"जैमिनीयं ब्राह्मणम्/काण्डम् ३/०२१-०३०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य जैमिनीयं ब्राह्मणम्/काण्डम् ३/२१-३० पृष्ठं [[जैमिनीयं ब्राह्म...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ता एता भवन्ति गायत्र्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धा। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यन्ते। सम् अस्मा ऋध्यते य एवं वेद। पवस्वेन्दो वृषा सुत इति वृषण्वान् अनुरूपो भवति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य् रूपम्। तद् आहुर् अह्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। मनो वै स्तोत्रियो, वाग् अनुरूपः। साम वै स्तोत्रिय, ऋग् अनुरूपः। अहर् वै स्तोत्रियो, रात्रिर् अनुरूपः। इयं वै स्तोत्रियो, ऽसाव् अनुरूपः। आत्मा वै स्तोत्रियः, प्रजानुरूपः। स्तोत्रियानुरूपयोर् ह खलु वै तद् रूपं, यस्माद् यां श्रेष्ठीं वाचं वदति तां पापीयान् अनुवदति, यस्मात् कर्ता च करणश् च सदृशौ सन्तौ विज्ञायेते। स्तोत्रियानुरूपयोर् वै हेतोः प्रजा अनुरूपा आजायन्त। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्तीति। संततान् अत्र पञ्च तृचान् उपयन्ति प्राणानाम् एव संतत्या अव्यवच्छेदाय। सर्वे वृषण्वन्तो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति॥3.21॥
 
अग्निं दूतं वृणीमह इत्य् आग्नेयम् आज्यम् भवति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नेति स्थितम् । वाचो बार्हतं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद् बृहत्। मनो बृहत्। प्रजापतिर् बृहत्। प्रजापतिताम् एवाश्नुते य एवं वेद। होतारं विश्ववेदसम् इति। हो इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। मित्रं वयं हवामह, इन्द्रम् इद् गाथिनो बृहद्, इन्द्रे अग्ना नमो बृहद् इत्य् एकरूपाण्य् आज्यानि भवन्ति, सर्वाण्य एव बार्हतानि। क्षत्रं वा एतद् अहः। तस्मात् सर्वे राजान एकमन्त्रा एकवचसः। महद्वती द्वे भवतो बृहद्वती द्वे। एतद् वै प्रत्यक्षं बृहतो रूपं यन् महद् यद् बृहत्। बृहद् एवैतत् प्रत्यक्षम् उपयन्ति। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति॥3.22॥
पङ्क्तिः २६:
 
 
</span></poem>