"जैमिनीयं ब्राह्मणम्/काण्डम् ३/३११-३२०" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">प्रजापतिं प्रजास् ससृजानं म... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">प्रजापतिं प्रजास् ससृजानं मुखतः पाप्मासिनोत्। सो ऽकामयताप पाप्मानं हनीयेति। स एतं गायत्रमुखं प्रथमं त्रियहम् अपश्यत्। तेन मुखतः पाप्मानम् अपाहत। तं मध्यतो ऽसिनोत्। स एतं गायत्रमध्यं द्वितीयं त्रियहम् अपश्यत्। तेन मध्यतः पाप्मानम् अपाहत। तं पदोर् असिनोत्। स एतं गायत्रोत्तमं तृतीयं त्र्यहम् अपश्यत्। तेन पत्तः पाप्मानम् अपाहत। अप पाप्मानं हते य एवं वेद। स्वरान्तेन वै त्र्यहेण प्रजापतिर् मृत्योर् आत्मान् अत्रायत, निधनान्तेन प्रजाम्, इळान्तेन पशून्। एतावद् वावास्ति यद् आत्मा प्रजा पशवः। तद् यत् सद् अत्रायत तत् सत्रस्य सत्रत्वम् । त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद। स्वरान्तेन वै त्रियहेण प्राजपतिर् देवान् असृजत, निधनान्तेन पितॄन्, इळान्तेन मनुष्यान्। तद् यत् स्वरान्तेन देवान् असृजत तस्मात् ते ऽमृताः। अमृतेन हि तान् प्राणेनासृजत। अथ यन् निधनान्तेन पितॄन् असृजत तस्माद् उ ते निधनसंस्थाः। अथ यद् इळान्तेन मनुष्यान् असृजत - पशवो वा इळा - तस्माद् य एव पशुमान् भवति तं मनुष्या उपसमायन्ति॥3.311॥
 
अथ ह कबन्ध आथर्वणे केशी दार्भ्य उवास। अथ ह तर्हि समूढान्य् एव छन्दांस्य् आसुर् न व्यूढानि। तस्मै ह कबन्ध आथर्वणः केशिने दार्भ्यायैतं व्यूढछन्दसं द्वादशाहं प्रोवाच - त्रिर् एव गायत्रीं तर्पयतात् त्रिस् त्रिष्टुभं त्रिर् जगतीम्। तवैव प्रजाया अन्ये जीवितम् अभिध्यातारो, न तव प्रजा इति। तेन हेजे। ततो ह वा इदम् अर्वाचीनं व्यूढानि छन्दांसि। तस्माद् अनाढ्यानाम् अपि सतां पञ्चालानाम् अभ्य् एवान्ये जीवितं ध्यायन्ति। तस्यैतौ श्लोकौ -
<poem>कस्माद् ऊर्ध्वा भूमेर् यन्ति सर्गाः कस्मात् तिर्यञ्चो ऽन्व् अन्तरिक्षम्।
कस्माद् अर्वाञ्चो दिव उत्तरस्यै सूर्यस्य रश्मीन् अनु यन्ति सृष्टाः॥
गायत्री त्रिवृत वसाना सा त्रिष्टुभं नुनुदे ऽन्तरिक्षात्।
सा जगतीम् आयतनाद् दिवो ऽधि तस्माद् अर्वाञ्चः प्रवहन्ति सर्गाः॥3.312॥</poem>
 
वाग् वै यज्ञं ससृजाना साशनायत् सापिपासत्। तां देवा अर्वाग् यज्ञाहुत्यातितर्पयिषन्। तां नातर्पयन्। ताम् अर्वाक् सोमाहुतिहविर्यज्ञैर् अतितर्पयिषन्। तां नैवातर्पयन्। त एतं व्यूढच्छन्दसं द्वादशाहं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनां छन्दांसि भूतां प्रार्जन्। ता अन्यान्यस्मै भागाय धेनुपरिसारम् अतृप्यन्। तस्मात् पशवो ऽन्योन्यस्य भागाय धेनुपरिसारं तृप्यन्ति। सातृप्यत्। स य एवम् एतां वाचश् च छन्दसां च तृप्तिं वेद तृप्यत्य आत्मना तृप्यत्य् अस्य प्रजा। देवा वै देवाश्वान् देवरथेषु युक्त्वेमान् लोकान् अभ्यारोहन्। छन्दांसि वाव देवाश्वा, स्तोमा देवरथाः॥3.313॥
पङ्क्तिः २४:
 
 
</span></poem>