"जैमिनीयं ब्राह्मणम्/काण्डम् १/२६१-२७०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">तां बलवद् उपब्दिमतीं निघातं... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">तां बलवद् उपब्दिमतीं निघातं गायेत्। निघ्नद् अव ह खलु वा एतच् छन्दो यद् अनुष्टुप्। अनुष्टुभा वै वाचा छन्दसा देवा असुरान् अवाचो ऽवाघ्नन्। तां यद् बलवद् उपब्दिमतीं निघातं गायति -- भ्रातृव्यो वै पाप्मा -- भ्रातृव्यम् एतत् पाप्मानं वाचम् अवहन्ति श्रियम् आत्मनाश्नुते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अजिह्वा गर्भा जायेरन्। अजिह्वा ह वै दुरुद्गातुर् वर्तन्या गर्भा जायन्ते॥
 
पंक्तिं गायति। ऋतवो वै पंक्तिः। तां गायत्रीम् एव प्रसृतां गायति। तस्माद् गर्भा जायमानाः प्रसार्यन्ते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेत् सामि गर्भाः पतेयुः। सामि ह वै दुरुद्गातुर् वर्तन्यां गर्भाः पतन्ति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥
पङ्क्तिः ८३:
 
 
</span></poem>