"जैमिनीयं ब्राह्मणम्/काण्डम् २/१११-१२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
 
धारयन्त्य् अग्निं, व्याघारयन्त्य् उत्तरवेदिम्। एतद् एनां तत् पूर्वाम् अग्नेर् आहुतिर् अश्नुते। अथैतेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्यभिहितम् आनयन्न् - इमम् उ वै प्रतिगृह्णीतेति। ते ऽब्रुवन् श्रेयान् उ वावायम् अस्मन्, नो वावेमम् उद्यंस्याम इति। तान् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - विच्छेत्स्यन्ते वा अदक्षिणा यज्ञाः, प्रतिगृह्णीतेति। तद् एवाभ्यनूच्यते -
<poem>आदित्या ह जरितर् अंगिरोभ्यो ऽश्वं दक्षिणाम् अनयंस्
तं ह जरितर् न प्रत्यायंस् तं ह जरितर् न प्रत्यगृह्णंस्
ताम् उ ह जरितः प्रत्यायंस् ताम् उ ह जरितः प्रत्यगृह्णन्न्
अहा नेद् असन्न् अपुरोगवाणि यज्ञा नेद् असन्न् अविचेतनासः॥2.116॥</poem>
 
 
<poem>आदित्य रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्य् अंगिर
इदं राधो बृहत् पृथु देवा ददतु वो वरम्
तद् वो अस्तु सुचेतनं
युष्मे अस्तु दिवे दिवे प्रत्य् एव गृभायत॥</poem>
इत्य् एवैनान् प्रत्यग्राहयन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न्, अहीयन्तांगिरसः। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद्, य स्पर्धेत, स एतेन यजेत। हीयते ऽस्य पाप्मा भ्रातृव्यो, गच्छति स्वर्गं लोकम्। यवोर्वरा वेदिर् भवति। सा हि पुराकृता हि भवति। यवानाम् उत्तरवेदिः। यवैर् वा आदित्या अंगिरसां यज्ञम् अयुवत। यद् यज्ञं यवैर् अयुवत तद् यवानां यवत्वम्। यवैर् एव द्विषतो भ्रातृव्यस्य यज्ञं युते। खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। पुमान् गौस् सोमक्रयणो भवति - वीर्यं वै पुमान् - वीर्यवन्तो ऽसामेति। साण्डो भवति सेन्द्रत्वाय। कुंभ्या वसतीवर्य्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। सर्पिष्मन्तम् अशित्वा निपद्यते। यम् एवामुं दीक्षणीयम् अश्नाति स एवास्य सो ऽशितो भवति। प्रियायै जायाया अन्तरोरु शेते निपद्यमानः। तपस्यम् एवास्य तद् धिरण्यम् मुख आधाय शेते। सत्यं वै हिरण्यम्। सत्यम् एवास्य तद् उदितं भवति॥2.117॥