"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘आ वां रथम्' इति दशर्च चतुर्थं सूक्तं दैर्घतमसस्य कक्षीवत आर्षं जागतमाश्विनम् । तथा चानुकान्तम् - ‘आ वां रथं दश जागतम्' इति । प्रातरनुवाकाश्विने क्रतौ जागते छन्दसि इदं सूक्तम् आश्विनशस्त्रे च। तथा च सूत्रितम्-’आ वां रथमभूदिदं यो वां परिज्मेति त्रीणि ' (आश्व. श्रौ. ४. १५) इति ॥
 
 
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
 
Line ४७ ⟶ ५०:
सहस्रऽकेतुम् । वनिनम् । शतत्ऽवसुम् । श्रुष्टीऽवानम् । वरिवःऽधाम् । अभि । प्रयः ॥
 
हे अश्विनौ “वां युवयोः “रथं “जीवसे जीवनार्थं “प्रयः हविर्लक्षणमन्नमभिलक्ष्य “आ “हुवे आह्वयामि । कीदृशम् । “पुरुमायं बहुविधाश्चर्यं बहुविधकर्माणं वा “मनोजुवं मन इव शीघ्रं गच्छन्तं “जीराश्वं जववदश्वोपेतं “यज्ञियं यज्ञेष्वाह्वातुमर्हं "सहस्रकेतुम् अनेकध्वजं सहस्रस्य धनस्य केतयितारं ज्ञापयितारं वा "वनिनम् । वनमित्युदकनाम । तद्वन्तम् । “शतद्वसुं शतसंख्याकैर्धनैर्युक्तं “श्रुष्टीवानम् । श्रुष्टीति क्षिप्रनाम । क्षिप्रं संभजमानं यद्वा सुखवन्तम् । “वरिवोधाम् । वरिव इति धननाम । वरिवसो धनस्य दातारम् ॥ पुरुमायम् । बहुव्रीहौ त्रिचक्रादित्वादन्तोदात्तत्वम् । यद्वा । तत्पूर्वात् अर्शआदित्वात् अच् । जीराश्वम् । जु इति गत्यर्थः सौत्रो धातुः ।' जोरी च ' ( उ. सू. २. १८१ ) इति रक् ईकारान्तादेशश्च । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यज्ञियम् । “ यज्ञर्त्विग्भ्यां घखञौ ' इति अर्हार्थे घप्रत्ययः । हुवे । ह्वेञो लटि ' बहुलं छन्दसि ' इति संप्रसारणम् । ‘लुक्' इत्यनुवृत्तौ छन्दसि ' इति शपो लुक् । उवङ् । शतद्वसुम् । शतवसुम् । छान्दसस्तकारोपजनः ॥
 
 
Line ६१ ⟶ ६५:
स्वदामि । घर्मम् । प्रति । यन्ति । ऊतयः । आ । वाम् । ऊर्जानी । रथम् । अश्विना । अरुहत् ॥
 
“अस्य रथस्य “प्रयामनि प्रयाणे प्रगमने सति “शस्मन् अश्विनोः शंसने स्तवने “धीतिः अस्मदीया बुद्धिः “ऊर्ध्वा उन्मुखा "प्रति “अधायि प्रत्यस्थायि । तदनन्तरं "दिशः देष्टव्याः स्तुतयोऽपि “समयन्ते अश्विभ्यां संगच्छन्ते । आकारः समुच्चये । अहं च स्तोता “घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः “स्वदामि स्वादूकरोमि । “ऊतयः अवितारः रक्षका ऋत्विजश्च “प्रति “यन्ति । घर्मं प्रति गच्छन्ति संस्कारार्थम् । अपि च हे अश्विनौ “वां युवयोः “रथम् “ऊर्जानी सूर्यस्य दुहिता “आ अरुहत् आरूढवती ॥ प्रयामनि ।' या प्रपणे'। आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम् ' इति बहुलवचनात् भावे मनिन् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । शस्मन् । 'शंसु स्तुतौ '। ‘अन्येभ्योऽपि दृश्यन्ते' इति मनिन्। दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् उपधानकारलोपः। ‘सुपां सुलुक् ' इति सप्तम्या लुक् । अयन्ते । ‘अय पय गतौ ' । भौवादिकः अनुदात्तेत् । ऊतयः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति अवतेः कर्तरि क्तिच् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ । अरुहत् ।' कृमृदृरुहिभ्यः' इति च्लेः अङादेशः ॥
 
 
Line ७५ ⟶ ८०:
युवोः । अह । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सूरिम् । आ । वरम् ॥
 
