"जैमिनीयं ब्राह्मणम्/काण्डम् २/२६१-२७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽक्रामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। सो ऽशोचत्। सो ऽतप्यत। तं शोचन्तं तप्यमानं प्राणा अभ्यवदन् - वयं वा इमं यज्ञम् अदृशम् तेन त्वा याजयामेति। सो ऽब्रवीत् - तं कथम् अद्राष्ट, कतमम् अद्राष्टेति। ते ऽब्रुवन्न् - आश्रावयास्तु श्रौषट्। यज ये यजामहे। वौषड् इत्य् एतम् अदृश्मेति। सो ऽवेद् - अदृशन् वा इति। यत् पञ्चासन्, पांक्तो यज्ञः। तेनावेद - अदृशन् वा इति। तेषाम् उ यत् पञ्चानां सतां सप्तदशाक्षराण्य् आसन् - सप्त - दशः प्रजापतिः - प्राजापत्यो यज्ञः। तेनो एवावेद् अदृशन् वावेति। सो ऽब्रवीत् - ते केन होष्यामः, कस्मिन् होष्याम इति। ते ऽब्रुवंस् - तवैव वपाम् उत्खिद्य तां तवैव हृदये ऽग्नौ सर्वहुतां होष्याम इति। ते प्रजापतेर् एव वपाम् उदखिदन्। वाचम् एव तेषां प्राण एवाश्रावयद्, अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तां प्रजापतेर् एव हृदये ऽग्नौ सर्वहुताम् अजुहवुः। तां यद् अवपंस् तद् वपायै वपात्वम्। यद् वो एनां तद् अजुहवुस् तद् एनाम् अवपन्। तस्माद् उ ह वप्तव्यम् एव। उप्ताद् ध्य् एवेदं सर्वं जायते। तस्यै हुताया अजः - ॥2.261॥
 
 
पङ्क्तिः १२:
 
सा या सहस्रतम्य आस विद्युद् धैव सा भूत्वा प्रजापतिं विवेश। तद् एषाभ्यनूच्यते -
<poem>अयं स शिंक्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता।
सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत॥</poem>
इति। इमां हैव गां रूपं प्रत्युह्य विद्युद् एव भूत्वा पुनः प्रजापतिं प्रविवेश। सैषा विद्युत् सा यद् एतत् स्तनयति ददददददेति। ददानि ददानीति हैव तत् प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति। प्रास्मा एषा देवता वृष्टिम् अन्नाद्यं यच्छति य एवं वेद॥2.265॥
 
पङ्क्तिः ३०:
 
तां हालंकुर्वाणां रुदतीं पतिर् आजगाम। तां होवाच - किम् अलंकुरुषे किं रोदिषीति। सा होवाच - मरिष्यसि हीत्य् आत्मानम् एवतैत् कृपये। यवक्रीर् चेत्याम् अच्छावोचतेति। स होवाचाज्यम् अत आहरतेति। तद् ध पवित्राभ्याम् उत्पूय जुहवांचकार -
<poem>या नो अद्य त्रायाति भारद्वाजस्य संस्कृता
प्रेणीम् अग्निप्रियाम् अग्ने तां मह्यम् आ वह॥ स्वाहा।</poem>
इति। तस्यै ह तद्रूपाम् एवाप्सरसम् उत्थापयांचकार। तां होवाचासौ यवक्रीस्, तद् इहीति। द्वितीयं ह जुहवांचकार -
<poem>गन्धर्वम् उग्रं बलिनम् अश्मघातिनम् अंसलम्
भारद्वाजस्य हन्तारं विश्वज्योतिषम् आ वह॥ स्वाहा।</poem>
इति। तस्यै हायः कूटहस्तं गन्धर्वम् ईर्ष्युम् उत्थापयांचकार। तं होवाचासौ ते जाया यवक्रीयम् अभ्यगात्। तद् इहीति। तस्यै हायत्या उपतस्तार। सा ह सिष्मिये। स होवाच - नाह किल ते स्त्रिके रमेतव्यम्। अथ स्मयस इति। कथा हेति। मरिष्यसि हीति। सा ह पादं प्रगृह्णत्य् उवाच - न खलु त्वं पुरुषेत्थंपदीं स्त्रियं पेचिष इति। लोमशौ हास्या अधस्तात् पादाव् आसतुः। संनिपन्नौ वा हासंनिपन्नौ वासतुः। अथ हेदम् एवायः कूटहस्तो गन्धर्वो ऽभिविचक्रमे। स होवाच - नमस् ते ऽस्तु। कास्य प्रायश्चित्तिर् इति॥2.270॥
 
 
</span></poem>