"ऋग्वेदः सूक्तं ८.४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥१॥
Line २५ ⟶ २३:
नासत्या सोमपीतये नभन्तामन्यके समे ॥६॥
 
</prespan></poem>
{{|
</div>
अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
 
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥१
 
अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।
 
आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥
 
अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः ।
 
आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥
 
 
 
ए॒वा वं॑दस्व॒ वरु॑णं बृ॒हंतं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां ।
 
स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥२
 
ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।
 
सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥
 
एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् ।
 
सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥
 
 
 
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।
 
ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥३
 
इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।
 
यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥
 
इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि ।
 
यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥
 
 
 
आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।
 
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥४
 
आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
 
आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
 
 
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।
 
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥५
 
यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
 
यथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
 
 
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।
 
नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥६
 
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
 
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
 
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
 
नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४२" इत्यस्माद् प्रतिप्राप्तम्