“मखाः मखवन्तो यज्ञोपेताः “अमिताः अपरिमिताः "जायवः जयशीलाः मनुष्याः "रणे संग्रामे “शुभे शोभनाय धनाय तदर्थं “मिथः “पस्पृधानासः अन्योन्यं स्पर्धमानाः “यत् यदा “सम् “अग्मत संगच्छन्ते तदानीं हे “अश्विना अश्विनौ “युवोरह युवयोरेव “रथः “प्रवणे प्रकर्षेण संभजनीये भूतले “चेकिते ज्ञायते । देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथः इत्यर्थः । “यत् येन रथेन “सूरिं स्तोतारं प्रति “वरं श्रेष्ठं धनम् “आ “वहथः प्रापयथः स रथः इत्यर्थः ॥ पस्पृधानासः ।' स्पर्ध संघर्षे '। छान्दसो लिट् । तस्य लिटः कानजादेशः । छान्दसं रेफस्य संप्रसारणमकारलोपश्च । अग्मत । गमेश्छान्दसो लङ्। समो गम्यृच्छि” ' इत्यादिना आत्मनेपदम् । ‘बहुलं छन्दसि ' इति शपो लुक् । झस्य अदादेशः । ‘गमहन ' इति उपधालोपः । मखाः । मखो यज्ञः । अर्शआदित्वात् अच् । जायवः । ‘जि जये। कृवापाजि ' इत्यादिना उण् । चेकिते। ‘कित ज्ञाने' । अस्मात् यङन्तात् छान्दसो वर्तमाने लिट् । अतोलोपयलोपौ । यत् । ‘सुपां सुलुक्' इति तृतीयाया लुक् ॥
 
 
Line ८९ ⟶ ९५:
यासिष्टम् । वर्तिः । वृषणा । विऽजेन्यम् । दिवःऽदासाय । महि । चेति । वाम् । अवः ॥
 
“वृषणा कामानां वर्षितारौ हे अश्विनौ “युवं युवां “भुरमाणं “विभिः अश्वैः भ्रियमाणं “गतं समुद्रे निमग्नं “भुज्युं तुग्रपुत्रं “स्वयुक्तिभिः स्वयमेव युज्यमानैः अश्वैः नौविशेषैश्च “निवहन्ता नितरां वहन्तौ “पितृभ्य “आ ।' आङ् मर्यादायाम् । यत्र पितरस्तुग्रादय असते तावत्पर्यन्तम्' इत्यर्थः । “विजेन्यम् इति दूरस्थं ब्रुवते । दूरे वर्तमानं “वर्तिः तुग्रस्य गृहं प्रति “यासिष्टम् अगच्छतम् । अपि च “दिवोदासाय राज्ञे कृतं युवयोः संबन्धि “अवः रक्षणं शम्बरहननरूपं “महि महत् गम्भीरं “चेति अस्माभिर्जायते ॥ भुरमाणम् ।' डुभृञ् धारणपोषणयोः । कर्मणि लटः शानच् । व्यत्ययेन शः । ‘बहुलं छन्दसि ' इति उत्वम् । पितृभ्य आ । मर्यादायाम् आङः कर्मप्रवचनीयसंज्ञा (पा. सू. १. ४. ८९ )। पञ्चम्यपाङ्परिभिः ' ( पा. सू. २. ३. १०) इति पञ्चमी । यासिष्टम् । ' या प्रापणे '। ‘यमरमनमातां सक्च' ( पा. सू. ७. २. ७३ ) इति सगागमः । सिच इडागमः । विजेन्यम् । विजनो दूरदेशः । तत्र भवं विजेन्यम् । “ भवे छन्दसि ' इति यत् । तित्स्वरितम्' इति स्वरितत्वम् ॥
 
 
Line १०३ ⟶ ११०:
आ । वाम् । पतिऽत्वम् । सख्याय । जग्मुषी । योषा । अवृणीत । जेन्या । युवाम् । पती इति ॥
 
“अश्विना हे अश्विनौ “युवोः युवयोः "वाणी वननीयौ प्रशस्यौ अश्वौ “युवायुजं युवाभ्यां युज्यमानं “रथम् आजिधावनसमये “अस्य रथस्य यत् “शर्ध्यं प्राप्यम् आदित्याख्यम् अवधिभूतं लक्ष्यं “वपुषे शोभार्थं तत् "येमतुः । सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः । तदनन्तरं च “आ “जग्मुषी आगतवती “जेन्या आजिधावनेन जीयमाना “योषा सूर्या “सख्याय सखित्वाय युवां युवयोः “पतित्वम् “अवृणीत । कथमिति । मम “युवाम् एव “पती भर्तारौ इति ॥ युवोः । षष्ठीद्विवचने ‘योऽचि' इति यत्वस्य सर्वविधीनां छन्दसि विकल्पितत्वादभावे ‘शेषे लोपः' इति दकारलोपः । ‘अतो गुणे' इति पररूपत्वम् । युवायुजम् । युवावौ द्विवचने' इति द्व्यर्थाभिधायकस्य युष्मच्छब्दस्य अविभक्तावपि व्यत्ययेन युवादेशः । शर्ध्यम् ।' शृधु प्रसहने । अस्मात् ण्यन्तात् ' अचो यत्' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । जग्मुषी । गमेर्लिटः क्वसुः । उगितश्च ' इति ङीप् । ‘वसोः संप्रसारणम्' इति संप्रसारणम् ।' गमहन' ' इति उपधालोपः । जेन्या ।' जि जये' । औणादिक एन्यप्रत्ययः टिलोपश्च ॥ ॥ २० ॥
 
