानीम् “इन्द्राय इन्द्रार्थं “सुन्वत् सोमयागं कुर्वत् “ऋषये “च “शिक्षत् कर्मणां द्रष्ट्र ऋत्विजे च संपूर्णां दक्षिणां दददपि “इदम् ईदृशं “विश्वं समस्तं “भुवनं भूतजातं “भयाते इन्द्राद्बिभेति । अन्यत्किमुतेत्यर्थः ॥
 
 
Line ४०२ ⟶ ४०७:
त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥
 
"देवानां सर्वेषां "माने निर्माणे । सृष्टिकाल इत्यर्थः । जगत्स्थितिहेतुभूतरसानुप्रदानकर्मणि स्रष्टव्यत्वेन “प्रथमा “अतिष्ठन् इन्द्रादेशादेते पूर्वे स्थिताः । क एते । मेघाः। कुत एतदवगम्यते । परस्मिन् पादे तेषामनुकथनात् । उक्तं हि मेघा एव माध्यमिका देवगणा इति (निरु. २. २२)। “एषाम् एवंभूतानां मेघानां कृन्तत्रात् छेदनात् "उपराः । मेघनामैतत् । तत्रस्था आप उच्यन्ते । मेघस्था आपः "उदायन् उत्पन्नाः । वृष्टिभावेन भूमौ निपातिता इत्यर्थः । पातितास्वप्स्विन्द्रस्याज्ञया पर्जन्यो वायुरादित्य इत्येते “त्रयः देवाः पृथिवीं भूमिम् । तत्रस्था ओषधीरित्यर्थः । “तपन्ति वृष्टिशीतोष्णैः संतापयन्ति। पावयन्तीत्यर्थः । कीदृशाः । “अनूपाः वर्षादीनामानुपूर्व्येण वप्तारः प्रभावयितारः । प्रक्षेप्तार इत्यर्थः । “द्वा द्वौ वाय्वादित्यौ पाचितास्वोषधीषु स्थितं “पुरीषं सर्वस्य प्रीणयितृ पूरयितृ वा “बृबूकम् उदकमादित्यमण्डलं प्रति “वहतः । वायुः शोषयन्नादित्यो रश्मिभिराददान इत्यर्थः ॥
 
 
Line ४१६ ⟶ ४२२:
आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥
 
अत्रान्तरात्मनेन्द्रः स्तूयते । हे अन्तरात्मन् "ते तव "सा तादृश्यादित्यात्मिका देवता "जीवातुः जीविका जीवनहेतुः । “उत अपि च “तस्य आदित्यस्य “एतादृक् ईदृशं स्वरूपं समर्ये । संग्रामवाची समर्यशब्दोऽत्र यज्ञवाची । यज्ञे “विद्धि जानीहि । स्तुत्यत्वेनेति शेषः । “मा "स्म “अप “गूहः मा खल्वपवृणोः । किंच “निर्णिजः सर्वस्य शोधयितुरादित्यस्य “स “पादुः तच्च पादनं गमनं रश्मिद्वारेण गत्वा “स्वः सर्वं त्रैलोक्यम् “आविः “कृणुते प्रकाशीकरोति। "बुसम् उदकं “गूहते संवृणोति । आदत्त इत्यर्थः । अस्मै प्रयोजनद्वयायादित्येन निर्वेदनाच्छ्रमेण वा गमनं “न “मुच्यते । न कदाचित्परित्यज्यत इत्यर्थः ॥ ॥ १९ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्