"जैमिनीयं ब्राह्मणम्/काण्डम् १/१२१-१३०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">देवा वा असुरान् हत्वापूता इ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्याश् श्रितास् स्याम गच्छेम स्वर्गं लोकम् इति। त एता ऋचो ऽपश्यन्। ताभिर् अपुनत। पुनानस् सोम धारयापो वसानो अर्षसि इति। आपो वै पवित्रम्। अद्भिर् एवापुनत। आ रत्नधा योनिम् ऋतस्यसीदसि इति। अन्तरिक्षं वा ऋतम्। अन्तरिक्षम् एवैतेनात्यायन्। उत्सो देवो हिरण्ययः इति। असौ वै लोक उत्सो देवः। अमुम् एवैतेन लोकम् उपासीदन्। ततो वै ते पूता मेध्याश् श्रिता अभवन्न् अगच्छन् स्वर्गं लोकम्। पूतो मेध्यश् श्रितो भवति गच्छति स्वर्गं लोकम् एताभिर् ऋग्भिस् तुष्टुवानः॥1.121॥
 
 
पङ्क्तिः ३३:
 
<poem>स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजना रक्षमाणः।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥</poem>
इति। आ दिवो विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां जग्मतुः। तौ हागतौ महयांचक्रे
<poem>ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन।
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥</poem>
 
इति। ता एताः पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः। तास्व् औशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतल् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एते तुष्टुवानः। यद् उशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते॥
पङ्क्तिः ६८:
 
 
</span></poem>