 
Line ११७ ⟶ १२५:
युवम् । शयोः । अवसम् । पिप्यथुः । गवि । प्र । दीर्घेण । वन्दनः । तारि । आयुषा ॥
 
हे अश्विनौ “युवं युवां “रेभम् ऋषिं “परिषूतेः परितः प्रेरकादुपद्रवात् कूपपतनाद्वा “उरुष्यथः रक्षथः । ‘उरुष्यती रक्षाकर्मा' (निरु. ५.२३) इति यास्कः । तथा “अत्रये ऋषये “परितप्तं परितस्तप्तं “घर्मम् असुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं “हिमेन शीतेनोदकेन अवारयेथाम् । यद्वा । हविषामत्रये भक्षयित्रे अग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम् । अहर्नामैतत् । अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थम् अवारयेथाम् । अपि च “शयोः एतत्संज्ञस्य ऋषेः "गवि निवृत्तप्रसवायां धेनौ “अवसं रक्षकं पयः “युवं युवां “पिप्यथुः प्रवर्धितवन्तौ । तथा जीर्णाङ्गः “वन्दनः ऋषिः “दीर्घेण "आयुषा “प्र “तारि युवाभ्यां प्रवर्धितः। प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ अवसम् । अवतेरौणादिकः असच् । पिप्यथुः। ‘प्यायी वृद्धौ'। व्यत्ययेन परस्मैपदम्। 'लिड्यङोश्च' (पा. सू. ६. १. २९) इति पीभावः ।।
 
 
Line १३१ ⟶ १४०:
क्षेत्रात् । आ । विप्रम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥
 
हे दस्रौ अश्विनौ “युवं युवां “जरण्यया जरया “निर्ऋतं निःशेषेण प्राप्तं “वन्दनम् ऋषिं “करणा कर्मणां कर्तारौ शिल्पकुशलौ युवां “समिन्वथः समधत्तं पुनर्युवानमकुरुतम् । तत्र दृष्टान्तः। “रथं "न । यथा कश्चिच्छील्पी जीर्णं रथं पुनरप्यभिनवं करोति तद्वत् । अपि च "विपन्यया स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ सन्तौ क्षेत्रात् “आ॥ । आकारः समुच्चये । मातुरुदरलक्षणात् जन्मस्थानात् “विप्रं मेधाविनं तमृषिं “जनथः जनयथः च । तथा “वां युवयोः “दंसना रक्षणात्मकं कर्म “अत्र अस्मै “विधते परिचरते यजमानाय “प्र "भुवत् प्रभवतु । रक्षितुं समर्थं भवतु ॥ निर्ऋतम् । ‘ ऋ गतौ ' । कर्मणि निष्ठा । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जरण्यया । जरणक्रियार्हा जरण्या । अन्त्यावस्था। 'छन्दसि च ' इति यः । करणा। करोतेः ‘अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. ३. १३०) इति युच् । इन्वथः । ‘इवि व्याप्तौ' । इदित्वात् नुम् । भौवादिकः । जनथः । जनी प्रादुर्भावे'। णिचि उपधावृद्धिः । “जनीजॄष्क्नसुरञ्जः' इति मित्त्वात् ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि ' इति णिलोपः । विपन्यया । ‘पन स्तुतौ । ‘अघ्न्यादयश्च' इति भावे यत् । व्यत्ययेनान्तोदात्तत्वम् । विधते । ‘विध विधाने '। तौदादिकः । लटः शतृ । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘बहुलं छन्दसि ' इति शपो लुक् । ‘भूसुवोस्तिङि' इति गुणप्रतिषेधः ॥
 
 
Line १४५ ⟶ १५५:
स्वःऽवतीः । इतः । ऊतीः । युवोः । अह । चित्राः । अभीके । अभवन् । अभिष्टयः ॥
 
