"शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ८/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
तृतीयसवनस्यैतद् रूपं यत् लाजाः। द्यौर्वै तृतीयसवनम्। सैन्द्री। ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति॥१२.८.२.१०॥
 
एकस्यै दुग्धेन प्रथमां रात्रिं परिषिंचति। द्योर्दुग्धेनद्वयोर्दुग्धेन द्वितीयाम्। तिसृणां दुग्धेन तृतीयाम्। यथारूपमेवैनं यथादेवतं सवनैः समर्द्धयति॥१२.८.२.११॥
 
परीतो षिंचता सुतम् इति परिषिंचति। सुत्यायै। सोमो य उत्तमं हविः इति। उत्तमं वा एतद्धविः। यत्सोमः। उत्तममेवैनं हविष्करोति। दधन्वा यो नर्यो अप्स्वंतरा इति। अद्भिश्च ह्येषोऽन्तरेण च सूयते। सुषाव सोममद्रिभिः इति। अद्रिभिर्वै सोमः सूयते। अद्रिभिरेवैनं सुनोति। सोमसुत्यायै॥१२.८.२.१२॥