हे अश्विनौ “परावति दूरदेशे समुद्रमध्ये “स्वस्य "पितुः तुग्रस्य “त्यजसा त्यागेन “निबाधितं पीडितं भुज्यु कृपमाणं युवां “स्तुवन्तम् “अगच्छतम् । युवां रक्षणार्थं गतवन्तौ । यस्मादेवं तस्मात् हे अश्विनौ "स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ताः “इतः इतोमुखात् 'चित्राः चायनीयाः “युवोरह युवयोरेव “ऊतीः ऊतयः रक्षाः "अभीके समीपे “अभिष्टयः सर्वैः प्राणिभिः अभ्येषणीयाः “अभवन् भवन्ति ॥ कृपमाणम् । कृपतिः स्तुतिकर्मा । अयं च तुदादिर्द्रष्टव्यः । स्वर्वतीः । सुपूर्वात् अर्तेः भावे विच् । ततो मतुप् । छन्दसीरः' इति मतुपो वत्वम् । अभिष्टयः । ‘इषु इच्छायाम् । भावे क्तिन् । शकन्ध्वादित्वात् पररूपत्वम् ।।
 
 
Line १५९ ⟶ १७०:
युवम् । दधीचः । मनः । आ । विवासथः । अथ । शिरः । प्रति । वाम् । अश्व्यम् । वदत् ॥
 
“उत अपि च हे अश्विनौ “मधुमत् मधुमन्तौ “वां युवां “स्या सा “मक्षिका सरघा मधुकामा सती “अरपत् अस्तौत् । तथा “औशिजः उशिजः पुत्रः कक्षीवान् “सोमस्य पानेन युवयोः “मदे हर्षे निमित्तभूते सति “हुवन्यति युवामाह्वयति । "युवं युवां च तस्यै मक्षिकायै मधु दातुं मधुविद्यार्थिनौ सन्तौ “दधीचः आथर्वणस्य ऋषेः “मनः चित्तं शुश्रूषया “आ “विवासथः पर्यचरतम् । “अथ अनन्तरं तस्मिन्प्रीते सति “अश्व्यं युवाभ्यां प्रतिहितम् अश्वस्य संबन्धि यत् “शिरः तत् “वां युवां “प्रति मधुविद्यामवदत् । स ऋषिः आश्वेन शिरसा उपदिष्टवानित्यर्थः ॥ मधुमत् । • सुपां सुलुक्° ' इति विभक्तेर्लुक् । अरपत् । ‘रप लप व्यक्तायां वाचि' । मदे । ‘मदी हर्षे '। मदोऽनुपसर्गे ' इति भावे अप् । हुवन्यति । ह्वेञ् स्पर्धायां शब्दे च ' ।' ल्युट् च ' इति भावे ल्युट् ।' बहुलं छन्दसि' इति संप्रसारणम् । हवनमात्मन इच्छति । ‘सुप आत्मनः क्यच् । अन्त्यलोपछान्दसः । वर्णव्यापत्त्या उत्वम् । अश्व्यम् । अश्वे भवम् अश्व्यम्। भवे छन्दसि ' इति यत् ॥
 
 
Line १७३ ⟶ १८५:
शर्यैः । अभिऽद्युम् । पृतनासु । दुस्तरम् । चर्कृत्यम् । इन्द्रम्ऽइव । चर्षणिऽसहम् ॥
 
“अश्विना हे अश्विनौ “पेदवे पेदुनाम्ने राज्ञे “पुरुवारं बहुभिर्वरणीयं “स्पृधां संग्रामे स्पर्धमानानां शत्रूणां “तरुतारं तारकं “श्वेतं शुभ्रवर्णम् इन्द्राल्लब्धम् अश्वं “युवं युवां “दुवस्यथः दत्तवन्तौ । पुनरपि कीदृशम् । “शर्यैः। शीर्यन्ते इति शर्याः योद्धारः। तैः “पृतनासु संग्रामेषु “दुस्तरं तरीतुमशक्यम् “अभिद्युम् अभिगतदीप्तिं "चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यम् “इन्द्रमिव “चर्षणीसहम् । इन्द्रो यथा शत्रूनभिभवति एवं शत्रुजनानाम् अभिभवितारमित्यर्थः॥ स्पृधाम्। ‘स्पर्ध संघर्षे '। ‘क्विप् च' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् तस्य च विध्यन्तरोपसंग्रहार्थत्वात् अकारस्य लोपो रेफस्य च संप्रसारणम् । “ सावेकाचः ' इति विभक्तेरुदात्तत्वम् । तरुतारम् । ‘तॄ प्लवनतरणयोः । अस्मात् तृचि ‘ग्रसितस्कभितस्तभित° ' इत्यादौ निपातनात् रूपसिद्धिः। चर्कृत्यम् । करोतेः यङ्लुगन्तात् ‘विभाषा कृवृषोः' इति क्यप् । ततस्तुक् ॥ ॥ २१ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११९" इत्यस्माद् प्रतिप्राप्तम्